श्रीजगन्नाथाष्टकम्
कदाचिच्छ्रीक्षेत्रे विबुधपुरधाम्नि प्रियतमे
कदा सिंहद्वारे पतितजनतात्राणवपुषम् ।
कदा गर्भे गेहे निखिलमणिसिंहासनगतं
जगन्नाथं नत्वा चरमचिरसौख्यं भवतु मे ॥ १॥
कदा शङ्खे स्थित्वा मधुरबडदाण्डे हि विचरन्
महारज्जुं धृत्वा जयतु शरणं दिव्यपुरुषम् ।
रथं स्पृष्ट्वा प्रेम्णा विरलरथयात्रासुरभितं
जगन्नाथं नत्वा चरमचिरसौख्यं भवतु मे ॥ २॥
कदा द्वाविंशेशं कुमतिहरपावच्छनिचये
पिकाख्ये वैकुण्ठे कुसुमतुलसीदिव्यविपिने ।
महाम्भोधेस्तीरे त्रिदिवभुवनद्वारललिते
जगन्नाथं नत्वा चरमचिरसौख्यं भवतु मे ॥ ३॥
सुकान्तं श्रीकान्तं निगमपुरभान्तं निरुपमं
कदा तं गोपालं रघुवरविशालं बलपतिम् ।
महान्तं वेदान्तं विपुलदनुजान्तं सुरपतिं
जगन्नाथं नत्वा चरमचिरसौख्यं भवतु मे ॥ ४॥
वटं स्पृष्ट्वा दृष्ट्वा विमलविमलादेवतरुणीं
तदा पद्मां छद्मां कमलनिलयामन्नजननीम् ।
प्रसादं संप्राप्य क्षुधितजनतानन्दविपणौ
जगन्नाथं नत्वा चरमचिरसौख्यं भवतु मे ॥ ५॥
ठनेत्राभ्यां दीप्तं स्वजनबलभद्रेण सहितं
सुभद्रामध्यस्थं रिपुदलनसौदर्शनयुतम् ।
महादारुस्फुर्जत्तरलरसिकश्रीहरिवरं
जगन्नाथं नत्वा चरमचिरसौख्यं भवतु मे ॥ ६॥
कदा नीले चक्रे सुविततपताका मलहरी
प्रकाश्य माधुर्यं विलसतितरां मुग्धमनसा ।
पुरीप्रान्ते शान्तं विहगगरुडस्तम्भनिकटं
जगन्नाथं नत्वा चरमचिरसौख्यं भवतु मे ॥ ७॥
नरेन्द्रे कासारे सजलमधुरे तीर्थविधुरे
कदा जन्मस्थाने नवदिवसयात्राविलसिते ।
सदा स्वात्मारामं सकलजनकामं गुणमयं
जगन्नाथं नत्वा चरमचिरसौख्यं भवतु मे ॥ ८॥
सदानन्दात्मजस्तोत्रं यः पठेत् सततं सुधीः ।
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ॥ ९॥
इति प्रदीप्तनन्दशर्मविरचितं श्रीजगन्नाथाष्टकं सम्पूर्णम् ।
Composed, encoded, and proofread by
Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com