श्रीगुरुवायुपुरेशसुप्रभातम् २
श्यामाभिरामशरणीकरणीयमूर्ते,
कामानुरूपफलदामितपुण्यकीर्ते ।
सीमाविहीनकरुणामृतदिव्यसिन्धो,
श्रीमारुतालयपते, तव सुप्रभातम् ॥ १॥
उन्मीलयस्व भगवन्, नयनारविन्द-
माकेकरातिमधुराकृति मन्दमन्दम् ।
लक्ष्मीरुपैति ननु काल्यमयी भवन्तं
श्रीमारुतालयपते, तव सुप्रभातम् ॥ २॥
पश्याऽप्लुता हिमजले विमलाम्बरैषा
तारासुमानि दधती वियदब्जपत्रे ।
सन्तिष्ठते भवदुपासनजागरूका
श्रीमारुतालयपते, तव सुप्रभातम् ॥ ३॥
अभ्यङ्गपूर्वकमनन्त, तवाभिषेक-
पुण्योत्सवं नयनगोचरतां निनीषुः ।
भक्तव्रजोऽत्र भरितोत्सुकभावमास्ते
श्रीमारुतालयपते, तव सुप्रभातम् ॥ ४॥
तैलाभिषेकविमलीकृतनीलकान्ति-
स्त्वं भूषणैः कतिपयैः परिशोभिताङ्ग ।
विभ्राजसे ललितशैशववेषधारी
श्रीमारुतालयपते, तव सुप्रभातम् ॥ ५॥
भक्तावली विगलितस्तुतिगीतिभिन्न-
घण्टानिनादपरिपूतदिगन्तरालम् ।
क्षेत्रं विभाति तव दीपसहस्रदीप्रं
श्रीमारुतालयपते, तव सुप्रभातम् ॥ ६॥
पूजाविधानमघनाशनमौषसं ते
द्रुष्टुं समुत्सुकधियः पुलकाञ्चिताङ्गाः ।
तिष्ठन्ति भक्तनिवहाः मुकुलत्कराब्जाः ।
श्रीमारुतालयपते, तव सुप्रभातम् ॥ ७॥
उद्धटिते च पुरतो भवतो निकेत-
द्वारे क्कणन्मधुरघण्टमखण्डधामन् ।
वीक्षामहे विमलकोमलविग्रहं त्वां
श्रीमारुतालयपते, तव सुप्रभातम् ॥ ८॥
ढक्कानिनादमधुराष्टपदीमनोज्ञ-
गानानुरञ्चितमुदञ्चितभक्तवृन्दम् ।
वैकुण्ठमन्यदिदमेत्य विभो विभासि
श्रीमारुतालयपते, तव सुप्रभातम् ॥ ९॥
धन्या वयं भवदुपाश्रयमेव याता
मन्वामहे जनिफलं सभवाप्तमद्य ।
नाऽन्या गतिस्त्वमसि देहभृतां चिदात्मन्!
श्रीमारुतालयपते, तव सुप्रभातम् ॥ १०॥
जयति जयति नित्यं देवकीपुण्यकन्दं
जयति जयति साक्षात् ब्रह्म साकारमेकम् ।
जयति जयति शान्तं सुन्दरं धाम मुख्यं
श्रीमारुतालयपते, तव सुप्रभातम् ॥ ११॥
इति श्रीवासुदेवन् एलयथेन विरचितं श्रीगुरुवायुपुरेशसुप्रभातं सम्पूर्णम् ।