श्रीगोपालसहस्रनामस्तोत्रम् २ अथवा बालकृष्णसहस्रनामस्तोत्रम्

श्रीगोपालसहस्रनामस्तोत्रम् २ अथवा बालकृष्णसहस्रनामस्तोत्रम्

नारदपञ्चरात्रे ज्ञानामृतसारे चतुर्थरात्रे अष्टमोऽध्यायः श्रीपार्वत्युवाच । भगवन् सर्वदेवेश ! देवदेव ! जगद्गुरो । कथितं कवचं दिव्यं बालगोपालरूपिणम् ॥ १॥ श्रुतं मया तव मुखात् परं कौतूहलं मम । इदानीं श्रोतुमिच्छामि गोपालस्य परमात्मनः ॥ २॥ सहस्रं नाम्नां दिव्यानामशेषेणानुकीर्त्तय । तमेव शरणं नाथ त्राहि मां भक्तवत्सल ॥ ३॥ यदि स्नेहोऽस्ति देवेश मां प्रति प्राणवल्लभ । केन प्रकाशितं पूर्व कुत्र किं वा कदा क्व नु ॥ ३॥ पिबतोऽच्युतपीयूषं न मेऽत्रास्ति निरामता ॥ ४॥ श्रीमहादेव उवाच । श्रीबालकृष्णस्य सहस्रनाम्नः स्तोत्रस्य कल्पाख्यसुरद्रुमस्य । व्यासो वदत्यखिलशास्त्रनिदेशकर्ता श‍ृण्वन् शुकं मुनिगणेषु सुरर्षिवर्यः ॥ ५॥ पुरा महर्षयः सर्वे नारदं दण्डके वने जिज्ञासान्ति स्म भक्त्या च गोपालस्य परात्मनः ॥ ६॥ नाम्नः सहस्रं परमं श‍ृणु देवि ! समासतः । श्रुत्वा श्रीबालकृष्णस्य नाम्नः साहस्रकं प्रिये ॥ ७॥ व्यपैति सर्वपापानि ब्रह्महत्यादिकानि च । कलौ बालेश्वरो देवः कलौ वृन्दावनं वनम् ॥ ८॥ कलौ गङ्गौ मुक्तिदात्री कलौ गीता परागतिः । नास्ति यज्ञादिकार्याणि हरेर्नामैव केवलम् । कलौ विमुक्तये नॄणां नास्त्येव गतिरन्यथा ॥ ९॥ विनियोगः - अस्य श्रीबालकृष्णस्य सहस्रनामस्तोत्रस्य नारद ऋषिः श्रीबालकृष्णो देवता पुरुषार्थसिद्धये जपे विनियोगः । बालकृष्णः सुराधीशो भूतावासो व्रजेश्वरः । व्रजेन्द्रनन्दनो नन्दी व्रजाङ्गनविहारणः ॥ १०॥ गोगोपगोपिकानन्दकारको भक्तिवर्धनः । गोवत्सपुच्छसङ्कर्षजातानन्दभरोऽजयः ॥ ११॥ रिङ्गमाणगतिः श्रीमानतिभक्तिप्रकाशनः । धूलिधूसर सर्वाङ्गो घटीपीतपरिच्छदः ॥ १२॥ पुरटाभरणः श्रीशो गतिर्गतिमतां सदा । योगीशो योगवन्द्याश्च योगाधीशो यशःप्रदः ॥ १३॥ यशोदानन्दनः कृष्णो गोवत्सपरिचारकः । गवेन्द्रश्च गवाक्षश्च गवाध्यक्षो गवां गति ॥ १४॥ गवेशश्च गवीशश्च गोचारणपरायणः । गोधूलिधामप्रियको गोधूलिकृतभूषणः ॥ १५॥ गोरास्यो गोरसाशोगो गोरसाञ्चितधामकः । गोरसास्वादको वैद्यो वेदातीतो वसुप्रदः ॥ १६॥ विपुलांशो रिपुहरो विक्षरो जयदो जयः । जगद्वन्द्यो जगन्नाथो जगदाराध्यपादकः ॥ १७॥ जगदीशो जगत्कर्ता जगत्पूज्यो जयारिहा । जयतां जयशीलश्च जयातीतो जगद्बलः ॥ १८॥ जगद्धर्ता पालयिता पाता धाता महेश्वरः । राधिकानन्दनो राधाप्राणनाथो रसप्रदः ॥ १९॥ राधाभक्तिकरः शुद्धो राधाराध्यो रमाप्रियः । गोकुलानन्ददाता च गोकुलानन्दरूपधृक् ॥ २०॥ गोकुलेश्वरकल्याणो गोकुलेश्वरनन्दनः । गोलोकाभिरितिः स्रग्वी गोलोकेश्वरनायकः ॥ २१॥ नित्यं गोलोकवसतिर्नित्यं गोगोपनन्दनः । गणेश्वरो गणाध्यक्षो गणानां परिपूरकः ॥ २२॥ गुणा गुणोत्करो गण्यो गुणातीतौ गुणाकरः । गुणप्रियो गुणाधारो गुणाराध्यो गणाग्रणी ॥ २३॥ गणनायको विघ्नहरो हेरम्बः पार्वतीसुतः । पर्वताधिनिवासी च गोवर्धनधरो गुरुः ॥ २४॥ गोवर्धनपतिः शान्तो गोवर्धनविहारकः । गोवर्धनो गीतगतिर्गवाक्षो गोवृक्षेक्षणः ॥ २५॥ गभस्तिनेमिर्गीतात्मा गीतगम्यो गतिप्रदः । गवामयो यज्ञनेमिर्यज्ञाङ्गो यज्ञरूपधृक् ॥ २६॥ यज्ञप्रियो यज्ञहर्ता यज्ञगम्यो यजुर्गतिः । यज्ञाङ्गो यज्ञगम्यश्च यज्ञप्राप्यो विमत्सरः ॥ २७॥ यज्ञान्तकृत् यज्ञगुणो यज्ञातीतो यजुःप्रियः । मनुर्मन्वादिरूपी च मन्वन्तरविहारकः ॥ २८॥ मनुप्रियो मनोर्वंशधारी माधवमापतिः । मायाप्रियो महामायो मायातीतो मयान्तकः ॥ २९॥ मायाभिगामी मायाख्यो महामायावरप्रदः । महामायाप्रदो मायानन्दो मायेश्वरः कविः ॥ ३०॥ करणं कारणं कर्ता कार्यं कर्म क्रिया मतिः । कार्यातीतो गवां नाथो जगन्नाथो गुणाकरः ॥ ३१॥ विश्वरूपो विरूपाख्यो विद्यानन्दो वसुप्रदः । वासुदेवो विशिष्टेशो वाणीशो वाक्यतिर्महः ॥ ३२॥ वासुदेवो वसुश्रेष्ठो देवकीनन्दनोऽरिहा वसुपाता वसुपतिर्वसुधापरिपालकः ॥ ३३॥ कंसारिः कंसहन्ता च कंसाराध्यो गतिर्गवाम् । गोविन्दो गोमतां पालो गोपनारीजनाधिपः ॥ ३४॥ गोपीरतो रुरुनखधारी हारी जगद्गुरुः । जानुजङ्घान्तरालश्च पीताम्बरधरो हरिः ॥ ३५॥ हैयङ्गवीनसम्भोक्ता पायसाशो गवां गुरुः । ब्रह्मण्यो ब्रह्यणाऽऽराध्योनित्यं गोविप्रपालकः ॥ ३६॥ भक्तप्रियो भक्तलभ्यो भक्त्यातीतो भुवां गतिः । भूलोकपाता हर्ता च भूगोलपरिचिन्तकः ॥ ३७॥ नित्यं भूलोकवासी च जनलोकनिवासकः । तपोलोकनिवासी च वैकुण्ठो विष्टसस्रवाः ॥ ३८॥ विकुण्ठवासी वैकुण्ठवासी हासी रसप्रदः । रसिकागोपिकानन्ददायको बालघृग्वपुः ॥ ३९॥ यशस्वी यमुनातीरपुलिनेऽतीवमोहनः । वस्त्रहर्ता गोपिकानां मनोहारी वरप्रदः ॥ ४०॥ दधिभक्षो दयाधारो दाता पाता हृताहृतः । मण्डपो मण्डलाधीशो राजराजेश्वरो विभुः ॥ ४१॥ विश्वधृक् विश्वभुक् विश्वपालको विश्वमोहनः । विद्वत्प्रियो वीतहव्यो हव्यगव्यकृताशनः ॥ ४२॥ कव्यभुक् पितृवर्ती च काव्यात्मा कव्यभोजनः । रामो विरामो रतिदो रतिभर्ता रतिप्रियः ॥ ४३॥ प्रद्युम्नोऽक्रूरदम्यश्च क्रूरात्मा कूरमर्दनः । कृपालुश्च दयालुश्च शयालुः सरितां पतिः ॥ ४४॥ नदीनदविधाता च नदीनदाविहारकः । सिन्धुः सिन्धुप्रियोदान्तः शान्तः कान्तः कलानिधिः ॥ ४५॥ संन्यासकृत्सतां भर्ता साधूच्छिष्टकृताशनः । साधुप्रियः साधुगम्यो साध्वाचारनिषेवकः ॥ ४६॥ जन्मकर्मफलत्यागी योगी भोगी मृगीपतिः । मार्गातीतो योगमार्गो मार्गमाणो महोरविः ॥ ४७॥ रविलोचनो रवेरङ्गभागी द्वादशरूपधृक् । गोपालो बालगोपालोबालकानन्ददायकः ॥ ४८॥ बालकानां पतिः श्रीशो विरतिः सर्वपापिनाम् । श्रीलः श्रीमान् श्रीयुतश्च श्रीनिवासः श्रियः पतिः ॥ ४९॥ श्रीदः श्रीशः श्रियःकान्तो रमाकान्तो रमेश्वरः । श्रीकान्तो धरणीकान्त उमाकान्तप्रियः प्रभुः ॥ ५०॥ इष्टऽभिलाषी वरदो वेदगम्यो दुराशयः । दुःखहर्ता दुःखनाशो भवदुःखनिवारकः ॥ ५१॥ यथेच्छाचारनिरतो यथेच्छाचारसुरप्रियः । यथेच्छालाभसन्तुष्टो यथेच्छस्य मनोऽन्तरः ॥ ५२॥ नवीननीरदाभासो नीलाञ्जनचयप्रभः । नवदुर्दिनमेघाभो नवमेघच्छविः क्वचित् ॥ ५३॥ स्वर्णवर्णो न्यासधारो द्विभुजो बहुबाहुकः । किरीटधारी मुकुटी मूर्तिपञ्जरसुन्दरः ॥ ५४॥ मनोरथपथातीतकारको भक्तवत्सलः । कण्वान्नभोक्ता कपिलो कपिशो गरुडात्मक ॥ ५५॥ सुवर्णवर्णो हेमामः पूतनान्तक इत्यापिः । पूतनास्तनपाता च प्राणान्तकरणो रिपुः ॥ ५६॥ वत्सनाशो वत्सपालो वत्सेश्वरवसूत्तमः । हेमाभो हेमकण्ठश्च श्रीवत्सः श्रीमतां पतिः ॥ ५७॥ सनन्दनपथाराध्यो पातुर्धातुमतां पतिः । सनत्कुमारयोगात्मा सनेकश्वररूपधृक् ॥ ५८॥ सनातनपदो दाता नित्यं चैव सनातनः । भाण्डीरवनवासी च श्रीवृन्दावननायकः ॥ ५९॥ वृन्दावनेश्वरीपूज्यो वृन्दारण्यविहारकः । यमुनातीरगोधेनुपालको मेघमन्मथः ॥ ६०॥ कन्दर्पदर्पहरणो मनोनयननन्दनः । बालकेलिप्रियः कान्तो बालक्रीडापरिच्छदः ॥ ६१॥ बालानां रक्षको बालः क्रीडाकौतुककारकः । बाल्यरूपधरो धन्वी धानुष्की शूलधृक् विभुः ॥ ६२॥ अमृतांशोऽमृतवपुः पीयूषपरिपालकः । पीयूषपायी पौरव्यानन्दनो नन्दिवर्धनः ॥ ६३॥ श्रीदामांशुकपाता च श्रीदामपरिभूषणः । वृन्दारण्यप्रियः कृष्णः किशोर कान्तरूपधृक् ॥ ६४॥ कामराजः कलातीतो योगिनां परिचिन्तकः । वृषेश्वरः कृपापालो गायत्रीगतिवल्लभः ॥ ६५॥ निर्वाणदायको मोक्षदायी वेदविभागकः । वेदव्यासप्रियो वैद्यो वैद्यानन्दप्रियः शुभः ॥ ६६॥ शुकदेवो गयानाथो गयासुरगतिप्रदः । विष्णुर्जिष्णुर्गरिष्ठश्च स्थविष्टाश्च स्थवीयसाम् ॥ ६७॥ वरिष्ठश्च यविष्ठश्च भूयिष्ठश्च भुवः पतिः । दुर्गतेर्नाशको दुर्गपालको दुष्टनाशकः ॥ ६८॥ कालीयसर्पदमनो यमुनानिर्मलोदकः । यमुनापुलिने रम्ये निर्मले पावनोदके ॥ ६९॥ वसन्तुबालगोपालरूपधारी गिरां पतिः । वाग्दाता वाक्प्रदो वाणीनाथो ब्राह्मणरक्षकः ॥ ७०॥ ब्रह्मण्ये ब्रह्मकृद्ब्रह्म ब्रह्मकर्मप्रदायकः । व्रह्मण्यदेवो ब्रह्मण्यदायको ब्राह्मणप्रियः ॥ ७१॥ स्वस्तिप्रियोऽस्वस्थधरोऽस्वस्थनाशो धियां पतिः । क्वणन्नूपुरधृग्विश्वरूपी विश्वेश्वरः शिवः ॥ ७२॥ शिवात्मको बाल्यवपुः शिवात्मा शिवरूपधृक् । सदाशिवप्रियो देवः शिववन्द्यो जगत्शिवः ॥ ७३॥ गोमध्यवासी गोवासी गोपगोपीमनोऽन्तरः । धर्मो धर्मधुरीणश्च धर्मरूपो धराधरः ॥ ७४॥ स्वोपार्जितयशाः कीर्तिवर्धनो नन्दिरूपकः । देवहूतिज्ञानदाता योगसाङ्ख्यनिवर्तकः ॥ ७५॥ तृणावर्तप्राणहारी शकटासुरभञ्जनः । प्रलम्बहारी रिपुहा तथा धेनुकमर्दनः ॥ ७६॥ अरिष्टानाशनोऽचिन्त्यः केशिहा केशिनाशनः । कङ्कहा कंसहा कंसनाशनो रिपुनाशनः ॥ ७७॥ यमुनाजलकल्लोलदर्शी हर्षी प्रियंवदः । स्वच्छन्दहारी यमुनाजलहारी सुरप्रियः ॥ ७८॥ लीलाधृतवपुः केलिकारको धरणीधरः । गोप्ता गरिष्ठो गदिदो गतिकारी गयेश्वरः ॥ ७९॥ शोभाप्रियः शुभकरो विपुलश्रीप्रतापनः । केशिदैत्यहरो दात्री दाता धर्मार्थसाधन ॥ ८०॥ त्रिसामा त्रिक्कृत्सामः सर्वात्मा सर्वदीपनः । सर्वज्ञः सुगतो बुद्धो बौद्धरूपी जनार्दनः ॥ ८१॥ दैत्यारिः पुण्डरीकाक्षः पद्मनाभोऽच्युतोऽसितः । पद्माक्षः पद्मजाकान्तो गरुडासनविग्रहः ॥ ८२॥ गारुत्मतधरो धेनुपालकः सुप्तविग्रहः । आर्तिहा पापहानेहा भूतिहा भूतिवर्धनः ॥ ८३॥ वाञ्छाकल्पद्रुमः साक्षान्मेधावी गरुडध्वजः । नीलश्वेतः सितः कृष्णो गौरः पीताम्बरच्छदः ॥ ८४॥ भक्तार्तिनाशनो गीर्णः शीर्णो जीर्णतनुच्छदः । बलिप्रियो बलिहरो बलिबन्धनतत्परः ॥ ८५॥ वामनो वामदेवश्च दैत्यारिः कञ्जलोचनः । उदीर्णः सर्वतो गोप्ता योगगम्यः पुरातनः ॥ ८६ ॥ नारायणो नरवपुः कृष्णार्जुनवपुर्धरः । त्रिनाभिस्त्रिवृतां सेव्यो युगातीतो युगात्मकः ॥ ८७॥ हंसो हंसी हंसवपुर्हंसरूपी कृपामयः । हरात्मको हरवपुर्हरभावनतत्परः ॥ ८८॥ धर्मरागो यमवपुस्त्रिपुरान्तकविग्रहः । युधिष्ठिरप्रियो राज्यदाता राजेन्द्रविग्रहः ॥ ८९॥ इन्द्रयज्ञहरो गोवर्धनधारी गिरां पतिः । यज्ञभुग्यज्ञकारी च हितकारी हितान्तकः ॥ ९०॥ अक्रूरवन्द्यो विश्वध्रुगश्वहारी हयास्यकः । हयग्रीवः स्मितमुखो गोपीकान्तोऽरुणध्वधः ॥ ९१॥ निरस्तसाम्यातिशयः सर्वात्मा सर्वमण्डनः । गोपीप्रीतिकरो गोपीमनोहारी हरिर्हरिः ॥ ९२॥ लक्ष्मणो भरतो रामः शत्रुघ्नो नीलरूपकः । हनूमज्ज्ञानदाता च जानकीवल्लभो गिरिः ॥ ९३॥ गिरिरूपो गिरिमखो गिरियज्ञप्रवर्त्तकः ॥ ९४॥ भवाब्धिपोतः शुभकृच्छ्रुभभुक् शुभवर्धनः । वारारोही हरिमुखो मण्डूकगतिलालसः ॥ ९५॥ नेत्रवद्धक्रियो गोपबालको बालको गुणः । गुणार्णवप्रियो भूतनाथो भूतात्मकश्च सः ॥ ९६॥ इन्द्रजिद्भयदाता च यजुषां परिरप्पतिः । गीर्वाणवन्द्यो गीर्वाणगतिरिष्टोगुरुर्गतिः ॥ ९७॥ चतुर्मुखस्तुतिमुखो ब्रह्मनारदसेवितः । उमाकान्तधियाऽऽराध्यो गणनागुणसीमकः ॥ ९८॥ सीमान्तमार्गो गणिकागणमण्डलसेवितः । गोपीदृक्पद्ममधुपो गोपीदृङ्मण्डलेश्वरः ॥ ९९॥ गोप्यालिङ्गनकृद्गोपीहृदयानन्दकारकः । मयूरपिच्छशिखरः कङ्कणाङ्कदभूषणः ॥ १००॥ स्वर्णचम्पकसन्दोलः स्वर्णनूपुरभूषणः । स्वर्णताटङ्ककर्णश्च स्वर्णचम्पकभूषितः ॥ १०१॥ चूडाग्रार्पितरत्नेन्द्रसारः स्वर्णाम्बरच्छदः । आजानुबाहुः सुमुखो जगज्जननतत्परः ॥ १०२॥ बालक्रीडाऽतिचपलो भाण्डीरवननन्दनः । महाशालः श्रुतिमुखो गङ्गाचरणसेवनः ॥ १०३॥ गङ्गाम्बुपादः करजाकरतोयाजलेश्वरः । गण्डकीतीरसम्भूतो गण्डकीजलमर्दनः ॥ १०४॥ शालग्रामः शालरूपी शशिभूषणभूषणः । शशिपादः शशिनखो वरार्हो युवतीप्रियः ॥ १०५॥ प्रेमपदः प्रेमलभ्यो भक्त्यातीतो भवप्रदः । अनन्तशायी शवकृच्छयनो योगिनीश्वरः ॥ १०६॥ पूतनाशकुनिप्राणहारको भवपालकः । सर्वलक्षणलक्षण्यो लक्ष्मीमान् लक्ष्मणाग्रजः ॥ १०७॥ सर्वान्तकृत्सर्वगुह्य सर्वातीतोऽऽसुरान्तकः । प्रातराशनसम्पूर्णो धरणीरेणुगुण्ठितः ॥ १०८॥ इज्यो महेज्य सर्वेज्य इज्यरूपीज्यभोजनः । ब्रह्मार्पणपरो नित्यं ब्रह्माग्निप्रीतिलालसः ॥ १०९॥ मदनो मदनाराध्यो मनोमथनरूपकः । नीलाञ्चिताकुञ्चितको बालवृन्दविभूषितः ॥ ११०॥ स्तोकक्रीडापरो नित्यं स्तोकभोजनतत्परः । ललिताविशखाश्यामलतावन्दिपादकः ॥ १११॥ श्रीमतीप्रियकारी च श्रीमत्या पादपूजितः । श्रीसंसेवितपादाब्जो वेणुवाद्यविशारदः ॥ ११२॥ श‍ृङ्गवेत्रकरो नित्यं श‍ृङ्गवाद्यप्रियः सदा । बलरामानुजः श्रीमान् गजेन्द्रस्तुतपादकः ॥ ११३॥ हलायधुः पीतवासा नीलाम्बरपरिच्छदः । गजेन्द्रवक्त्रो हेरम्बो ललनाकुलपालकः ॥ ११४॥ रासक्रीडाविनोदश्च गोपीनयनहारकः । बलप्रदो वीतभयो भक्तार्तिपरिनाशनः ॥ ११५॥ भक्तिप्रियो भक्तिदाता दामोदर इभस्पतिः । इन्द्रदर्पहरोऽनन्तो नित्यानन्दश्चिदात्मकः ॥ ११६॥ चैतन्यरूपश्चैतन्यश्चेतनागुणवर्जितः । अद्वैताचारनिपुणोऽद्वैतः परमनायकः ॥ ११७॥ शिवभक्तिप्रदो भक्तो भक्तानामन्तराशयः । विद्वत्तमो दुर्गतिहा पुण्यात्मा पुण्यपालकः ॥ ११८॥ ज्येष्ठः श्रेष्ठः कनिष्ठश्च निष्ठोऽतिष्ठ उमापतिः । सुरेन्द्रवन्द्यचरणो गोत्रहा गोत्रवर्जितः ॥ ११९॥ नारायणप्रियो नारशायी नारदसेवितः । गोपालबालसंसेव्यः सदानिर्मलमानसः ॥ १२०॥ मनुमन्त्रो मन्त्रपतिर्धाता धामविवर्जितः । धराप्रदो धृतिगुणो योगीन्द्र कल्पपादपः ॥ १२१॥ अचिन्त्यातिशयानन्दरूपी पाण्डवपूजितः । शिशुपालप्राणहारी दन्तवक्रनिसूदनः ॥ १२२॥ अनादिशादिपुरुषो गोत्री गात्रविवर्जितः । सर्वापत्तारकोदुर्गो दृष्टदैत्यकुलान्तकः ॥ १२३॥ निरन्तरः शुचिमुखो निकुम्भकुलदीपनः । भानुर्हनूर्द्धनुः स्थाणुः कृशानुः कृतनुर्धनुः ॥ १२४॥ अनुर्जन्मादिरहितो जातिगोत्रविवर्जितः । दावानलनिहन्ता च दनुजारिर्बकापहा ॥ १२५॥ प्रह्लादभक्तो भक्तेष्टदाता दानवगोत्रहा । सुरभिर्दुग्धयो दुग्धहारी शौरिः शुचां हरिः ॥ १२६॥ यथेष्टदोऽतिसुलभः सर्वज्ञः सर्वतोमुखः । दैत्यारिः कैटभारिश्च कंसारिः सर्वतापनः ॥ १२७॥ द्विभुजः षड्भुजो ह्यन्तर्भुजो मातलिसारथिः । शेषः शेषाधिनाथश्च शेषी शेशान्तविग्रहः ॥ १२८॥ केतुर्धरित्रीचारित्रश्चतुर्मूर्तिश्चतुर्गतिः । चतुर्धा चतुरात्मा च चतुर्वर्गप्रदायकः ॥ १२९॥ कन्दर्पदर्पहारी च नित्यः सर्वाङ्गसुन्दरः । शचीपतिपतिर्नेता दाता मोक्षगुरुर्द्विजः ॥ १३०॥ हृतस्वनाथोऽनाथस्य नाथः श्रीगरुडासनः । श्रीधरः श्रीकरः श्रेयः पतिर्गतिरपां पतिः ॥ १३१॥ अशेषवन्द्यो गीतात्मा गीतागानपरायणः । गायत्रीधामशुभदो वेलामोदपरायणः ॥ १३२॥ धनाधिपः कुलपतिर्वसुदेवात्मजोऽरिहा । अजैकपात् सहस्राक्षो नित्यात्मा नित्यविग्रहः ॥ १३३॥ नित्यः सर्वगतः स्थाणुरजोऽग्निर्गिरिनायकः । गोनायकः शोकहन्ताः कामारिः कामदीपनः ॥ १३४॥ विजितात्मा विधेयात्मा सोमात्मा सोमविग्रहः । ग्रहरूपी ग्रहाध्यक्षो ग्रहमर्दनकारकः ॥ १३५॥ वैखानसः पुण्यजनो जगदादिर्जगत्पतिः । नीलेन्दीवरभो नीलवपुः कामाङ्गनाशनः ॥ १३६॥ कामवीजान्वितः स्थूलः कृशः कृशतनुर्निजः । नैगमेयोऽग्निपुत्रश्च षाण्मातुरः उमापतिः ॥ १३७॥ मण्डूकवेशाध्यक्षश्च तथा नकुलनाशनः । सिंहो हरीन्द्रः केशीन्द्रहन्ता तापनिवारणः ॥ १३८॥ गिरीन्द्रजापादसेव्यः सदा निर्मलमानसः । सदाशिवप्रियो देवः शिवः सर्व उमापतिः ॥ १३९॥ शिवभक्तो गिरामादिः शिवाराध्यो जगद्गुरूः । शिवप्रियो नीलकण्ठः शितिकण्ठः उषापतिः ॥ १४०॥ प्रद्युम्नपुत्रो निशठः शठः शठधनापहा । धूपाप्रियो धूपदाता गुग्गुल्वगुरुधूपितः ॥ १४१॥ नीलाम्बरः पीतवासा रक्तश्वेतपरिच्छदः । निशापतिर्दिवानाथो देवब्राह्मणपालकः ॥ १४२॥ उमाप्रियो योगिमनोहारी हारविभूषितः । खगेन्द्रवन्द्यपादाब्जः सेवातपपराङ्मुखः ॥ १४३॥ परार्थदोऽपरपतिः परात्परतरो गुरुः । सेवाप्रियो निर्गुणश्च सगुणः श्रुतिसुन्दरः ॥ १४४॥ देवाधिदेवो देवेशो देवपूज्यो दिवापतिः । दिवः पतिर्वृहद्भानुः सेवितेप्सितदायकः ॥ १४५॥ गोतमाश्रमवासी च गोतमश्रीनिषेवितः । रक्ताम्बरधरो दिव्यो देवीपादाब्जपूजितः ॥ १४६॥ सेवितार्थप्रदाता च सेवासेव्यगिरीन्द्रजः । धातुर्मनोविहारी च विधीता धातुरुत्तमः ॥ १४७॥ अज्ञानहन्ता ज्ञानेन्द्रवन्द्यो वन्द्यधनाधिपः । अपां पतिर्जलनिधिर्धरापतिरशेषकः ॥ १४८॥ देवेन्द्रवन्द्यो लोकात्मा त्रिलोकात्मा त्रिलोकपात् । गोपालदायको गन्धद्रदो गुह्यकसेवितः ॥ १४९॥ निर्गुणः पुरुषातीतः प्रकृतेः पर उज्ज्वलः । कार्तिकेयोऽमृताहर्ता नागारिर्नागहारकः ॥ १५०॥ नागेन्द्रशायी धरणीपतिरादित्यरूपकः । यशस्वी विगताशी च कुरुक्षेत्राधिपः शशी ॥ १५१॥ शशकारि शुभचारो गीर्वाणगणसेवितः । गतिप्रदो नरसखः शीतलात्मा यशः पतिः ॥ १५२॥ विजितारिर्गणाध्यक्षो योगात्मा योगपालकः । देवेन्द्रसेव्यो देवन्द्रपापहारी यशोधनः ॥ १५३॥ अकिञ्चनधनः श्रीमानमेयात्मा महाद्रिधृक् । महाप्रलयकारी च शचीसुतजयप्रदः ॥ १५४॥ जनेश्वरः सर्वविधिरूपी ब्राह्मणपालकः । सिंहासननिवासी च चेतनारहितः शिवः ॥ १५५॥ शिवप्रदो दक्षयज्ञहन्ता भृगुनिवारकः । वीरभद्रभयावर्तः कालः परमनिर्व्रणः ॥ १५६॥ उदूखलनिबद्धश्च शोकात्मा शोकनाशनः । आत्मयोनिष स्वयञ्जातो वैखानः पापहारकः ॥ १५७॥ कीर्तिप्रदः कीर्तिदाता गजेन्द्रभुजपूजितः । सर्वान्तरात्मा सर्वात्मा मोक्षरूपी निरायुधः ॥ १५८॥ उद्धवज्ञानदाता च यमलार्जुनभञ्जनः । फलश्रुतिः । इत्येतत्कथितं देवी सहस्रं नाम चोत्तमम् ॥ १५९॥ आदिदेवस्य वै विष्णोर्बालकत्वमुपेयुषः । यः पठेत् पाठयेद्वापि श्रुणयात् श्रावयीत वा ॥ १६०॥ किं फलं लभते देवि वक्तुं नास्ति मम प्रिये । शक्तिर्गोपालनाम्जश्च सहस्रस्य महेश्वरि ॥ १६१॥ ब्रह्महत्यादिकानीह पापानि च महान्ति च । विलयं यान्ति देवेशि ! गोपालस्य प्रसादतः ॥ १६२॥ द्वादश्यां पौर्णमास्यां वा सप्तम्यां रविवासरे । पक्षद्वये च सम्प्राप्य हरिवासनमेव वा ॥ १६३॥ यः पठेच्छृणुयाद्वापि न जनुस्तस्य विद्यते । सत्यं सत्यं महेशानि सत्यं सत्यं न संशयः ॥ १६४॥ एकादश्यां शुचिर्भूत्वा सेव्या भक्तिर्हरेः शुभाः । श्रुत्वा नाम सहस्राणि नरो मुच्येत पातकात् ॥ १६५॥ न शठाय प्रदातव्यं न धर्मध्वजिने पुनः । निन्दकाय च विप्राणां देवानां वैष्णवस्य च ॥ १६६॥ गुरुभक्तिविहीनाय शिवद्वेषरताय च । राधादुर्गाभेदमतौ सत्यं सत्यं न संशयः ॥ १६७॥ यदि निन्देन्महेशानि गुरुहा भवेद्ध्रुवम् । वैष्णवेषु च शान्तेषु नित्यं वैराग्यरागिषु ॥ १६८॥ ब्राह्मणाय विशुद्धाय सन्ध्यार्चनरताय च । अद्वैताचारनिरते शिवभक्तिरताय च ॥ १६९॥ गुरुवाक्यरतायैव नित्यं देयं महेश्वरि । गोपितं सर्वतन्त्रेषु तव स्नेहात्प्रकीर्तितम् ॥ १७०॥ नातः परतरं स्तोत्रं नातः परतरो मनुः । नातः परतरो देवो युगेष्वपि चतुर्ष्वपि ॥ १७१॥ हरिभक्तेः परा नास्ति मोक्षश्रेणी नगेन्द्रजे । वैष्णवेभ्यः परं नास्ति प्राणेभ्योऽपि प्रिया मम ॥ १७२॥ वैष्णवेषु च सङ्गो मे सदा भवतु सुन्दरि ! । यस्य वंशे क्वचिद्देवात्वैष्णवो रागवर्जितः ॥ १७३॥ भवेत्तद्वंशके ये ये पूर्वे स्यः पितरस्तथा । भवन्ति निर्मलास्ते हि यान्ति निर्वाणतां हरेः ॥ १७४॥ बहुना किमिहोक्तेन वैष्णवानान्तु दर्शनात् । निर्मलाः पापरहिताः पापिनः स्युर्न संशयः ॥ १७५॥ कलौ बालेश्वरो देवः कलौ गङ्गेव केवला । कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ॥ १७६॥ ॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे चतुर्थरात्रे गोपालसहस्रनामस्तोत्रमष्टमोऽध्यायः ॥ Proofread by DPD, NA
% Text title            : gopAlasahasranAmastotram 2
% File name             : gopAlasahasranAmastotra2.itx
% itxtitle              : gopAlasahasranAmastotram 2 athavA bAlakRiShNasahasranAmastotram (nAradapancharAtrAntargatam)
% engtitle              : gopAlasahasranAmastotram 2
% Category              : sahasranAma, vishhnu, krishna, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD, help from Alex
% Proofread by          : DPD, NA
% Description-comments  : jnAnAmRitasAre chaturtharAtre aShTamo.adhyAyaH
% Indexextra            : (Naradapancharatra)
% Latest update         : February 19. 2015, July 3, 2016
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org