ज्वरकृतकृष्णस्तोत्रम्
श्रीगणेशाय नमः ॥
विद्राविते भूतगणे ज्वरस्तु त्रिशिरास्त्रिपात् ।
अभ्यपद्यत दाशार्हं दहन्निव दिशो दश ।
अथ नारायणो देवस्तं दृष्ट्वा व्यसृजज्ज्वरम् ॥ १॥
माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ ।
माहेश्वरः समाक्रन्दन्वैष्णवेन बलार्दितः ॥ २॥
अलब्ध्वाऽभयमन्यत्र भीतो माहेश्वरोज्वरः ।
शरणार्थी हृषीकेशं तुष्टाव प्रयताञ्जलिः ॥ ३॥
ज्वर उवाच ॥
नमामि त्वाऽनन्तशक्तिं परेशं सर्वात्मानं केवलं ज्ञप्तिमात्रम् ।
विश्वोत्पत्तिस्थानसंरोधहेतुं यत्तद्ब्रह्म ब्रह्मलिङ्गं प्रशान्तम् ॥ ४॥
कालो दैवं कर्म जीवःस्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः ।
तत्सङ्घातो बीजरोहप्रवाहस्त्वन्मायैषा तन्निषेधं प्रपद्ये ॥ ५॥
नानाभावैर्लीलयैवोपपन्नैर्देवान्साधूँल्लोकसेतून् बिभर्षि ।
हंस्युन्मार्गान्हिंसया वर्तमानान् जन्मैतत्ते भारहाराय भूमेः ॥ ६॥
तप्तोऽहं ते तेजसा दुःसहेन शीतोग्रेणात्युल्बणेन ज्वरेण ।
तावत्तापो देहिनां तेऽङ्घ्रिमूलं नो सेवेरन्यावदाशानुबद्धाः ॥ ७॥
श्रीभगवानुवाच ।
त्रिशिरस्ते प्रसन्नोऽस्मि व्येतु ते मज्ज्वराद्भयम् ।
यो नौ स्मरति संवादं तस्य त्वन्न भवेद्भयम् ॥ ८॥
इत्युक्तोऽच्युतमानम्य गतो माहेश्वरो ज्वरः ॥
बाणास्तु रथमारूढः प्रागाद्योत्स्यन् जनार्दनम् ॥ ९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे उत्तरर्धे त्रिषष्टितमोअध्याये
श्रीज्वरकृतकृष्णस्तोत्र संपूर्णम् ।
Bahagavata Purana skandha 10, adhyAya 63, shlok 22-30
Encoded and proofread by Ravin Bhalekar ravibhalekar@hotmail.com
Sudha Ram tellsudha at yahoo.com