श्रीगोपालस्तोत्रम्
वक्षस्थले मणिमयाभरणाभिरामे
कल्याणकल्पलतिकां कमलां वहन्तम् ।
वक्त्रे दधानमतिसुन्दरमन्दहासं
सञ्चिन्तयामि नृपगोपकुमारवेषम् ॥ १॥
वेदान्तमस्तकगिरां प्रथमाभिधेयं
गोपालबालवनिताभवने निधेयम् ।
नन्दाङ्गनानयनपङ्कजभागधेयं
सञ्चिन्तयामि नृपगोपकुमारवेषम् ॥ २॥
काञ्चीकलापकमनीयकटिप्रदेशं
कान्तासहस्रकुचमण्डलमण्डनीयम् ।
कामं विशालनयनं करुणैकसिन्धुं
सञ्चिन्तयामि नृपगोपकुमारवेषम् ॥ ३॥
आजानुदीर्घभुजमञ्चितकञ्जनाभं
आलोलनेत्रमसितोत्पलकर्णपूरम् ।
आरूढपक्षिपतिमाश्रितकालमेघं
सञ्चिन्तयामि नृपगोपकुमारवेषम् ॥ ४॥
फुल्लातसीकुसुमकान्तिमुषं कुमारं
सौन्दर्यशेवधिमुदारगुणाभिरामम् ।
लक्ष्म्यालयं कलितकौस्तुभमम्बुजाक्षं
सञ्चिन्तयामि नृपगोपकुमारवेषम् ॥ ५॥
हस्तारविन्दयुगलीधृतशङ्खचक्रं
पीताम्बरं मकरकुण्डलदीप्तगण्डम् ।
हाराभिराममभिरामकराङ्गुलीयं
सञ्चिन्तयामि नृपगोपकुमारवेषम् ॥ ६॥
कन्दर्पकान्तिमरुणाधरमायताक्षं
कस्तूरिकातिलकशोभितफालभागम् ।
पूर्णेन्दुबिम्बवदनं मधुरावलोकं
सञ्चिन्तयामि नृपगोपकुमारवेषम् ॥ ७॥
बालं बालं बालमेव स्मरामः
नीलं नीलं नीलमालोकयामः ।
गोपं गोपं गोपमेवाश्रयामः
बालं नीलं गोपवेषं भजामः ॥ ८॥
वीक्षा नीला लकावृतमुखं तव कुण्डलश्री-
गण्डस्थलाधरसुधां सदयावलोकम् ।
दत्ताभयं च भुजदण्डयुगं विलोक्य
वक्षः श्रियो विहरणं च भवाम दासाः ॥ ९॥
इति श्रीगोपालस्तोत्रं सम्पूर्णम् ।
Proofread by Rajesh Thyagarajan