द्वितीया चतुःश्लोकी
सदा सर्वात्मभावेन भजनीयो व्रजेश्वरः ।
करिष्यति स एवास्मदैहिकं पारलौकिकम् ॥ १॥
अन्याश्रयो न कर्त्तव्यः सर्वथा बाधकस्तु सः ।
स्वकीये स्वात्मभावाच्च कर्तव्यः सर्वथा सदा ॥ २॥
सदा सर्वात्मना कृष्णः सेव्यः कालादिदोषनुत् ।
तद्भक्तेषु च निर्दोषभावेन स्थेयमादरात् ॥ ३॥
भगवत्येव सततं स्थापनीयं मनः स्वयम् ।
कालोऽयं कठिनोऽपि श्रीकृष्णभक्तान्न बाधते ॥ ४॥
इति श्रीविठ्ठलेश्वरोक्ता द्वितीया चतुःश्लोकी समाप्ता ।
Proofread by PSA Easwaran