श्रीगोविन्दस्तवराजः
स्थिते मनसि गोविन्द दूरतो याति पातकम् ।
उदयाचलमारूढे दिलनाथे तमो यथा ॥ १॥
गोविन्देति तथा प्रोक्तं भक्त्या वा भक्तिवर्जितैः ।
सर्वपापानि दहति कल्पान्ताग्निर्गिरीन् यथा ॥ २॥
शौनक उवाद --
अम्बरीष शुभं वाक्यं मयोक्तं शृणु भक्तितः ।
धर्मार्थकाममोक्षाणां कुरु गोविन्दकीर्तनम् ॥ ३॥
यदीच्छसि परं ज्ञानं ज्ञानात्तत्परमं पदम् ।
तदादरेण राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ४॥
कर्मणा मनसा वाचा यदीच्छसि भवक्षयम् ।
तदा सदा महीपाल कुरु गोविन्दकीर्तनम् ॥ ५॥
सर्वरोगविनाशाय चात्मनः शुभवाञ्छया ।
अहर्निशं सदा नित्यं कुरु गोविन्दकीर्तनम् ॥ ६॥
संसारानलतापस्य यदीच्छसि शमं नृप ।
तदा चित्तं स्थिरं कृत्वा कुरु गोविन्दकीर्तनम् ॥ ७॥
यदीच्छसि भयं त्यक्तुं परलोकसमुद्भवम् ।
तदा नित्यं महीपाल कुरु गोविन्दकीर्तनम् ॥ ८॥
जीवितस्य फलं नित्यं यदि वाञ्छसि भूपते ।
प्रत्यहं परया भक्त्या कुरु गोविन्दकीर्तनम् ॥ ९॥
ब्रह्महत्यादिपापानां यदीच्छसि परं क्षयम् ।
संयतेन्द्रियसन्दोहः कुरु गोविन्दकीर्तनम् ॥ १०॥
राज्यं भोगांश्च विपुलान् पुत्रं वेच्छसि सम्पदम् ।
तदा यत्नेन महता कुरु गोविन्दकीर्तनम् ॥ ११॥
त्यक्तुमिच्छसि रजेन्द्र जन्मरोगज्वरादिकम् ।
भयं यदि सदा भक्त्या कुरु गोविन्दकीर्तनम् ॥ १२॥
रणे यदि भ यं जेतुं त्वमिच्छसि नराधिप ।
सदा सर्वात्मना नित्यं कुरु गोविन्दकीर्तनम् ॥ १३॥
वाजियज्ञसहस्त्राणां फलं नित्यं यदीप्ससि ।
प्रातरुत्थाय भूपाल कुरु गोविन्दकीर्तनम् ॥ १४॥
यदि संसारजं दुःखं हन्तुमिच्छसि भूमिप ।
तदा भक्तिं समास्थाय कुरु गोविन्दकीर्तनम् ॥ १५॥
वैष्णवस्य च धर्मस्य पारं गन्तुं यदीच्छसि ।
नरेन्द्र तन्मना भूत्वा कुरु गोविन्दकीर्तनम् ॥ १६॥
किं करिष्यसि साङ्ख्येन पोगेन नरनायक ।
मुक्तिमिच्छसि राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ १७॥
परान्नं गर्हितं भुक्तं पर्वकाले विशेषतः ।
सुनिष्टप्तं गतं पापं कुरु गोविन्दकीर्तनम् ॥ १८॥
अभक्षसम्भवं राजन् दुष्परिग्रहसम्भवम् ।
तत्पापं यातु विलयं कुरु गोविन्दकीर्तनम् ॥ १९॥
संसर्गे पापिना नित्यं पाषण्डजनरक्षणे ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ २०॥
यद्बाल्ये यौवने चैव वार्धके समुपार्जितम् ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ २१॥
पूर्वाह्णे वापराह्णे वा मध्याह्ने यदुपार्जितम् ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ २२॥
वर्तमानं च यत्पापं यद्भूतं यद्भविष्यति ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ २३॥
मेरुमन्दरतुल्यं तु मनसा समुपार्जितम् ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ २४॥
यत्त्वया पापमनसा परदाराभिमर्शनम् ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ २५॥
धर्मं वै पितृदेवानां वित्तशाठ्येन यत्कृतम् ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ २६॥
गुरुनिन्दाकृतं पापं वेदशास्त्रद्विजादिजम् ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ २७॥
गतायां तीर्थयात्रायां परान्नेन तु पातकम् ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ २८॥
पूज्यानामवमानेन यत्कृतं पातकं महत् ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ २९॥
वसतां महतां चासे कुग्रामे च सतां च यत् ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ३०॥
तटाककूपवापीषु जलविघ्नकृतं गवाम् ।
तत्तापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ३१॥
मार्गभङ्गकृतं पापं क्षेत्रसेतुविभेदजम् ।
तत्तापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ३२॥
गुरुतल्पाभिगमने स्वजनस्त्रीनिषेवणे ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ३३॥
अनभ्यर्च्य पि तॄन् देवान् यत्र यत्र च भोजनम् ।
तत्पापं यादु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ३४॥
कथायां कथ्यमानायां विघ्नाचरणजं च यत् ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ३५॥
अकुर्वतामातिथेयं होमान्ते च विशेषतः ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ३६॥
सूर्योदयमुखे राजन् यत्पापं समुपार्जितम् ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ३७॥
हेतुवादभरेणापि धर्मपक्षनिषूदनम् ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ३८॥
एकेन यत्त्वया भुक्तमेकान्ते शुभसंस्थितेः ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ३९॥
समं तु भागं न पिता पुत्रादीनां न यच्छति ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दुकीर्तनम् ॥ ४०॥
मातापित्रोरभक्तानां भार्यापुत्रहतादिजम् ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ४१॥
दिवामैथुनजं पापं पर्वकाले विशेषतः ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ४२॥
मित्रद्रोहकृतं पापं स्वामिद्रोहकृतं च यत् ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ४३॥
नित्य क्रियाविहीनानां देवतातिथिवञ्चनात् ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ४४॥
अयथोक्तं व्रतं कृत्वा यत्त्वया पातकं कृतम् ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ४५॥
गोवधादिसमं पापं ब्रह्महत्यासमं च यत् ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ४६॥
पत्यौ जीवति या नारी मृते वा व्यभिचारिणी ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ४७॥
भुक्तं क्षीरमवत्साया घृतं दुग्धं तथा दधि ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ४८॥
वर्णधर्मपरित्यागे यत्पापं सञ्चितं त्वया ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ४९॥
विना चान्द्रायणैः कृच्छस्तीर्थैर्दानैर्व्रतैर्मखैः ।
तत्पापं यातु राजेन्द्र कुरु गोविन्दकीर्तनम् ॥ ५०॥
गोविन्दकीर्तनं नाम स्तवानामुत्तमः स्तवः ।
पापप्रणाशमभ्येति सिंहस्येव यथा गजः ॥ ५१॥
कृत्वा पापसहस्राणि स्तवं गोविन्दकीर्तनम् ।
यः पठेदन्तकालेऽपि स गच्छेत् परमं पदम् ॥ ५२॥
नित्यं पठति यो ममर्त्यः शृणोति हरिवासरे ।
विष्णूत्सवेषु राजेन्द्र मोक्षमाप्नोत्यसंशयः ॥ ५३॥
हत्यासमानि पापानि गोविन्दस्तवकीर्तनात् ।
विलयं यान्ति राजेन्द्र प्रोक्तं देवेन शम्भुना ॥ ५४॥
कृष्णाचैर्बहुभिः स्तोत्रैः पठितैर्यत्फलं श्रुतम् ।
स्तवेनैकेन तत्प्रोक्तं गोविन्दाख्येन भूमिप ॥ ५५॥
यत्फलं पठितैर्वेदैः पुराणैश्च प्रकीर्तितम् ।
तत्फलं पठिते स्तोत्रे गोविन्दाख्ये प्रकीर्तितम् ॥ ५६॥
तावत् पापानि तिष्ठन्ति जन्मकोटिशतैरपि ।
यावत् पठति जन्तुर्न गोविन्दाख्यं स्तवं कलौ ॥ ५७॥
लोके न तं च स्पृशति भयमित्यक्षरद्वयम् ।
कलौ पठति यो नित्यं गोविन्दाख्यं महास्तवम ॥ ५८॥
लिखितस्तिष्ठति यस्य गोविन्दाख्यो महास्तवः ।
ग्रहशान्तिर्गृहे नित्यं सुप्रसन्नाः पितामहाः ॥ ५९॥
गोविन्देति कृतोच्चारे अहन्यहनि भू भुज ।
क्षिप्त्वा कलिमुखे पांसुं दोर्भ्यां तु मनुजेश्वर ।
गतोऽसौ परमं लोकं कृत्वा गोविन्दकीर्तनम् ॥ ६०॥
इति श्रीगोविन्दस्तवराजः सम्पूर्णः ।
Proofread by Rajesh Thyagarajan