श्रीगोपालशतनामस्तोत्रम्
श्रीगणेशाय नमः ॥
पार्वत्युवाच
देवदेव महादेव सर्ववाञ्छाप्रपूरक ।
पुरा प्रियं देवदेव कृष्णस्य परमाद्भुतम् ॥ १॥
नाम्नां शतं समासेन कथायामीति सूचितम् ।
श्रीभगवानुवाच ।
शृणु प्राणप्रिये देवि गोपनादतिगोपितम् ॥ २॥
मम प्राणस्वरूपं च तव स्नेहात्प्रकाश्यते ।
यस्यैकवारं पठनात्सर्वयज्ञफलं लभेत् ॥ ३॥
मोहनस्तम्भनाकर्षपठनाज्जायते नृणाम् ।
स मुक्तः सर्वपापेभ्यो यस्य स्मरणमात्रतः ॥ ४॥
स्वयमायान्ति तस्यैव निश्चलाः सर्वसम्पदः ।
राजानो दासतां यान्ति वह्नयो यान्ति शीतताम् ॥ ५॥
जलस्तम्भं रिपुस्तम्भं शत्रूणां वञ्चनं तथा ।
ॐअस्य श्रीगोपालशतनामस्तोत्रस्य नारदऋषिः अनुष्टुप् छन्दः
श्रीगोपालः परमात्मा देवता । श्रीगोपालप्रीत्यर्थे शतनामपाठे विनियोगः।
ॐगोपालो गोपतिर्गोप्ता गोविन्दो गोकुलप्रियः ।
गम्भीरो गगनो गोपीप्राणभृत् प्राणधारकः ॥ ६॥
पतितानन्दनो नन्दी नन्दीशः कंससूदनः ।
नारायणो नरत्राता नरकार्णवतारकः ॥ ७॥
नवनीतप्रियो नेता नवीनघनसुन्दरः ।
नवबालकवात्सल्यो ललितानन्दतत्परः ॥ ८॥
पुरुषार्थप्रदः प्रेमप्रवीणः परमाकृतिः ।
करुणः करुणानाथः कैवल्यसुखदायकः ॥ ९॥
कदम्बकुसुमावेशी कदम्बवनमन्दिरः ।
कादम्बीविमदामोदघूर्णलोचनपङ्कजः ॥ १०॥
कामी कान्तकलानन्दी कान्तः कामनिधिः कविः ।
कौमोदकी गदापाणिः कवीन्द्रो गतिमान् हरः ॥ ११॥
कमलेशः कलानाथः कैवल्यः सुखसागरः ।
केशवः केशिहा केशः कलिकल्मषनाशनः ॥ १२॥
कृपालुः करुणासेवी कृपोन्मीलितलोचनः ।
स्वच्छन्दः सुन्दरः सुन्दः सुरवृन्दनिषेवितः ॥ १३॥
सर्वज्ञः सर्वदो दाता सर्वपापविनाशनः ।
सर्वाह्लादकरः सर्वः सर्ववेदविदां प्रभुः ॥ १४॥
वेदान्तवेद्यो वेदात्मा वेदप्राणकरो विभुः ।
विश्वात्मा विश्वविद्विश्वप्राणदो विश्ववन्दितः ॥ १५॥
विश्वेशः शमनस्त्राता विश्वेश्वरसुखप्रदः ।
विश्वदो विश्वहारी च पूरकः करुणानिधिः ॥ १६॥
धनेशो धनदो धन्वी धीरो धीरजनप्रियः ।
धरासुखप्रदो धाता दुर्धरान्तकरो धरः ॥ १७॥
रमानाथो रमानन्दो रसज्ञो हृदयास्पदः ।
रसिको रासदो रासी रासानन्दकरो रसः ॥ १८॥
राधिकाऽऽराधितो राधाप्राणेशः प्रेमसागरः ।
नाम्नां शतं समासेन तव स्नेहात्प्रकाशितम् ॥ १९॥
अप्रकाश्यमयं मन्त्रो गोपनीयः प्रयत्नतः ।
यस्य तस्यैकपठनात्सर्वविद्यानिधिर्भवेत् ॥ २०॥
पूजयित्वा दयानाथं ततः स्तोत्रमुदीरयेत् ।
पठनाद्देवदेवेशि भोगमुक्तफलं लभेत् ॥ २१॥
सर्वपापविनिर्मुक्तः सर्वदेवाधिपो भवेत् ।
जपलक्षेण सिद्धं स्यात्सत्यं सत्यं न संशयः ।
किमुक्तेनैव बहुना विष्णुतुल्यो भवेन्नरः ॥ २२॥
इति श्रीहरगौरीसंवादे श्रीगोपालशतनामस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran psaeaswaran at gmail.com