हयशिरोपाख्यानम्

हयशिरोपाख्यानम्

(महाभारतं-शान्तिपर्वं-मोक्षधर्मं-नारायणीयं ३५७ अध्यायं) शासन उवाच । श्रुतं भगवतस्तस्य माहात्म्यं परमात्मवः । जन्म धर्मगृहे चैव नरनारायणात्मकम् ॥ १॥ महावराहसृष्टा च पिण्डोत्पत्तिस्सनातनी । प्रवृत्ता च निवृत्ता च यो यथा परिकल्पितः ॥ २॥ तथा स न श्श्रुतो ब्रह्मन्! वध्यमानस्त्वयाऽनघ । हव्यकव्यभुजो विष्णुरुदक् पूर्वे महोदधौ ॥ ३॥ यच्च तत्कथितं पूर्वं त्वया हयशिरो महत् । तच्च दृष्टं भगवता ब्रह्मणा परमेष्ठिना ॥ ४॥ किं तदुत्पादितं पूर्वं हरिणा लोकधारिणा । रूपं प्रभावं महतामपूर्वं धीमतं वर ॥ ५॥ दृष्ट्वा हि विबुधश्रेष्ठमपूर्वममितौजसम् । तदश्वशिरसं पुण्यं ब्रह्म किमकरोन्मुने! ॥ ६॥ एतन्नः संशयं ब्रह्मन्! पुराणं ब्रह्मसम्भवम् । कथयस्वोत्तममते! महापुरुषसंश्रितम् ॥ ७॥ पाविताः स्म त्वया ब्रह्मन्! पुण्याः कथयतः कथाः । सौतिरुवाच । कथयिष्यामि ते सर्वं पुराणं वेदसम्मितम् ॥ ८॥ उत्पन्नसंशयो राजा एवमेतदचोदयत् । जनमेजय उवाच । यत्तद्दर्शितवान् ब्रह्मा देवं हयशिरोधरम् ॥ ९॥ (here 10 ShlokaH is not available. may be not there) किमर्थं तत्समभवद्वपुर्देवोपकल्पितम् । वैशम्पायन उवाच । यत्किञ्चिदिह लोके वै देहबद्धं विशम्पते! ॥ ११॥ सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः । ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट् ॥ १२॥ भूतान्तरात्मा वरदः सुगुणो निर्गुणोऽपि च । भूतप्रलयमत्यन्तं (व्यक्तं) श्रुणुष्व नृपसत्तम ॥ १३॥ धरण्या मथ लीनायामप्सु चैकार्णवे धरा । ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले ॥ १४॥ वायौ चाकाशसंलीने आकाशे च मनोऽनुगे । व्यक्ते मनसि संलीने व्यक्ते चाव्यक्ततां गते ॥ १५॥ अव्यक्ते पुरुषे याते पुंसि सर्वगतेऽपि च । तम एवाभवत्सर्वं न प्राज्ञायत किञ्चन ॥ १६॥ तमसो ब्रह्मसम्भूतं तमोमूलामृतात्मकम् । तद्विश्वभावसञ्जातं पौरीषं तनुमाश्रितम् ॥ १७॥ सोऽनिरुद्ध इति प्रोक्तः तत्प्रधानं प्रचक्षते । तदव्यक्तमिति ज्ञेयं त्रिगुणं नृपसत्तम! ॥ १८॥ विद्यासहायवान् देवः विष्वक्सेनो हरिः प्रभुः । आदिकर्ता स देवानामप्रमेयो जनार्दनः ॥ १९॥ अप्स्वेव शयनं चक्रे निद्रायोगमुपागतः । जगतश्चिन्तयन् सृष्टिं चित्रां बहुगुणोद्भवाम् ॥ २०॥ तस्य चिन्तयतः सृष्टिं महानात्मगुणं स्मृतः । अहङ्कारस्ततो जातो ब्रह्मा शुभचतुर्मुखः ॥ २१॥ हिरण्यगर्भो भगवान् सर्वलोकपितामहः । पद्मेऽनिरुद्धात्सम्भूतः तदा पद्मनिभेक्षणः ॥ २२॥ सहस्रपत्रे द्युतिमानुपनिष्टस्सनातनः । ददृशेऽद्भुतसङ्काशो लोकानापोमयान् प्रभुः ॥ २३॥ सत्त्वस्थं परमेष्ठी स ततो भूतगणान् सृजन् । पूर्वमेव च पद्मस्य पद्मे सूर्यांशु(ग्नि) सप्रभे ॥ २४॥ नारायण(णा) कृतौ बिन्दू अपामासां गुणोत्तरौ । तावपश्यत्स भगवाननादिनिधनोऽच्युतः ॥ २५॥ एकस्तत्रा भवद्बिन्दुर्मध्वाभो रुचि(धि)रप्रभः । स तामसो (मामतो) मधुर्जातस्तदा नारायणाज्ञया ॥ २६॥ कठिनस्त्वपरो बिन्दुः कैटभो राजसस्तु सः । तावभ्यधावतां शेष्ठौ तमोरजगुणान्वितौ ॥ २७॥ बलवन्तौ गदाहस्तौ पद्मनालानुसारिणौ । ददृशातेऽरविन्दस्थं ब्रह्मणममितप्रभवम् ॥ २८॥ सृजन्तं प्रथमं वेदांश्चतुरश्चारुविग्रहान् । ततो विग्रहवन्तस्तान् वेदान् दृष्ट्वाऽसुरोत्तमौ ॥ २९॥ सहसा जगृहतुर्वेदान् ब्रह्मणः पश्यत्त स्तदा । अथातौ दानवश्रेष्ठौ वेदान् गृह्य सनातनान् ॥ ३०॥ रसां विविशतु स्तूर्णमुदक् पूर्वे महादधौ । ततो हृतेषु वेदेषु ब्रह्मा कश्मलमाविशत् ॥ ३१॥ ततो वचनमीशानं प्राह वेदैर्विनाकृतः । वेदा मे परमं चक्षुः वेदा मे परमं धनम् ॥ ३२॥ वेदा मे परमं धाम वेदा मे ब्रह्मचोत्तर(म)म् । मम वेदा हृतास्सर्वे दानवाभ्यां बलादितः ॥ ३३॥ अन्धकारा हि मे लोका जाता वेदैर्विनाकृतः । वेदानृते किं कुर्यां लोकानां(वै) सृष्टि(सुष्ठु) मुत्तमाम्(मुद्यतः)॥ ३४॥ अहो! बत! महद्दुःखं वेदनाशनजं मम । प्राप्तं दुनोति हृदयं तीव्रशोकपरायणम् ॥ ३५॥ को हि शोकार्णवेमग्नं मामितोऽद्य समुद्धरेत् । वेदां स्तांश्चानयेन्नष्टान् कस्य चाहं प्रियो भवे ॥ ३६॥ इत्येवं भाषमाणस्य ब्रह्मणो नृपसत्तम । हरेः स्तोत्रार्थमुद्भूता बुद्धिर्भुद्धिमतां वर ॥ ३७॥ ततो जगौ परं जप्यं साञ्जलिप्रग्रहः प्रभुः । ब्रह्मोवाच । नमस्ते ब्रह्महृदय! नमस्ते मम पूर्वज! ॥ ३८॥ लोकाद्य भुवनश्रेष्ठ! साङ्ख्ययोगनिधे! प्रभो! । व्यक्ताव्यक्तकराचिन्त्य क्षेमं पन्थानमास्थित! ॥ विश्वभुक् सर्वभूतानामन्तरात्मन्नयोनिज ॥ ३९॥ अहं प्रसादजस्तुभ्यं लोकधाम स्वयम्भुवः । त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् ॥ ४०॥ चाक्षुषं वै द्वितीयं मे जन्म चासीत् पुरातनम् । त्वत्प्रसादात्तु मे जन्म तृतीयं वाचिकं महत् ॥ ४१॥ त्वत्तः श्रवणं चापि चतुर्थं जन्म मे विभो । नासिक्यं चापि मे जन्म त्वत्तः पञ्चममुच्यते ॥ ४२॥ त्वत्तः श्रवणजं चापि चतुर्थं जन्म मे विभो । नासिक्यं चापि मे जन्म त्वत्तः पञ्चममुच्यते ॥ ४२॥ अण्डजं चापि मे जन्म त्वत्तः षष्ठं विनिर्मितम् । इदं च सप्तमं जन्म पद्मजन्मेति वै प्रभो ॥ ४३॥ सर्गे सर्गेऽप्यहं पुत्रस्तव त्रिगुणवर्जित । प्रथमः पुण्डरीकाक्ष! प्रधानगुणकल्पितः ॥ ४४॥ त्वमीश्वरस्वभावश्च भूतानां त्वं प्रभावना । त्वया विनिर्मितोऽहं वै वेदचक्षुर्वयोऽतिग ॥ ४५॥ ते मे वेदा हृताश्चक्षुरन्धो जातोऽस्मि जागृहि । ददस्व चक्षूंषि मम प्रियोऽहं ते प्रियोऽसि मे ॥ ४६॥ एवं स्तुतस्स भगवान् पुरुषस्सर्वतोमुखः । जहौ निद्रामथ तदा वेदकार्यार्थमुद्यतः ॥ ऐश्वर्ये(रे)ण प्र(सु)योगेन द्वितीयं तनुमास्थितः ॥ ४७॥ सुनासिकेन (समानकेन) कायेन भूत्वा चन्द्रप्रभस्तदा । कृत्वा हयशिरश्श्रुभ्रं वेदानामालयं प्रभुः ॥ ४८॥ तस्य मूर्धा समभवत् द्यौस्सनक्षत्रतारका । केशाश्चास्याभन् दीर्घारवेरंशु समप्रभाः ॥ ४९॥ कर्णा वाकाशपातले ललाटं भूतधारिणौ । गङ्गासरस्वती पुण्ये भ्रुवा वास्तां महाद्युती ॥ ५०॥ चक्षुषी चन्द्रसूर्यौ ते(तु) नासा सन्ध्या पुनः स्मृता । ओङ्कारस्त्वथ संस्कारो विद्युज्जिह्वा च निर्मिता ॥ ५१॥ दन्ताश्च पितरो राजन्! सोमपा इति विश्रुताः । गोलोको ब्रह्मलोकश्च ओष्ठा वास्तां महात्मनः ॥ ५२॥ ग्रीवा चास्या भवद्राजन् कालरात्रिर्गुणोत्तरा । एतद्धयशिरः कृत्वा नानामूर्तिभिरावृतम् ॥ ५३॥ अन्तर्धधौ स विश्वेशो विवेश च रसां प्रभुः । रसां पुनः प्रविष्टश्च योगं परममास्थितः ॥ ५४॥ शैक्षं(क्ष्यं) स्वरं समास्थाय उद्गीथं प्रासृजत् स्वरम् । सस्वरस्स्वानुनादी च सर्वशः स्निग्ध एव च ॥ ५५॥ बभूवान्तर्जलगतः सर्वभूतगणोदितः । ततस्ता वसुरौ कृत्वा वेदान् समयबन्धनान् ॥ ५६॥ रसातले विनिक्षिप्य यतश्शब्दस्ततो द्रुतौ । एतस्मिन्नन्तरे राजन्! देवो हयशिरोधरः ॥ ५७॥ जग्राह वेदानखिलान् रसातलगतान् हरिः । प्रादाच्च ब्रह्मणो भूयः ततः स्वा प्रकृतिं गतः ॥ ५८॥ स्थापयित्वा हयशिर(रा) उदक् पूर्वे महोदधौ । वेदाना मालयश्चापि बभूवाश्वशिरास्ततः ॥ ५९॥ अथ किञ्चिदपश्यन्ता दानवौ मधुकैटभौ । पुनराजग्मतुस्तत्र वेगितौ पश्यतां तु तौ ॥ ६०॥ यत्र वेदा विनिक्षिप्तास्तत् स्थानं शून्यमेव च । तत्र उत्तममास्थाय वेगं बलवतां वरौ ॥ ६१॥ पुनरुत्तस्थतुश्शीघ्रं रसाना मालयात्तदा ॥ ददृशाते च पुरुषं तमेवादिकरं प्रभुम् ॥ ६२॥ श्वेतं चन्द्रविद्धाभमनिरुद्धतनौ स्थितम् । भूयोऽप्यमितविक्रान्तं निद्रयोगमुपागतम् ॥ ६३॥ (64 Shloka not there in the list may be typographical error) आत्मप्रमाणरचिते अपामुपरि कल्पिते । शयने नागभोगाढ्ये ज्वालामालासमावृते ॥ ६५॥ निष्कल्मषेण सत्त्वेन सम्पन्नं रुचिरप्रभम् । तं दृष्ट्वा दानवेन्द्रौ तौ महाहासममुञ्चताम् ॥ ६६॥ ऊचतुश्च समाविष्टौ रजसा तमसा च तौ । अयं स पुरुषः श्वेतः शेते निद्रामुपागतः ॥ ६७॥ अने न नूनं वेदानां कृतमाहरणं रसात् । कस्यैष! को नु खल्वेष! किञ्चस्वपिति भोगवान् ॥ ६८॥ इत्युच्चारितवाक्यौ तु बोधयामासतुर्हरिम् । युद्धार्थिनौ तु विज्ञाय विबुद्धः पुरुषोत्तमः ॥ ६९॥ निरीक्ष्य चासुरेन्द्रौ तौ ततो युद्धे मनो दधे । अथ युद्धं समभवत्तयोर्नारायणस्य वै ॥ ७०॥ रजस्तमोविष्टतनू तावुभौ मधुकैटभौ । ब्रह्मणोऽपचितिं कुर्वन् जघान मधुसूदनः ॥ ७१॥ ततस्तयोर्वधेनाशु वेदापहरणेन च । शोकापनयनं चक्रे ब्रह्मणः पुरुषोत्तमः ॥ ७२॥ ततः परिवृतो ब्रह्मा हरिणा वेदसत्कृतः । निर्ममे स तदा लोकान् कृत्स्नान् स्थावरजङ्गमान् ॥ ७३॥ दत्त्वा पितामहायाग्र्यां मतिं लोकविसर्गिकीम् । तत्रैवान्तर्दधे देवो यत एवागतो हरिः ॥ ७४॥ तौ दानवौ हरिर्हत्वा कृत्वा हयशिरस्तनुम् । पुनः प्रवृत्तिधर्मार्थं तामेव विदधे तनुम् ॥ ७५॥ एव मेष महाभागो बभूवाश्वशिरा हरिः । पौराणमेतत् प्रख्यातं रूपं वरदमैश्वरम् ॥ ७६॥ यो ह्येतद्ब्र(द्ब्रा)ह्मणो नित्यं श्रुणुयाद्धारयीत वा । न तस्याध्ययनं नाशमपगच्छेत् कदाचन ॥ ७७॥ आराध्य तपसोग्रेण देवं हयशिरोधरम् । पाञ्चालेन क्रमः प्राप्तो रामेण पथि देशिते ॥ ७८॥ एतद्धयशिरो राजन्! आख्यानं तव कीर्तितम् । पुराणं वेदसहितं यन्मात्वं परिपृच्छसि ॥ ७९॥ यायामिच्छेत्तनुं देवः कर्तुं कार्यविधौ क्वचित् । तां तां कुर्याद्विकुर्वाणः स्वयमात्मानमात्मना ॥ ८०॥ एष वेदनिधिः श्रीमान् एष वैत पसान्निधिः । एष योगश्च साङ्ख्यं च ब्रह्म चाग्य्रं हरि (हवि) र्विभुः ॥ ८१॥ नारायणपरा वेदा यज्ञा नारायणात्मकाः । तपो नारायणपरं नारायणपरा गतिः ॥ ८२॥ नारायणपरो धर्मः पुनरावृत्ति दुर्लभः । प्रवृत्ति लक्षणश्चैव धर्मो नारायणात्मकः ॥ ८३॥ नरायणात्मको गन्धः भूमेश्चेष्टकमः स्मृतः । अपां चापि गुणा राजन्! रसा नारायणात्मकाः ॥ ८४॥ ज्योतिषां च परं रूपं स्मृतं नारायणात्मकम् । नारायणात्मकश्चापि स्पर्शो वायुगुणः स्मृतः ॥ ८५॥ नारायणात्मकश्चैव शब्द आकाश सम्भवः । मनश्चापि ततो भूतमव्यक्त गुणलक्षणम् ॥ ८६॥ नारायणपरः कालो ज्योतिषामयनं च यत् । नारायणपरा कीर्तिः श्रीश्च लक्ष्मीश्च देवताः ॥ ८७॥ नारायणपरं साङ्ख्यं योगो नारायणात्मकः । कारणं पुरुषो ह्येषां प्रधानं चापि कारणम् ॥ ८८॥ स्वभावश्चैव कर्माणि दैवं येषां च कारणम् । अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ॥ ८९॥ विविधा च तथा चेष्टा दैवं चैवात्र पञ्चमम् । पञ्चकारणसङ्ख्यातो (ता) निष्ठा सर्वत्र वै हरिः(रे)॥ ९०॥ तत्त्वं जिज्ञासमानानां हेतुभिस्सर्वतोमुखैः । तत्त्वमेको महायोगी हरिः नारायणः प्रभुः ॥ ९१॥ ब्रह्मादीनां सलोकानां ऋषीणां च महात्मनाम् । साङ्ख्यानां योगिनां चापि यतीनां चात्मवेदिनाम् ॥ ९२॥ मनीषितं वि(तानि) जानाति केशवो न तु तस्य वै । ये केचित् सर्वलोकेषु दैवं पित्य्रं च कुर्वते ॥ ९३॥ दानानि च प्रयच्छन्ति तप्यन्ते च तपो महत् । सर्वेषामाश्रयो विष्णुरैश्वरं विधि(सर्ग) मास्थितः ॥ सर्वभूतकृतावासो वासुदेवेति चोच्यते ॥ ९४॥ अयं हि (एषो हि) नित्यः परमो महर्षिः महाविभूतिर्गुणवान् गुणाख्यः (निर्गुणाख्यः)। गुणैश्च संयोगमुपैति शीघ्रं कालो यथार्तावृतुसम्प्रयुक्तः ॥ ९५॥ (यथार्थं व्रतसम्प्रयुक्ते) नैवास्य विन्दन्ति(बुद्ध्यन्ति) गतं महात्मनो न चा (नैवा) गतं कश्चिदिहानुपश्यति ज्ञानात्मिकास्संयमिनो महर्षयः पश्यन्ति नित्यं पुरुषं गुणाधिकम् ॥ ९६॥ इति हयशिरोपाख्यानं सम्पूर्णम् । Proofread by Chandrasekhar Karumuri
% Text title            : Hayashira Upakhyanam
% File name             : hayashiropAkhyAnam.itx
% itxtitle              : hayashiropAkhyAnam (mahAbhAratAntargatam)
% engtitle              : hayashiropAkhyAnam
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Chandrasekhar Karumuri
% Proofread by          : Chandrasekhar Karumuri
% Description/comments  : mahAbhArataM\-shAntiparvaM\-mokShadharmaM\-nArAyaNIyaM 357 adhyAyaM
% Indexextra            : (Telugu)
% Latest update         : September 29, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org