जय जगदीश हरे आरार्तिक्यम्
ॐ जय जगदीश हरे भक्तिजनेड्यविभो त्वयि
मम रतिरस्तु परे ॥ (ध्रुवपदम्)॥
यस्त्वां ध्यायति धन्यः सन्ततमनुरागी ।
स भवति जनिमृतिरहितः श्रेयःफलभागी ॥ १॥
त्वं जननी जनको मे त्वं विपदुद्धर्ता ।
त्वं शरणः शरणप्रद सकलैनोहर्ता ॥ २॥
पूर्णस्त्वं परमात्मन् सर्वान्तर्यामी ।
ब्रह्मपरमेश्वरभर्तः त्वं सर्वस्वामी ॥ ३॥
त्वं पालयिता पातस्त्वं करुणासिन्धुः ।
दुर्वृत्तेरपि जन्तोस्त्वमकारणबन्धुः ॥ ४॥
सर्वागोचर एकः सकलासुगणेशः ।
प्राप्यः केन कुमतिना मयि का परमेशः ॥ ५॥
दीनोद्धारः प्रभुरसि सर्वार्त्युद्धर्ता ।
पतितोद्धार्युत्थाप्यः स्नेहमसत्कर्ता ॥ ६॥
श्रौतिं स्मृतिमुज्जीवय सञ्जीवय धर्मम् ।
विद्यावृद्धिं विरचय शमयाप्युपधर्मम् ॥ ७॥
विषयविकारं शमयांहः संहर विष्णो ।
श्रद्धाभक्ती सेवां दृढय सतां विष्णो ॥ ८॥
ॐ जय जगदीश हरे ।
Proofread by Paresh Panditrao