श्रीद्वादशनामपञ्जरस्तोत्रम्
पुरस्तात् केशवः पातु चक्री जाम्बूनदप्रभः ।
पश्चान्नारायणः शङ्खी नीलजीमूतसन्निभः ॥ १॥
इन्दीवरदलश्यामो माधवोर्ध्वं गदाधरः ।
गोविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान् ॥ २॥
उत्तरे हलभृद्विष्णुः पद्मकिञ्जल्कसन्निभः ।
आग्नेय्यामरविन्दाभो मुसली मधुसूदनः ॥ ३॥
त्रिविक्रमः खड्गपाणिर्निरृत्यां ज्वलनप्रभः ।
वायव्यां वामनो वज्री तरुणादित्यदीप्तिमान् ॥ ४॥
ऐशान्यां पुण्डरीकाभः श्रीधरः पट्टसायुधः ।
विद्युत्प्रभो हृषीकेशो ह्यवाच्यां दिशि मुद्गरी ॥ ५॥
हृत्पद्मे पद्मनाभो मे सहस्रार्कसमप्रभः ।
सर्वायुधः सर्वशक्तिः सर्वज्ञः सर्वतोमुखः ॥ ६॥
इन्द्रगोपकसङ्काशः पाशहस्तोऽपराजितः ।
स बाह्याभ्यन्तरं देहं व्याप्य दामोदरः स्थितः ॥ ७॥
एवं सर्वत्रमच्छिद्रं नामद्वादशपञ्जरम् ।
प्रविष्टोऽहं न मे किञ्चिद्भयमस्ति कदाचन ॥ ८॥
भयं नास्ति कदाचन ॐ नम इति ॥
इति श्रीद्वादशनामपञ्जरस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran