$1
श्रीगोपालकवचम्
$1

श्रीगोपालकवचम्

श्रीगणेशाय नमः ॥ श्रीमहादेव उवाच । अथ वक्ष्यामि कवचं गोपालस्य जगद्गुरोः । यस्य स्मरणमात्रेण जीवन्मुक्तो भवेन्नरः ॥ १॥ श‍ृणु देवि प्रवक्ष्यामि सावधानावधारय । नारदोऽस्य ऋषिर्देवि छेन्दोऽनुष्टुबुदाहृतम् ॥ २॥ देवता बालकृष्णश्च चतुर्वर्गप्रदायकः । ॐ अस्य श्रीगोणालकवचस्य नारद ऋषिः । अनुष्टुप्छन्दः । श्रीबालकृष्णो देवता । धर्मार्थकाममोक्षार्थे जपे विनियोगः । शिरो मे बालकृष्णश्च पातु नित्यं मम श्रुती ॥ ३॥ नारायणः पातु कण्ठं गोपीवन्द्यः कपोलकम् । नासिके मधुहा पातु चक्षुषी नदनन्दनः ॥ ४॥ जनार्दनः पातु दन्तानधरं माधवस्तथा । ऊर्ध्वोष्ठं पातु वाराहश्चिबुकं केशिसूदनः ॥ ५॥ हृदयं गोपिकानाथो नाभिं सेतुप्रदः सदा । हस्तौ गोवर्धनधरः पादौ पीताम्बरोऽवतु ॥ ६॥ कराङ्गुलीः श्रीधरो मे पादाङ्गुल्यः कृपामयः । लिङ्गं पातु गदापाणिर्बालक्रीडामनोरमः ॥ ७॥ जगन्नाथः पातु पूर्वं श्रीरामोऽवतु पश्चिमम् । उत्तरं कैटभारिश्च दक्षिणं हनुमत्प्रभुः ॥ ८॥ आग्नेय्यां पातु गोविन्दो नैरृत्यां पातु केशवः । वायव्यां पातु दैत्यारिरैशान्यां गोपनन्दनः ॥ ९॥ ऊर्ध्व पातु प्रलम्बारिरधः कैटभमर्दनः । शयानं पातु पूतात्मा गतौ पातु श्रियःपतिः ॥ १०॥ शेषः पातु निरालम्बे जाग्रद्भावे ह्यपाम्पतिः । भोजने केशिहा पातु कृष्णः सर्वाङ्गसन्धिषु ॥ ११॥ गणनासु निशानाथो दिवानाथो दिनक्षये । इति ते कथितं दिव्यं कवचं परमाद्भुतम् ॥ १२॥ यः पठेन्नित्यमेवेदं कवचं प्रयतो नरः । तस्याशु विपदो देवि नश्यन्ति रिपुसङ्घतः ॥ १३॥ अन्ते गोपालचरणं प्राप्नोति परमेश्वरि । त्रिसन्ध्यमेकसन्ध्यं वा यः षठेच्छृणुयादपि ॥ १४॥ तं सर्वदा रमानाथः परिपाति चतुर्भुजः । अज्ञात्वा कवचं देवि गोपालं पूजयेद्यदि ॥ १५॥ सर्वं तस्य वृथा देवि जपहोमार्चनादिकम् । सशस्त्रघातं सम्प्राप्य मृत्युमेति न संशयः ॥ १६॥ इति नारदपञ्चरात्रे ज्ञानामृतसारे चतुर्थरात्रे श्रीगोपालकवचं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : shrIgopAlakavacham
% File name             : gopAlakavacham.itx
% itxtitle              : gopAlakavacham (nAradapancharAtrAntargatam)
% engtitle              : shrIgopAlakavacham
% Category              : kavacha, vishhnu, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Brihatstotraratnakara 1 newer, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225
% Source                : nAradapancharAtre jnAnAmRitasAre chaturtharAtre
% Latest update         : March 25, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org