हयग्रीवपटलम्

हयग्रीवपटलम्

श्रीगणेशाय नमः । हयशिरः पदं ङेन्तंहृदयं च समुद्धरेत् । स्वबीजादिमहामन्त्रश्चतुर्वर्गफलप्रदः ॥ अस्य हयग्रीवाष्टाक्षरमन्त्रस्य ब्रह्मा ऋषिरनुष्टुप्छन्दः श्रीहयग्रीवरूपी विष्णुर्देवता ममाभीष्टकामनासिद्धयर्थे जपे विनियोगः ॥ ब्रह्मणे ऋषये नमः शिरसि । अनुष्टुप्छन्दसेनमो मुखे । श्रीहयग्रीवरूपिण्यै विष्णुदेवतायै नमो हृदि । अथ कराङ्गन्यासौ । ह्रां अङ्गुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । ह्रूं मध्यमाभ्यां नमः । ह्रैं अनामिकाभ्यां नमः । ह्रौं कनिष्ठिकाभ्यां नमः । ह्रः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि । ततो ध्यानम् । शरच्छशाङ्कप्रभमश्ववक्त्रम्मुक्तामयैराभरणैःप्रदीप्तम् । रथाङ्गशङ्खौ धृतवाहयुग्मं विद्याख्यमुद्रान्यकरं नमामि ॥ एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं कृत्वा पीठपूजां विधाय तद्यथा मूलाधारे ॐ मण्डूकाय नमः । स्वाधिष्ठाने ॐ कालाग्निरुद्राय नमः । नाभौ ॐ प्रकृत्यै नमः । हृदि ॐ ह्रीं आधारशक्त्यै नमः । कूर्माया नमः । अनन्ताय नमः । वाराहाय नमः । पृथिव्यै नमः । सुधासिन्धवे नमः । नवरत्नद्वीपाय नमः । जातवनाय तन्मध्ये मणिमण्डपाय तन्मध्ये कल्पवृक्षाय नमः । तदधो रत्नवेदिकायै नमः । तदुपरि स्वसिंहासनाय नमः । तदुपरिश्वेतातपत्राय नमः । सितचामराभ्यां नमः । तालवृन्ताभ्यां नमः । विमलादर्शाय नमः । ततो मुखपार्श्वनाभिवामपार्श्वेषु धर्मज्ञानवैराग्यैष्वर्यान् दक्षिणांशतदूर्वामोरुतदंशेषु अधर्माज्ञानावैराग्यानैश्वर्यान् अनन्ताय नमः । सर्वतत्त्वाय नमः । पद्माय नमः । आनन्दकन्दाय नमः । संविन्नालाय नमः । प्रकृतिमयपत्रेभ्यो नमः । विकारमयकेसरेभ्यो नमः । पञ्चाशद्वर्णबीजाढ्यकर्णिकायै अं अर्कमण्डलाय द्वादशकलात्मने नमः । ओं सोममण्डलाय षोडशकलात्मने नमः । वं वह्निमण्डलाय मण्डलात्मने नमः । सं सत्त्वाय नमः । रं रजसे नमः । तं तमसे नमः । ओं आत्मने अं अन्तरात्मने नमः । पं परमात्मने नमः । ह्रीं ज्ञानात्मने पीठशक्तिं न्यसेत् । केसरेषु मध्ये च पूर्वादिक्रमेण ओं विमलायै नमः । एवं उत्कर्षिण्यै नमः । ज्ञानायै नमः । क्रियायै नमः । योगायै णमः । प्रभ्वै नमः । सत्यायै नमः । ईशानायै नमः । अनुग्रहायै नमः । तदुपरि ॐ नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्मसंयोगयोगपीठात्मने नमः । इति पीठपूजां कृत्वा पुनर्ध्यात्वाऽऽवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं पूजां विधायावरणपूजामारभेत् । तत्राङ्गैः प्रथमावरणम् ॥ प्रज्ञाहयग्रीवाय नमः । मेधाहयग्रीवाय नमः । स्मृतिहयग्रीवाय नमः । विद्याहयग्रीवाय नमः । लक्ष्मीहयग्रीवाय नमः । वागीशहयग्रीवाय नमः । विद्याविशालहयग्रीवाय नमः । नादविमर्दहयग्रीवाय नमः । इत्यष्टभिर्द्वितीयम् ॥ लक्ष्मीसरस्वतीरति-प्रीति-कीर्ति-कान्ति-तुष्टि पुष्टिभिस्तृतीयम् ॥ कुमुदादिभिर्गजैश्चतुर्थम् ॥ इन्द्रान्दिभिः पञ्चमम् ॥ ततो धूपादिविसर्जनान्तं कर्म समापयेत् । अस्य पुरश्चरणं चतुर्लक्षं जपः । तथाच-वेदलक्षं जपेन्मन्त्रं दशांशं जुहुयात्ततः ॥ आज्येन तद्दशांशहोमः ॥ इति हयग्रीवपटलं समाप्तम् Proofread by Nat Natarajan, NA
% Text title            : hayagrIvapaTalam
% File name             : hayagrIvapaTalam.itx
% itxtitle              : hayagrIvapaTalam
% engtitle              : hayagrIvapaTalam
% Category              : vishhnu, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Nat Natarajan nat.natarajan at gmail.com
% Proofread by          : Nat Natarajan nat.natarajan at gmail.com, NA
% Description-comments  : From Brihatstotraratnakara with 408 stotras
% Latest update         : June 5, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org