॥ जयदेवकृतं गीतगोविन्दं (अष्टपदी) ॥

॥ गीतगोविन्दं ॥

॥ श्रीगोपालकध्यानम् ॥

यद्गोपीवदनेन्दुमण्डनमभूत्कस्तूरिकापत्रकं यल्लक्ष्मीकुचशातकुम्भकलशे व्यागोचमिन्दीवरम् । यन्निर्वाणविधानसाधनविधौ सिद्धाञ्जनं योगिनां तन्नः श्यामळमाविरस्तु हृदये कृष्णाभिधानं महः ॥ १॥

॥ श्रीजयदेवध्यानम् ॥

राधामनोरमरमावररासलीला- गानामृतैकभणितं कविराजराजम् । श्रीमाधवार्च्चनविधावनुरागसद्म- पद्मावतीप्रियतमं प्रणतोऽस्मि नित्यम् ॥ २॥ श्रीगोपालविलासिनी वलयसद्रत्नादिमुग्धाकृति श्रीराधापतिपादपद्मभजनानन्दाब्धिमग्नोऽनिशम् । लोके सत्कविराजराज इति यः ख्यातो दयाम्भोनिधिः तं वन्दे जयदेवसद्गुरुमहं पद्मावतीवल्लभम् ॥ ३॥

॥ प्रथमः सर्गः ॥

॥ सामोददामोदरः ॥

मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै- र्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय । इत्थं नन्दनिदेशितश्चलितयोः प्रत्यध्वकुञ्जद्रुमं राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥ १॥ वाग्देवताचरितचित्रितचित्तसद्मा पद्मावतीचरणचारणचक्रवर्ती । श्रीवासुदेवरतिकेलिकथासमेत- मेतं करोति जयदेवकविः प्रबन्धम् ॥ २॥ वाचः पल्लवयत्युमापतिधरः सन्दर्भशुद्धिं गिरां जानीते जयदेव एव शरणः श्लाघ्यो दुरूहद्रुते । शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धन- स्पर्धी कोऽपि न विश्रुतः श्रुतिधरो धोयी कविक्ष्मापतिः ॥ ३॥ यदि हरिस्मरणे सरसं मनो यदि विलासकलासु कुतूहलम् । मधुरकोमलकान्तपदावलीं शृणु तदा जयदेवसरस्वतीम् ॥ ४॥

॥ गीतम् १ ॥

प्रलयपयोधिजले धृतवानसि वेदम् । विहितवहित्रचरित्रमखेदम् ॥ केशव धृतमीनशरीर जय जगदीश हरे ॥ १॥ क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे । धरणिधरणकिणचक्रगरिष्ठे ॥ केशव धृतकच्छपरूप जय जगदीश हरे ॥ २॥ वसति दशनशिखरे धरणी तव लग्ना । शशिनि कलङ्ककलेव निमग्ना ॥ केशव धृतसूकररूप जय जगदीश हरे ॥ ३॥ तव करकमलवरे नखमद्भुतशृङ्गम् । दलितहिरण्यकशिपुतनुभृङ्गम् ॥ केशव धृतनरहरिरूप जय जगदीश हरे ॥ ४॥ छलयसि विक्रमणे बलिमद्भुतवामन । पदनखनीरजनितजनपावन ॥ केशव धृतवामनरूप जय जगदीश हरे ॥ ५॥ क्षत्रियरुधिरमये जगदपगतपापम् । स्नपयसि पयसि शमितभवतापम् ॥ केशव धृतभृगुपतिरूप जय जगदीश हरे ॥ ६॥ वितरसि दिक्षु रणे दिक्पतिकमनीयम् । दशमुखमौलिबलिं रमणीयं ॥ केशव धृतरामशरीर जय जगदीश हरे ॥ ७॥ वहसि वपुषि विशदे वसनं जलदाभम् । हलहतिभीतिमिलितयमुनाभम् ॥ केशव धृतहलधररूप जय जगदीश हरे ॥ ८॥ निन्दसि यज्ञविधेरहह श्रुतिजातम् । सदयहृदयदर्शितपशुघातम् ॥ केशव धृतबुद्धशरीर जय जगदीश हरे ॥ ९॥ म्लेच्छनिवहनिधने कलयसि करवालम् । धूमकेतुमिव किमपि करालम् ॥ केशव धृतकल्किशरीर जय जगदीश हरे ॥ १०॥ श्रीजयदेवकवेरिदमुदितमुदारम् । शृणु सुखदं शुभदं भवसारम् ॥ केशव धृतदशविधरूप जय जगदीश हरे ॥ ११॥ वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते दैत्यान्दारयते बलिं छलयते क्षत्रक्षयं कुर्वते । पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ ५॥

॥ गीतम् २ ॥

श्रितकमलाकुचमण्डल धृतकुण्डल ए । कलितललितवनमाल जय जयदेव हरे ॥ १॥ दिनमणिमण्डलमण्डन भवखण्डन ए । मुनिजनमानसहंस जय जयदेव हरे ॥ २॥ कालियविषधरभञ्जन जनरञ्जन ए । यदुकुलनलिनदिनेश जय जयदेव हरे ॥ ३॥ मधुमुरनरकविनाशन गरुडासन ए । सुरकुलकेलिनिदान जय जयदेव हरे ॥ ४॥ अमलकमलदललोचन भवमोचन ए । त्रिभुवनभवननिधान जय जयदेव हरे ॥ ५॥ जनकसुताकृतभूषण जितदूषण ए । समरशमितदशकण्ठ जय जयदेव हरे ॥ ६॥ अभिनवजलधरसुन्दर धृतमन्दर ए । श्रीमुखचन्द्रचकोर जय जयदेव हरे ॥ ७॥ तव चरणे प्रणता वयं इति भावय ए । कुरु कुशलं प्रणतेषु जय जयदेव हरे ॥ ८॥ श्रीजयदेवकवेरिदं कुरुते मुदम् ए । मङ्गलमुज्ज्वलगीतं जय जयदेव हरे ॥ ९॥ पद्मापयोधरतटीपरिरम्भलग्न- काश्मीरमुद्रितमुरो मधुसूदनस्य । व्यक्तानुरागमिव खेलदनङ्गखेद- स्वेदाम्बुपूरमनुपूरयतु प्रियं वः ॥ ६॥ वसन्ते वासन्तीकुसुमसुकुमारैरवयवै- र्भ्रमन्तीं कान्तारे बहुविहितकृष्णानुसरणाम् । अमन्दं कन्दर्पज्वरजनितचिन्ताकुलतया वलद्बाधां राधां सरसमिदमुचे सहचरी ॥ ७॥

॥ गीतम् ३ ॥

ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे । मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे ॥ विहरति हरिरिह सरसवसन्ते नृत्यति युवतिजनेन समं सखि विरहिजनस्य दुरन्ते ॥ १॥ विहरति उन्मदमदनमनोरथपथिकवधूजनजनितविलापे । अलिकुलसंकुलकुसुमसमूहनिराकुलबकुलकलापे ॥ २॥ विहरति मृगमदसौरभरभसवशंवदनवदलमालतमाले । युवजनहृदयविदारणमनसिजनखरुचिकिंशुकजाले ॥ ३॥ विहरति मदनमहीपतिकनकदण्डरुचिकेसरकुसुमविकासे । मिलितशिलीमुखपाटलिपटलकृतस्मरतूणविलासे ॥ ४॥ विहरति विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे । विरहिनिकृन्तनकुन्तमुखाकृतिकेतकदन्तुरिताशे ॥ ५॥ विहरति माधविकापरिमलललिते नवमालिकजातिसुगन्धौ । मुनिमनसामपि मोहनकारिणि तरुणाकारणबन्धौ ॥ ६॥ विहरति स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते । बृन्दावनविपिने परिसरपरिगतयमुनाजलपूते ॥ ७॥ विहरति श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारम् । सरसवसन्तसमयवनवर्णनमनुगतमदनविकारम् ॥ ८॥ विहरति दरविदलितमल्लीवल्लिचञ्चत्पराग- प्रकटितपटवासैर्वासयन् काननानि । इह हि दहति चेतः केतकीगन्धबन्धुः प्रसरदसमबाणप्राणवद्गन्धवाहः ॥ ८॥ उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर- क्रीडत्कोकिलकाकलीकलरवैरुद्गीर्णकर्णज्वराः । var - कलैः नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण- प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥ ९॥ अनेकनारीपरिरम्भसम्भ्रम- स्फुरन्मनोहारिविलासलालसम् । मुरारिमारादुपदर्शयन्त्यसौ सखीसमक्षं पुनराह राधिकाम् ॥ १०॥

॥ गीतम् ४ ॥

चन्दनचर्चितनीलकलेवरपीतवसनवनमाली । केलिचलन्मणिकुण्डलमण्डितगण्डयुगस्मितशाली ॥ हरिरिहमुग्धवधूनिकरे विलासिनि विलसति केलिपरे ॥ १॥ पीनपयोधरभारभरेण हरिं परिरम्य सरागम् । गोपवधूरनुगायति काचिदुदञ्चितपञ्चमरागम् ॥ २॥ हरिरिह कापि विलासविलोलविलोचनखेलनजनितमनोजम् । ध्यायति मुग्धवधूरधिकं मधुसूदनवदनसरोजम् ॥ ३॥ हरिरिह कापि कपोलतले मिलिता लपितुं किमपि श्रुतिमूले । चारु चुचुम्ब नितम्बवती दयितं पुलकैरनुकूले ॥ ४॥ हरिरिह केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले । मञ्जुलवञ्जुलकुञ्जगतं विचकर्ष करेण दुकूले ॥ ५॥ हरिरिह करतलतालतरलवलयावलिकलितकलस्वनवंशे । रासरसे सह नृत्यपरा हरिणा युवतिः प्रशशंसे ॥ ६॥ हरिरिह श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति रामाम् । पश्यति सस्मितचारुतरामपरामनुगच्छति वामाम् ॥ ७॥ हरिरिह var - परां श्रीजयदेवकवेरिदमद्भुतकेशवकेलिरहस्यम् । वृन्दावनविपिने ललितं वितनोतु शुभानि यशस्यम् ॥ ८॥ हरिरिह विश्वेषामनुरञ्जने जनयन्नानन्दमिन्दीवर- श्रेणीश्यामलकोमलैरुपनयन्नङ्गैरनङ्गोत्सवम् । स्वच्छन्दं व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्कितः शृङ्गारः सखि मूर्तिमानिव मधौ मुग्धो हरिः क्रीडति ॥ ११॥ अद्योत्सङ्गवसद्भुजङ्गकवलक्लेशादिवेशाचलं var - नित्योसङ्ग प्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः । किं च स्निग्धरसालमौलिमुकुलान्यालोक्य हर्षोदया- दुन्मीलन्ति कुहूः कुहूरिति कलोत्तलाः पिकानां गिरः ॥ १२॥ रासोल्लासभरेणविभ्रमभृतामाभीरवामभ्रुवा- मभ्यर्णे परिरभ्य निर्भरमुरः प्रेमान्धया राधया । साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुति- व्याजादुद्भटचुम्बितस्मितमनोहरी हरिः पातु वः ॥ १३॥ ॥ इति श्रीगीतगोविन्दे सामोददामोदरो नाम प्रथमः सर्गः ॥

॥ द्वितीयः सर्गः ॥

॥ अक्लेशकेशवः ॥

विहरति वने राधा साधारणप्रणये हरौ विगलितनिजोत्कर्षादीर्ष्यावशेन गतान्यतः । क्वचिदपि लताकुञ्जे गुञ्जन्मधुव्रतमण्डली- मुखरशिखरे लीना दीनाप्युवाच रहः सखीम् ॥ १४॥

॥ गीतम् ५ ॥

संचरदधरसुधामधुरध्वनिमुखरितमोहनवंशम् । चलितदृगञ्चलचञ्चलमौलिकपोलविलोलवतंसम् ॥ रासे हरिमिह विहितविलासं स्मरति मनो मम कृतपरिहासम् ॥ १॥ चन्द्रकचारुमयूरशिखण्डकमण्डलवलयितकेशम् । प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशम् ॥ २॥ रासे हरिमिह गोपकदम्बनितम्बवतीमुखचुम्बनलम्भितलोभम् । बन्धुजीवमधुराधरपल्लवमुल्लसितस्मितशोभम् ॥ ३॥ रासे हरिमिह विपुलपुलकभुजपल्लववलयितवल्लवयुवतिसहस्रम् । करचरणोरसि मणिगणभूषणकिरणविभिन्नतमिस्रम् ॥ ४॥ रासे हरिमिह जलदपटलचलदिन्दुविनन्दकचन्दनतिलकललाटम् । पीनघनस्तनमण्डलमर्दननिर्दयहृदयकपाटम् ॥ ५॥ रासे हरिमिह var - पीनपयोधरपरिसर मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारम् । पीतवसनमनुगतमुनिमनुजसुरासुरवरपरिवारम् ॥ ६॥ रासे हरिमिह विशदकदम्बतले मिलितं कलिकलुषभयं शमयन्तम् । मामपि किमपि तरङ्गदनङ्गदृशा मनसा रमयन्तम् ॥ ७॥ रासे हरिमिह var - वपुषा श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपुरूपम् । हरिचरणस्मरणं प्रति सम्प्रति पुण्यवतामनुरूपम् ॥ ८॥ रासे हरिमिह गणयति गुणग्रामं भ्रामं भ्रमादपि नेहते वहति च परितोषं दोषं विमुञ्चति दूरतः । युवतिषु वलस्तृष्णे कृष्णे विहारिणि मां विना पुनरपि मनो वामं कामं करोति करोमि किम् ॥ १५॥

॥ गीतम् ६ ॥

निभृतनिकुञ्जगृहं गतया निशि रहसि निलीय वसन्तम् । चकितविलोकितसकलदिशा रतिरभसरसेन हसन्तम् ॥ सखि हे केशिमथनमुदारं रमय मया सह मदनमनोरथभावितया सविकारम् ॥ १॥ प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलम् । मृदुमधुरस्मितभाषितया शिथिलीकृतजधनदुकूलम् ॥ २॥ सखि हे किसलयशयननिवेशितया चिरमुरसि ममैव शयानम् । कृतपरिरम्भणचुम्बनया परिरभ्य कृताधरपानम् ॥ ३॥ सखि हे अलसनिमीलितलोचनया पुलकावलिललितकपोलम् । श्रमजलसकलकलेवरया वरमदनमदादतिलोलम् ॥ ४॥ सखि हे कोकिलकलरवकूजितया जितमनसिजतन्त्रविचारम् । श्लथकुसुमाकुलकुन्तलया नखलिखितघनस्तनभारम् ॥ ५॥ सखि हे चरणरणितमणिनूपुरया परिपूरितसुरतवितानम् । मुखरविशृङ्खलमेखलया सकचग्रहचुम्बनदानम् ॥ ६॥ सखि हे रतिसुखसमयरसालसया दरमुकुलितनयनसरोजम् । निःसहनिपतिततनुलतया मधुसूदनमुदितमनोजम् ॥ ७॥ सखि हे श्रीजयदेवभणितमिदमतिशयमधुरिपुनिधुवनशीलम् । सुखमुत्कण्ठितगोपवधूकथितं वितनोतु सलीलम् ॥ ८॥ सखि हे var - राधिकया हस्तस्रस्तविलासवंशमनृजुभ्रूवल्लिमद्बल्लवी- वृन्दोत्सारिदृगन्तवीक्षितमतिस्वेदार्द्रगण्डस्थलम् । मामुद्वीक्ष्य विलक्षितं स्मितसुधामुग्धाननं कानने गोविन्दं व्रजसुन्दरीगणवृतं पश्यामि हृष्यामि च ॥ १६॥ दुरालोकस्तोकस्तबकनवकाशोकलतिका- विकासः कासारोपवनपवनोऽपि व्यथयति । अपि भ्राम्यद्भृङ्गीरणितरमणीया न मुकुल- प्रसूतिश्चूतानां सखि शिखरिणीयं सुखयति ॥ १७॥ साकूतस्मितमाकुलाकुलगलद्धम्मिल्लमुल्लासित- भ्रूवल्लीकमलीकदर्शितभुजामूलार्द्धपृष्ठस्तनम् । गोपीनां निभृतं निरीक्ष्य गमिताकाङ्क्षश्चिरं चिन्तय- न्नन्तर्मुग्द्धमनोहरो हरतु वः क्लेशं न वः केशवः ॥ १८॥ ॥ इति गीतगोविन्दे अक्लेशकेशवो नाम द्वितीयः सर्गः ॥

॥ तृतीयः सर्गः ॥

॥ मुग्धमधुसूदनः ॥

कंसारिरपि संसारवासनाबन्धशृङ्खलाम् । राधामाधाय हृदये तत्याज व्रजसुन्दरीः ॥ १९॥ इतस्ततस्तामनुसृत्य राधिका- मनङ्गबाणव्रणखिन्नमानसः । कृतानुतापः स कलिन्दनन्दिनी- तटान्तकुञ्जे निषसाद माधवः ॥ २०॥

॥ गीतम् ७ ॥

मामियं चलिता विलोक्य वृतं वधूनिचयेन । सापराधतया मयापि न वारितातिभयेन । हरिहरि हतादरतया सा गता कुपितेव ॥ १॥ किं करिष्यति किं वदिष्यति सा चिरं विरहेण । किं धनेन जनेन किं मम जीवनेन गृहेण ॥ २॥ हरिहरि चिन्तयामि तदाननं कुटिलभ्रु कोपभरेण । शोणपद्ममिवोपरि भ्रमताकुलभ्रमरेण ॥ ३॥ हरिहरि तामहं हृदि संगतामनिशं भृशं रमयामि । किं वनेऽनुसरामि तामिह किं वृथा विलपामि ॥ ४॥ हरिहरि तन्वि खिन्नमसूयया हृदयं तवाकलयामि । तन्न वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥ ५॥ हरिहरि दृश्यसे पुरतो गतागतमेव ते विदधासि । किं पुरेव ससम्भ्रमं परिरम्भणं न ददासि ॥ ६॥ हरिहरि क्षम्यतामपरं कदापि तवेदृशं न करोमि । देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥ ७॥ हरिहरि वर्णितं जयदेवकेन हरेरिदं प्रवणेन । किन्दुबिल्वसमुद्रसम्भवरोहिणीरमणेन ॥ ८॥ हरिहरि कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः हृदि बिसलताहारो नायं भुजङ्गमनायकः । मलयजरजो नेदं भस्म प्रियारहिते मयि प्रहर न हरभ्रान्त्यानङ्ग क्रुधा किमु धावसि ॥ २१॥ पाणौ मा कुरु चूतसायकममुं मा चापमारोपय क्रीडानिर्जितविश्वमूर्छितजनाघातेन किं पौरुषम् । तस्या एव मृगीदृशो मनसिजप्रेङ्खत्कटाक्षाशुग- श्रेणीजर्जरितं मनागपि मनो नाद्यापि संधुक्षते ॥ २२॥ भ्रूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमम् । मोहं तावदयं च तन्वि तनुतां बिम्बाधरो रागवान् सद्वृत्तस्तनमण्डलस्तव कथं प्राणैर्मम क्रीडति ॥ २३॥ तानि स्पर्शसुखानि ते च तरलस्निग्धा दृशोर्विभ्रमा- स्तद्वक्त्राम्बुजसौरभं स च सुधास्यन्दिर्गिरां वक्रिमा । सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मानसं तस्यां लग्नसमाधि हन्त विरहव्याधिः कथं वर्धते ॥ २४॥ भ्रूपल्लवं धनुरपाङ्गतरङ्गितनि var - भ्रूवल्लरिर्धनु बाणा गुणः श्रवणपालिरिति स्मरेण । अस्यामनङ्गजयजङ्गमदेवतायां अस्त्राणि निर्जितजगन्ति किमर्पितानि ॥ २५॥ तिर्यक्कण्ठविलोलमौलितरलोत्तंसस्य वंशोच्चलद्- गीतिस्थानकृतावधानललनालक्षैर्न संलक्षिताः । सम्मुग्द्धे मधुसूदनस्य मधुरे राधामुखेन्दौ मृदु- स्पन्दं कन्दलिताश्चिरं ददतु वः क्षेमं कटाक्षोर्मयः ॥ २६ ॥ ॥ इति श्रीगितगोविन्दे मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥

॥ चतुर्थः सर्गः ॥

॥ स्निग्धमधुसूदनः ॥

यमुनातीरवानीरनिकुञ्जे मन्दमास्थितम् । प्राह प्रेमभरोद्भ्रान्तं माधवं राधिकासखी ॥ २७॥

॥ गीतम् ८ ॥

निन्दति चन्दनमिन्दुकिरणमनु विन्दति खेदमधीरम् । व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ॥ माधव मनसिजविशिखभयादिव भावनया त्वयि लीना सा विरहे तव दीना ॥ १॥ अविरलनिपतितमदनशरादिव भवदवनाय विशालम् । स्वहृदयमर्मणी वर्म करोति सजलनलिनीदलजालम् ॥ २॥ सा विरहे तव दीना कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम् । व्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयम् ॥ ३॥ सा विरहे तव दीना वहति च गलितविलोचनजलभरमाननकमलमुदारम् । var - विगलितलोचन विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारम् ॥ ४॥ सा विरहे तव दीना विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम् । प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् ॥ ५॥ सा विरहे तव दीना प्रतिपदमिदमपि निगदति माधव तव चरणे पतिताहम् । त्वयि विमुखे मयि सपदि सुधानिधिरपि तनुते तनुदाहम् ॥ ६॥ सा विरहे तव दीना ध्यानलयेन पुरः परिकल्प्य भवन्तमतीव दुरापम् । विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् ॥ ७॥ सा विरहे तव दीना श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम् । हरिविरहाकुलबल्लवयुवतिसखीवचनं पठनीयम् ॥ ८॥ सा विरहे तव दीना आवासो विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन दावदहनज्वालाकलापायते । सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं कन्दर्पोऽपि यमायते विरचयञ्शार्दूलविक्रीडितम् ॥ २८॥

॥ गीतम् ९ ॥

स्तनविनिहितमपि हारमुदारम् । सा मनुते कृशतनुरतिभारम् ॥ राधिका विरहे तव केशव ॥ १॥ सरसमसृणमपि मलयजपङ्कम् । पश्यति विषमिव वपुषि सशङ्कम् ॥ २॥ राधिका श्वसितपवनमनुपमपरिणाहम् । मदनदहनमिव वहति सदाहम् ॥ ३॥ राधिका दिशि दिशि किरति सजलकणजालम् । नयननलिनमिव विगलितनालम् ॥ ४॥ राधिका नयनविषयमपि किसलयतल्पम् । कलयति विहितहुताशविकल्पम् ॥ ५॥ राधिका त्यजति न पाणितलेन कपोलम् । बालशशिनमिव सायमलोलम् ॥ ६॥ राधिका हरिरिति हरिरिति जपति सकामम् । विरहविहितमरणेन निकामम् ॥ ७॥ राधिका श्रीजयदेवभणितमिति गीतम् । सुखयतु केशवपदमुपनीतम् ॥ ८॥ राधिका सा रोमाञ्चति सीत्करोति विलपत्युत्कम्पते ताम्यति ध्यायत्युद्भ्रमति प्रमीलति पतत्युद्याति मूर्च्छत्यपि । एतावत्यतनुज्वरे वरतनुर्जीवेन्न किं ते रसात् स्वर्वैद्यप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा नान्तकः ॥ २९॥ var - त्यक्तान्यथान्यत्परं स्मरातुरां दैवतवैद्यहृद्य त्वदङ्गसङ्गामृतमात्रसाध्याम् । विमुक्तबाधां कुरुषे न राधा- मुपेन्द्रवज्रादपि दारुणोऽसि ॥ ३१॥ कन्दर्पज्वरसंज्वरस्तुरतनोराश्चर्यमस्याश्चिरं var - सज्ज्वरातुरतनोरत्यर्थमस्याश्चिरं चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु संताम्यति । किंतु क्लान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ २९॥ क्षणमपि विरहः पुरा न सेहे नयननिमीलनखिन्नया यया ते । श्वसिति कथमसौ रसालशाखां चिरविरहेण विलोक्य पुष्पिताग्राम् ॥ ३२॥ var - विरहेऽपि वृष्टिव्याकुलगोकुलावनरसादुद्धृत्य गोवर्धनं बिभ्रद्वल्लववल्लभाभिरधिकानन्दाच्चिरं चुम्बितः । दर्पेणेव तदर्पिताधरतटीसिन्दूरमुद्राङ्गितो var कन्दर्पेण बाहुर्गोपपतेस्तनोतु भवतां श्रेयांसि कंसद्विषः ॥ ३३ ॥ ॥ इति गीतगोविन्दे स्निग्धमाधवो नाम चतुर्थः सर्गः ॥

॥ पञ्चमः सर्गः ॥

॥ साकांक्षपुण्डरीकाक्षः ॥

अहमिह निवसामि याहि राधामनुनय मद्वचनेन चानयेथाः । इति मधुरिपुणा सखी नियुक्ता स्वयमिदमेत्य पुनर्जगाद राधाम् ॥ ३४॥

॥ गीतम् १० ॥

वहति मलयसमीरे मदनमुपनिधाय । स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ॥ तव विरहे वनमाली सखि सीदति ॥ १॥ दहति शिशिरमयूखे मरणमनुकरोति । पतति मदनविशिखे विलपति विकलतरोऽति ॥ २॥ तव विरहे ध्वनति मधुपसमूहे श्रवणमपि दधाति । मनसि वलितविरहे निशि निशि रुजमुपयाति ॥ ३॥ तव विरहे वसति विपिनविताने त्यजति ललितधाम । लुठति धरणिशयने बहु विलपति तव नाम ॥ ४॥ तव विरहे रणति पिकसमुदाये प्रतिदिशमनुयाति । हसति मनुजनिचये विरहमपलपति नेति ॥ ५॥ तव विरहे स्फुरति कलरवरावे स्मरति भणितमेव । तव रतिसुखविभवे बहुगणयति गुणमतीव ॥ ६॥ तव विरहे त्वदभिदशुभदमासं वदतु नरि शृणोति । तमपि जपति सरसं परयुवतिषु न रतिमुपैति ॥ ७॥ तव विरहे भणति कविजयदेवे विरहिविलसितेन । मनसि रभसविभवे हरिरुदयतु सुकृतेन ॥ ८॥ तव विरहे पूर्वं यत्र समं त्वया रतिपतेरासादिताः सिद्धय- स्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः । ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमन्त्रावलीं भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति ॥ ३५॥

॥ गीतम् ११ ॥

रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् । न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥ धीरसमीरे यमुनातीरे वसति वने वनमाली गोपीपीनपयोधरमर्दनचञ्चलकरयुगशाली ॥ १॥ नाम समेतं कृतसंकेतं वादयते मृदुवेणुम् । बहु मनुते ननु ते तनुसंगतपवनचलितमपि रेणुम् ॥ २॥ धीरसमीरे var - तनु पतति पतत्रे विचलति पत्रे शङ्कितभवदुपयानम् । रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् ॥ ३॥ धीरसमीरे मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिसुलोलम् । चल सखि कुञ्जं सतिमिरपुञ्जं शीलय नीलनिचोलम् ॥ ४॥ धीरसमीरे उरसि मुरारेरुपहितहारे घन इव तरलबलाके । तडिदिव पीते रतिविपरीते राजसि सुकृतविपाके ॥ ५॥ धीरसमीरे विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् । किसलयशयने पङ्कजनयने निधिमिव हर्षनिदानम् ॥ ६॥ धीरसमीरे हरिरभिमानी रजनिरिदानीमियमपि याति विरामम् । कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् ॥ ७॥ धीरसमीरे श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम् । प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयम् ॥ ८॥ धीरसमीरे विकिरति मुहुः श्वासानाशाः पुरो मुहुरीक्षते प्रविशति मुहुः कुञ्जं गुञ्जन्मुहुर्बहु ताम्यति । रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते मदनकदनक्लान्तः कान्ते प्रियस्तव वर्तते ॥ ३६॥ त्वद्वाम्येन समं समग्रमधुना तिग्मांशुरस्तं गतो गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् । कोकानां करुणस्वनेन सदृशी दीर्घा मदभ्यर्थना तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः ॥ ३७॥ आश्लेषादनु चुम्बनादनु नखोल्लेखादनु स्वान्तज- प्रोद्बोधादनु सम्भ्रमादनु रतारम्भादनु प्रीतयोः । अन्यार्थं गतयोर्भ्रमान्मिलितयोः सम्भाषणैर्जानतो- र्दम्पत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः ॥ ३८। सभयचकितं विन्यस्यन्तीं दृशौ तिमिरे पथि प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् । कथमपि रहः प्राप्तामङ्गैरनङ्गतरङ्गिभिः सुमुखि सुभगः पश्यन्स त्वामुपैतु कृतार्थताम् ॥ ३९॥ राधामुग्द्धमुखारविन्दमधुपस्त्रैलोक्यमौलिस्थली नेपथ्योचितनीलरत्नमवनीभारावतारक्षमः । स्वच्छन्दं व्रजसुन्दरीजनमनस्तोषप्रदोषश्चिरं कंसध्वंसनधूमकेतुरवतु त्वां देवकीनन्दनः ॥ ४०॥ ॥ इति श्रीगीतगोविन्देऽभिसारिकवर्णने साकाङ्क्षपुण्डरीकाक्षो नाम पञ्चमः सर्गः ॥

॥ षष्ठः सर्गः ॥

॥ कुण्ठवैकुण्ठः ॥

अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा । तच्चरितं गोविन्दे मनसिजमन्दे सखी प्राह ॥ ४१॥

॥ गीतम् १२ ॥

पश्यति दिशि दिशि रहसि भवन्तम् । तदधरमधुरमधूनि पिबन्तम् ॥ var - त्वदधर नाथ हरे (जय नाथ हरे) सीदति राधा वासगृहे ॥ १॥ त्वदभिसरणरभसेन वलन्ती । पतति पदानि कियन्ति चलन्ती ॥ २॥ नाथ हरे विहितविशदबिसकिसलयवलया । जीवति परमिह तव रतिकलया ॥ ३॥ नाथ हरे मुहुरवलोकितमण्डनलीला । मधुरिपुरहमिति भावनशीला ॥ ४॥ नाथ हरे त्वरितमुपैति न कथमभिसारम् । हरिरिति वदति सखीमनुवारम् ॥ ५॥ नाथ हरे श्लिष्यति चुम्बति जलधरकल्पम् । हरिरुपगत इति तिमिरमनल्पम् ॥ ६॥ नाथ हरे भवति विलम्बिनि विगलितलज्जा । विलपति रोदिति वासकसज्जा ॥ ७॥ नाथ हरे श्रीजयदेवकवेरिदमुदितम् । रसिकजनं तनुतामतिमुदितम् ॥ ८॥ नाथ हरे विपुलपुलकपालिः स्फीतसीत्कारमन्त- र्जनितजडिमकाकुव्याकुलं व्याहरन्ती । तव कितव विधायामन्दकन्दर्पचिन्तां var - विधत्ते मन्द रसजलधिनिमग्ना ध्यानलग्ना मृगाक्षी ॥ ४२॥ अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि संचारिणि प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति । इत्याकल्पविकल्पतल्परचनासंकल्पलीलाशत- व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥ ४३॥ किं विश्राम्यसि कृष्णभोगिभवने भाण्डीरभूमीरुहि भ्रातर्याहि न दृष्टिगोचरमितः सानन्दनन्दास्पदम् । राधाया वचनं तदध्वगमुखान्नन्दान्तिके गोपतो गोविन्दस्य जयन्ति सायमतिथिप्राशस्त्यगर्भा गिरः ॥ ४४ ॥ ॥ इति गीतगोविन्दे वासकसज्जावर्णने कुण्ठवैकुण्ठो नाम षष्टः सर्गः ॥

॥ सप्तमः सर्गः ॥

॥ नागरनारायणः ॥

अत्रान्तरे च कुलटाकुलवर्त्मपात- संजातपातक इव स्फुटलाञ्छनश्रीः । वृन्दावनान्तरमदीपयदंशुजालै- र्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ॥ ४५॥ प्रसरति शशधरबिम्बे विहितविलम्बे च माधवे विधुरा । विरचितविविधविलापं सा परितापं चकारोच्चैः ॥ ४६॥

॥ गीतम् १३ ॥

कथितसमयेऽपि हरिरहह न ययौ वनम् । मम विफलमिदममलरूपमपि यौवनम् ॥ यामि हे कमिह शरणं सखीजनवचनवञ्चिता ॥ १॥ यदनुगमनाय निशि गहनमपि शीलितम् । तेन मम हृदयमिदमसमशरकीलितम् ॥ २॥ यामि हे मम मरणमेव वरमतिवितथकेतना । किमिह विषहामि विरहानलमचेतना ॥ ३॥ यामि हे मामहह विधुरयति मधुरमधुयामिनी । कापि हरिमनुभवति कृतसुकृतकामिनी ॥ ४॥ यामि हे अहह कलयामि वलयादिमणीभूषणम् । हरिविरहदहनवहनेन बहुदूषणम् ॥ ५॥ यामि हे कुसुमसुकुमारतनुमतनुशरलीलया । स्रगपि हृदि हन्ति मामतिविषमशीलया ॥ ६॥ यामि हे अहमिह निवसामि न गणितवनवेतसा । स्मरति मधुसूदनो मामपि न चेतसा ॥ ७॥ यामि हे हरिचरणशरणजयदेवकविभारती । वसतु हृदि युवतिरिव कोमलकलावती ॥ ८॥ यामि हे तत्किं कामपि कामिनीमभिसृतः किं वा कलाकेलिभि- र्बद्धो बन्धुभिरन्धकारिणि वनोपान्ते किमु भ्राम्यति । कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः संकेतीकृतमञ्जुवञ्जुललताकुञ्जेऽपि यन्नागतः ॥ ४७॥ अथागतं माधवमन्तरेण सखीमियं वीक्ष्य विषादमूकाम् । विशङ्कमना रमितं कयापि जनार्दनं दृष्टवदेतदाह ॥ ४८॥

॥ गीतम् १४ ॥

स्मरसमरोचितविरचितवेशा । गलितकुसुमदरविलुलितकेशा ॥ कापि मधुरिपुणा विलसति युवतिरधिकगुणा ॥ १॥ हरिपरिरम्भणवलितविकारा । कुचकलशोपरि तरलितहारा ॥ २॥ कापि मधुरिपुणा विचलदलकललिताननचन्द्रा । तदधरपानरभसकृततन्द्रा ॥ ३॥ कापि मधुरिपुणा चञ्चलकुण्डलदलितकपोला । मुखरितरशनजघनगतिलोला ॥ ४॥ कापि मधुरिपुणा दयितविलोकितलज्जितहसिता । बहुविधकूजितरतिरसरसिता ॥ ५॥ कापि मधुरिपुणा विपुलपुलकपृथुवेपथुभङ्गा । श्वसितनिमीलितविकसदनङ्गा ॥ ६॥ कापि मधुरिपुणा श्रमजलकणभरसुभगशरीरा । परिपतितोरसि रतिरणधीरा ॥ ७॥ कापि मधुरिपुणा श्रीजयदेवभणितहरिरमितम् । कलिकलुषं जनयतु परिशमितम् ॥ ८॥ कापि मधुरिपुणा विरहपाण्डुमुरारिमुखाम्बुज- द्युतिरियं तिरयन्नपि वेदनाम् । var चेतनाम् विधुरतीव तनोति मनोभुवः सुहृदये हृदये मदनव्यथाम् ॥ ४९।

॥ गीतम् १५ ॥

समुदितमदने रमणीवदने चुम्बनवलिताधरे । मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे ॥ रमते यमुनापुलिनवने विजयी मुरारिरधुना ॥ १॥ घनचयरुचिरे रचयति चिकुरे तरलिततरुणानने । कुरबककुसुमं चपलासुषमं रतिपतिमृगकानने ॥ २॥ रमते घटयति सुघने कुचयुगगगने मृगमदरुचिरूषिते । मणिसरममलं तारकपटलं नखपदशशिभूषिते ॥ ३॥ रमते जितबिसशकले मृदुभुजयुगले करतलनलिनीदले । मरकतवलयं मधुकरनिचयं वितरति हिमशीतले ॥ ४॥ रमते रतिगृहजघने विपुलापघने मनसिजकनकासने । मणिमयरसनं तोरणहसनं विकिरति कृतवासने ॥ ५॥ रमते चरणकिसलये कमलानिलये नखमणिगणपूजिते । बहिरपवरणं यावकभरणं जनयति हृदि योजिते ॥ ६॥ रमते रमयति सुदृशं कामपि सुभृशं खलहलधरसोदरे । किमफलमवसं चिरमिह विरसं वद सखि विटपोदरे ॥ ७॥ रमते इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके । कलियुगचरितं न वसतु दुरितं कविनृपजयदेवके ॥ ८॥ रमते नायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम् । पश्याद्य प्रियसङ्गमाय दयितस्याकृष्यमाणं गुणै- रुत्कण्ठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति ॥ ५०॥

॥ गीतम् १६ ॥

अनिलतरलकुवलयनयनेन । तपति न सा किसलयशयनेन ॥ सखि या रमिता वनमालिना ॥ १॥ विकसितसरसिजललितमुखेन । स्फुटति न सा मनसिजविशिखेन ॥ २॥ सखि या अमृतमधुरमृदुतरवचनेन । ज्वलति न सा मलयजपवनेन ॥ ३॥ सखि या स्थलजलरुहरुचिकरचरणेन । लुठति न सा हिमकरकिरणेन ॥ ४॥ सखि या सजलजलदसमुदयरुचिरेण । दलति न सा हृदि विहरभरेण ॥ ५॥ सखि या var - चिरविरहेण कनकनिकषरुचिशुचिवसनेन । श्वसिति न सा परिजनहसनेन ॥ ६॥ सखि या सकलभुवनजनवरतरुणेन । वहति न सा रुजमतिकरुणेन ॥ ७॥ सखि या श्रीजयदेवभणितवचनेन । प्रविशतु हरिरपि हृदयमनेन ॥ ८॥ सखि या मनोभवानन्दन चन्दनानिल प्रसीद रे दक्षिण मुञ्च वामताम् । क्षणं जगत्प्राण विधाय माधवं पुरो मम प्राणहरो भविष्यसि ॥ ५१॥ रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो विषमिव सुधारश्मिर्यस्मिन्दुनोति मनोगते । हृदयमदये तस्मिन्नेवं पुनर्वलते बलात् कुवलयदृशां वामः कामो निकामनिरङ्कुशः ॥ ५२॥ बाधां विधेहि मलयानिल पञ्चबाण प्राणान्गृहाण न गृहं पुनराश्रयिष्ये । किं ते कृतान्तभगिनि क्षमया तरङ्गै- रङ्गानि सिञ्च मम शाम्यतु देहदाहः ॥ ५३॥ प्रातर्नीलनिचोलमच्युतमुरस्संवीतपीताम्बरं राधायाश्चकितं विलोक्य हसति स्वैरं सखीमण्डले । व्रीलाचञ्चलमञ्चलं नयनयोराधाय राधानने गूढं स्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः ॥ ५४॥ ॥ इति गीतगोविन्दे विप्रलब्धावर्णने नागनारायणो नाम सप्तमः सर्गः ॥

॥ अष्टमः सर्गः ॥

॥ विलक्ष्यलक्ष्मीपतिः ॥

अथ कथमपि यामिनीं विनीय स्मरशरजर्जरितापि सा प्रभाते । अनुनयवचनं वदन्तमग्रे प्रणतमपि प्रियमाह साभ्यसूयम् ॥ ५५॥

॥ गीतम् १७ ॥

रजनिजनितगुरुजागररागकषायितमलसनिवेशम् । वहति नयनमनुरागमिव स्फुटमुदितरसाभिनिवेशम् ॥ हरिहरि याहि माधव याहि केशव मा वद कैतववादं तामनुसर सरसीरुहलोचन या तव हरति विषादम् ॥ १॥ कज्जलमलिनविलोचनचुम्बनविरचितनीलिमरूपम् । दशनवसनमरुणं तव कृष्ण तनोति तनोरनुरूपम् ॥ २॥ याहि माधव वपुरनुहरति तव स्मरसङ्गरखरनखरक्षतरेखम् । मरकतशकलकलितकलधौतलिपिरेव रतिजयलेखम् ॥ ३॥ याहि माधव चरणकमलगलदलक्तकसिक्तमिदं तव हृदयमुदारम् । दर्शयतीव बहिर्मदनद्रुमनवकिसलयपरिवारम् ॥ ४॥ याहि माधव दशनपदं भवदधरगतं मम जनयति चेतसि खेदम् । कथयति कथमधुनापि मया सह तव वपुरेतदभेदम् ॥ ५॥ याहि माधव बहिरिव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनम् । कथमथ वञ्चयसे जनमनुगतमसमशरज्वरदूनम् ॥ ६॥ याहि माधव भ्रमति भवानबलाकवलाय वनेषु किमत्र विचित्रम् । प्रथयति पूतनिकैव वधूवधनिर्दयबालचरित्रम् ॥ ७॥ याहि माधव श्रीजयदेवभणितरतिवञ्चितखण्डितयुवतिविलापम् । शृणुत सुधामधुरं विबुधा विबुधालयतोऽपि दुरापम् ॥ ८॥ याहि माधव तदेवं पश्यन्त्याः प्रसरदनुरागं बहिरिव प्रियापादालक्तच्छुरितमरुणच्छायहृदयम् । ममाद्य प्रख्यातप्रणयभरभङ्गेन कितव त्वदालोकः शोकादपि किमपि लज्जां जनयति ॥ ५६॥ अन्तर्मोहनमौलिघूर्णनचलन्मन्दारविस्रंसनः स्तब्धाकर्षणलोचनोत्सवमहामन्त्रः कुरङ्गीदृशाम् । दृप्यद्दानवदूयमानदिविषद्दूर्वारदुर्वेदना- द्ध्वंसः कंसरिपोः प्ररोपयतु वः श्रेयांसि वंशीरवः ॥ ५७॥ इति गीतगोविन्दे खण्डितावर्णने विलक्ष्यलक्ष्मीपतिर्नाम अष्ठमः सर्गः ॥

॥ नवमः सर्गः ॥

॥ मन्दमुकुन्दः ॥

तामथ मन्मथखिन्नां रतिरसभिन्नां विषादसम्पन्नाम् । var - अथ तां मन्मथखिन्नां रतिरसभिन्नां विवादसम्पन्नां अनुचिन्तितहरिचरितां कलहान्तरितामुवाच सखी ॥ ५८॥

॥ गीतम् १८ ॥

हरिरभिसरति वहति मधुपवने । किमपरमधिकसुखं सखि भुवने ॥ माधवे मा कुरु मानिनि मानमये ॥ १॥ तालफलादपि गुरुमतिसरसम् । किं विफलीकुरुषे कुचकलशम् ॥ २॥ माधवे कति न कथितमिदमनुपदमचिरम् । मा परिहर हरिमतिशयरुचिरम् ॥ ३॥ माधवे किमिति विषीदसि रोदिषि विकला । विहसति युवतिसभा तव सकला ॥ ४॥ माधवे मृदुनलिनीदलशीतलशयने । हरिमवलोकय सफलय नयने ॥ ५॥ माधवे जनयसि मनसि किमिति गुरुखेदम् । शृणु मम वचनमनीहितभेदम् ॥ ६॥ माधवे हरिरुपयातु वदतु बहुमधुरम् । किमिति करोषि हृदयमतिविधुरम् ॥ ७॥ माधवे श्रीजयदेवभणितमतिललितम् । सुखयतु रसिकजनं हरिचरितम् ॥ ८॥ माधवे स्निग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि द्वेषस्थासि यदुन्मुखे विमुखतां यातासि तस्मिन्प्रिये । तद्युक्तं विपरीतकारिणि तव श्रीखण्डचर्चा विषं var - युक्तं तद् शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ॥ ५९॥ सान्द्रानन्दपुरन्दरादिदिविषद्वृन्दैरमन्दादरा- दानम्रैर्मकुटेन्द्रनीलमणिभिः सन्दर्शितेन्दिन्दिरम् । स्वच्छन्दं मकरन्दसुन्दरगलन्मन्दाकिनीमेदुरं श्रीगोविन्दपदारविन्दमशुभस्कन्दाय वन्दामहे ॥ ६०॥ ॥ इति गीतगोविन्दे कलहान्तरितावर्णने मन्दमुकुन्दो नाम नवमः सर्गः ॥

॥ दशमः सर्गः ॥

॥ चतुरचतुर्भुजः ॥

अत्रान्तरे मसृणरोषवशामसीम- निःश्वासनिःसहमुखीं सुमुखीमुपेत्य । var - समुपेत्य राधां सव्रीडमीक्षितसखीवदनां दिनान्ते सानन्दगद्गदपदं हरिरित्युवाच ॥ ६१॥ var - विदं

॥ गीतम् १९ ॥

वदसि यदि किंचिदपि दन्तरुचिकौमुदी हरति दरतिमिरमतिघोरम् । स्फुरदधरसीधवे तव वदनचन्द्रमा रोचयति लोचनचकोरम् ॥ प्रिये चारुशीले मुञ्च मयि मानमनिदानं सपदि मदनानलो दहति मम मानसं देहि मुखकमलमधुपानम् ॥ १॥ सत्यमेवासि यदि सुदति मयि कोपिनी देहि खरनखरशरघातम् । घटय भुजबन्धनं जनय रदखण्डनं येन वा भवति सुखजातम् ॥ २॥ प्रिये चारुशीले त्वमसि मम भूषणं त्वमसि मम जीवनं त्वमसि मम भवजलधिरत्नम् । भवतु भवतीह मयि सततमनुरोधिनी तत्र मम हृदयमतियत्नम् ॥ ३॥ प्रिये चारुशीले नीलनलिनाभमपि तन्वि तव लोचनं धारयति कोकनदरूपम् । कुसुमशरबाणभावेन यदि रञ्जयसि कृष्णमिदमेतदनुरूपम् ॥ ४॥ प्रिये चारुशीले स्फुरतु कुचकुम्भयोरुपरि मणिमञ्जरी रञ्जयतु तव हृदयदेशम् । रसतु रशनापि तव घनजघनमण्डले घोषयतु मन्मथनिदेशम् ॥ ५॥ प्रिये चारुशीले स्थलकमलगञ्जनं मम हृदयरञ्जनं जनितरतिरङ्गपरभागम् । भण मसृणवाणि करवाणि पदपङ्कजं var - चरणद्वयं सरसलसदलक्तकरागम् ॥ ६॥ प्रिये चारुशीले स्मरगरलखण्डनं मम शिरसि मण्डनं देहि पदपल्लवमुदारम् । ज्वलति मयि दारुणो मदनकदनारुणो var - नानलो हरतु तदुपाहितविकारम् ॥ ७॥ प्रिये चारुशीले इति चटुलचाटुपटुचारु मुरवैरिणो राधिकामधि वचनजातम् । जयति पद्मावतीरमणजयदेवकवि- भारतीभणितमितिगीतम् ॥ ८॥ प्रिये चारुशीले परिहर कृतातङ्के शङ्कां त्वया सततं घन- स्तनजघनयाक्रान्ते स्वान्ते परानवकाशिनि । विशति वितनोरन्यो धन्यो न कोऽपि ममान्तरं स्तनभरपरीरम्भारम्भे विधेहि विधेयताम् ॥ ६२॥ मुग्धे विधेहि मयि निर्दयदन्तदंश- दोर्वल्लिबन्धनिबिडस्तनपीडनानि । चण्डि त्वमेव मुदमञ्च न पञ्चबाण- चण्डालकाण्डदलनादसवः प्रयान्तु ॥ ६३॥ व्यथयति वृथा मौनं तन्वि प्रपञ्चय पञ्चमं तरुणि मधुरालापैस्तापं विनोदय दृष्टिभिः । सुमुखि विमुखीभावं तावद्विमुञ्च न मुञ्च मां var - वञ्चय स्वयमतिशयस्निग्धो मुग्धे प्रियोऽहमुपस्थितः ॥ ६४॥ बन्धूकद्युतिबान्धवोऽयमधरः स्निग्धा मधूकच्छवि- र्गण्डश्चण्डि चकास्ति नीलनलिनश्रीमोचनं लोचनम् । नासाभ्येति तिलप्रसूनपदवीं कुन्दाभदान्ति प्रिये प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः ॥ ६५॥ दृशौ तव मदालसे वदनमिन्दुसन्दीपकं var - मत्यान्वितं गतिर्जनमनोरमा विधुतरम्भमूरुद्वयम् । रतिस्तव कलावती रुचिरचित्रलेखे भ्रुवा- वहो विबुधयौवनं वहसि तन्वी पृथ्वीगता ॥ ६६॥ शशिमुखि तव भाति भङ्गुरभ्रूर्युवजनमोहनकरालकालसर्पी । तदुदितविषभेषजं त्विहैका त्वदधरशीथुसुधैव भाग्यभोग्या ॥ ६७॥ प्रीतिं वस्तनुतां हरिः कुवलयापीडेन सार्धं रणे var - सा प्रीतिं तनुतां राधापीनपयोधरस्मरणकृत्कुम्भेन सम्भेदवान् । यत्र स्विद्यति मीलति क्षणमभूत्क्षिप्तद्विपेऽपि क्षणात् कंसस्याथ बले जितं जितमिति व्यामोहकोलाहलः ॥ ६८॥ var -: last 2 lines पत्रे बिभ्यति मीलति क्षणमपि क्षिप्रं तदालोकनाद्- व्यामोहेन जितं जितं जितमिति व्यालोलकोलाहलः ॥ ॥ इति श्रीगीतगोविन्दे मानिनीवर्णने चतुरचतुर्भुजो नाम दशमः सर्गः ॥

॥ एकादशः सर्गः ॥

॥ सानन्ददामोदरः ॥

सुचिरमनुनयेन प्रीणयित्वा मृगाक्षीं गतवति कृतवेशे केशवे कुञ्जशय्याम् । रचितरुचिरभूषां दृष्टिमोषे प्रदोषे स्फुरति निरवसादां कापि राधां जगाद ॥ ६९॥

॥ गीतम् २० ॥

विरचितचाटुवचनरचनं चरणे रचितप्रणिपातम् । var - : विरचितचाटुवचनेन चरणरचितप्रणिपातम् सम्प्रति मञ्जुलवञ्जुलसीमनि केलिशयनमनुयातम् ॥ मुग्धे मधुमथनमनुगतमनुसर राधिके ॥ १॥ घनजघनस्तनभारभरे दरमन्थरचरणविहारम् । मुखरितमणीमञ्जीरमुपैहि विधेहि मरालविकारम् ॥ २॥ मुग्धे शृणु रमणीयतरं तरुणीजनमोहनमधुरिपुरावम् । कुसुमशरासनशासनवन्दिनि पिकनिकरे भज भावम् ॥ ३॥ मुग्धे var - बन्दिनि अनिलतरलकिसलयनिकरेण करेण लतानिकुरम्बम् । प्रेरणमिव करभोरु करोति गतिं प्रतिमुञ्च विलम्बम् ॥ ४॥ मुग्धे स्फुरितमनङ्गतरङ्गवशादिव सूचितहरिपरिरम्भम् । पृच्छ मनोहरहारविमलजलधारममुं कुचकुम्भम् ॥ ५॥ मुग्धे अधिगतमखिलसखीभिरिदं तव वपुरपि रतिरणसज्जम् । चण्डि रणितरशनारवडिण्डिममभिसर सरसमलज्जम् ॥ ६॥ मुग्धे स्मरशरसुभगनखेन करेण सखीमवलम्ब्य सलीलम् । var - सखीमवलम्ब्य करेण चल वलयक्वणीतैरवबोधय हरमपि निजगतिशीलम् ॥ ७॥ मुग्धे श्रीजयदेवभणितमधरीकृतहारमुदासितवामम् । हरिविनिहितमनसामधितिष्ठतु कण्ठतटीमविरामम् ॥ ८॥ मुग्धे सा मां द्रक्ष्यति वक्ष्यति स्मरकथां प्रत्यङ्गमालिङ्गनैः प्रीतिं यास्यति रंस्यते सखि समागत्येति चिन्ताकुलः । स त्वां पश्यति वेपते पुलकयत्यानन्दति स्विद्यति प्रत्युद्गच्छति मूर्च्छति स्थिरतमःपुञ्जे निकुञ्जे प्रियः ॥ ७०॥ अक्ष्णोर्निक्षिपदञ्जनं श्रवणयोस्तापिच्छगुच्छावलीं मूर्ध्नि श्यामसरोजदाम कुचयोः कस्तूरिकापत्रकम् । धूर्तानामभिसारसत्वरहृदां विष्वङ्निकुञ्जे सखि ध्वान्तं नीलनिचोलचारु सुदृशां प्रत्यङ्गमालिङ्गति ॥ ७१॥ काश्मीरगौरवपुषामभिसारिकाणां आबद्धरेखमभितो रुचिमञ्जरीभिः । एतत्तमालदलनीलतमं तमिस्रं तत्प्रेमहेमनिकषोपलतां तनोति ॥ ७२॥ हारावलीतरलकाञ्चनकाञ्चिदाम- केयूरकङ्कणमणिद्युतिदीपितस्य । द्वारे निकुञ्जनिलयस्य हरिं निरीक्ष्य व्रीडावतीमथ सखी निजगाह राधाम् ॥ ७३॥

॥ गीतम् २१ ॥

मञ्जुतरकुञ्जतलकेलिसदने । विलस रतिरभसहसितवदने ॥ प्रविश राधे माधवसमीपमिह ॥ १॥ नवभवदशोकदलशयनसारे । विलस कुचकलशतरलहारे ॥ २॥ प्रविश कुसुमचयरचितशुचिवासगेहे । विलस कुसुमसुकुमारदेहे ॥ ३॥ प्रविश चलमलयवनपवनसुरभिशीते । var मृदुचलमलयपवनसुरभिशीते विलस रसवलितललितगीते ॥ ४॥ प्रविश मधुमुदितमधुपकुलकलितरावे । विलस मदनरससरसभावे ॥ ५॥ प्रविश var - रभस मधुरतरपिकनिकरनिनदमुखरे । विलस दशनरुचिरुचिरशिखरे ॥ ६॥ प्रविश विततबहुवल्लिनवपल्लवघने । विलस चिरमलसपीनजघने ॥ ७॥ प्रविश विहितपद्मावतीसुखसमाजे । भणति जयदेवकविराजे । कुरु मुरारे मङ्गलशतानि ॥ ८॥ प्रविश त्वां चित्तेन चिरं वहन्नयमतिश्रान्तो भृशं तापितः कन्दर्पेण तु पातुमिच्छति सुधासम्बाधबिम्बाधरम् । अस्याङ्गं तदलंकुरु क्षणमिह भ्रूक्षेपलक्ष्मीलव- क्रीते दास इवोपसेवितपदाम्भोजे कुतः सम्भ्रमः ॥ ७४॥ सा ससाध्वससानन्दं गोविन्दे लोललोचना । सिञ्जाना मञ्जुमञ्जीरं प्रविवेश निवेशनम् ॥ ७५॥

॥ गीतम् २२ ॥

राधावदनविलोकनविकसितविविधविकारविभङ्गम् । जलनिधिमिव विधुमण्डलदर्शनतरलिततुङ्गतरङ्गम् ॥ हरिमेकरसं चिरमभिलषितविलासं सा ददार्श गुरुहर्षवशंवदवदनमनङ्गनिवासम् ॥ १॥ हारममलतरतारमुरसि दधतं परिरभ्य विदूरम् । स्फुटतरफेनकदम्बकरम्बितमिव यमुनाजलपूरम् ॥ २॥ हरिमेकरसं श्यामलमृदुलकलेवरमण्डलमधिगतगौरदुकूलम् । नीलनलिनमिव पीतपरागपटलभरवलयितमूलम् ॥ ३॥ हरिमेकरसं तरलदृगञ्चलचलनमनोहरवदनजनितरतिरागम् । स्फुटकमलोदरखेलितखञ्जनयुगमिव शरदि तडागम् ॥ ४॥ हरिमेकरसं वदनकमलपरिशीलनमिलितमिहिरसमकुण्डलशोभम् । स्मितरुचिरुचिरसमुल्लसिताधरपल्लवकृतरतिलोभम् ॥ ५॥ हरिमेकरसं शशिकिरणच्छुरितोदरजलधरसुन्दरसकुसुमकेशम् । तिमिरोदितविधुमण्दलनिर्मलमलयजतिलकनिवेशम् ॥ ६॥ हरिमेकरसं विपुलपुलकभरदन्तुरितं रतिकेलिकलाभिरधीरम् । मणिगणकिरणसमूहसमुज्ज्वलभूषणसुभगशरीरम् ॥ ७॥ हरिमेकरसं श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारम् । प्रणमत हृदि सुचिरं विनिधाय हरिं सुकृतोदयसारम् ॥ ८॥ हरिमेकरसं var - हृदि सुचिरं विनिधाय हरिं अतिक्रम्यापाङ्गं श्रवणपथपर्यन्तगमन- प्रयासेनेवाक्ष्णोस्तरलतरतारं पतितयोः । इदानीं राधायाः प्रियतमसमालोकसमये पपात स्वेदाम्बुप्रसर इव हर्षाश्रुनिकरः ॥ ७६॥ भवन्त्यास्तल्पान्तं कृतकपटकण्डूतिपिहित- var - भजन्त्यास्तल्पान्तं स्मितं याते गेहाद्बहिरवहितालीपरिजने । प्रियास्यं पश्यन्त्याः स्मरशरसमाकूलसुभगं var - स्मरपरवशाकूतसुभगं सलज्जा लज्जापि व्यगमदिव दूरं मृगदृशः ॥ ७७॥ जयश्रीविन्यस्तैर्महित इव मन्दारकुसुमैः स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव । भुजापीडक्रीडाहतकुवलयापीडकरिणः प्रकीर्णासृग्बिन्दुर्जयति भुजदण्डो मुरजितः ॥ ७८॥ सौन्दर्यैकनिधेरनङ्गललनालावण्यलीलाजुषो राधाया हृदि पल्वले मनसिजकीडैकरङ्गस्थले । रम्योरोजसरोजखेलनरसित्वादात्मनः ख्यापयन् ध्यातुर्मानसराजहंसनिभतां देयान्मुकुन्दो मुदम् ॥ ७९॥ ॥ इति श्रीगीतगोविन्दे राधिकामिलने सानन्ददामोदरो नामैकादशः सर्गः ॥

॥ द्वादशः सर्गः ॥

॥ सुप्रीतपीताम्बरः ॥

गतवति सखीवृन्देऽमन्दत्रपाभरनिर्भर- स्मरपरवशाकूतस्फीतस्मितस्नपिताधराम् । सरसमनसं दृष्ट्वा राधां मुहुर्नवपल्लव- प्रसवशयने निक्षिप्ताक्षीमुवाच हरिः प्रियाम् ॥ ८०॥

॥ गीतम् २३ ॥

किसलयशयनतले कुरु कामिनि चरणनलिनविनिवेशम् । तव पदपल्लववैरिपराभवमिदमनुभवतु सुवेशम् ॥ क्षणमधुना नारायणमनुगतमनुसर राधिके ॥ १॥ करकमलेन करोमि चरणमहमागमितासि विदूरम् । क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरम् ॥ २॥ क्षणमधुना वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलम् । विरहमिवापनयामि पयोधररोधकमुरसि दुकूलम् ॥ ३॥ क्षणमधुना प्रियपरिरम्भणरभसवलितमिव पुलकितमतिदुरवापम् । मदुरसि कुचकलशं विनिवेशय शोषय मनसिजतापम् ॥ ४॥ क्षणमधुना अधरसुधारसमुपनय भाविनि जीवय मृतमिव दासम् । त्वयि विनिहितमनसं विरहानलदग्धवपुषमविलासम् ॥ ५॥ क्षणमधुना शशिमुखि मुखरय मणिरशनागुणमनुगुणकण्ठनिनादम् । श्रुतियुगले पिकरुतविकले मम शमय चिरादवसादम् ॥ ६॥ क्षणमधुना मामतिविफलरुषा विकलीकृतमवलोकितमधुनेदम् । मीलितलज्जितमिव नयनं तव विरम विसृज रतिखेदम् ॥ ७॥क्षणमधुना श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदम् । जनयतु रसिकजनेषु मनोरमरतिरसभावविनोदम् ॥ ८॥ क्षणमधुना प्रत्यूहःपुलकाङ्कुरेण निबिडाश्लेषे निमेषेण च क्रीडाकूतविलोकितेऽधरसुधापाने कथानर्मभिः । आनन्दाधिगमेन मन्मथकलायुद्धोऽपि यस्मिन्नभू- दुद्भूतस्स तयोर्बभूव सुरतारम्भः प्रियं भावुकः ॥ ८१॥ दोर्भ्यां संयमितःपयोधरभरेणापीडितः पाणिजै- राविद्धो दशनैः क्षताधरपुटः श्रोणीतटेनाहतः । हस्तेनानमितः कचेऽधरसुधापानेन सम्मोहितः कान्तः कामपि तृप्तिमाप तदहो कामस्य वामा गतिः ॥ ८२॥ माराङ्के रतिकेलिसंकुलरणारम्भे तया साहस- प्रायं कान्तजयाय किञ्चिदुपरि प्रारम्भि यत्सम्भ्रमात् । निष्पन्दा जघनस्थली शिथिलता दोर्वल्लिरुत्कम्पितं वक्षो मीलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥ ८३॥ तस्याः पाटलपाणिजाङ्कितमुरो निद्राकषाये दृशौ निर्धूताधारशोणिमा विलुलितस्रस्तस्रजो मूर्धजाः । काञ्चीदामदरश्लथाञ्चलमिति प्रातर्निखातैर्दृशो- रेभिः कामशरैस्तदद्भुतमभूत्पत्युर्मनः कीलितम् ॥ ८४॥ त्वामप्राप्य मयि स्वयंवरपरां क्षीरोदतीरोदरे शङ्के सुन्दरि कालकूटमपिबन्मूढो मृडानीपतिः । इत्थं पूर्वकथाभिरन्यमनसा विक्षिप्य वामाञ्चलं राधायाः स्तनकोरकोपरि चलन्नेत्रे हरिः पातु वः ॥ ८५॥ व्यालोलः केशपाशास्तरलितमलकैः स्वेदलोलौ कपोलौ स्पष्टा दष्टाधरश्रीः कुचकलशरुचा हारिता हारयष्टिः । काञ्चीकाञ्च्युद्गताशां स्तनजघनपदं पाणिनाऽऽच्छाद्य सद्यः पश्यन्ती चात्मरूपं तदपि विलुलितं स्रग्धरेयं धुनोति ॥ ८६॥ ईषन्मीलितदृष्टिमुग्धहसितं सीत्कारधारावशा- दव्यक्ताकुलकेलिकाकुविकसद्दन्तांशुधौताधरम् । श्वासोत्कम्पिपयोधरोपरि परिष्वङ्गात्कुरङ्गीदृशो var - : शान्तस्तब्धपयोधरं भृशपरि हर्षोत्कर्षविमुक्तनिःस्सहतनोर्धन्यो धयत्याननम् ॥ ८७ ॥ अथ कान्तं रतिक्लान्तमपि मण्डनवाञ्छया । निजगाद निराबाधा राधा स्वाधीनभर्तृका ॥ ८८॥ var - अथ सा निर्गताबाधा राधा स्वाधीनभर्तृका । निजगाद रतिक्लान्तां कान्तां मण्डनवाञ्छया ॥ इति सहसा सुप्रीतं सुरतान्ते सा नितान्तखिन्नाङ्गी । राधा जगाद सादरमिदमानन्देन गोविन्दम् ॥ ८९॥

॥ गीतम् २४ ॥

कुरु यदुनन्दन चन्दनशिशिरतरेण करेण पयोधरे । मृगमदपत्रकमत्र मनोभवमङ्गलकलशसहोदरे । निजगाद सा यदुनन्दने क्रीडति हृदयानन्दने ॥ १॥ अलिकुलगञ्जनमञ्जनकं रतिनायकसायकमोचने । त्वदधरचुम्बनलम्बितकज्जलमुज्ज्वलय प्रिय लोचने ॥ २॥ निजगाद नयनकुरङ्गतरङ्गविलासनिरासकरे श्रुतिमण्डले । मनसिजपाशविलासधरे शुभवेश निवेशय कुण्डले ॥ ३॥ निजगाद भ्रमरचयं रचयन्तमुपरि रुचिरं सुचिरं मम सम्मुखे । जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे ॥ ४॥ निजगाद मृगमदरसवलितं ललितं कुरु तिलकमलिकरजनीकरे । विहितकलङ्ककलं कमलानन विश्रमितश्रमशीकरे ॥ ५॥ निजगाद मम रुचिरे चिकुरे कुरु मानद मनसिजध्वजचामरे । रतिगलिते ललिते कुसुमानि शिखण्डिशिखण्डकडामरे ॥ ६॥ निजगाद सरसघने जघने मम शम्बरदारणवारणकन्दरे । मणिरशनावसनाभरणानि शुभाशय वासय सुन्दरे ॥ ७॥ निजगाद श्रीजयदेववचसि रुचिरे हृदयं सदयं कुरु मण्डने । var शुभदे हृदयं हरिचरणस्मरणामृतनिर्मितकलिकलुषज्वरखण्डने ॥ ८॥ निजगाद रचय कुचयोः पत्रं चित्रं कुरुष्व कपोलयो- र्घटय जघने काञ्चीमञ्च स्रजा कबरीभरम् । कलय वलयश्रेणीं पाणौ पदे कुरु नूपुरा- विति निगतितः प्रीतः पीताम्बरोऽपि तथाकरोत् ॥ ९०॥ पर्यङ्गीकृतनागनायकफणश्रेणीमणीनां गणे सङ्क्रान्तप्रतिबिम्बसङ्कलनया बिभ्रद्वपुर्विक्रियाम् । पादाम्भोरुहधारिवारिधिसुतामक्ष्णां दिदृक्षुः शतैः कायव्यूहविचारयन्नुपचिताकूतो हरिः पातु वः ॥ ९१॥ यन्नित्यैर्वचनैर्विरिञ्चगिरिजाप्राणेशमुख्यैर्मुहुः नानाकारविचारसारचतुरैर्नाद्यापि निश्चीयते । तत्सर्वैर्जयदेवकाव्यघटितैस्सत्सूरिसंशोधितै- राद्यं वस्तु चकास्तु चेतसि परं सारस्यसीमाजुषाम् ॥ ९२॥ यद्गान्धर्वकलासु कौशलमनुध्यानं च यद्वैष्णवं यच्छृङ्गारविवेकतत्वरचनाकाव्येषु लीलायितम् । तत्सर्वं जयदेवपण्डितकवेः कृष्णैकतानात्मनः सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः ॥ ९३॥ साध्वी माध्वीकचिन्ता न भवति भवतः शर्करे कर्कशासि द्राक्षे द्रक्ष्यन्ति के त्वाममृत मृतमसि क्षीरनीरं रसस्ते । क्रन्द कान्ताधर धरणितलं गच्छ यच्छान्तिभावं यावच्छृङ्गारसारस्वतमिह जयदेवस्य विष्वग्वचांसि ॥ ९४॥ श्रीभोजदेवप्रभवस्य राधादेवीसुतश्रीजयदेवकस्य । var - रामादेवी पराशरादिप्रियवर्गकण्ठे श्रीगीतगोविन्दकवित्वमस्तु ॥ ९५॥ ॥ इति श्रीजयदेवकृतौ गीतगोविन्दे सुप्रीतपीताम्बरो नाम द्वादशः सर्गः ॥ ॥ इति गीतगोविन्दं समाप्तम् ॥ at the end of Sarga 11, after gItaM 22 सानन्दं नन्दसूनुर्दिशतु मितपदं सम्मदं मन्दमन्दं राधामाधाय बाह्वोर्विवरमनुदृढं पीडयन् प्रीतियोगात् । तुङ्गौ तस्या उरोजावतनुरवतनोर्निर्गतौ मास्म भूतां पृष्ठं निर्भिद्य तस्माद्बलिरिति वलितग्रीवमालोकयन् वः ॥ at the end of Sarga 12 साधूनां स्वत एव सम्मतिरिह स्यादेव भक्त्यार्थिनां आलोच्य ग्रथनश्रमं च विदुषामस्मिन्भवेदादरः । ये केचित् परकृत्युपश्रुतिपरास्तानर्थये मत्कृतिं भूयो वीक्ष्य वदन्त्ववद्यमिति चेत्सा वासना स्थास्यति ॥ इत्थं केलितलैर्विहृत्य यमुनाकूले समं राधया तद्रोमावलिमौक्तिकावलियुगे वेणीभ्रमं बिभ्रति । तत्राह्लादिकुचप्रयोगफलयोर्लिप्सावतोर्हस्तयो- र्व्यापाराः पुरुषोत्तमस्य ददतु स्फीतां मुदं सम्पदम् ॥ Encoded and proofread by P. P. Narayanaswami swami at mun.ca Proofread by PSA Easwaran psaeaswaran at gmail.com

% Text title            : jayadevakRita gItagovindaM aShTapadI
% File name             : giitagovindaM.itx
% itxtitle              : gItagovindaM aShTapadI cha (jayadevakRitam)
% engtitle              : jayadevakRita gItagovindaM (aShTapadI)
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : P. P. Narayanaswami at swami at math.mun.ca
% Proofread by          : P. P. Narayanaswami at swami at math.mun.ca, PSA Easwaran
% Indexextra            : Paintings
% Latest update         : October 1, 2010, May 10, 2015
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP