हरिहरस्तुतिः

हरिहरस्तुतिः

जाह्नवी मूर्ध्नि पादे वा कालः कण्ठे वपुष्यथ । कामारिं कामतातं वा कञ्चिद्देवं भजामहे ॥ १॥ गाङ्गयामुनयोगेन तुल्यं हारिहरं वपुः । पातु नाभिगतं पद्मं यस्य तन्मध्यगं यथा ॥ २॥ अबलाढ्यविग्रहश्रीरमर्त्यनतिरक्षमालयोपेतः । पञ्चक्रमोदितमुखः पायात्परमेश्वरो मुहुरनादिः ॥ ३॥ पन्नगधारिकराग्रो गङ्गोमालक्षितोऽङ्गदोऽग्रभुजः । शशिखण्डशेखर उमापरिग्रहो मुहुरनादिरवतु त्वाम् ॥ ४॥ गवीशपत्रो नगजार्तिहारी कुमारतातः शशिखण्डमौलिः । लङ्केशसम्पूजितपादपद्मः पायादनादिः परमेश्वरो वः ॥ ५॥ स्फटिकमरकतश्रीहारिणोः प्रीतियोगात् तदवतु वपुरेकं कामकंसद्विषोर्वः । भवति गिरिसुतायाः सार्धमम्भोधिपुत्र्या सदृशमहसि कण्ठे यत्र सीमाविवादः ॥ ६॥ सम्प्राप्तं मकरध्वजेन मथनं त्वत्तो मदर्थे पुरा तद्युक्तं बहुमार्गगां मम पुरो निर्लज्ज वोढुस्तव । तामेवानुनयस्व-भावकुटिलां हे कृष्ण कण्ठग्रहं मुञ्चेत्याह रुषा यमद्रितनया लक्ष्मीश्च पायात्स वः ॥ ७॥ यौ तौ शङ्खकपालभूषितकरौ मालास्थिमालाधरौ देवौ द्वारवतीश्मशाननिलयौ नागारिगोवाहनौ । द्वित्र्यक्षौ बलिदक्षयज्ञमथनौ श्रीशैलजावल्लभौ पापं वो हरतां सदा हरिहरौ श्रीवत्सगङ्गाधरौ ॥ ८॥ लोले ब्रूहि कपालिकामिनि पिता कस्ते पतिः पाथसां कः प्रत्येति जलादपत्यजननं प्रत्येति यः प्रस्तरात् । इत्थं पर्वतसिन्धुराजसुतयोराकर्ण्य वाक्चातुरीं संस्मेरस्य हरेर्हरस्य च मुदो निघ्नन्तु विघ्नं तु वः ॥ ९॥ यस्मादासीत्कुमारः कुवलयदलवल्लीलयोवाह गङ्गां वामा यस्याङ्गसङ्गा पिहितजनचयो यो गवीशध्वजोऽपि । लङ्केशाद्येकनाथो हिमकररुचिभृद्भूविशेषाश्रयोऽसौ वर्णस्याद्यस्य लोपादपहरतु हरिः पातकं वः स्मरारिः ॥ १०॥ इति हरिहरस्तुतिः समाप्ता । Proofread by PSA Easwaran
% Text title            : hariharastutiH
% File name             : hariharastutiH.itx
% itxtitle              : hariharastutiH
% engtitle              : hariharastutiH
% Category              : vishhnu, shiva
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (VSM 3)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : May 13, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org