श्रीहयग्रीवपञ्जरम् २

श्रीहयग्रीवपञ्जरम् २

दुग्धाब्धीन्दुहराद्रिकुन्दवपुषं रक्ताम्बुजाक्षं हरिं राकापूर्णशशाङ्कबिम्बविलसच्छुभ्राब्जपीठस्थितम् । हेषावेदघनध्वनद्ध्वनिरवं बालार्करक्ताम्बरं मुद्रापुस्तकशङ्खचक्रविलसद्बाहुं भजेऽश्वाननम् ॥ १॥ प्रणम्य शिरसा देवं नारायणमशेषगम् । रमावक्षोजकस्तूरीपङ्कमुद्रितवक्षसम् ॥ २॥ सर्वशास्त्रार्थतत्त्वज्ञः पाराशर्यस्तपोधनः । हिताय सर्वजगतां नारदं मुनिमब्रवीत् ॥ ३॥ नादविद्याविशेषज्ञं कर्पूरधवलाकृतिम् । महतीनादसन्तुष्टमानसं महितं परम् ॥ ४॥ हिरण्यगर्भसम्भूतं हिरण्याक्षारिसेविनम् । पुण्यराशिं पुराणज्ञं पावनीकृतदिक्तटम् ॥ ५॥ व्यास उवाच- देवर्षे नारद श्रीमन् साक्षाद्ब्रह्माङ्गसम्भव । भवानशेषविज्ञानपारगस्तपसां निधिः ॥ ६॥ वेदान्तपारगस्सर्वशास्रार्थप्रतिभोज्ज्वलः । परब्रह्मणि निष्णातस्सच्चिदानन्दविग्रहः ॥ ७॥ जगद्धिताय जनितस्साक्षादिव चतुर्मुखः । हन्यन्ते भवता दैत्याः दैत्यारिभुजविक्रमैः ॥ ८॥ लोकानुग्रहकर्ता त्वं त्रैलोक्यं तद्वदानघ । मनुष्या ऋषयो देवाः त्वय्येव परिसत्तम ॥ ९॥ कर्ता त्वं लोककार्याणां परत्र परिनिष्ठितः । पृच्छामि त्वामशेषज्ञ निदानं सर्वसम्पदाम् ॥ १०॥ सर्वसंसारनिर्मुक्तं आपद्घ्नं शान्तमानसम् । यत्सर्वलोकहितकृत् यत्प्रशंसन्ति योगिनः ॥ ११॥ यतश्चराचरं विश्वं धृतं येन महामुने । स्पृहयन्त्युन्नतप्राप्तिं यस्मिन्ब्रह्मादिदेवताः ॥ १२॥ निर्माणावनसंहारा यतो विश्वस्य सत्तम । यस्य प्रभावाद्ब्रह्माद्याः लभन्ते वाञ्छितं फलम् ॥ १३॥ दारिद्र्यनाशो जायेत यस्मिन्श्रुतिपथं गते । विवक्षितार्थनिर्वाहो मुरवान्निस्सरते च गीः ॥ १४॥ नृपाणां राज्यहीनानां येन राज्यं भविष्यति । अपुत्रः पुत्रवान् येन वन्ध्या पुत्रवती भवेत् ॥ १५॥ शत्रूणामचिरान्नाशो ज्ञानं ज्ञानेप्सुनामपि । चतुर्वर्गफलं यस्य जपाद्भवति सुव्रत ॥ १६॥ भूतप्रेतपिशाचाद्याः यक्षराक्षसपन्नगाः । ज्वरादिवातरोगाश्च यस्य स्मरणमात्रतः ॥ १७॥ मुच्यन्तेऽरिवलशार्दूल यद्वाखिलजगद्धितम् । तदेतदिति निश्चित्य ब्रूहि मे सकलं गुरो ॥ १८॥ इत्युक्तस्तेन मुनिना व्यासेनामिततेजसा । बद्धाञ्जलिपुटो भूत्वा सादरं वैणिको मुनिः ॥ १९॥ नमस्कृत्य जगन्मूलं लक्ष्मीकान्तं परात्परम् । नमोवाक्यैः पुरश्चक्रे मन्त्रेणानेन विष्णवे ॥ २० ओङ्कारोद्गीथरूपाय ऋग्यजुस्साममूर्तये । नमो हयोत्तमाङ्गाय वाञ्छितार्थं प्रयच्छ मे ॥ २१॥ अज्ञानतिमिरं छिन्धि ज्ञानमाशु प्रयच्छ मे । देहि मे सम्पदं देव हयशीर्ष नमोऽस्तु ते ॥ २२॥ भूतप्रेतपिशाचादीन् छिन्धि देव जनार्दन । ज्वरादीन्सकलान् रोगान् नाशयाशु रमापते ॥ २३॥ दारिद्र्यं सकलं छिन्धि कुरु सौभाग्यभाजनम् । शत्रून्नाशय देवेश हयशीर्ष नमोऽस्तु ते ॥ २४॥ मेधां विद्यां बलं प्रज्ञां सम्पदं पुत्रपौत्रकान् । देहि मे सकलं देव हयशीर्ष नमोऽस्तु ते ॥ २५॥ कर्कोटकमुखान् सर्पान् सविषान्विलयं नय । अमृतं कुरु मां देव हयशीर्ष नमोऽस्तु ते ॥ २६॥ स्त्रीवश्यं जनवश्यं च राजवश्यं परात्परम् । कुरु देवाङ्गनावृन्दसेव्यमानपदाम्बुज ॥ २७॥ हंसाय परमेशाय चन्द्रमण्डलवासिने । नमो हयोत्तमाङ्गाय वाञ्छितार्थं प्रयच्छ मे ॥ २८॥ ऋयजुस्सामरूपाय ऋताय महसे नमः । ऋक्षेश बिम्बमध्यस्थराजीवासनभाजिने ॥ २९॥ वेदवेदान्तवेद्याय वेदाहरणकर्मणे । वादाहव महाबाहो भ्रंशिने ब्रह्मणे नमः ॥ ३०॥ प्रज्ञाप्रदायिने नित्यं भजतां भावितात्मनाम् । प्रणवोद्गीथवपुषे प्रणतिं प्रतिपादये ॥ ३१॥ मन्दारकुन्दस्फटिकमहनीयोरुवक्षसे । मनीषाप्रददेवाय महाश्वशिरसे नमः ॥ ३२॥ इति द्वादशमन्त्रेण नमस्कृत्य जनार्दनम् । प्राह प्रसन्नवदनः पाराशर्यमनिन्दितम् ॥ ३३॥ नारद उवाच । साधु साधु त्वया पृष्टः मुने सत्यवतीसुत । कृत्स्नाध्वरात्समुद्धत्य विलोक्य निखिलागमान् ॥ ३४॥ संशोध्य सर्वशास्त्राणि समालोक्येतिहासकान् । पुराणमन्त्रशास्त्राणि मथित्वा दर्शनान्यपि ॥ ३५॥ सर्वतस्सारमुद्धृत्य तव वक्ष्ये यथार्थतः । अवधाने मनः कृत्वा श‍ृणु सत्यवतीसुत ॥ ३६॥ अशेषलोकहितकृदज्ञानतिमिरापहम् । अणिमादिगुणोपेतं हयग्रीवस्य पञ्जरम् ॥ ३७॥ अर्च्यं ब्रह्मादिभिर्देवैरनन्ताद्वैतकारणम् । उपास्यमानं सततं उमाजानिमुखैस्सुरैः ॥ ३८॥ ब्रह्महत्यादिपापघ्नमपूर्वफलदायकम् । सारस्वतादिसंसृष्टकारणं कवितावहम् ॥ ३९॥ सङ्गीतविद्यानिलयं श्रुतिदं पुत्रदायकम् । किमुच्यते महाभाग प्रभावस्तस्य शाश्वतः ॥ ४०॥ यस्य प्रभावाद्ब्रह्मापि ब्रह्मत्वमगमत्पुरा । शम्भुश्शम्भुत्वमापन्नः शक्रश्शक्रत्वमागतः ॥ ४१॥ जप्त्वा यक्षेशतां प्राप्तः कुबेरः पञ्जरोत्तमम् । जप्त्वा बृहस्पतिस्सम्यग्धयग्रीवस्य पञ्जरम् ॥ ४२॥ हयग्रीवप्रसादेन वाचस्पत्यमवाप्तवान् । प्राचीदिक्पालतां यातः श्रुत्वेदं पञ्जरं पुरा ॥ ४३॥ अस्मादन्येऽ पि दिक्पाला तत्तत्स्थानं गता ध्रुवम् । लब्ध्वोपदेशं गिरिराट्᳐सैनापत्यं गतो गुहः ॥ ४४॥ सर्वक्षत्रवधं चक्रे रामश्चास्य जपान्मुने । राजा बभूव सर्वेषां शशाङ्कोऽस्य प्रभावतः ॥ ४५॥ सूर्यस्तेजस्वितां प्राप्तो लब्ध्वेदं ब्रह्मणोऽन्तिकात् । शुक्रस्य कवितासिद्धिं प्रायच्छच्चन्द्रशेरवरः ॥ ४६॥ प्रह्लादोऽस्य जपादेव तीर्त्वा बाधामहाम्बुधिम् । भक्त्या परमया युक्तः कैवल्यं परमं ययौ ॥ ४७॥ धर्मराज इति ख्यातिं यमोऽपि गतवान् ध्रुवम् । रामो ददाति सर्वेभ्यो जपात्सकलसम्पदः ॥ ४८॥ एतत्पञ्जरमाहात्म्यं अनुभूयोर्वशी चिरम् । ख्यातिं जगाम वेदेषु बुधपुत्रः पुरूरवाः ॥ ४९॥ लब्ध्वेदं पञ्जरप्राप्तिं मुक्तिं सम्मानतो जपात् । धर्मार्थकाममोक्षाणामिदमेव परायणम् ॥ ५०॥ पुरा सर्वासु विद्यासु नष्टासु प्रलये मुने । नारायणो जगत्कर्ता रमाश्रितभुजान्तरः ॥ ५१॥ निःस्वाध्यायवषट्कारं स्वधास्वाहाविवर्जितम् । विलोक्य भुवनं कृत्स्नं किमिति व्याकुलोऽभवत् ॥ ५२॥ अन्वीक्ष्य वेदशास्त्राणि नापश्यत्किमपि प्रभुः । हयग्रीवतनुं प्राप्य सच्चित्सुखमयीं ततः ॥ ५३॥ निष्कलङ्कशशिच्छायां निर्निद्रकमलेक्षणाम् । नित्यामचिन्त्यविभवां नीराजितपदां सुरैः ॥ ५४॥ चन्द्रमपडलमध्यस्थपुण्डरीकनिषेदुषीम् । शङ्खचक्राक्षवलयपुस्तकोज्ज्वलबाहुकाम् ॥ ५५॥ पूरयित्रीं जगत्कृत्स्नं प्रभया देहजातया । ऋषिभिः प्राक्तनैर्ध्येयां ज्ञानविज्ञानपूरिताम् ॥ ५६॥ मनोवाग्विषयातीतामागमान्तनिवासिनीम् । शोकात्तीर्त्वा गुणोन्मुक्तामवस्थात्रयवर्जिताम् ॥ ५७॥ सम्यग्वीरासनासीनस्साक्षाच्चिन्मात्रविग्रहः । अध्यासीत्पञ्जरं स्वीयं वेदसारमचिन्तयन् ॥ ५८॥ अष्टवारमिदं ब्रह्मन्नष्टाविंशतिसङ्ख्यया । आवर्तयन् ददर्शाग्रे प्रणवं पञ्जरोद्भवम् ॥ ५९॥ गायत्री प्रणवाज्जज्ञे ततस्साङ्गादयो मुखाः । स्मृतयश्च पुराणानि सेतिहासानि सत्तम ॥ ६०॥ तस्मादशेषविद्यानां निदानमिदमिष्यते । उपादिशद्गिरीशाय हयग्रीवस्य पञ्जरम् ॥ ६१॥ अस्मादवाप्तवानेतद्ब्रह्मा लोकपितामहः । ब्रह्मा मुनीनां सर्वेषां गुह्यं चोपादिशत्स्वयम् ॥ ६२॥ अहमिन्द्रादिदेवानां तत्तत्स्थानप्रसिद्धये । उपदेशं तवाप्यद्य दास्यामि नियतव्रत ॥ ६३॥ त्वया सर्वेषु लोकेषु ख्यातिमेतद्गमिष्यति । शठायागुरुभक्ताय चलायानात्मवेदिने ॥ ६४॥ कृतघ्नायाभिशप्ताय कुलघ्नायाकृतात्मने कथञ्चिदपि नो दद्याद्धयग्रीवस्य पञ्जरम् ॥ ६५॥ अस्य स्मरणमात्रेण सर्वं सिद्ध्यति भूतले । श्रीवाक्कामी विशेषेण धारयेत्पञ्जरोत्तमम् ॥ ६६॥ एकैकमन्त्रं प्रत्येकं पठ्यं मन्त्रोऽपि इष्यते । तस्मात्सर्वप्रयत्नेन धार्यमेतच्छुभेप्सुभिः ॥ ६७॥ ऋषिरस्य हयग्रीवो देवता तु स एव हि । प्रोक्तमानुष्टुभं छन्दं सर्वदेवैर्नियुज्यते ॥ ६८॥ क्षीराम्भोनिधिसङ्काशं कमलायतलोचनम् । कलानिधिकृतावासं कर्णिकापीठवासिनम् ॥ ६९॥ ज्ञानमुद्राक्षवलयशङ्खचक्रलसत्करम् । भूषाकिरणसदोहनीराजितदिगन्तरम् ॥ ७०॥ वक्त्राब्जनिर्गतोद्दामवाणीसन्तानशोभितम् । देवतासार्वभौमं तं ध्यायेदिष्टार्थसिद्धये ॥ ७१॥ हयग्रीवः शिरः पातु ललाटं चन्द्रमध्यगः । शास्त्रदृष्टिर्दृशौ पातु मुखं ब्रह्मात्मकः श्रुतीः ॥ ७२॥ घ्राणं गन्धात्मकः पातु वदनं यज्ञसम्भवः । जिह्वां वागीश्वरः पातु मुकुन्दो दन्तसंहतिम् ॥ ७३॥ ओष्ठं ब्रह्मात्मकः पातु पातु नारायणोऽधरम् । शिवात्मा चिबुकं पातु कपोलौ कमलाप्रभुः ॥ ७४॥ बिम्बात्मा पिठरं पातु कर्णौ नादात्मको मम । भुजौ चतुर्भुजः पातु करौ दैत्येन्द्रमर्दनः ॥ ७५॥ ज्ञानात्मा हृदयं पातु विश्वात्मा कुचयुग्मकम् । मध्यमं पातु सर्वात्मा पातु पीताम्बरः कटिम् ॥ ७६॥ कुक्षिं रक्षतु विश्वात्मा बलिभङ्गो वलित्रयम् । नाभिं मे पद्मनाभोऽव्याद्गुह्यं गुह्यार्थबोधकः ॥ ७७॥ ऊरू दामोदरः पातु जानुनी मधुसूदनः । पादौ त्रिविक्रमः पातु पातु पादाङ्गुलीर्हरिः ॥ ७८॥ सर्वाङ्गं सर्वगः पातु पातु रोमाणि केशवः । धातूनादिहितः पातु भार्यां लक्ष्मीपतिर्मम ॥ ७९॥ पुत्रान् विश्वकुटुम्बी मे पातु बन्धून् सुरेश्वरः । वित्तमिन्द्रात्मकः पातु वह्न्यात्मा शत्रुसंहतेः ॥ ८०॥ प्राणान् वाय्वात्मकः पातु क्षेत्रं विश्वम्भरात्मकः । वरुणात्मा रसान् पातु व्योमात्मा हृद्गुहान्तरम् ॥ ८१॥ दिवारात्रौ हृषीकेशः पातु सर्वं जगद्गुरुः । विषमे सङ्कटे चैव पातु क्षेमङ्करो मम ॥ ८२॥ सच्चिदानन्दरूपो मे ज्ञानं रक्षतु सर्वदा । प्राच्यां रक्षतु विश्वात्मा आग्नेय्यां ज्ञानदीपकः ॥ ८३॥ याम्यां बोधप्रदः पातु नैरृत्यां चिद्घनप्रभुः । विद्येशः पातु वारुण्यां वायव्यां चिन्मयो मम ॥ ८४॥ कौबेर्यां वित्तदः पातु पात्त्वैशान्यां जगद्गुरुः । ऊर्ध्वं पातु जगत्स्वामी पात्वधस्तात् परात्परः ॥ ८५॥ रक्षाहीनं तु मे स्थानं रक्षत्वखिलनायकः । इतीदं कीर्तयेद्यस्तु कवचं देवपूजितम् ॥ ८६॥ भवेद्वादशमन्त्रेण पुरश्चर्या मुनीश्वर । लक्षसङ्ख्या भवेत्सोऽपि आद्यन्तं पञ्जरं न्यसेत् ॥ ८७॥ किं वा द्वादशमन्त्रेण सर्वस्य जनयिष्यति । ऊरूदघ्नजले स्थित्वा हयग्रीवस्य पञ्जरम् ॥ ८८॥ जपेद्वादशमन्त्रेण मण्डलान्तं दृढव्रतः । सहस्रं वा तदर्धं वा त्रिशतं वा शतं तथा ॥ ८९॥ सर्वज्ञत्वं लभेत्सद्यः हयग्रीव इवापरः । सत्यं सत्यमहं वक्ष्ये नासाध्यं तस्य विद्यते ॥ ९०॥ आनन्दसान्द्रमाखिलात्मकमद्वितीयं विद्यानिधिं विविधशोभनहेतुभूम् । आराधयेद्धृदयपङ्कजमध्यसंस्थं अश्वोत्तमाङ्गमखिलैरभिवन्द्यमानम् ॥ ९१॥ हेषा यस्य त्रयीघोषो मन्दुरा चन्द्रमण्डलम् । घासो महासुरप्राणाः हयराणामुपास्महे ॥ ९२॥ (श्रीनारदपुराणे) इति हयग्रीवपञ्जरं २ सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : hayagrIvapanjaram 2
% File name             : hayagrIvapanjaram2.itx
% itxtitle              : hayagrIvapanjaram 2 (nAradapurANAntargatam)
% engtitle              : hayagrIvapanjaram 2
% Category              : vishhnu, panjara, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran
% Description/comments  : Edited by S. V. Radhakrishna Shastriji, Naradapurana.
% Indexextra            : (VSM 2)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : February 2, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org