श्रीहयग्रीवाष्टकम्
हयाननं हयग्रीवं हारनूपुरशोभितम् ।
पीताम्बरधरं देवं हयग्रीवमुपास्महे ॥ १॥
कुन्देन्दुशङ्खधवलं पद्मपत्रनिभेक्षणम् ।
शङ्खचक्रधरं देवं हयग्रीवमुपास्महे ॥ २॥
मुक्तादामसमायुक्तं नेमिकोटिसमप्रभम् ।
रत्नकुण्डलकेयूरं हयग्रीवमुपास्महे ॥ ३॥
शेषासन समासीनं लक्ष्मीनीलासमन्वितम् ।
श्रीवत्सकौस्तुभधरं हयग्रीवमुपास्महे ॥ ४॥
योगासनसमासीनं वेदशास्त्रसमन्वितम् ।
सर्ववेदान्ततत्त्वज्ञं हयग्रीवमुपास्महे ॥ ५॥
श्वेतवर्णं चतुर्बाहुं वैजयन्तीविराजितम् ।
सर्वाभरणसंयुक्तं हयग्रीवमुपास्महे ॥ ६॥
मणिपीठसमासीनं मकुटोज्ज्वलमण्डितम् ।
मुक्ताहारधरं देवं हयग्रीवमुपास्महे ॥ ७॥
ब्रह्माण्डकोटिगर्भस्थं मन्दहाससुशोभितम् ।
सर्वविद्याप्रदं देवं हयग्रीवमुपास्महे ॥ ८॥
हयग्रीवाष्टकं पुण्यं ये जनाः समुपासते ।
आयुर्वृद्धिः बलं धैर्यं विद्याबुद्धिसुखप्रदम् ॥ ९॥
आप्नयुस्सकलान् कामान् सर्वत्र विजयं शुभम् ।
सर्वपापप्रशमनं हयग्रीवप्रभावतः ॥ १०॥
इति श्रीहयग्रीवाष्टकं सम्पूर्णम् ।
Proofread by Chandrasekhar Karumuri