श्रीगोपालशतनामावलिः
गोपालाय नमः । गोपतये । गोप्त्रे । गोविन्दाय । गोकुलप्रियाय ।
गम्भीराय । गगनाय । गोपीप्राणभृते । प्राणधारकाय । पतितानन्दनाय ।
नन्दिने । नन्दीशाय । कंससूदनाय । नारायणाय नरत्रात्रे ।
नरकार्णवतारकाय । नवनीतप्रियाय । नेत्रे । नवीनघनसुन्दराय ।
नवबालकवात्सल्याय नमः ॥ २०
ललितानन्दतत्पराय नमः । पुरुषार्थप्रदाय । प्रेमप्रवीणाय ।
परमाकृतये । करुणाय । करुणानाथाय । कैवल्यसुखदायकाय ।
कदम्बकुसुमावेशिने । कदम्बवनमन्दिराय । कादम्बिने ।
विमदामोदघूर्णलोचनपङ्कजाय । कामिने । कान्ताकलानन्दिने । कान्ताय ।
कामनिधये । कवये । कौमोदकीगदापाणये । कवीन्द्राय । गतिमते ।
हराया नमः ॥ ४०
कमलेशाय नमः । कलानाथाय । कैवल्याय । सुखसागराय । केशवाय ।
केशिघ्ने । केशाय । कलिकल्मषनाशनाय । कृपालवे । करुणासेविने ।
कृपोन्मीलितलोचनाय । स्वच्छन्दाय । सुन्दराय । सुन्दाय ।
सुरवृन्दनिषेविताय । सर्वज्ञाय । दात्रे । सर्वपापविनाशनाय ।
सर्वाह्लादकराय नमः ॥ ६०
सर्वाय नमः । सर्ववेदविदां प्रभवे । वेदान्तवेद्याय ।
वेदात्मने । वेदप्राणकराय । विभवे । विश्वात्मने । विश्वविदे ।
विश्वप्राणदाय । विश्ववन्दिताय । विश्वेशाय । शमनाय । त्रात्रे ।
विश्वेश्वरसुखप्रदाय । विश्वदाय । विश्वहारिणे । पूरकाय ।
करुणानिधये । धनेशाय । धनदाय नमः ॥ ८०
धन्विने नमः । धीराय । धीरजनप्रियाय । धरासुखप्रदाय । धात्रे ।
दुर्धराय । अन्तकराय । धराय । रमानाथाय । रमानन्दाय । रसज्ञाय ।
हृदयास्पदाय । रसिकाय । रसदाय । रासिने । रासानन्दकराय ।
रसाय । राधिकाराधिताय । राधाप्राणेशाय । प्रेमसागराय नमः ॥ १००
इति श्रीगोपालशतनामावलिः सम्पाता ।
Proofread by PSA Easwaran psaeaswaran at gmail.com