श्रीजगदीशशतकम्

श्रीजगदीशशतकम्

यद्भासानुविभाति विश्वमखिलं सार्केन्दुतारागणं यत्किञ्चिद्भ्रुकुटीकटाक्षकलया नाशोद्भवौ पालनम् । यत्पादाम्बुजधूलिधारणवशात्कुर्वन्त्य यत्नं सुरा- स्तं नीलाचलवासिनं यदुपतिं वन्दे जगद्वन्दितम् ॥ १॥ यं सिद्धा मुनयः सुरासुरगणा गन्धर्वयक्षोरगाः सेशानाः सचतुर्मुखाः प्रतिदिनं ध्यायन्ति शम्प्राप्तये । विज्ञानेन विरागयोगतपसा जानन्ति किञ्चित्पदं तं नीलाचलवासिनं यदुपतिं वन्दे जगद्वन्दितम् ॥ २॥ यः पूर्वं जगतामनादिरमलोऽनन्तः परो मध्यगः स्रष्टा गोपयिता कटाक्षकलया हन्ता नियन्ता विभुः । यो धाता ध्रुवधर्मधारकनृणां शश्वद्विहर्ता स्वदृक् तं नीलाचलवासिनं यदुपतिं वन्दे जगद्वन्दितम् ॥ ३॥ यः स्वामी भुवनस्य गं मुनिगणा ध्यायन्ति येनाविता यस्मै देवगणा हरन्ति सुबलिं यस्माज्जगज्जायते । यस्याभापरिपूरितं जगदिदं यस्मिंश्च तल्लीयते तं नीलाचलवासिनं यदुपतिं वन्दे जगद्वन्दितम् ॥ ४॥ यन्मायापरिमोहिताः सुरगणा गन्धर्वविद्याधरा योगीशा ऋषयोऽसुराश्च पुरुषा ये स्थावरा जङ्गमाः । जायन्ते परितो भ्रमन्ति जगति द्वन्द्वे म्रियन्ते सदा तं नीलाचलवासिनं यदुपतिं वन्दे जगद्वन्दितम् ॥ ५॥ साक्षी सर्वगतः प्रभुः प्रकृतयः सर्वेश्वरेशः सुधीः दिव्यैर्मङ्गलमूर्तिमद्गुणगणैः संसेवितोऽजस्तु यः । वेदैश्चोपनिषद्भिरीरितयशाः सञ्चिद्धनानन्दक- स्तं नीलाचलवासिनं यदुपतिं वन्दे जगद्वन्दितम् ॥ ६॥ यः पातालपदो मही कटितटः स्वर्लोकशीर्षोऽस्तु यः मार्ताण्डेक्षणदिक्श्रुतिश्रुतिमुखो गीर्वाणवाहाङ्कधीः । मायाक्रीडनको जगद्वपुरजो हीनोह्यदिव्यैर्गुणै स्तं नीलाचलवासिनं यदुपति वन्दे जगद्वन्दितम् ॥ ७॥ यच्छक्त्या हरते हरो विधिरपि स्रष्टा च शास्ता यमो वह्निर्दाहयते शशी सुखयते वायुः प्रवात्यञ्जसा । missing line in the manuscript तं नीलाचलवासिनं यदुपतिं वन्दे जगद्वन्दितम् ॥ ८॥ यत्पादपङ्कजपरागविमिश्रतोयं ब्रह्माण्डमण्डलमखण्डलमाविरिञ्चम् । स्तम्बान्तमाशु हि पुनाति न भेदभावं वन्दे प्रभुं पतितपावननामधेयम् ॥ ९॥ यत्पादपङ्कजजलं चतुराननोऽसौ शुद्धे कमण्डलुमुखे सुतरां दधार । अद्यापि मूर्धनि शिवो वहतीष्टरूपं वन्दे प्रभुं पतितपावननामधेयम् ॥ १०॥ यत्पादतीर्थममलं परमादरेण सप्तर्षयः प्रतिदिनं शिरसा वहन्ति । विज्ञाननिर्गतमलाः सुपवित्रतायै- व न्दे प्रभुं पतितपावननामधेयम् ॥ ११॥ सन्नामकीर्तननिरन्तरलब्धिभात्रात् गात्राद्द्रुतं कलुषिणां सकलान्यघानि । दन्दह्यमानतनुभिः परिनिस्सरन्ति वन्दे प्रभुं पतितपावननामधेयन् ॥ १२॥ यन्नाम मङ्गलममङ्गलभङ्गकार- मुच्चारणेन खलु पातकिनां मुखैश्च । सद्यः पुनाति शबरान्यवनानधर्मान् वन्दे प्रभुं पतितपावननामधेयम् ॥ १३॥ यस्यैकवारममलं स्मरणं हि पुंसां सद्यः क्षिणोति सकलं दुरितं च दुःखम् । यः स्वं करोति नयति प्रणतं स्वधाम वन्दे प्रभुं पतितपावननामधेयम् ॥ १४॥ यज्जन्मकोटिसुकृतेन यदा कदापि तिर्यङ्नृदेवगण सन्ततिभूति भाजः । त्वत्पादसेवनमभूत् स पुमान् विमुक्तो वन्दे प्रभुं पतितपावननामधेयम् ॥ १५॥ यद्वर्षमासदिनयाममुहूर्तमात्रे यैः कैः प्रयत्नविधिभिस्तव पूजनं स्यात् । सर्वं बभूव सुकृतं पुरुषस्य तस्य वन्दे प्रभुं पतितपावननामधेयम् ॥ १६॥ धन्यः पुमान् धरणिधर्मधरो ध्रुवोऽसौ त्वां शर्मदं नमति यः शिरसैकदापि । पारं प्रयाति दुरवापजगन्नदीशात् वन्दे प्रभुं पतितपावननामधेयम् ॥ १७॥ साङ्केत्यहेलनविमन्युगते च हास्ये दुःखाद्यनन्तसमये पतितोऽपि यस्त्वम् । दासस्तवेति वदते त्वभयं ददासि वदे प्रभुं पतितपावननामधेयम् ॥ १८॥ ब्रह्मेन्द्रशम्भुसनकादिसुरर्षयो यं न प्राप्नुवन्ति तपसा नियमादियोगैः । सख्यं विधाय पुरुषो रमते हि तेन वन्दे प्रभुं पतितपावननामधेयम् ॥ १९॥ आत्मार्पणां हि कुरुते पुरुषस्तु यस्ते स्वात्मार्पणं त्वमपि देन करोषि तस्मै । श्रेष्ठं तु तं त्वमनुगच्छसि सर्वदैव वन्दे प्रभुं पतितपावननामधेयम् ॥ २०॥ स्त्रैणो धनान्धमदिरावशसम्प्रमत्तः पापी त्वजामिलशठः कथनात्तु यस्य । नाम्नो जगाम पदवीं मुनिभिर्दुरापां वन्दे प्रभुं पतितपावननामधेयम् ॥ २१॥ विप्रामिषं त्वयि समर्पितवान् परेण प्रेम्णा पिशाचकुलजः श्रुतिबद्धघण्टः । आलिङ्ग्य तं निजजनं कृतवान् सुदोर्भ्याम् । वन्दे प्रभुं पतितपावननामधेयम् ॥ २२॥ दीनोऽतिजीर्णवसनः क्षुधया कृशोऽपि सन्दत्ततण्डुल उदारमतिः सुदामा । उत्पापविस्मृतरमः परिषस्वजे यो वन्दे प्रभुं पतितपावननामधेयम् ॥ २३॥ भोजेन्दुदास्यनिरता मलिनातिनीचा कुब्जा तु या मधुपुरे पथि तां विलोक्य । गत्वा गृहं कमलया सदृशीं व्यधाद्यः वन्दे प्रभुं पतितपावननामधेयम् ॥ २४॥ जात्या तु वायकवरं हतधर्मलेशं गत्वा तदीयभवने कृतवान् सकम्पः । वस्त्राणि तद्विरचितानि दधार देहे वन्दे प्रभुं पतिततपावननामधेयम् ॥ २५॥ नीचो निषादकुलजो जलजीवभोक्ता जग्राह तत्करसमर्पितकन्दमूलम् । कृत्वा सखायमतुलं परिषस्वजे यो वन्दे प्रभुं पतितपावननामधेयम् ॥ २६॥ मांसादकं वनचरं दुरितौघयुक्तं गृध्रं जटायुषमलं परिरभ्य दोर्भ्याम् । तस्मै ददौ परगतिं पतिदुर्लभां यो वन्दे प्रभुं पतितपावननामधेयम् ॥ २७॥ विज्ञानभक्तिविरतीष्टसुधर्महीना नीचा महावनचरी शबरी हि तस्यै । भुक्त्वा तदर्पितफलं प्रददौ गतिं यो वन्दे प्रभुं पतितपावननामधेयम् ॥ २८॥ स्वप्नेऽपि दर्शनममङ्गलदं वदन्ति येषां बुधाः स्मरणतो ह्यशुभानि लोके । तैर्वानरैः सह चकार सुमित्रतायै वन्दे प्रभुं पतितपावननामधेयम् ॥ २९॥ दुष्टानुजं रजनिकाचरवंशजातं पादान्तिके निपतितं भरतेन तुल्यम् । उत्थाप्य तं स्वभुजतः परिषस्वजे यो वन्दे प्रभुं पतितपावननामधेयम् ॥ ३०॥ जात्या तु गोपकुलजाः परधर्महीना गोपाश्च गोपवनितास्तुलसीवने तैः । चिक्रीड रासपरिमण्डलमण्डितो यो । वन्दे प्रभुं पतितपावननामधेयम् ॥ ३१॥ वापी महाविषधरः किल कालियेन सम्प्लुत्य भास्करसुताह्रदनीरमध्ये । संस्कृत्य तत्फणगणेष्वभयं ददौ यो वन्दे प्रभुं पतितपावननामधेयम् ॥ ३२॥ किं किं ब्रवीमि पतितोद्धरणं हि लोके यद्यत्त्वया कृतमनन्तचतुर्मुखेषु । तस्मात् त्वदीयचरणं शरणं गतोऽहं मामुद्धरस्व कृपया जगदीशकृत्य ॥ ३३॥ न त्वत्समः पतितपावनकार्यकारी नास्मादृशो जगति सम्पतितोऽवनीशः । दिष्ट्या कृतं विशदमित्यनवेक्ष्य योगं मामुद्धररव कृपया जगदीशकृत्य ॥ ३४॥ अन्वेषितं भुवनमेतदतीव बुद्ध्या स्वोद्धारकारणकृते भवतो विना मे । दृष्टो न कोपि पतितोद्धरणे समर्थो मामुद्धरस्व कृपया जगदीशकृत्य ॥ ३५॥ कामस्य पाशवलितं चपलं मनो मे सङ्घावतीष्टविषयेषु वदामि सत्यम् । प्राप्स्यामि केन विधिना गतिमुत्तमां ते मामुद्धरस्व कृपया जगदीशकृत्य ॥ ३६॥ त्वं सर्वदिव्यगुणवृन्दसमन्वितोऽसि तैः सर्वगर्हितगुणैर्वलितस्तथाहम् । लज्जावनं तव करे मम सर्वथास्ति मामुद्धरस्व कृपया जगदीशकृत्य ॥ ३७॥ सूर्यो यथा स्वकिरणैः स्पृशतीष्टनेष्टम् । संशोषयन्न हि करोति कदापि भेदम् । विस्मृत्य तद्वदगुणं मम नैजरीत्या मामुद्धरस्व कृपया जगदीशकृत्य ॥ ३८॥ शोचामि तन्निजगुणानवलोक्य दुष्ठान् पापं करोमि खलु यद्वशगोऽहमद्य । हृष्यामि ते गुणगणानवलोक्य भव्यान् मामुद्धरस्व कृपया जगदीशकृत्य ॥ ३९॥ ज्ञानी न योगनिरतो न हि भक्तिनिष्ठो वैराग्यलेशसहितो न च धर्मधारी । प्राप्स्याम्यहं कथमहो तव पादपद्मं मामुद्धरस्व कृपया जगदीशकृत्य ॥ ४०॥ स्वाभाविकी भवति दाहनशक्तिरग्रे- श्चन्द्रस्य शैत्यमनिशं वहनं च वायोः । तद्वत्तवापि पतितोद्धरणं हि नित्यं मामुद्धरस्व कृपया जगदीशकृत्य ॥ ४१॥ वेदे पुराणकथने श्रुतवानहं यत् नित्यं तवेड्य पतितोद्धरणं हि लोके । इच्छाम्यहं तदवलोकितुमात्मशुद्ध्यै मामुद्धरस्व कृपया जगदीशकृत्य ॥ ४२॥ सम्यग्बभूव यदहं पतितानगण्य- स्त्वं सर्वदोद्धरसि तान् पतिताग्रगण्यान् । संस्कृत्य रीतिममलां विजचित्तजातां मामुद्धरस्व कृपया जगदीशकृत्य ॥ ४३॥ तव दया न हि चेदवनीतले मम समान् जगतीतलपामरान् । अतिपुनीत दयावशगो हि कः पतितपावन माधव पाहि माम् ॥ ४४॥ सकलकारणकारणकारणाः पतिततारणतारणतारणाः । निखिलभावनभावनभावनाः पतितपावन माधव पाहि माम् ॥ ४५॥ विपुलजीवनजीवनजीवनो जनविलोपनलोपनलोपनः । विशदकामदकामदकामदः पतितपावन माधव पाहि माम् ॥ ४६॥ हृदयहर्षणहर्षणहर्षणो मनुजकर्षणकर्षणकर्षणः । अवनिपोषणपोषणपोषणः पतितपावन माधव पाहि माम् ॥ ४७॥ दुरितवर्तनवर्तनवर्तनः श्रुतिप्रवर्तनकर्तनकर्तनः । जगति नर्तननर्तननर्तनः पतितपावन माधव पाहि माम् ॥ ४८॥ सकलगोकुलगोकुलगोकुलः सकलगोकुलगोकुलगोकुलः । सकलगोकुलगोकुलगोकुलः पतितपावन माधव पाहि माम् ॥ ४९॥ निबिडनीरदसन्निभमद्भुतं विपुलचारुचतुर्भुजशोभितम् । जनदयापरिपूर्णशरीरकं तमवलोकितुमुत्सहते मनः ॥ ५०॥ ज्वलितरत्नविभासितभासितं मकुटमण्डितमस्तकमिष्टदम् । सुभगकुण्डलमण्डलगण्डकं तमवलोकितुमुत्सहते मनः ॥ ५१॥ स्मितमुखं सरसोरुहलोचनं रुचिरनासिकया परिराजितम् । अतिविशालसुफालविशोभितं तमवलोकितुमुत्सहते मनः ॥ ५२॥ उरसि हारविहारमनोहरं तुलसिकावनमालिकयान्वितम् । कलितकौस्तुभकण्ठदरोपमं तमवलोकितुमुत्सहते मनः ॥ ५३॥ कनकसूत्रनिबद्धकटिस्थलं विमलपीतपटेन विराजितम् । विलसितं भुजबद्धशुभाङ्गदं तमवलोकितुमुत्सहते मनः ॥ ५४॥ कटकशोभितपाणितटं शुभं दरगदासिसुचक्रशरासनैः । अतिविराजितमूर्तिमनुत्तमं तमवलोकितुमुत्सहते मनः ॥ ५५॥ कुटिलकुन्तलमण्डलमञ्जुलं भ्रुकुटिभावितकर्णमहाशयम् । हृदि सुपाण्डरलक्षणलक्षितं तमवलोकितुमुत्सहते मनः ॥ ५६॥ भवविलासनिरासविधायकं मुनिगणामलमानसमानसम् । लसितनू पुरयुग्मपदाम्बुजं तमवलोकितुमुत्सहते मनः ॥ ५७॥ चन्द्रांशुगौरेण सुनीलवाससा मदाविघूर्णारुणदिव्यचक्षुषा । रामेण युक्तं कृतदासमुक्तं श्रीमज्जगन्नाथमहं नमामि ॥ ५८॥ जगज्जनन्या करुणाग्रगण्यया सुभद्रया शोभितदक्षभागम् । प्रपन्नपालं पतितार्तिहारिणं श्रीमज्जगन्नाथमहं नमामि ॥ ५१॥ दयाविधानेन सुदासकामदं महाप्रसादेन भवापहारिणम् । विमुक्तिदं नीलगिरौ निवासिनं श्रीमज्जगन्नाथमहं नमामि ॥ ६०॥ पापप्रणाशाय जगज्जनानां संराजते योऽन्धितटे दयालुः । तमुद्धरन्तं पतितानघौघात् श्रीमज्जगन्नाथमहं नमामि ॥ ६१॥ रत्नासनस्थं प्रणवस्वरूपं सतां गतं दीनदयानिधानम् । प्रदर्शयन् स्वस्य वपुर्जनेभ्यः श्रीमज्जगन्नाथमहं नमामि ॥ ६२॥ या ज्ञानयोगेन विरागभक्त्या गतिर्भवत्यब्दशतैर्मुनीनाम् । महाप्रसादेन तु तद्गतिप्रदम् । श्रीमज्जगन्नाथमहं नमामि ॥ ६३॥ ये पापिनरत्यक्तसमस्तसत्क्रिया लोकेव्यवाये विषयैर्विलिप्ताः । महाप्रसादेन पुनाति तान् यः श्रीमज्जगन्नाथमहं नमामिः ॥ ६४॥ अस्मादृशां पापविनिष्ठितानां नान्योऽस्त्युपायस्तरणे भवाब्धेः । महाप्रसादं ददतं तदर्थं श्रीमजगन्नाथमहं नमामि ॥ ६५॥ यथाम्बरं वै गतिरस्ति पक्षिणां यथा पशूनां पृथिवी गतिश्च । अस्मादृशां पापनिविष्टचेतसां गतिस्त्वमेवासि तथा न चान्यः ॥ ६६॥ अन्यः समर्थो भुवि कोऽपि नारित य उद्धरेन्मां कृपयातिपापद्मम् । आधारभूतं तव पादपा तस्माज्जगत्पावन रक्ष लज्जाम् ॥ ६७॥ यो मां तवास्मीति जनः प्रयाचते तस्मै ददामीत्यभयं व्रतं से । आधार एषोऽद्य ममादिनाथ व्रतं स्वकीयं न विहातुमर्हसि ॥ ६८॥ त्यक्त्वा सुधर्मानखिलान् जनो यदा- ह्यनन्यधर्मा शरणं समीहते । अहं तदाघानि विमोचयामि व्रतं त्वदीयं शरणं ममेदम् ॥ ६९॥ श्रुत्वा पुराणानि विधाय धर्मान् करोमि किञ्चिन्न हि तद्विधानम् । लज्जाविहीनेऽपि पुरः स्थिते मयि प्र सीद नीलाचलनाथ दीने ॥ ७०॥ प्रारब्धदोषाद्यदभूदभूत्त- च्छोचामि किञ्चिन्न हि तस्य दुःखम् । शोचामि यत्वच्छरणागतं मां प्रवाधते पापपराभवोऽलम् ॥ ७१॥ न चित्तवृत्तिस्थिरता प्रयाति न पापकर्मस्वपि मेऽस्ति तोषः । केन प्रयत्नेन गतिं च लप्स्ये लज्जा त्विदानी तव पाणिपद्मे ॥ ७२॥ शास्त्रेषु वेदेषु पुराणकल्पे श्रुतो मया त्वं पतितोद्धरः सदा । अतोऽतिपापे पतितप्रधाने दयाविधाने त्वमसि क्षमोऽद्य ॥ ७३॥ गृध्रे गुहे वै नृगभूमिदेवे गजे पिशाचेऽपि कृता दया या । कारागृहे राजसु मागधस्य कुरुष्व दीने मयि तां दयां प्रभो ॥ ७४॥ यद्यप्यहं पापसमूहकारी स्थातुं हि नार्होऽस्मि पुरस्तथापि । त्वं नाम संस्मृत्य निजं जगत्पते मामुद्धर प्रेष्ठमकिञ्चनानाम् ॥ ७५॥ क्व याम्यहं के नितरां स्मरासि नान्योऽस्ति लोके प्रभुदीननाथः । ऋते भवन्तं जगदेकनाथ- मुपायहीनः शरणागतोऽहम् ॥ ७६॥ पाञ्चालराजस्य कुमारिकाया लज्जा त्वदीयस्मरणेन रक्षिता । तथैव नीलाद्रिपतेऽनुकम्पया लज्जां मदीयामव वासुदेव ॥ ७७॥ त्वत्प्रेरितौ मत्पितरौ प्रचक्रतु- र्मन्नाम यद्भागवतप्रसादम् । स्वसम्प्रदाये कृतवान् यतस्त्वं सत् श्रीजगन्नाथ भवत्कराम्बुजे ॥ ७८॥ हास्यं न लोके मम किञ्चिदस्ति हास्यास्पदं यत्स्वयमेव जातः । किन्तु त्वदग्रे शरणागतानां हास्यं च लोकेषु महाननर्थः ॥ ७९॥ शोचामि नाहं नरकप्रपातं शोचामि नाहं पतितोऽभवं यत् । शोचाम्यहं त्वच्छरणागतस्य नेयं दशा नाथ तवानुरूपा ॥ ८०॥ य आद्योऽन्तोऽनादिः सकलगुणवृन्दैकसदनं स्वशक्त्येदं विश्वं सृजति सुतरां पाति हरते । जगत्क्रीडाकारी निजजनदयादाननिरतो जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ ८१॥ कदम्बच्छायायां धृतविपिनपुष्पाभरणक- स्त्रिभङ्गाकारो यः कृतमधुरवंशीकलरवः । कटाक्षाक्षेपेण ब्रजपुरवधूनां हि सुखदो जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ ८२॥ सदा वृन्दारण्ये वरमधुरवंशीध्वनिरतो निकुञ्जे भृङ्गाढ्ये बहुसुरभिसञ्चारणपरः । सुहृद्भिर्गोपालैस्सुखितवदनैर्योऽतिशुशुभे जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ ८३॥ मनोहारी हारी व्रजवनविहारी यदुपति- द्विषद्दारी तारी हृदि शिवविचारी सुमनसाम् । सदा सञ्चारी यो दिनपतिकुमारीकलतटे जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ ८ ४॥ भवान्तर्यामी यो वरविहगगामी स्वसुषदः सतामात्मारामी कटिकनकदामी विभुवपुः । सुधामा शन्धामा जनसुगतिकामी करुणया जग न्नाथस्वामी नयनपथगामी भवतु मे ॥ ८५॥ प्रवीरै राजन्त्यां मदनबलशैनेयसुभगैः सुधर्मायां सिंहासनवरगतो योऽतिशुशुभे । चतुर्बाहुः श्यामो धनुरसिगदाद्यायुधधरो जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ ८६॥ निहन्ता कंसं च प्रवलमुरभौमादिनिकरा- न्नियन्ता विश्वस्य प्रचुरतरयास पाषण्डदलनः । सुयन्ता सङ्गोप्तामरपतिसुतस्यात्मविभवै- जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ८७॥ सरस्यय्वास्तीरे यो वरभरतशत्रुघ्नसहित- स्सुमित्रापुत्रेण प्रविलसति लीलातिललितः । सुहद्भिसंयुक्तो धृतसशरकोदण्डसुभुजो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ८८॥ कदाचिद्रत्नाढ्ये हिमगिरिसुश‍ृङ्गे यमगृहे सखीभिः संयुक्तो जनकतनयाभ्राजितभुजः । सुपुष्पालङ्कारैरतिलसितसर्वाङ्गसुभगो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ८९॥ विजेता शत्रूणां निशिचरकृलोद्भूतजनुषा- मृषीणां सङ्गोप्तोदधिविपुलसेतो रचयिता । प्रदाता गृध्रस्याद्भुतगतिमगुर्यां न मुनयो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ९०॥ दयापारावारो वरगुणगणस्यैकनिलयो यशो भासं शुद्धिं यदशुचिजनोऽपि प्रलभते । मरालो यत्पादः शिवमनसि सन्मानसवरे जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ९१॥ सृजाशक्त्या सृष्टिं पुनरपि च हर्त्र्यैव हरणं सुपालिन्या पालं स्वशरणशरण्यः प्रकुरुते । य ईदृग्गौरीशः प्रभुरपि च तस्यापि सुखदो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ९२॥ सतां धर्माचार्यो मुनिजनसुविज्ञानदपरो महान् योगाचार्यः प्रकृतिपतिरत्यद्भुतकलः । महादेवस्तस्यामलमनसि यच्चारुचरणो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ १३॥ हरेर्नाथो हारी हरियतिपतिः संहरिमुखो प्तिर्दीप्तिर्दीप्तिर्हरिवहसुशिष्यच्छलकरः । हरेर्मित्रं चित्रं हरिकटिरनादिर्हरिगति- र्जगन्नाथः स्वामी नयनपथगमी भवतु मे ॥ ९४॥ शरन्मेघाकारो हलमुसलसन्धारणपरो धराधारोद्धारो जनकलिविकारापहरणः । य ईदृक्छ्रीरामः शुभगतिकरस्तेन सहितो जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ९५॥ अहं पापासक्तः प्रभुरपि महापापदहनो- ऽस्त्यहं हीनाचारः प्रभुरपि समुद्धारणकरः । विचिन्त्येमं योगं निजचरणगाल्पस्य कृपया जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ९६॥ असौ यः के सदा शेते केशेशः शङ्करः सताम् । नादिवेदार्णनामा मां कुमेशो विश्वगोऽवतु ॥ ९७॥ तव चरणसरोजं सिद्धदेवेन्द्रवन्द्यं निखिलपतिततारं ज्ञानविज्ञानकारम् । निजजनपरिपालं कल्मषाणां हि कालं मुनिमनसि मरालं विश्वपालं नमामि ॥ ९८॥ जयतु जलधिवासी नीलशैलेन्द्रभासी निजजनरिपुनाशी सत्यविश्वप्रकाशी । व्रजविपिनविलासी सर्वदा मन्दहासी नरनरकनिरासी दिव्यसौन्दर्यराशिः ॥ ९९॥ मयि विरतिविलीने सर्व दुःखैकताने खलसमलकुलीने सर्वदा पापपीने । मदमदनविलीने त्वं दयां संविधत्स्व निजपदजलनीने पामरेऽस्मिन्नवीने ॥ १००॥ नीलाचलनिवासाय दिव्येश्वर्यविभासिने । बलभद्रसुभद्राभ्या जगन्नाथाय ते नमः ॥ १०१॥ हे नाथ हे रमानाथ प्रणतार्तिविनाशन । जगन्नाथ दयासिन्धो रघुराजे दयां कुरु ॥ १०२॥ नारायण सुरश्रेष्ठ दीनोद्धारपरायण । जगन्नाथ दयासिन्धो रघुराजे दयां कुरु ॥ १०३॥ जगद्धातर्जगत्त्रातर्जगन्मातर्जगत्पितः । जगदीश दयासिन्धो रघुराजे दयां कुरु ॥ १०४॥ जगदाधार धीरेन्द्र धाराधर्मधुरन्धर । जगन्नाथ दयासिन्धो रघुराजे दयां कुरु ॥ १०५॥ जनार्दन जगद्वास जगद्वन्ध जगद्धर । जगन्नाथ दयासिन्धो रघुराजे दयां कुरु ॥ १०६॥ त्वदन्यो न गतिर्मेऽद्य त्वामहं शरणं गतः । जगन्नाथ दयासिन्धो रघुराजे दयां कुरु ॥ १०७॥ त्वदाधारस्त्वद्बलोऽहं त्वमेव शरणं मम । जगन्नाथ दयासिन्धो रघुराजे दयां कुरु ॥ १०८॥ जगदीशस्य शतकं रघुराजकृतं शुभम् । पठतां श‍ृण्वतां शश्वज्जगदीशः प्रसीदतु ॥ १०९॥ रामेन्दुखण्डविधुभिर्मितेऽब्दे तैर्यष्य उत्तमे । शनावमायां शतकं जगदीशस्य निर्मितम् ॥ ११०॥ इति श्रीसिद्धि श्रीबान्धवेशमहाराजाधिराजश्रीमहाराजश्रीराजावहादुद श्रीकृष्णचन्द्रकृपापात्राधिकारीं श्रीरघुराजसिंहजादेवविरचितं श्रीजगदीशशतकं सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Shri Jagadisha Shatakam 05 18
% File name             : jagadIshashatakam.itx
% itxtitle              : jagadIshashatakam (raghurAjasiMhajAdevavirachitaM)
% engtitle              : jagadIshashatakam
% Category              : vishhnu, krishna, shataka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : raghurAjasiMhajAdeva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 05-18
% Indexextra            : (Scan)
% Latest update         : October 9, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org