गोपालस्तोत्रं अथवा गोपालस्तवराजस्तोत्रम्

गोपालस्तोत्रं अथवा गोपालस्तवराजस्तोत्रम्

श्री गणेशाय नमः । श्रीमद्गोपीजनवल्लभाय नमः । ॐ अस्य श्रीगोपालस्तवराजमन्त्रस्य श्रीनारद ऋषिः । अनुष्टुप् छन्दः । श्रीकृष्णः परमात्मा देवता । श्रीकृष्णप्रीत्यर्थे जपे विनोयोगः ॥ अथ ध्यानम् । सजलजलदनीलं दर्शितोदारशीलं करतलधृतशैलं वेणुवाद्यै रसालम् । व्रजजनकुलपालं कामिनीकेलिलोलं तरुणतुलसिमालं नौमि गोपालबालम् ॥ श्रीनारद उवाच । नवीननीरदश्यामं नीलेन्दीवरलोचनम् । बल्लवीनन्दनं वन्दे कृष्णं गोपालरूपिणम् ॥ १॥ स्फुरद्बर्हिदलोद्बद्धनीलकुञ्चितमूर्धजम् । कदम्बकुसुमोद्बद्धवनमालाविभूषितम् ॥ २॥ गण्डमण्डलसंसर्गिचलत्कुञ्चितकुन्तलम् । स्थूलं मुक्ताफलोदारहारोद्योतितवक्षसम् ॥ ३॥ हेमाङ्गदतुलाकोटिकिरीटोज्ज्वलविग्रहम् । मन्दमारुतसंक्षोभचलिताम्बरसञ्चयम् ॥ ४॥ रुचिरौष्ठपुटन्यस्तवंशीमधुरनिःस्वनैः । लसद्गोपालिकाचेतो मोहयन्तं पुनः पुनः ॥ ५॥ बल्लवीवदनाम्भोजमधुपानमधुव्रतम् । क्षोभयन्तं मनस्तासां सस्मेरापाङ्गवीक्षणैः ॥ ६॥ यौवनोद्भिदेहाभिः संसक्ताभिः परस्परम् । विचित्राम्बरभूषाभिर्गोपनारीभिरावृतम् ॥ ७॥ प्रभिन्नाञ्जनकालिन्दीजलकेलिकलोत्सुकम् । योधयन्तं क्वचिद्गोपान् व्याहरन्तं गवां गणम् ॥ ८॥ कालिन्दीजलसंसर्गिशीतलानिलसेविते । कदम्बपादपच्छाये स्थितं वृन्दावने क्वचित् ॥ ९॥ रत्नभूधरसंलग्नरत्नासनपरिग्रहम् । कल्पपादपमध्यस्थहेममण्डपिकागतम् ॥ १०॥ वसन्तकुसुमामोदसुरभीकृतदिङ्मुखे । गोवर्धनगिरौ रम्ये स्थितं रासरसोत्सुकम् ॥ ११॥ सव्यहस्ततलन्यस्तगिरिवर्यातपत्रकम् । खण्डिताखण्डलोन्मुक्तमुक्तासारघनाघनम् ॥ १२॥ वेणुवाद्यमहोल्लासकृतहुङ्कारनिःस्वनैः । सवत्सैरुन्मुखैः शश्वद्गोकुलैरभिवीक्षितम् ॥ १३॥ कृष्णमेवानुगायद्भिस्तच्चेष्टावशवर्तिभिः । दण्डपाशोद्यतकरैर्गोपालैरूपशोभितम् ॥ १४॥ नारदाद्यैर्मुनिश्रेष्ठैर्वेदवेदाङ्गपारगैः । प्रीतिसुस्निग्धया वाचा स्तूयमानं परात्परम् ॥ १५॥ य एवं चिन्तयेद्देवं भक्त्या संस्तौति मानवः । त्रिसन्ध्यं तस्य तुष्टोऽसौ ददाति वरमीप्सितम् ॥ १६॥ राजवल्लभतामेति भवेत्सर्वजनप्रियः । अचलां श्रियमाप्नोति स वाग्मी जायते ध्रुवम् ॥ १७॥ ॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे चतुर्थरात्रे गोपालस्तवराजः सम्पूर्णः ॥ Proofread by Ravin Bhalekar ravibhalekar@hotmail.com
% Text title            : gopAlastotra
% File name             : gopaalastotra.itx
% itxtitle              : gopAlastotram athavA gopAlastavarAjaH (nAradapancharAtre)
% engtitle              : gopAlastotra
% Category              : stavarAja, vishhnu, krishna, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments  : nAradapa.ncharAtra
% Latest update         : January 16, 2005, January 22, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org