गोपालस्तुतिः
श्रीगणेशाय नमः ॥
गोधूलिधूसरतनो करुणैकपात्र नारायणाभयद गोपजनाभिराम ।
गोगोपिकानयनरञ्जनवंशपाणे वेदान्तवेद्य मम देहि करावलम्बम् ॥ १॥
आभीरदारमुखपङ्कजसौरभोत्थमाध्वीसुधादनपटो नवनीतचोर ।
गोपाङ्गनाङ्गपरिरम्भणजातहास वेदान्तवेद्य मम देहि करावलम्बम् ॥ २॥
गोवर्द्धनोद्धरणखेदभवोदविन्दुसंसिक्तसुन्दरमुखाब्जदयार्द्रदृष्टे ।
लावण्यधाम सुरवन्दितपादपद्म वेदान्तवेद्य मम देहि करावलम्बम् ॥ ३॥
सूर्यात्मजातटसमुद्भवनीपवृक्षशाखाधिरोहजनितद्विगुणाङ्गकान्ते ।
वंशीरवेण धवलीतिकृताभिशब्द वेदान्तवेद्य मम देहि करावलम्बम् ॥ ४॥
सव्येन पाणिकमलेन विधाय भक्ष्यमास्वादयन्तमपरेण विलोलनेत्र ।
त्वां देवताश्च मुनयः प्रविलोकयन्ति वेदान्तवेद्य मम देहि करावलम्बम् ॥ ५॥
लक्ष्मीपते तरुणवारिजपत्रनेत्र पीताम्बरार्जुनसख स्मरसुन्दराङ्ग ।
नारायणाच्युत जनार्दन चक्रपाणे वेदान्तवेद्य मम देहि करावलम्बम् ॥ ६॥
ब्रह्मेन्द्ररुद्रमरुदश्विसहस्ररश्मिनाराधिपान्तककुबेरविशालदक्ष ।
मारीचकश्यपसनातनवन्दिताङ्घ्रे वेदान्तवेद्य मम देहि करावलम्बम् ॥ ७॥
नमः पद्मनाभारविन्दाक्ष विष्णो नमस्ते हृषीकेश जिष्णो नमस्ते ।
नमो वासुदेवाखिलाधार भूमन्नमस्ते सुराधीश ते विश्वरूप ॥ ८॥
नमः कैटभारे मुरारे खरारे नमो दानवारे नमो रावणारे ।
नमः कंसविध्वंसनारिष्टशत्रो नमो धेनुकारे नमः पूतनारे ॥ ९॥
नमः शङ्खपाणे नमश्चक्रपाणे नमः शार्ङ्गपाणे नमः पद्मपाणे ।
नमो वेदरूपाय तुभ्यं पराय नमो यज्ञभोक्त्रे नमस्तेऽगुणाय ॥ १०॥
अजा रुद्रधाताऽऽदिदेवाः स्वरूपं परं नाभिजानन्ति मायामयेशम् ।
यजन्तीह नित्यं ततः स्थूलरूपं प्रसीदाशु मे दीनबन्धो रमेश ॥ ११॥
संसारपाशदृढबन्धनिपीडितस्य मोहान्धकारभयकूपनिपातितस्य ।
कामाभिलाषविविधोरगदंशितस्य दीनस्य मे कुरु दयां करुणैकपात्र ॥ १२॥
आर्तो मत्सदृशो नान्यस्त्वत्तो नान्यः कृपाकरः ।
अनन्यगतिकं नाथ कथं मां समुपेक्षसे ॥ १३॥
आकर्णयाशु कृपणस्य कृपावचांसि
लब्धोऽसि नाथ बहुभिः किल जन्मसङ्गः ।
अद्य प्रभो यदि दयां कुरुषे न मे त्वं
त्वत्तः परं कथय कं शरणं श्रयामि ॥ १४॥
श्रीयादवेन्द्र करुणार्णव विश्वरूप
लक्ष्मीनिवास सुरवन्दितपादपद्म ।
त्वामागतोऽस्मि शरणं सकलत्रपुत्रो
यद्रोचते भगवते कुरु तन्नमस्ते ॥ १५॥
इति गोपालस्तुतिः सम्पूर्णा ।
Proofread by PSA Easwaran psaeaswaran at gmail.com