मनुकृतं हरिस्तोत्रम्
मनुरुवाच -
नमस्ते जगदव्यक्तपरापरपते हरे ।
पावकादित्यशीतांशुनेत्रत्रयधराव्यय ॥ २२॥
जगत्कारणसर्वज्ञ जगद्धाम हरे पर ।
परापरात्मरूपात्मन् पारिणां पारकारण ॥ २३॥
आत्मानमात्मना धृत्वा धरारूपधरो हरे ।
विभर्षि सकलान् लोकानाधारात्मंस्त्रिविक्रम ॥ २४॥
सर्ववेदमयश्रेष्ठ धामधारणकारण ।
सुरौघपरमेशान नारायण सुरेश्वर ॥ २५॥
अयोनिस्त्वं जगद्योनिरपादस्त्वं सदागतिः ।
त्वं तेजः स्पर्शहीनश्च सर्वेशस्त्वमनीश्वर ॥ २६॥
त्वमनादिः समस्तादिस्तं नित्यानन्तरोऽन्तरः ।
यद्धैममण्डं जगतां बीजं ब्रह्माण्डसंज्ञितम् ॥ २७॥
तद्बीजं भवतस्तेजस्त्वयोक्तं सलिलेषु च ।
सर्वाधारो निराधारो निर्हेतुः सर्वकारणम् ॥ २८॥
नमो नमस्ते विश्वेश लोकानां प्रभव प्रभो ।
सृष्टिस्थित्यन्तहेतुस्त्वं विधिविष्णुहरात्मधृक् ॥ २९॥
यस्य ते दशधा मूर्तिरूर्मिषट्कादिवर्जिता ।
ज्योतिः पतिस्त्वमम्भोधिस्तस्मै तुभ्यं नमो नमः ॥ ३०॥
कस्ते भावं वक्तुमीशः परेश
स्थूलात्स्थूलो योऽनुरूपोऽर्थवर्गात् ।
तस्मै नित्यं मे नमोऽस्त्वद्य योऽभू-
दादित्यवर्णं तमसः परस्तात् ॥ ३१॥
सहस्रशीर्षा पुरुषः सहस्रपात्
सहस्रचक्षुः पृथिवीं समन्ततः ।
दशाङ्गुलं यो हि समत्यतिष्ठत्
स मे प्रसीदत्विह विष्णुरुग्रः ॥ ३२॥
नमस्ते मीनमूर्ते हे नमस्ते भगवन् हरे ।
नमस्ते जगदानन्द नमस्ते भक्तवत्सल ॥ ३३॥
इति कालिकापुराणे त्रयस्त्रिंशाध्यायान्तर्गतं
मनुकृतं हरिस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran