गोपालशतकम्

गोपालशतकम्

श्रीशश्रीपृतनाधिपाननुकलं सेवे शठारिं भजे नाथाब्जाम्बकरामयामुनमहापूर्णानजस्रं भजे । सम्यग् देशिकपङ्क्तिहारतरलं रामानुजं संश्रये यत्कारुण्यसुखाप्तसर्वधिषणैरार्यैरहं वीक्षितः ॥ १॥ खिद्यद्गोवेषभूमिव्यसनपरिहृतिप्राप्तलोकेशशम्भु- स्वर्गस्वाम्यादिदेवप्रणतिनुतिततिप्राप्तवाग्वृत्तिरीशः । देवः क्षीराब्धिशायी जगदवनपरः स्वीयमञ्चेन साकं देवक्याः पुत्रतां यः समभजदवनेर्भारहान्यै भजे तम् ॥ २॥ अष्टम्यां कृष्णपक्षे नभसि बुधदिने प्रोद्यमाने शशाङ्के प्राजापत्ये शुभर्क्षे वृषभमुपगते देवकीजातमीशम् । कृष्णं वन्दे स्वभूषोपलतरणिहतध्वान्तभास्वद्गृहान्त- र्देदीप्यच्छङ्खचक्रोज्ज्वलितशुभतनुं स्तूयमानं पितृभ्याम् ॥ ३॥ मायामूर्च्छितकंसभृत्यनिवहे तस्मिन् निकेते हरिं निर्मुक्ते निगले पितुर्विगलिते स्थूले कवाटे व्रजे (कवाटं) । पित्रा शेषफणावृतस्वशिरसा सन्नीयमानं भजे मेघे वर्षति जानुदघ्नयमुनापूर्णप्रवाहे पथि ॥ ४॥ मूर्च्छाक्रान्तयशोदया विगलितेऽज्ञाते शिशौ स्वोदराद्- देवक्याः कमनेन चात्मजहरिं निक्षिप्य नीते शिशुम् । कंसेनापि शिलातले सुवनितारूपे हते स्वर्गते मेने सापि यमात्मजं चिदचितोरीशं तमद्याश्रये ॥ ५॥ जातो नन्दस्य पुत्रः सुकमलनयनश्चारुनासः सुवक्त्रो देवोऽयं नैव मर्त्यो न हि भवति तनुस्त्वीदृशी मानुषाणाम् । सौन्दर्यं सौकुमार्यं किमिदमवयवास्त्वद्भुताः सर्व एवे- त्येवं तोषेण सर्वा व्रजगतवनिता अस्तुवन् यं तमीडे ॥ ६॥ स्नेहाज्यैर्नवनीतपिण्डसहितैर्दघ्ना हरिद्रोदकै- स्ते सर्वे समवाकिरन् ब्रजजनास्तोषेण यज्जन्मनि । देवा अप्यतितोषमापुरपतत् स्वर्गात् सुमानां तति- र्नेदुर्दुन्दुभयो जगर्जुरुदधेर्वारीणि तं धीमहि ॥ ७॥ ज्ञात्वा देवजनिं सुरर्षिवचनादेकान्तवासं हरेः कंसेन प्रहिते समस्तपृथुकध्वंसाय दैत्यव्रजे । बालघ्नी व्रजमागता विषमयं दत्त्वा स्तनं पूतना स्तन्यस्वीकरणात् सहासुभिरगाद् द्यां येन तं चिन्तये ॥ ८॥ गोप्यः पश्यत कोऽयमत्र शकटः क्षिप्तः प्रभनोऽपतत् पद्भ्यामस्य शिशोर्ध्रुवं विनिहतः पद्मोपमाभ्यां बत । हन्तुं दानव आगतो गिरिसमो येनाद्य शेते मृतः सोऽयं विष्णुरिति ध्रुवं व्रजजना यं मेनिरे तं भजे ॥ ९॥ वात्यावेषधरो भ्रमन् बहु तृणान्यावर्तयन् दानवः पांसूद्वर्षविमूर्च्छितान् व्रजजनान् कृत्वा गृहीत्वा च यम् । हन्तुं व्योम्नि समुत्पतन् निजगलाश्लिष्टं हरिं शाबकं भाराद् भुव्यपतद् व्यसुस्तदुरसि क्रीडारतं तं भजे ॥ १०॥ कृष्णास्यं दर्शयाशु ध्रुवमपरिमिता मृत्तिका भक्षिताद्ये- त्युक्त्वास्ये यस्य माता सकलजनपदद्वीपसिन्धून् व्रजं च । आत्मानं सप्तलोकानमरनरपशुस्थावराद्र्यादियुक्तान् दृष्ट्वा मत्वा च विष्णुं निजतनयमहो यं ननामाश्रये तम् ॥ ११॥ आत्मारामोऽपि देवः श्रुतिमकुटरमासूरिसेव्योऽपि मातु- र्यः स्तन्यालाभरुष्टो निखिलदघिपयोभाण्डभङ्गं चकार । मुष्णन् हैयङ्गवीनं प्रतिगृहमखिलान् मोहयन् रूपचेष्टा- वाक्यैर्मार्जारकीशैः सममचरदहो यस्तदीशः श्रये तम् ॥ १२॥ आरुह्योलूखलाग्रं बहुघटनिबिडं शिक्यमाकृष्य तत्स्थे कुम्भे हस्तं स्वकीयं बहुचलनयनो यावदन्तर्निवेश्य । भुक्त्वा हैयङ्गवीनं करयुगलततं तन्मृजन् स्वीयदेहे बद्धो मात्रा गुणैर्यः स्वयमतिकृपयोलूखले तं भजेऽहम् ॥ १३॥ मात्रा यस्मिन् निबद्धस्तदपि गुरुतरं जानुहस्तेन गच्छ- न्नाकर्षन् मत्ततोत्थामरमुनिशपनोद्वेगलब्धार्जुनत्वौ । भृत्यौ यक्षाधिपस्य स्वयमतिघृणया मोचयन् वृक्षभावाद् यस्तेनोलूखलेन श्रुतिगणविनुतं तं श्रये बालकृष्णम् ॥ १४॥ गोवत्सान् वत्सपालान् वनभुवि विधिना वञ्चितान् वीक्ष्य देवो वत्सान् बालांश्च सृष्ट्वा सुसदृशगमनाकारवर्णस्वराङ्गान् । संयोज्य स्वस्वमार्गं निशि निशि विपिनाद् वत्सरान्ते स्वशक्त्या यः सर्वान् ब्रह्मरूपान् पुनरपि विधयेऽदर्शयत् तं भजेऽहम् ॥ १५॥ कृष्णैहि स्तनमद्य बाल पिब ते तातः सुमृष्टोदनं भोक्तुं त्वां प्रतिवीक्षते दश दिशो दास्यामि तुभ्यं फलम् । जन्मर्क्षं तव गाः प्रदेहि सुभगाः स्नातः शुभालङ्कृतो भुङ्क्ष्वेत्येव यशोदया सुतधिया यः प्रार्थितस्तं भजे ॥ १६॥ उग्राभाषणदृष्टितर्जनकशाघातादिकृत्याक्षमा तत्तच्चेष्टितदुःखितव्रजवधूदुर्वाक्यसर्वंसहा क्रीडातत्परसाहसप्रियसुतव्यापारसङ्क्षोभिता । माता व्यस्मरदात्मकार्यमखिलं यच्चिन्तया तं भजे ॥ १७॥ गेहालेपनमार्जनावहननस्नानेषु गोदोहन- क्षीराधिश्रयणादिकर्मसु सदा गोप्योऽपि नित्या इव । यस्यासेचनकं वपुर्बहुविधा दिव्याश्च चेष्टा गिरः संस्मृत्यैव जगुः कलं परवशास्तस्मै नमो ब्रह्मणे ॥ १८॥ गोपालैः सहितो विहृत्य विपिने सायं निवृत्तो हरि- र्मध्येमार्गमघासुरं ह्यजगरं वक्त्रं विवृत्य स्थितम् । श्रुत्वा तस्य मुखे निविश्य सजनो गोभिर्मुखे संवृते स्वीयं वर्ष्म विवर्धयन्नजगरं चिच्छेद यस्तं भजे ॥ १९॥ अत्यन्ताद्भुतसुन्दरोज्ज्वलशुभं यद्वर्ष्म लक्ष्मीप्रियं धूलीधूसरितेन तेन वपुषा नीलोत्पलश्रीमुपा । योऽक्रीडत् स्वसमैरनेकपशुपैर्गायञ्छतैः प्राणिनां तत्तज्जात्यनुरूपशब्दरचनाः कुर्वन् तमेवाश्रये ॥ २०॥ वत्सानां चरतां तृणानि विपिने मध्ये सुवत्साकृतिं प्राप्तं दानवमीश्वरो नरवपुर्ज्ञात्वा स्वनाशोत्सुकम् । तेनैव स्वगृहीत पश्चिमपदोत्क्षिप्तेन नष्टामुना दैत्यं योऽप्यहनत् (?) कपित्थवपुषं तस्मै नमोऽस्त्वन्वहम् ॥ २१॥ ज्ञात्वा श्रीदामवाक्यात् खरतनुदितिजारक्षितं तालजातं गोपालैस्तत्र गत्वा भुजचलिततरूत्पन्नशब्दागतेन । रामोत्क्षिप्तेन तेनोद्धृतचरमपदा धेनुकेनाहतानां यस्तालानां फलैः स्वान् हततदनुबलोऽमोदयत् सोऽवतान्नः ॥ २२॥ देवो मायामनुष्यो वनभुवि विहरन् गोपचालैर्बकेन ग्रस्तोऽन्तर्दाहदुःखाद् गिरिसमतनुना छर्दितो दानवेन । भूयो ग्रासप्रवृत्तं तमहनदथ(?) यस्तं प्रपद्ये शरण्यं तद्धंसात्यन्ततुष्टामरकृतसुमनोवृष्टिवाद्याभिरामम् ॥ २३॥ कालिन्दीतीर्थपानव्यसुपशुमनुजान् वीक्षणाज्जीवयित्वा नीपात् तस्यां निपत्य प्रकुपितभुजगेनावृतः कालियेन । उत्पातायातमातापितृमुखमनुजोद्वेगशान्त्यै भजे तं मूर्ध्नो भञ्जन्नहिस्त्रीस्तवनभजनतः कालियं यो मुमोच ॥ २४॥ नीत्वा कालियमीश्वरो रमणकं द्वीपं सुहृद्वन्धुभिः सौपर्णं बलिभञ्जनोत्थमधिकं द्वेषं निरस्य स्वयम् । (बलिभक्षणोत्थ) नद्या रोधसि यः स्वपन् व्रजजनैः सर्वैर्निशीथे ततं दावाग्निं ह्यपिबद् रुदत्स्वजनतातोषाय तं चिन्तये ॥ २५॥ देवे तिष्ठति मुक्तिदे त्वयि सदा भक्तप्रिये श्रीसखे नान्यं चिन्तयते मनः श‍ृणु वचो येन व्रजेऽत्यादरात् । (चिन्तयमे) सर्वाभीष्टफलप्रदेन शिशुना दत्ते फले भाजनात् कस्याश्चित् फलभाजनं सुरुचिरै रत्नैरपूरि स्वयम् ॥ २६॥ कृष्णो जेतॄन् वहद्भिः परिबृढबलसङ्घट्टिगोपान् स्वकीयैः साकं श्रीदामवाहस्ववहनचकितं गोपवेषं प्रलम्बम् । स्कन्धे रामं वहन्तं वियति निजवपुर्दर्शयन्तं सुभीमं दैत्यं योऽनाशयत् तं सुरमुनिविनुतं देवमीडेऽग्रजेन ॥ २७॥ मुञ्जारण्यं प्रविष्टे तृणचरणधिया गोसमूहे प्रणष्टे तत्तन्नामप्रघोषैर्गगनतलततैराह्वयन् गाः समस्ताः । गोपानामीलिताक्षान् वनदहनततान् वीक्ष्य पीत्वा दवाग्निं भाण्डीरं योऽनयद् गा अपि सकलफलप्रापकं संश्रये तम् ॥ २८॥ यस्मिन् गायति वेणुनातिमधुरं वृन्दावने योगिनो गोगोप्यो विहगा मृगाश्च शिखिनो नद्योऽद्रयो भूरुहाः । प्राप्ता देवगणा अमर्त्यवनिता विस्रस्तमाल्यम्बरा अत्रामुत्र च ये परे परवशाः सम्मूर्च्छितास्तं भजे ॥ २९॥ कालिन्दीमवगाह्य गोपवनिताः प्रातर्धनुष्यन्वहं पत्न्यो भूम हरेर्वयं भगवतो नन्दस्नुषा अम्बिके । कात्यायन्ययि देवि नो व्रतमिदं निर्वर्तयेत्यम्बिका- मानर्चुः सिकतामयीं सुमफलैर्यत्काङ्क्षया तं भजे ॥ ३०॥ गोप्यः क्रीडापरा या उदकमुपगता यामुनं फुल्लपद्मं तासामादाय वासांस्यतिजवसहितः कुन्दमारुह्य वृक्षम् । ताभिः सङ्गूह्य शीघ्रं कुचयुगजघनं हस्तसक्नातिकामी वासो यो याच्यमानः करयुगविनतिं याचते तं भजेऽहम् ॥ ३१॥ कृत्वा गोदण्डयष्टिं जगदवनपरस्वीयकक्षेऽपरस्मिन् कक्षे सन्धाय वेणुं शुभमृदुलतनौ दोहदामापि बद्ध्वा । भर्तृस्त्यक्त्वातिभक्त्यागतमुनिवनितादत्तमन्थोऽञ्जलौ यो ह्यात्मारामोऽपि बालैः सममचरदहो तं भजे वासुदेवम् ॥ ३२॥ यज्ञच्छेदप्रकुप्यत्सुरपतिवचनायातसंवर्तमेघ- व्याप्तिप्राप्तोग्रवाताशनिसहित शिलावर्षभीतासु गोपु । योऽङ्गुल्याबिभ्रदद्रिं व्रजमनुजपशुप्रीतये सप्तरात्रं तं वन्दे वासुदेवं विधिशिवविनुतं देवराजार्चिताङ्घ्रिम् ॥ ३३॥ गोपीर्वेणूत्थगानश्रुति विवशतनूरागताः प्रेक्ष्य ताभिः क्रीडित्वान्तर्हितो यो विरहगाढवशात् ताभिरन्वीक्ष्यमाणः । एकैकस्या अरण्ये वहनरतिसुखादानचिह्नेन तत्तत्- पादन्यासेन दूना असुखयदथ ता दर्शनात् तं भजेऽहम् ॥ ३४॥ कृष्णो विष्णुर्हि साक्षान्न यदि कथमसावुद्धरेत् पर्वतेन्द्रं ह्यास्ये स्युस्तस्य लोकाः कथमसुरगणान् नाशयेद्वा कथं सः । एवं सञ्चिन्तयद्भ्योऽकथयदथ पिता यं स्मरन् गर्गवाक्यं साक्षान्नारायणांशं जगदवनपरं तं श्रयेऽहं जनेभ्यः ॥ ३५॥ गोविन्देत्युच्चरन् यं सकलसुरगणैः साकमागत्य नत्वा सर्वाण्डानामधीशं त्रिजगदधिपतिं ह्यभ्यषिञ्चत् सुरेन्द्रः । नृत्यद्दिव्याप्सरोभिः सुरकृतसुमनोवृष्टिगानानतीभि- र्भैरीणां भाङ्कृतैरप्यखिलमुनिकृतैः स्तोत्रजालैः श्रये तम् ॥ ३६॥ आविश्याम्भो निशीथे पुनरपि सलिलान्नोत्थितः केन नन्दः सञ्चिन्त्यैवं प्रखिद्यद्व्रजमनुजमुदे पाशिलोकं प्रविश्य । सम्यक् सम्पूज्य दत्तं पितरमखिलदृक् पाशिना स्तोत्रपूर्वं ह्यादायागत्य तेन स्वजनमुदमदाद् यस्तमीशं प्रपद्ये ॥ ३७॥ गोपानां परमाद्भुतोज्ज्वलमहानन्दैकरूपं पदं मग्नानां वितमः परं करुणया ब्रह्मह्रदे तत्र च । तस्यामेव तनावहीन्द्रशयने स्वात्मानमप्यास्थितं देवीभूषणहेतिसूरिसहितं योऽदर्शयत् तं भजे ॥ ३८॥ गायन् वाचा प्रनृत्यंश्चरणयुगलतश्चालयन् वर्ष्म दोर्भ्यां हस्तौ गोप्योः प्रगृह्णन् हरिमुखसुमनोवृष्टिवाद्यादियुक्तः । रेमे गोपीं च गोपीं शुभमृदुलतनुर्योऽन्तरा गोपिकैवं यं यं कृष्णं च सर्वा हरिरवतु स मां मण्डले गोपिकानाम् ॥ ३९॥ नन्दं गोपजनैरनोगिरडुद्युक्तैरनेकर्वनं गत्वा तत्र महेश्वरं सगिरिजं सम्पूज्य रात्र्यां स्थितम् । ग्रस्तं कुण्डलिना ह्यमोचयदहेः स्पृष्ट्वा पदाहिं मुनेः (दष्टं) शापात् प्राप्तमहेरहित्वमपि यः पायादपायात् स नः ॥ ४०॥ कल्हारैः कुमुदैः सितैर्जलरुह्रैर्नीलोत्पलैः पङ्कजैः किर्मीरामुपविश्य सूर्यतनयां क्रीडापराभिः स्वयम् । योऽक्रीडद् रमणीभिरम्भसि जलोत्क्षेपोच्चलत्तत्कुच- स्पर्शश्लेषविलोकनापहसनश्लाघादिभिस्तं भजे ॥ ४१॥ गोष्ठं प्राप्य वृषासुरोऽतिमहता नादेन रुन्धन् नमः पुच्छाधूननजातवायुपतितैर्वृक्षैः क्षितिं छादयन् । क्ष्माभृद्विभ्रमसङ्गताम्बुदककुत्सन्दर्शनोद्वेजितै- र्गोपैर्न्यस्तभरेण येन हरिणा सम्पिण्डितस्तं भजे ॥ ४२॥ दैत्या येन निपातिता व्रजभुवि त्वद्भगिनेयो ह्यसौ (हि सौ) या पाषाणतले त्वयैव निहता सा नन्दगोपात्मजा । व्यत्यासो वसुदेवकल्पित इति श्रुत्वा मुनेर्नारदाद् यद्ध्वंसाय शशास केशिदितिजं कंसस्तमेवाश्रये ॥ ४३॥ पादाघात विनिर्गतक्षितिरजोमेघायमानाम्बरं हेषाध्वानविसान्ज्ञितव्रजजनं दैत्यं तुरङ्गाकृतिम् । यः स्वान्वेषणतत्परं गिरिसमं दृष्ट्वा हरिः केशिनं दष्टस्तेन मुहुस्तदीयवदनं चिच्छेद तं चिन्तये ॥ ४४॥ क्रीडद्भिर्मेषगोपैः कतिभिरपि परैर्मेषचोरैः समेतं तत्पालैश्चोरगोपं दितिभवमखिलान् मेषगोपान् क्रमेण । नीत्वा निक्षिप्य दर्यां मुखमपि दृषदाच्छाद्य तस्याः प्रगुर्व्या हत्वा यः सञ्जिहीर्षुं निहतमुखशिलोऽमोचयत् तान् स नोऽव्यात् ॥ ४५॥ कंसेन प्रहितः श्वफल्कतनयो गच्छन् रथेन स्वयं प्रेमार्द्रस्वदृशा हरिः किमधुना मामीक्षयेत् संस्पृशेत् । हस्ताब्जेन हरेः कदा पदयुगं पश्यन् वहन् पूजयन् स्तोष्यामीति विचिन्तयन् पथि हरिं प्राप्तोऽयमव्यात् स नः ॥ ४६॥ दोग्धा दोहनदामसंवृततनुः सम्यक् प्रसन्नो हरिः कंसेन प्रहिताय भक्तिनिधयेऽक्रूराय वृन्दावने । दत्त्वातिथ्यमशेषयादवकथाः श्रुत्वा सरामो रथं योऽक्रूरेण सहाधिरुह्य मथुरां क्षिप्रं ययौ तं भजे ॥ ४७॥ कंसप्रेषितगान्दिनीसुतवचोजातप्रयाणोन्मुखं श्रुत्वा शौरिमशेषगोपवनिता नन्दादिभिः साग्रजम् । यत्सौन्दर्यमनोज्ञवाक्प्रियतमव्यापारवीक्षास्मित- क्रीडादैत्यवधादिभिर्हृतहृदो मोहं गतास्तं भजे ॥ ४८॥ अक्रूरः सबलं मुकुन्दमनघः संस्थाप्य तस्मिन् रथे मध्येमार्गमथावरुह्य स रथात् स्नातुं प्रवृत्तो जले । दृष्टा शेषगतं तमेव सलिलादुत्तीर्य दृष्ट्वा रथे भूयोऽप्याशु जले निमज्ज्य भुजगे यं दृष्टवांस्तं भजे ॥ ४९॥ श्रुत्वा चित्रं चरित्रं सुरनरपशुभिर्मोहितैश्चिन्तितं त- च्छौरेः सौलभ्यपूर्णं व्रजभुवि परमं भाति यस्मिन् परत्वम् । तं द्रक्ष्यामः कदा नः प्रभुमिति मथुरापत्तनस्थाश्च सर्वे यत्सेवोत्का अश‍ृण्वन् सरथमुपगतं साग्रजं संश्रये तम् ॥ ५०॥ यं प्राप्तं गोपुरस्था ददृशुरथ परे हर्म्यवातायनस्थाः श्रुत्वा केचित् स्वगेहाद् बहुजननिबिडां प्राप्य रथ्यामपश्यन् । सेवाशातुन्दिलाङ्गा बहुजनपिहितं द्रष्टुमन्ये न शेकु- स्त्यक्तश्रीपक्षिराजं विधिशिवविनुतं संश्रये तं पदातिम् ॥ ५१॥ लक्ष्मीः पद्मसमुद्भवा मृदुशया यत्पादपुष्पार्चने- ऽप्युद्विग्ना मृदुपादपद्मयुगलग्लानिप्रभीत्याभवत् । ताभ्यामस्य गतिः कथं क्षितितले पद्भ्यां बतेति ध्रुवं सास्रा यद्गमनं न शेकुरमरा द्रष्टुं तमद्याश्रये ॥ ५२॥ त्यागार्हं न हि मे परत्वमिति तत् प्रच्छाद्य पीताम्बरः सौलभ्याद् रजकं कुमर्त्य इव यो वासो ययाचे स्वयम् । वेदान्तैरधुनाप्यमेयमहिमाकुपारविप्रुट्कणः सोऽव्यान्नः स्वनिकृत्तशीर्षरजकश्लाघ्याम्बरालङ्कृतः ॥ ५३॥ श्रीवैकुण्ठगतो विसृज्य भगवाञ्छ्रीभूमिनीलादिकान् मद्गेहान्तरमागतः सभुजगो मर्त्याकृतिः स्रक्कृते । धन्यः कोऽस्ति मदन्य एहि भगवन् सम्यक् करिष्येऽर्चना- मित्युक्त्वार्चयदाशु माल्यकृदपि प्रेम्णा यमव्यात् स नः ॥ ५४॥ कुब्जामप्यतिधोरवक्त्रविकृतामात्मार्हगन्धप्रदा- माक्रम्य प्रपदे पदा चुबुकमप्युत्कृष्य हस्ताग्रतः । सम्यक् शीघ्रमृजूकृतां शुभतनुं स्वापेक्षिणीं योऽवदत् पश्चात् त्वां मुदितां करिष्य इति तं स्वात्मैकतृप्तं श्रये ॥ ५५॥ नानोपायनवीटिकासुमफलैः सम्पूजितः साग्रजः पृच्छन् पौरजनान् धनुर्वरगृहं तत्र प्रविश्य स्वयम् । भङ्क्त्वा कंसधनुस्तदीयशकलेनाहत्य तद्रक्षिणः सायं यः पुटभेदनात् स्वशकटं प्रायात् तमद्याश्रये ॥ ५६॥ ज्योतिर्द्वित्वसुवर्णवृक्षविशिरश्छायादिसन्दर्शनात् तैलाभ्यङ्गविवस्त्रदक्षिणगतिस्त्रस्वप्नाश्च कंसो भयात् । मल्लायोधनसम्भ्रमेक्षणमिषेणारूढमञ्चो जनै- र्मञ्चस्थैः सह यं निहन्तुमकरोद् यत्नं श्रये तं हरिम् ॥ ५७॥ अम्बष्ठेरितमार्गरोधिकरिणा सम्यग् गृहीतश्च्युतः तत्पादान्तरगो बहिर्गततनुः पुच्छे गृहीत्वा द्विपम् । आकर्षन् भ्रमयन् भ्रमन्निपतितं चोत्कृष्टतद्दन्ततो हत्वा साग्रज आगतः प्रियजनैर्यो नन्दितस्तं श्रये ॥ ५८॥ कंसप्रेषितकूटतोशलमुखैर्मयैः समेतो हरिं (कोशल) वक्षोजानुमुखे प्रहृत्य हरिणा तत्रैव तेनाहतः । चाणूरः प्रहरन् पतन् विनिहतो येनोत्पतन् मुष्टिना रामेणातिबलेन मुष्टिक इव प्राणान् जहौ तं भजे ॥ ५९॥ मल्लध्वंसजिघांसितेन हरिणा व्याप्लुत्य मञ्चे ततः कंसं भूमितले निपात्य तरसा तस्मिन् निपत्य स्वयम् । मूलं दैत्यतरोः स येन निहतस्तं चिन्तयेऽहर्निशं हृष्टैर्नन्दमुखैस्तु तं मुनिगणैर्ब्रह्मादिभिः पूजितम् ॥ ६०॥ कंसध्वंसेन दत्त्वा मुदमपरिमितां वासुदेवः स्वपित्रो- र्बल्यानन्दाप्रदानाज्जनितमघमपि क्षामयित्वा सरामः । राजानं चोग्रसेनं विहतिविरहितं स्थापयित्वा प्रजानां स्वस्मिन्नीशत्वचिन्तामनुभवजनितां योऽहरत् तं भजामि ॥ ६१॥ नानादेशनिवासकर्शितसुहृत्स्वज्ञातिबन्धुप्रियान् कंसोपद्रवदुःखितान् पुरवरे संस्थाप्य तुष्टान् धनैः । नन्दं गोपजनैः सह प्रियवचोभूषाम्बराद्यादृतं प्रस्थाप्य व्रजमग्रजेन सह यस्तुष्टोऽभवत् तं भजे ॥ ६२॥ सम्प्राप्य द्विजसंस्कृतिं शुभगुणाद् गर्गात् सरामो हरि- र्वेदाधीतिकृते गुरुं शुभगुणं वृत्वा च सान्न्दीपनिम् । (सान्दीपिनिम्) लब्ध्वा षष्टिकला गुरोरथ चतुर्मिश्राश्च तावद्दिनै- र्दातुं तत्सुतमैच्छदम्बुधिमृतं यो दक्षिणां तं भजे ॥ ६३॥ पारावारे निमग्नो हृतगुरुतनयं दैत्यमन्तर्विचिन्वन् हत्वादृष्ट्वा सुतं तत्तनुगतममलं पाञ्चजन्यं गृहीत्वा । यात्वा लोकं यमस्य स्वयमतिमहितस्तेन सम्पूज्य दत्तं सङ्गृह्यादात् सुतं तं गुरव उरुदयो यस्तमीशं नमामि ॥ ६४॥ यत्संश्लेषसुखप्रदाः सुरुचिरा रात्रीः स्मरन्त्योऽनिशं यत्पादाम्बुजसङ्गिगोतरुलताद्यालोकनाद् दुःखिताः । यन्नेत्राद्यखिलाद्भुताङ्गधिषणाव्यत्यस्तकार्या व्रजे यत्सन्देशहरं विलोक्य सुदृशस्तोषं गतास्तं भजे ॥ ६५॥ नन्दादीन् कृष्णचिन्ताहृतनिखिलनिजव्यापृतीन् प्राप्त दुःखान् नानावाक्यैर्यदीयैर्गुणचरितमुखैः सान्त्वयन् त्यक्तदुःखान् । सम्यक् कृत्वा च नीत्वा व्रजभुवि सुमुखः पञ्चषांस्तत्र मासान् प्राप्तो यं कृष्णदासः कृतहरिवचनो ह्युद्धवस्तं प्रपद्ये ॥ ६६॥ सम्पूज्य स्वगृहागतं हरिमहो कुब्जा यमर्ध्यासन- स्रक्ताम्बूलमहार्हचन्दनमुखैराश्लिष्य शय्यागतम् । रेमे येन सुखप्रवाहविवशा सन्त्यक्तलक्ष्मीधरा- नीलाभोगचयेन तं मुनिगणैः सन्दृश्यमानं भजे ॥ ६७॥ लीलामर्त्यतनुर्निविश्य सदनेऽक्रूरस्य तेन स्तुतो मद्भाग्यातिशयाज्जगज्जनिलयस्थित्यादिलीलो हरिः । प्राप्तोऽत्रेति सुपूजितः प्रियतमं तं प्राहिणोद् योऽञ्जसा कौन्तेयादिविमर्शनार्थमधुना गच्छेति तस्मै नमः ॥ ६८॥ गत्वा हस्तिनपत्तनं सतनयां कुन्तीं मुहुः सान्त्वयन् पृच्छन्तीं बहुशः सहोदरमुखान् भ्रात्रेयमुख्यान् प्रियान् । पुत्राणामतिदुःसहान् परिभवानुक्त्वा रुदन्तीं मुहु- र्नीत्वानेकदिनानि यं शुभगुणोऽक्रूरो ययौ सोऽवतात् ॥ ६९॥ कंसध्वंसविरूपयोः स्वसुतयोर्वाक्याच्छ्वसन् मागधः संरुन्धन् मधुरामनीकनिवहैर्नानाविधै राजभिः । वैकुण्ठागतहेतिना बलयुजा सम्यग् गृहीत्वा मृधे (पुनः) मुक्तो येन ययौ हृताखिलघनः संलज्जितस्तं भजे ॥ ७०॥ यात्वा कृष्णपुरीं पुनर्विनीहतो बाणं गतो मागधो बाणप्रेषितकुञ्जराश्वरथयुक् सेनागणैः संवृतः । रुद्ध्वा पूर्ववदाशु यादवपुरीं यस्माद् गृहीत्वा शिखां रामेणाशु जिघांसितो हतबलो मुक्तो ययौ तं भजे ॥ ७१॥ गोमन्तं द्रष्टुकामः पथि मुनिममलं जामदग्निं सरामो दृष्ट्वा पृष्ट्वा च हत्वा गिरितटनगरे वासुदेवं सृगालम् । आरुह्याद्रिं च दृष्ट्वा फलसलिलसुमैर्वासयोग्यं निवृत्तः प्राप्तं प्राप्तं जघानाखिलबलसहितं मागधं यः स नोऽव्यात् ॥ ७२॥ सम्प्राप्ते यवने सुरर्षिवचनाद् रोद्धुं पुरीं यादवीं हर्यैर्हेममयैः सुरत्नभवनैः स्वर्गाधिको द्वारकाम् । त्वष्ट्रा वज्रमहोनिवारितनिशाबुद्धिं कृतामम्बुधौ दृष्ट्वावासयदात्मयोगविभवाद् यो यादवांस्तं भजे ॥ ७३॥ तस्यां यत्प्रतिपत्तिभक्तिभयतो देवाश्च सर्वेऽवसन् दिक्पाला निधयो विधिः सुरतरू रुद्राः सुधर्मादयः । सन्दृष्टो यवनेन निर्जनपुराद् भूषावृतो निर्गतो हन्तुं यत्नवता पलायनपरो योऽनुद्रुतस्तं भजे ॥ ७४॥ रक्षोविद्रुतदेवरक्षणभवच्छ्रान्तिप्रशान्त्यै वरं लब्ध्वा बोधकनाशमात्मनयनात् सञ्जातनिद्रं चिरात् । ऐक्ष्वाकं मुचुकुन्दमेत्य भगवान् दर्यां च तेनागतं पादाघातविबोधितेन यवनं योऽनाशयत् तं भजे ॥ ७५॥ कस्त्वं कुत्र च जन्म ते वद मम प्रेम्णेति पृष्टो हसन् भूभारोद्धरणाय मे यदुकुले त्राणाय साधोर्जनिः । त्वं मां यास्यसि भाविजन्मनि वरो भूत्वा द्विजः सम्यगि- त्येवं यो मुचुकुन्दमादिपुरुषोऽवादीत् स्तुतस्तं भजे ॥ ७६॥ हृत्वा तस्य धनं हते तु यवने गच्छन् पुरीं साग्रज- स्तत्कालागतमागधेन बलिना युध्यन् द्रवन् निर्जितः । तेनानुद्रुत आश्रितोऽद्रिशिखरं तस्मिंश्च दग्धे ततो भूमिं प्राप्य सुशीघ्रगः समगमद् यो द्वारकां तं भजे ॥ ७७॥ गत्वा कन्यकया विधिं वरकृते श्रुत्वा सुगीतिं ततो- ऽतीतान् पद्मजवाक्यतोऽतिमहतः कालांश्च रामं वरम् । आनर्ताधिपरेवतेन तनयां दत्तां प्रियां रेवतीं सीराकृष्टतनुं शुभामुदवहद् यस्याग्रजस्तं भजे ॥ ७८॥ लक्ष्मीशं लोकनाथं सुतनुमतनुभिः कोटिसङ्ख्यैरतुल्यं भर्तारं त्वां भजेयं न यदि मम तनुत्याग एव त्वयाहम् । हर्तव्या सम्प्रमथ्याखिलनृपतिगणानम्बिकार्थं व्रजन्ती- त्येवं रुक्मिण्युदन्तं रहसि सुलिखितं योऽश‍ृणोत् तं प्रपद्ये ॥ ७९॥ रुक्मिप्रीतिकृते विदर्भनृपतौ चैद्याय दातुं शुभां कन्यामिच्छति सत्कृते नृपगणे चैद्ये वरेऽलङ्कृते । नानामङ्गलवाद्यपूर्णनगरे गेहे तथालङ्कृते यं प्राप्तं ह्यवगम्य मोदमगमद् भैष्मी द्विजात् तं भजे ॥ ८०॥ सम्प्राप्तो बहुसेनया सह हरी रामादिभिः कुण्डिनं भीष्मेणापि सुसत्कृतो नृपतिनोद्याने वसन् सानुगः । भैष्मीं पूजितपार्वतीन्द्रमहिषीं यान्तीं गृहं रक्षिता- मत्युग्रैरपहृत्य योऽनयदरीञ्जित्वा पुरीं सोऽवतात् ॥ ८१॥ भूपान् कृष्णहृतां विलोक्य कुपितान् भैष्मीं निरुध्याहतान् कृष्णाच्छिन्नपदोरुबाहुशिरसो ज्ञात्वापि रुक्मी व्रजन् । युध्यन् येन हताश्वसारथिधनुर्बद्धो रथे शार्ङ्गिणा मुक्तो मुण्डितमस्तकः प्रतिययौ भैष्मीयुतं तं भजे ॥ ८२॥ नानारत्नमहश्छटाहृतनिशाचिह्नां पुरीं द्वारकां रम्भापूगसुतोरणध्वजवतीं रम्यां प्रविष्टो हरिः । रुक्मिण्या सहितो मुमोद सुकृतोद्वाहोत्सवो मन्दिरे नानोपायनपाणिभूपतिगणैर्यः पूजितस्तं भजे ॥ ८३॥ सूर्यप्राप्तशमन्तकाख्यसुमणेः सत्राजितो भ्रातरं कण्ठोद्भासिमणिं निहत्य विपिनेऽगृह्णान्मणिं केसरी । हत्वा जाम्बवता तमात्तमणिना येनाश्रिता स्वा गुहा तं निर्जित्य मृधे मणिं च तनयां तस्याप यस्तं भजे ॥ ८४॥ आरोप्य भ्रातृहत्यां मणिहरणकृते वासुदेवेऽथ तस्मा- च्छ्रुत्वा तत्पूर्ववृत्तं तमपि मणिवरं लज्जितः सम्प्रगृह्य । दत्तां सत्राजिता यः स्वकलुषहतये सत्यभामां शुभाङ्गीं रम्यां प्रीत्योपयेमेऽमरगणविनुतं तं श्रये वासुदेवम् ॥ ८५॥ निद्रालुं श्वशुरं रुषा शतधनुर्हत्वा मणिं योऽहरत् तं हत्वा शतयोजनाश्वगमपि ह्यन्विष्य रत्नं हरिः । अक्रूरस्थमणिं प्रकाश्य जगतः स्वस्यापकीर्तिं ततः सत्यारामशुचं क्रुधं च महतीं योऽवारयत् तं भजे ॥ ८६॥ कौन्तेयान् प्राप्य नीत्वा कृतसकलकथो वृष्टिमासान् कदाचिद् गत्वा पार्थेन साकं वनमथ यमुनां कन्यकां तत्र दृष्ट्वा । विष्णोर्नान्यस्य भार्याहमिति रविसुतां संवदन्तीं रथे यः कालिन्दीं स्थाप्य नीत्वा स्वपुरमुदवहत् तं भजे वासुदेवम् ॥ ८७॥ कन्यां राजाधिदेव्याः स्वसुरपि च पितुः कृष्णकामां निषिद्धां भ्रातृभ्यां मित्रविन्दां श्रुतसकलकथः प्राप्य विन्दानुविन्दौ । आवन्त्यौ तौ प्रमथ्यानयदखिलतनुर्द्वारकां सेनया यः कृष्णः काले शुभे तामुदवहदपि तं वासुदेवं प्रपद्ये ॥ ८८॥ बद्ध्वा सप्त वृषान् हताखिलनृपान् यः सप्तवर्ष्मा हरिः सत्यां कोसलभूभृता बहुधर्नैर्दैन्त्यश्वमुख्यैः समम् । दत्तां नग्नजिता नयन् निजपुरीं नीलां स्वसैन्यैर्वृतः प्राप्ते पुण्यदिने प्रियामुदवहत् तं चिन्तये श्रीसखम् ॥ ८९॥ भद्रां यः श्रुतकीर्तिजामुदवहत् पैतृष्वसेयीं तत- श्चापारोपणशक्तिलेशविधुरैर्भूपैरनेकैः स्तुतः शीघ्रारोपितचापताडितझषो वीर्यार्जितां लक्ष्मणां यो मद्राधिपजां प्रियामुदवहन्नीत्वा पुंरीं तं भजे ॥ ९०॥ कृष्णः पत्न्या समेतोऽमरपतिवचनाद् वैनतेयाधिरूढो गत्वा प्राज्योतिषाख्यं नगरमथ मुरं सानुगं तत्र हत्वा । युध्यन्तं युद्धशौण्डं कृतबहुनिधनो भौममप्याशु हत्वा भूमेः पौत्राय योऽदादभयमतिमुदा भूस्तुतस्तं प्रपद्ये ॥ ९१॥ रत्नाद्रिं प्राहिणोद् योऽमरगणपतये वासवं वारुणं च च्छत्रं राज्ञे जलानामथ नरकहृतं षोडशस्त्रीसहस्रम् । स्वापेक्षं दिव्यरत्नै रथतुरगधनैः कुञ्जराद्यैः समेतं श्वेतैर्दिव्यैर्गजेन्द्रैरनयदखिलदृक् स्वां पुरीं तं नमामि ॥ ९२॥ गत्वा तार्क्ष्याधिरूढोऽमरपतिभवनं सत्यया भौमगेहाद् वित्तै रत्नैर्मघोनामरपुरमहितो मातरं तत्र नत्वा । मात्रे दित्यै स्वपत्न्या क्षितितनयहृतं कुण्डलं दापयित्वा पत्नीप्रीत्यै विवेशामरपतिदयितं नन्दनं यो भजे तम् ॥ ९३॥ हर्तव्यः पारिजातः सुरपतिमहिषीगर्वहेतुः सुरम्यो देव्यैवं प्रेरितो योऽमरपतिदयितं पारिजातं च हृत्वा । तत्कोपायातरुद्रान्तकमुखविबुधान् देवराजं च जिवा सत्याहूतेन तेन स्तुतनिजमहिमा स्वां पुरीं प्राप सोऽव्यात् ॥ ९४॥ यत्पुत्रः शूलिदत्तो ह्यगतदशदिनः शम्बरेण प्रगृह्य क्षिप्तोऽम्भोधौ निगीर्णो झषजठरगतो धीवरैः सङ्गृहीतात् । मीनात् तस्माद्धताङ्गादवनिमधिगतः शम्बरस्यैव गेहे हृत्वा तं शम्बरारिं निजपुरमगमद् भार्यया तं प्रपद्ये ॥ ९५॥ हत्वा कृत्रिमशङ्खचक्रगरुडं पौण्ड्रं हरिः स्वाग्रजं तत्साहाय्यकरं च काश्यधिपतिं मातामहं संयुगे । कृत्यां तत्सुतकल्पितां निजपुरीदाहाय चक्रेण यो विद्राव्याश्चदहत् तया तमपि तद्वाराणसीं तं भजे ॥ ९६॥ कृष्णः प्राप्तशमन्तपञ्चकमहाक्षेत्रो ग्रहे भास्वतो नानादेशसमागताखिलनृपैः सम्पूजितः सानुगः । पार्थैर्नन्दमुखैः सबन्धुवनिता भृत्यैस्तथा योगिभिः पित्रा क्षेत्रकृते मखे सुमहितो योऽगात् पुरी सोऽवतात् ॥ ९७॥ पट् पुत्राः कंसभग्णाः किल मम भगवंस्तान् प्रयच्छेति मातुः श्रुत्वा वाक्यं सरामो बलिसदनगतस्तेन सम्पूज्य दत्तान् । ऊर्णाज्जातान्मरीचेः प्रहसनकुपिताद् देवलाद् दानवांस्तान् हैरण्यान देवकीजाननयदथ हतान् मातरं यः स नोऽव्यात् ॥ ९८॥ पारावारप्रविष्टान् नृपगणचकितांस्त्यक्तराजासनान् न- स्त्यक्त्वा भूपेषु योग्यं कमपि भज नृपं यः स्वचेतः प्रविष्टः । इत्युक्ता भीष्मपुत्री रहसि भगवता प्रेमकोपानभिज्ञा स्वत्यागात्यन्तभीता पुनरपि बहुशो लालिता येन सोऽव्यात् ॥ ९९॥ भैष्मी जाम्बवती प्रिया भगवतः सत्याय कालिन्द्यतो मित्रा नग्नजितः सुता च सुभगा भद्रा तथा लक्ष्मणा । एकैका समजीजनद् दश सुतान् यस्मात् तथा षोडश- स्त्रीसाहस्रभवैः सुतैः सुबहुभिः पूर्णा नही तं भजे ॥ १००॥ प्रद्युम्नेनोद्धृतायाः स्वदुहितुरुदितायानिरुद्धाय पौत्रीं दत्त्वा तस्मिन् विवाहे प्रियबलसहितः सम्यगक्षैर्विदीत्र्यन् । जेतारं तं जितोऽसीत्यपनयवचनात् तेन रुक्मी हतोऽभूद् यस्य स्यालोऽग्रजेन श्रितनिजनगरः सानुगः सोऽवतान्नः ॥ १०१॥ सौवर्णायुतषट्सहस्रवनितागेहेषु रत्नोल्लस- न्नानासौधविराजितेषु कलये शौरिं लसन्तं पृथक् । ध्यानस्तोत्रजपार्चनप्रणमनस्वाध्यायहोमार्हण- क्रीडानृत्तसुद्दृग्विहारललितालापाङ्गचेष्टादिभिः ॥ १०२॥ श्रुत्वा मागधमन्दिरे नृपगणैरुद्धैर्हरिः प्रेषिता- द्धत्वा मागधमीश्वराद्य कृपया त्राहीति नस्तद्वचः । आहूतोऽथ यियक्षुणा सुरमुनेर्वाक्यात् पृथासूनुना शक्रप्रस्थमगात् सरामदयितासेनस्तमेवाश्रये ॥ १०३॥ गत्वा ब्राह्मणभीमफल्गुनयुजा जन्यं मया ब्रह्मणा भिक्षां याचित एत्य मागधनृपो युध्यन् रणे घातितः । भीमेनैव विपाटितो मृतिमगात् काष्ठा जिता भ्रातृभिः पार्थातः कुरु राजसूयमिति योऽवादीत् तमव्यात् स नः ॥ १०४॥ अण्डानामधिपे वशे मयि सदा कौन्तेय के तेऽवशा- स्तस्मात् साधय राजसूयमिति यद्वाक्यात् स धर्मात्मजः । नानादेशसमागतैर्नृपगणैः साकं मुनीन्द्रैः सुरै- र्ब्रह्माद्यैरकरोत् प्रियं क्रतुवरं कृष्णाय तस्मै नमः ॥ १०५॥ सुत्येऽहन्युदिते सदस्यनुपमे प्राप्तेऽग्र्यपूजाविधी कस्य स्यादखिलेश्वरं हरिमृते पूजेति धर्मात्मजः । यत्पादाववनिज्य तेन पयसा सम्प्रोक्ष्य मूर्ध्नोऽखिला- नात्मानं च परान् हताखिलमलान् मेने स नोऽव्याद्धरिः ॥ १०६॥ गोपस्त्यक्तनृपासनोऽम्बुधिगतो दुर्वृत्त कर्मा कथं पूज्यः स्यान्महतो विहाय सदसि ज्ञात्रेति चैद्यो वदन् । चक्रच्छिन्नशिराः क्षितौ विनिपतन् देहोद्गतज्वालया सर्वेषां मिपतां यमाप विगते शापे तमेवाश्रये ॥ १०७॥ राजानं धर्मपुत्रं मुनिनृपतिगणैः स्तूयमानं सभायां द्रष्टुं गच्छञ्जलेऽपि स्थलमिति निपतन् दृष्ट उच्चैर्हसद्भिः । सद्यो गच्छन् निवृत्तः स्वपुरमपि जवाद् धार्तराष्ट्रोऽतिकोपाद् येनैवोपेक्षितोऽभूदवनिभरभृता सोऽवताद् वासुदेवः ॥ १०८॥ साल्वः कृष्णहताग्रजो निजतपस्तुष्टाच्छिवात् कामगां लब्ध्वा सौभपुरीं तया सह गतो भङ्क्त्वा पुरीं द्वारकाम् । प्रद्युम्नप्रमुखैर्जितो बहुदिनं युध्यन् गतः शौरिणा येनानुद्रुत आगतेन निहतः साकं पुरा तं श्रये ॥ १०९॥ कृष्णः प्राप्तः सुधर्मां बहुनृपतिगणैः सेवितो ब्राह्मणोक्त्या पाञ्चालीगात्रवस्त्रापहरणमुदिताद् धार्तराष्ट्रादरण्यम् । प्राप्तं सभ्रातृभार्यं जितहृतसकलं पार्थमक्षैर्विदित्वा यो गत्वाश्वास्य तेनोदितसकलकथोऽगात् पुरीं स्वां श्रये तम् ॥ ११०॥ दत्त्वा ब्राह्मणदत्तगामपि पुनर्गोभिर्नृगो ब्रह्मणे स्वामिभ्यां कलहात् समेत्य गदितो दत्तापहर्तेत्यथ । तद्दोषात् कृकलासतामुपगतः श्वभ्रे चिरं संवसन् स्पर्शाद् यस्य नृपो भवन् यमनघो नत्वा गतस्तं भजे ॥ १११॥ नन्दादीन् प्राप्य मासैस्त्रिभिरमितगुणां वर्णयन् कृष्णचर्यां कुर्वन् सन्त्यक्तदुःखान् व्रजभुवि विहरन् वारुणीपानमत्तः । क्रीडार्थं गोपिकाभिः सह रवितनयां राम आहूय कोपा- दप्राप्तामाचकर्षाग्रज उरुहलतो यस्य तं संश्रयेऽहम् ॥ ११२॥ साम्बो यस्य सुतः सुयोधनसुतामाहृत्य युध्यन् नृपै रुद्धो हस्तिनपत्तने हत इति श्रुत्वाथ यस्याग्रजः । यात्वा कौरवपूजितः पुनरधिक्षिप्तो हलात् तत्पुरं जाह्नव्यां विनिपातयन् स्वसुतयुक् तैराहतस्तं भजे ॥ ११३॥ गोपीभिर्विहरन् विभावसुभवाकच्छे मनोज्ञानिले छायायां फलपुष्पपूर्णसुतरो रामो व्रजे वृक्षगम् । भ्रूक्षेपैर्गुददर्शनेन च शिलाक्षेपादिभिर्हुङ्कृतै- र्युध्यन्तं द्विविदं क्षणेन हतवान् यस्याग्रजस्तं भजे ॥ ११४॥ दारिद्र्यात्यन्तखिद्यद्वितपरमहिलादुःखवाक्यप्रणुन्नं प्राप्तं प्रेम्णा कुचेलं बहुमणिखचिते स्वासने सम्प्रपूज्य । तत्कन्थावेष्टितं यः पृथुकमतिमुदा मुष्टिमेयं प्रजग्धं तद्गेहं वित्तमुक्तामणिनिधिमकरोत् तं भजे वासुदेवम् ॥ ११५॥ गत्वा मैथिलपत्तनं बहुजनैः सार्धं मुनीन्द्रैर्हरी रूपाभ्यां श्रुतदेववेश्म बहुलाश्वस्यापि वेश्मैकदा । अन्योन्याविदितः प्रविश्य कृपया ताभ्यां स्तुतः पूजितो भक्तौ तावनुगृह्य यः पुरमगात् स्वीयां तमेव श्रये ॥ ११६॥ यस्य स्वात्मशयं क्षिपामि शिरसि स्यात् तत्क्षणाद् भस्मसाद् देहि त्वं वरमीश्वरेति वदते दत्त्वा वरं शङ्करः । तत्सिद्धिप्रमितिप्रसारितकरं स्प्रष्टुं शिरः स्वं वृकं दृष्ट्वा प्रव्यथिनः पलायनपरो येनावितस्तं भजे ॥ ११७॥ सत्रे ब्रह्मसुतो भृगुर्मुनिगणैः पारम्यनिर्धारणे (धर्मसुतो) सन्दिष्टो विधिमेत्य तं प्रकुपितं ज्ञात्वास्तवाच्छङ्करम् । प्राप्तस्तेन जिघांसितः प्रतिघयानाश्लेषणान्माधवं वैकुण्ठे प्रहरन् पदातिमहितो येनावितस्तं भजे ॥ ११८॥ भूभृत्पापहतात्मजाग्रजशिशुप्राणावनैकव्रती कृत्वा बाणगृहं शिशोरसुमवन् नष्टे शिशौ फल्गुनः । गत्वा देवगृहांस्तदीयतनयालब्ध्याग्निवेशोद्यमी वैकुण्ठस्थिततत्सुतान् प्रददता येनावितस्तं भजे ॥ ११९॥ सन्तीर्णाज्ञातवासान् हरिरखिलनुतो गोग्रहप्राप्तयुद्धान् प्राप्ताञ्श्रुत्वाथ गत्वा कृतबहुवचनो हस्तिनं प्राप्य दूतः । भुक्त्वा भक्त्यान्नमिष्टं विदुरगृहगतो वीक्ष्य यो धार्तराष्ट्रान् तेषां स्वद्रोहचिन्तामहरदथ निजाद् वैश्वरूप्याद् भजे तम् ॥ १२०॥ भूत्वा फल्गुनसारथी रथगतः सेनाद्वयान्तर्गतो बन्धुस्नेहनिवृत्तयुद्धविजयप्रोत्साहनव्याजतः । देहात्मस्वगतिं विमुक्तिपदवीं साङ्गां स्वभक्तिं ततो ऽशक्तानामपि मुक्तिदं स्वचरणं योऽगायदव्यात् स नः ॥ १२१॥ दत्त्वा दिव्यदृशं हरिः करुणया यो विश्वरूपं मह- न्नानामस्तकनेत्रबाहुचरणं बीभत्सवेऽदर्शयत् । कोट्यर्कोज्ज्वलमङ्गसङ्गतजगद् ब्रह्मादिभिः सन्नुतं नानादंष्ट्रमुखाद्यमानजनताभीमं स देवोऽवतात् ॥ १२२॥ शान्तं शान्तनवं हरिं नवदिनैः कृत्वा शिखण्डात्मको धृष्टद्युम्नतनुर्मृधे विनिहतं द्रोणं दिनैः पञ्चभिः । कर्णं चार्जुनतो हतं त्रिदिवसैः शल्यं च धर्मात्मजात् सायं भीमहतं सुयोधनमगाद् यस्तोषमव्यात् स नः ॥ १२३॥ शप्तः स्त्रीवेषसाम्बोदरगतमुसलाकारलोहप्रचूर्ण- प्रोत्पन्नैरेरकाग्रैः कुभरनिजकुलं नाशयित्वा मिथो यः । रामास्योद्वान्तशेषं जलपतिविनुतं तत्प्रविष्टं प्रपश्य- न्निन्द्रेण प्रार्थितोऽभून्निजपदगतये तं प्रपद्ये मुरारिम् ॥ १२४॥ प्राप्ते हेतिगणे विमुक्तिपदवीं भित्त्वा रवेर्मण्डलं (मुखे) पुर्या मज्जनमम्बुधौ स्वगमनं स्वानां परिज्ञाप्य यः । लुब्धोत्सृष्टशराहताङ्घ्रिकमलः स्वः प्रापयन् तं क्षणात् प्रायाद् धाम निजं हृतावनिभरं नारायणं तं भजे ॥ १२५॥ श्रीवासुदेवचरितानि मलापहानि पुण्यानि मुक्तिफलदान्यतिमानुषाणि । यो वेत्ति चिन्तयति वक्ति श‍ृणोति नित्यं प्राप्नोति मुक्तिमचिरात् स मुकुन्ददृष्टः ॥ १२६॥ इति श्री (अशोक) रघुनाथाचार्येण विरचितं गोपालशतकं सम्पूर्णम् । हरिः ॐ । श्रीनिवासरामानुज महादे शिकाय नमः । श्रीमद्वेदान्तरामानुजमहादेशिकाय नमः । स्तोत्रसमुच्चयः २ (५५) Proofread by Rajesh Thyagarajan
% Text title            : Gopala Shatakam
% File name             : gopAlashatakam.itx
% itxtitle              : gopAlashatakam (shrI (ashoka) raghunAthAchAryeNa virachitaM)
% engtitle              : gopAlashatakam
% Category              : vishhnu, shataka, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : (ashoka) raghunAthAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org