श्रीगोकुलेशोत्सववर्णनम्
नन्दालयान्ते निगमैरगम्यं
सनातनं ब्रह्म यदस्ति भूम्या ।
गोरूपया प्रार्थित एव कृष्णो
वारत्रयं चाविरभूत् स एव ॥ १॥
तदा हि भूमावजनिष्ट पूर्वं
श्रीवल्लभाचार्य इति प्रसिद्धः ।
श्रीविठ्ठलेशोऽपि तथोत्तरस्मात्
श्रीवल्लभोऽभूत् कुलनामदीपः ॥ २॥
पुराभिषिक्तः पयसा सुरभ्या
कृतः पतित्वे निजगोकुलस्य ।
सर्वेन्द्रियस्वामितयापि नाम्ना
भक्तैर्निरुक्तोऽपि स गोकुलेशः ॥ ३॥
यस्मिन्प्रभुः प्रादुरभूत्स भूमौ
कालो महाशोभन एव जातः ।
तदा हि सर्वत्र जगज्जनानां
सुखाय तज्जन्मदिनं बभूव ॥ ४॥
यज्जन्मनि जगज्जातं मङ्गलैकातिमङ्गलम् ।
गोकुलं सकलं चासीन्नवमङ्गलपूरितम् ॥ ५॥
प्रतिसंवत्सरं तस्मिन् गोकुलेशजनुर्दिने ।
महामहोत्सवा आसन् सकला गोकुलौकसः ॥ ६॥
आबालवृद्धमखिला धन्या गोकुलवासिनः ।
नित्योत्सवास्तदा ह्यासन्नत्युत्सवसमुत्सकाः ॥ ७॥
वादित्राणि विचित्राणि वादयन्ति स्म वादकाः ।
जगुर्मङ्गलगीतानि सुस्वराण्यङ्गनागणाः ॥ ८॥
प्रतिद्वारमगाराणां नवपल्लवतोरणम् ।
बबन्धुः सेविनोऽन्योन्यं चक्रुः कुङ्कुममञ्जनम् ॥ ९॥
अभूत्तस्मिन् मनोहारिशुभकारिजनुर्दिने ।
गोकुलेशगृहद्वारि भूरिवाद्यान्यवादिषुः ॥ १०॥
तत्र दुन्दुभयो धीरं मधुरध्वनि दध्वनुः ।
गोमुखानि सुखान्यासन्नखण्डं डिण्डिमोनदद् ॥ ११॥
भेर्यश्च भूरिशो नेदुर्गम्भीरा भैरवारवाः ।
पणवाश्च तथा विप्रा प्रणवाद्याशिषोऽभवन् ॥ १२॥
वैणविका अनणीयांसो वीणाः कलभरीणान् ? ।
नवीना वेणवो रेणुः प्रवीणा आपणादिषु ॥ १३॥
अमन्दानन्दसन्दोहदायका गायका जगुः ।
मृदङ्गा वृन्दशो नेदुर्नृत्यतालक्रमानुगाः ॥ १४॥
तदा शृङ्गारभोगान्ते गोकुलेशः स्वयं प्रभुः ।
मन्दिरान्मङ्गलं स्नातुमाजगाम निजं गृहम् ॥ १५॥
तत्र स्थित्वाङ्गणे भद्रं कर्तुं स्नानं प्रचक्रमे ।
स्नानीयसाधनं सर्वमानिन्युर्निजसेवकाः ॥ १६॥
केचन मस्तके तैलं सिषिचुः पुष्पवासितम् ।
केचिन्मृगमदैः केचिद्घुसृणैः केऽपि चन्दनैः ॥ १७॥
सुगन्धोद्वर्तनैस्सर्वे जिजिषुस्तस्य विग्रहम् ।
तत उष्णोदकैः सस्नौ तदा तद्दर्शनोत्सुकैः ॥ १८॥
तदाङ्गणगतैर्भक्तैरनुरक्तैस्ससम्भ्रमैः ।
प्रासादशिखरारूढः स घोषोऽतिमहानभूत् ॥ १९॥
संव्याय वाससी पीते गत्वा स्वप्रभुमन्दिरम् ।
ततोऽसौ राजभोगान्ते प्रभोर्नीराजनं व्यधात् ॥ २०॥
अथ तत्राङ्गणे सोऽयं चतुष्कोपरि शोभने ।
पुत्रपौत्रप्रपौत्रैः स्वैर्निषसाद सहासने ॥ २१॥
पुरपीतस्थितानष्टमुष्टितण्डुलकल्पितान् ।
सखिबन्धूदितैर्मन्त्रैरुपचारैरपूपुजत् ॥ २२॥
तदन्ते गोकुलेशस्य स्वसृपुत्र्यादयः स्त्रियः ।
पतिमत्यः सतिलकं मौक्तिकारार्तिकं व्यधुः ॥ २३॥
निजभक्तस्त्रियोऽप्यस्य कृत्वा नीराजनं तथा ।
तन्मूर्ध्नि मौक्तिकस्वर्ण-पुष्पाञ्जलिमवाकिरन् ॥ २४॥
ततोऽनुरक्तैर्भक्तैः स्वै रत्नाभरणभूषितः ।
बन्धुभिः सह विप्रैश्च भोजनस्थानमाययौ ॥ २५॥
ब्राह्मणान्भोजयित्वा स सबन्धुर्बुभुजे स्वयम् ।
भोजिकाः सेवकाः सर्वे स्वहस्तपरिवेषणैः ॥ २६॥
भोजनान्ते सताम्बूला ब्राह्मणा ददुराशिषः ।
ततः स्वमन्दिरास्तीर्णनवासनसुखस्थितः ॥ २७॥
पुत्रपौत्रप्रपौत्रैश्च वृतोऽसौ शुशुभेतराम् ।
नृत्यवादित्रगीताढ्यं नानोपायनसम्भृतम् ॥ २८॥
महामहोत्सवं चक्रुस्तदाऽऽसन्ध्यं स्वसेवकाः ।
दिव्यानि परिश्रेयानि पट्टवस्त्राण्यनेकधा ॥ २९॥
मौक्तिकानि सरत्नानि सौवर्णाभरणानि च ।
सकुटुम्बं गोकुलेशं प्रीतितः पर्यधापयन् ॥ ३०॥
अनन्याः सेविनो धन्या द्रव्याण्यन्यान्यनेकशः ।
उपायनान्यमी निन्युरन्योन्येभ्योऽधिकाधिकम् ॥ ३१॥
रराज गोकुलेशोऽसौ सकुटुम्बोऽतिभूषितः ।
पुष्पितः फलितो मूर्तः श्रङ्गारद्रुरिवाद्भुतः ॥ ३२॥
गोकुले गोकुलेशस्य सदा जन्मदिनोत्सवः ।
दृष्ट आसन्ध्यमाधिक्यं कृष्णरायेण वर्णितः ॥ ३३॥
इति श्रीकृष्णरायविरचितं श्रीगोकुलेशोत्सववर्णनं सम्पूर्णम् ।
Proofread by PSA Easwaran