$1
जगन्मङ्गलकवचस्तोत्रम्
$1

जगन्मङ्गलकवचस्तोत्रम्

श्रीगणेशाय नमः ॥ श्रीराधारमणाय नमः ॥ श्रीसनत्कुमार उवाच । ब्रूहि मे कवचं ब्रह्मन् जगन्मङ्गलमङ्गलम् । पूज्यं पुण्यस्वरूपं च कृष्णस्य परमात्मनः ॥ १॥ ब्रह्मोवाच । श‍ृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतम् । श्रीकृष्णेनैव कथितं मह्यं च कृपया पुरा ॥ २॥ मया दत्तं च धर्माय तेन नारायणर्षये । ऋषिणा तेन तद्दत्तं सुभद्राय महात्मने ॥ ३॥ अतिगुह्यतमं शुद्धं परं स्नेहाद्वदाम्यहम् । यद्धृत्वा पठनात्सिद्धाः सिद्ध्यादि प्राप्नुवन्ति च ॥ ४॥ एवमिन्द्रादयः सर्वे सर्वैश्वर्यमवाप्नुयुः । ऋषिश्छन्दश्च सावित्री देवो नारायणः स्वयम् ॥ ५॥ धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । ओं राधेशो मे शिरः पातु कण्ठं राधेश्वरः स्वयम् ॥ ६॥ गोपीशश्चक्षुषी पातु तालुं च भगवान्स्वयम् । गण्डयुग्मं च गोविन्दः कर्णयुग्मं च केशवः ॥ ७॥ गलं गदाधरः पातु स्कन्धं कृष्णः स्वयम्प्रभुः । वक्षःस्थलं वासुदेवश्चोदरं चापि सोऽच्युतः ॥ ८॥ नाभिं पातु पद्मनाभः कङ्कालं कंससूदनः । पुरुषोत्तमः पातु पृष्ठं नित्यानन्दो नितम्बकम् ॥ ९॥ पुण्डरीकः पादयुग्मं हस्तयुग्मं हरिः स्वयम् । नासां च नखरं पातु नरसिंहः स्वयम्प्रभुः ॥ १०॥ सर्वेश्वरश्च सर्वाङ्गं सततं मधुसूदनः । प्राच्यां पातु च रामश्च वह्नौ वंशीधरः स्वयम् ॥ ११॥ पातु दामोदरो दक्षे नैरृत्ये च नरोत्तमः । पश्चिमे पुण्डरीकाक्षो वायव्यां वामनः स्वयम् ॥ १२॥ अनन्तश्चोत्तरे पातु ऐशान्यामीश्वरः स्वयम् । जले स्थले चान्तरिक्षे स्वप्ने जागरणे तथा ॥ १३॥ पातु वृन्दावनेशश्च मां भक्तं शरणागतम् । इति ते कथितं वत्स कवचं परमाद्भुतम् ॥ १४॥ सुखदं मोक्षदं सारं सर्वसिद्धिप्रदं सताम् । इदं कवचमिष्टं च पूजाकाले च यः पठेत् ॥ १५॥ हरिदास्यमवाप्नोति गोलोके वासमुत्तमम् । इहैव हरिभक्तिं च जीवन्मुक्तो भवेन्नरः ॥ १६॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे ब्रह्मनारदसंवादे जगन्मङ्गलकवचं समाप्तम् । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : jaganmangalakavachastotram
% File name             : jaganmangalakavachastotram.itx
% itxtitle              : jaganmaNgalakavachastotram (nAradapancharAtre)
% engtitle              : jaganmangalakavachastotram
% Category              : kavacha, vishhnu, vishnu, mangala
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Brihatstotraratnakara 1 newer, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225
% Latest update         : March 25, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org