हस्तिगिरीशस्तवः
श्रीमच्छ्रीनिधियोगीन्द्रश्रीरङ्गेशयतीश्वरौ ।
प्रणम्य सादरं कुर्वे हस्तीशस्तवमद्भुतम् ॥ १॥
प्रह्लादजनकोद्दामदानवैभवशालिनौ ।
करिक्ष्माभृदधीशानौ कलयेमहि कावपि ॥ २॥
कनत्परममायिने करिगिरेरधः स्थायिने
चराचरविधायिने चतुरभीष्टसन्दायिने ।
नमः परमयोगिने नतजनावनोद्योगिने
नृशंसहतिकायिने नृहरये जगत्कायिने ॥ ३॥
श्रिया सह विहारिणे श्रुतिशिरःसु सञ्चारिणे
प्रभूतभयहारिणे प्रबलदैत्यसंहारिणे ।
शुकादिहितकारिणे शुभगुणैरलङ्कारिणे
नतत्रिपुरवैरिणे नम इदं मधर्वैरिणे ॥ ४॥
सटापटलभीषणं सरलकेसरोद्भूषणं
समस्तगदशोषणं सरससाधुसम्भाषणम् ।
विशिष्टजनतोषणं विधिशिवेन्द्रसम्पोषणं
नमामि भवपेषणं नरहरि महीभूषणम् ॥ ५॥
करिगिरितटाधारा धाराधरप्रकरोपमा
निरुपमगुणोदारा दारार्धदेहमुखेडिता ।
वभयसमुत्तारा ताराधिपप्रतिमानना
निरवधिदयासारा सा राजते परदेवता ॥ ६॥
करिगिरितटोत्तंसं तं सम्प्रवृद्धबलोदयं
निजबलगलत्कंसं कं संव्यवन्तममुं सदा ।
मुनिजनकृताशंसं शं सन्दधानमहं भजे
रुचिरसमसाध्वंसं ध्वंसं विपद्विततेः सताम् ॥ ७॥
करिगिरिपतिं श्रीशं श्रीशङ्करप्रमुखार्चितं
सकलभुवनाधीशं धीशं बलर्द्धिविशोभितम् ।
नवजलदसङ्काशं काशंसनीय गुणोत्करं
जगति दहराकाशं का शंसतीह न देवता ॥ ८॥
प्रत्यूषस्मयमानपङ्कजसदृग्दृग्दर्शनीयाननः
प्रत्यादिष्टसुराभियातिनृपतिप्रोद्दामभूमाङ्कुरः ।
अस्मादृग्जन ....प्तावतारः क्षिता-
वस्मान् रक्षतु हस्तिशैलशिखरस्थेमा पुमान् केसरी ॥ ९॥
हस्त्यद्रिनाथ वरदत्वमनन्यलभ्य-
मुच्चैस्तरां प्रकटयन्निव शृङ्गदेशे ।
तिष्ठस्यहो वरदमूर्तिरिति प्रतीमो
नो चेच्छरीरयुगलाश्रयणं किमर्थम् ॥ १०॥
पायान्नः पातकेभ्यः करिशिखरिपतिः कालमेघाभिरामः
कन्न्दर्पोद्दामदर्पप्रशमननिपुणस्वीयलावण्यभूमा ।
त्रय्यन्तश्रान्तचिन्तानघतरविबुधव्राततोष्टूयमानः
श्रीमान् श्रेयविधाता निजपद नलिनद्वन्द्वसेवापराणाम् ॥ ११॥
भूमा भूमावुमापत्यभिनुतमहिमा सर्वकल्याणसीमा
भूमाभूमावहश्रीकरिगिरिनिलयो योगिभिर्गेयनामा ।
कामाद् वैमानिकाद्यैर्दुरवगमगतिर्वैरिम्भीमात्मशक्तिः
श्रीमान् पुष्णातु धामान्यजनदृगपदं तिग्मधामत्रिधामा ॥ १२॥
इन्द्राद्या देववर्गाः परिचरणपराः स्वाधिकारे नियुक्ता
नित्यैर्नैमित्तिकैर्वा श्रुतिशतविहितैः कर्मभिः पूजिताश्चेत् ।
तृप्ताश्चैव प्रसन्नाः करिशिखरिपते त्वत्प्रसादाय भूयः
कल्पान्ते हीति गीतं विशदमभिहितं सूत्रभाष्यादिके च ॥ १३॥
आतस्तान् पूजयामः प्रसदनमिह ते प्रार्थयन्तः प्रकामं
राज्ञः काङ्क्षन् प्रसादं ह्युपचरति यथा भृत्यवर्गं तदीयम् ।
स्वाभीष्टावेदनं तन्मुखत उरुगुणं नीतिवित्सार्वभौमा
मन्यन्ते साम्प्रतं श्रीकरिशिखरिपदे पूजनं युक्तमेषाम् ॥ १४॥
धार्यत्वाच्छेषभावान्नियमनविषयत्वाद् विधेयत्वतश्च
श्रीमन् हस्तिक्षमाभृन्निलय तव तनुर्देवता इन्द्रमुख्याः ।
तद्याजी त्वत्प्रसादं प्रसभमभिलषंस्त्वत्तनुत्वेन जानन्
किं न्वैकान्त्यं न विन्देद् वरद कथय मे दासदासानुसेवी ॥ १५॥
यः प्राधान्येन देवं .... जडमतिर्वाञ्छिताप्त्यै स न स्या-
देकान्ती देवराज त्वदुपममिह नो व .... ।
चत्वारो वै पुमर्थाः परमपुरुषतो नान्यतो लब्धुमर्हा
इत्येवं सङ्गिरन्ते किल फलचरणे भाष्यकारादयोऽमी ॥ १६॥
चर्मप्राया हि देवा इति कथनमपि प्रायशः प्रौढिवादः
स्वातन्त्र्यं नैव तेषां क्वचिदपि विषये पारतन्त्र्यं तु काष्ठा ।
इत्येवं हस्तिनाथ स्फुटयितुमपि वा तादृशोक्तिर्विभाव्या
नो चेद् देवाधिकृत्यां कथमिह घटते देवतैश्वर्यवादः ॥ १७॥
स्वप्रीतिद्वारकं यत् परमपुरुषसम्प्रीतिनिष्पादनं त-
द्ध्यैश्वर्यं देवताया इति तदधिकृतौ भाति सौदर्शनोक्तिः ।
चर्मप्रायत्ववादे कथमिव घटते हस्तिशैलेश सैषा
दोषाशेषाभिनन्द्या तदिह बुधजनैर्देवतैश्वर्यमर्थ्यम् ॥ १८॥
पाराशर्यः प्रमाणं पटुतरधिषणो देवतैश्वर्यसिद्धौ
कल्प्या पूर्वादिपक्षं निरसितुमकरोद् यच्छ्रुतत्वाच्च सूत्रम् ।
रक्षायां साच्चरित्र्यां श्रुतिशिखरगुरुर्दर्शयित्वा प्रमाणं
ह्यूचे हस्तीश देवान्तरयजनमपि ब्रह्ममीमांसकानाम् ॥ १९॥
साक्षाच्चतुर्मुखमखे हविरन्वभूस्त्वं
शक्रादयः किल न तत्र तदन्वभूवन् ।
हस्त्यद्रिनाथ वरमेवमदाः सुरेभ्यो
नो मानुषेभ्य इह हेतुमुदारसत्त्वम् ॥ २०॥
यद्देवता त्वमधुना यदि सम्ब्रवीषि
तद्वा कुतः सुरगणे भगवन् दयेथाः ।
आज्ञैव हेतुरिह देवगणस्य तत्त्वे
नो चोदनार्ह इति चेत् किमहं ब्रवीमि ॥ २१॥
वेदान्तदेशिकवरैः क्वचन प्रबन्धे
देवा हि कञ्चुकसमा इति तावदुक्तम् ।
यष्टव्यता प्रपदनान्वयिनापि तेषा-
मुक्ता क्वचित कथमिदं घटते करीश ॥ २२॥
जैमिन्यनीश्वरवचोनिचयोपपत्ति-
न्यायेन देशिकवचोऽपि विभावनीयम् ।
सर्वैश्च पण्डितजनैरिति सम्प्रतीमो
हस्तीश्वरैवमुपपादयसि त्वमेव ॥ २३॥
भाष्ये हि ब्रह्मशब्दः क्वचिदधिकरणे भाति सामान्यवाची
तस्मिन्नेवावभाति क्वचिदधिकरणेऽसावसाधारणोऽपि ।
अत्र श्रीतत्त्वटीकाप्रकटितनयतः कञ्चुकप्रायतोत्ते-
र्देवानां मान्यवर्यं करिशिखरिपते बोधयस्यञ्जसा त्वम् ॥ २४॥
यस्मिन् पक्षोऽस्ति भाष्यप्रमुखबहुतरग्रन्थसंवादभूमा
तस्मिंस्तात्पर्यमेवाकलयितुमुचितं वेदचूडागुरूणाम् ।
श्रीशे ब्रह्मण्यनीशे त्वयि विधिमुखसाधर्म्यबुद्धिं निरोद्धुं
मन्दानां मन्वहे श्रीकरिशिखरिपते कञ्चुक प्रायतोक्तिम् ॥ २५॥
सकृद्यष्टस्त्वं मे क्षिपसि सहसा सर्वदुरिता-
न्यनन्तान्यच्छेद्यान्यनुपमगुण श्रीकरिपते ।
कथङ्कारं कारागृहनिगलयोग्या विधिमुखाः
सुराः शक्तास्तादृग्दुरितलवनिर्धूननविधौ ॥ २६॥
सकृत् त्वां पश्यन्तः समदगजगण्डस्थलगल-
न्मदस्रोतःक्रीडद्भ्रमरपटलीविभ्रमभृतः ।
नरीनृत्यन्नारीरुचिरकबरीकान्तिलहरी-
परीतान् गाहन्ते सपदि हि गृहान् हस्तिरमण ॥ २७॥
सकृत् त्वां सम्पश्यन् सकृदवनताभीष्टवरदं
समस्तैस्त्रय्यन्तैः समधिगतपारम्यमनघम् ।
शुनासीरस्तम्बेरममुखमखाभ्यर्थनकला-
नभिज्ञः श्रीहस्तिक्षितिरमण धीरश्च भविता ॥ २८॥
सकृत् त्वां दृष्ट्वा यः सजलजलदच्छायममलं
समस्तैर्योगीन्द्रैरभिनुतमिह श्रीकरिपते ।
स मृत्योः सम्भूतां भियमथ विनिर्धूय सहसा
महानन्दब्रह्मानुभवसुपरीवाहमयते ॥ २९॥
विधातारं केचिच्छरणमभिगच्छन्ति निपुणाः
सुधाशानामीशं कतिचन परे त्वन्यमपि वा ।
वृथामीषां यत्नः करिगिरिपते त्वद्गुणकथा-
सुधास्वादाभिज्ञाः किमपि गणयन्त्यल्पशकरान् ॥ ३०॥
त्वदायत्तामीषां स्थितिरधिकृतिर्वा दिविषदां
दिगीशानादीनामिति खलु न जानन्ति हि जडाः ।
अतस्तान् सेवन्ते परिमितफलप्राप्तिचपलाः
करीश त्वन्मायापरवशमशेषं जगदिदम् ॥ ३१॥
सृजस्यादौ विश्वं समवसि ततः संहरसि च
त्वमेव श्रीहस्तिक्षितिरमण नान्यः प्रभवति ।
त्वया दत्तां शक्तिं विधिशिवशचीशप्रभृतयो
दधाना लोकानामधिकृतिममी बिअतितराम् ॥ ३२॥
न जाने श्रीजाने नलिननयने नागशयने
प्रधाने देवानां त्रिजगदवने दत्तनयने ।
त्वयि श्रीहस्तिक्ष्मारमण भगवन् भक्तिमतुलां
विना मुक्तेरन्यत् किमपि निगमान्तैरवधृतम् ॥ ३३॥
त्वमेव ब्रह्माद्यं परमपुरुष श्रीकरिपते
त्वमेवं त्रय्यन्तैरभिनुतपदो योगिभिरपि ।
त्वमेव श्रीकान्तो निखिलजगदन्तर्यमयिता
त्वमेव त्वामातः किल शरणमन्त्र्याजमभजम् ॥ ३४॥
जगत्सृष्टिस्थेमप्रलयरचनाकेलिविवशं
जनिक्लेशत्रस्तप्रचुरजनतात्राणनिपुणम् ।
दयादुग्धाम्भोधिं दनुजमथनं दिव्यचरितं
करीश त्वां दृष्ट्वा शरणमिति वाचं समफणम् ॥ ३५॥
पुंसूक्तं सकलं करीश भवदेकान्तं वरीवृत्यते
सर्वाम्नायगणप्रधानतमतामस्य स्मरन्ति स्फुटम् ।
गीता त्वन्मुखनिर्गता सुमहिताधीता विमुक्त्यर्थिभि-
स्त्वत्पारम्यपरा विराजतितरां को वा समः कथ्यताम् ॥ ३६॥
ईशानश्रुतिवैभवेन गिरिशे नेतुं न युक्तं हि तत्
षष्ठ्या अन्वयदुस्थताप्रसजनात् तत्पूर्ववृत्तेः स्फुटम् ।
किं तु त्वत्परमेव सर्वविबुधैरभ्यर्थनीयं बला-
देवं विष्णुपुराणमुख्यवचनैर्हस्तीश निर्धारितम् ॥ ३७॥
सत्यं ज्ञानमनन्तमाद्यममलं नित्यं स्वयञ्ज्योतिषं
सर्वव्यापि सुसूक्ष्मभूतमभयं त्वामाहुराद्या गिरः ।
त्वामन्तर्विनिवेशयन्ति महता यत्नेन योगीश्वराः
किं ब्रूमो महिमानमद्भुततमं हस्तिक्षमाभृत्पते ॥ ३८॥
किं त्वां जानन्ति मूढाः कलुषितहृदया हस्तिशैलेश्वर त्वत्-
सान्निध्येऽवस्थिता अप्यधिनिधि चरतां किं नु तज्ज्ञानमस्ति ।
क्षुद्रान् निद्रानुसक्तानपि पशुसदृशान् ब्रह्मविन्निन्दनैका-
नन्दान् मन्दानहन्ताप्रथमजनिगृहांस्त्वं कथं तान् सहेथाः ॥ ३९॥
चातुर्मास्यं समग्रं व्रतमिह चरितं त्वत्कृपावैभवेन
श्रीमन् हस्तीश्वराद्यं व्रतमनुचरितं निस्तुले रङ्गधाम्नि ।
अध्याप्य ब्रह्मविद्यामनुपमविषणानाश्रिताञ्छात्रवर्गान्
निःसीमानन्दमाप्तः प्रचुरबहुमतिस्त्वच्चरित्रेषु वर्ते ॥ ४०॥
भूयो भूयो नमामि त्वदनघचरणाम्भोरुहद्वन्द्वमेव
श्रीमन् हस्तीश निस्तीर्य च भवसरणौ जाङ्घ्रिकत्वं प्रहृष्टः ।
वाचां प्राचां प्रवाचामपि खलु विषयस्त्वं कथं मादृशानां
प्रज्ञादौर्लभ्यभाजामहह कुवचसां गोचरत्वं प्रयासि ॥ ४१॥
श्रीमाञ्छ्रीमच्छठारिव्रतिकलितशतस्तम्भवन्मण्टपान्ते
डोलाडोलायितात्मा मणिमयमकुटज्योतिदृग्भासिताशः ।
राजा राजाधिराजप्रमुखदिविषदां हस्तिशैलेश्वराख्यो
देवो देवो मुदे वो भवतु मम जनाः स्मेरवक्त्रारविन्दः ॥ ४२॥
मुक्तैश्वर्यं जगद्व्यापरणविरहितं सूत्रितं सूत्रकारै-
स्तस्येत्थं भावमाहुः किल गुरुचरणा भाष्यकारादयोऽमी ।
राज्ञां छत्रादिवत् ते करिरमण जगत्कारणत्वं विमुक्ते-
र्हेतुत्वं लक्षणे द्वे तदुभयवशतो लक्ष्यसेऽन्यादृशस्त्वम् ॥ ४३॥
मुक्तैश्वर्यं जगद्वयापरणमपि यदि ब्रह्मणो लक्षणं तत्
भज्येतातिप्रसङ्गात् कथमिव परमं ब्रह्म जिज्ञासितुं स्यात् ।
जिज्ञास्यत्वं जगत्कारणगतमिति च स्पष्टमाम्नायमौला-
वातो मुक्तेषु हस्तिक्षितिरमण जगद्व्यापृतिर्नोचितेतिम् ॥ ४४॥
युक्तं तन्मन्महे श्रीकरिरमण वयं त्वत्कटाक्षाद् विमुक्ता
ब्रह्मानन्दानुभूतिप्रकलनविषये साम्यमेते वहेयुः ।
जिज्ञास्यत्वं मुमुक्षोः कथमिव घटतां त्वं हि जिज्ञासनीयः
सर्वैस्तापत्रयार्तैस्त्वदुपजनितधीशक्तिमान् नोऽपरः स्यात् ॥ ४५॥
अपारे कूपारे तृणमिव तटं केनचिदितं
त्वसारे संसारे स्थिरतररुचिर्दुस्तरतरे ।
मुरारे कंसारे करिगिरिपतेऽहोबिलमुनि-
ष्वहं तत्कारुण्यात् समगणिषि धन्योऽहमधुना ॥ ४६॥
अस्मान् रक्षतु हस्तिशैलशिखरेत्येवं तुरीयं पुनः
पादं कञ्चन हस्तिराडुपदिशन् स्वप्नेऽवबोध्यैव माम् ।
दीक्षां संश्रितरक्षणे प्रकटयस्युच्चैस्तरां श्रीपते
वात्सल्यैकवशंवदस्त्वमबिभो नानावतारान् क्षितौ ॥ ४७॥
वेगातुङ्गतरङ्गसङ्गमदशाव्यालोलदम्भोरुह-
च्योतत्स्फीतमरन्दवृन्दलहरीपारम्परीमेदुरे ।
रोधस्युत्तरतोऽवभासि भगवन् हस्तिक्षमाभृत्पते
त्वत्सेवारसिका भवन्ति मनुजा धन्याः क्षितौ सन्ततम् ॥ ४८॥
जन्तुं कृतमन्तुं भुवि नन्तुं यतमानं
रक्षस्यरिपक्षच्युतिदक्ष स्वयमीश ।
धाराधरदोराहवधीरानघमूर्ते
हस्तीश सुविस्तीर्णगुणास्तीह समः कः ॥ ४९॥
हस्तीश निस्तुलतरस्तुतिरत्नजाल-
मस्तीति मत्स्तुतिरियं परमास्तिकेड्य ।
नोपेक्षितुं त्वलमहो शुकभाषितादौ
सन्तोषमाकलयते हि महान् नृसान्ज्ञः ॥ ५०॥
इत्थं सवीररघुराट्छ्रुतिमौलियोगि-
क्ष्माभृत् करिक्षितिपतेः स्तवमद्भुतार्थम् ।
प्रीत्यै हरेर्व्यतनुत प्रणिशम्य सन्तः
सन्तोषमत्र कलयन्तु गताभ्यसूयाः ॥ ५१॥
श्रीमद्वीररघूद्वहश्रुतिशिरोयोगिक्षमाभृत्कृतं
हस्तीशस्तवमादरात् पठति यः शुद्धो विशुद्धाशयः ।
जिह्वायामिह नानटीति सततं वाग्देवता तस्य सं-
सिध्यन्ति ह्यचिरेण किं च महिताः सर्वे पुमर्था भुवि ॥ ५२॥
इति श्रीहस्तिगिरीशस्तवः समाप्तः ।
स्तोत्रसमुच्चयः २ (८०)
Proofread by Rajesh Thyagarajan