श्रीकृष्णाष्टकम्

श्रीकृष्णाष्टकम्

॥ श्रीगणेशाय नमः ॥ पूर्णानन्दमनन्तमद्वयमजं सच्चित्सुखं श्रीहरिं तुर्यातीतमखण्डमेकमचलं सानन्दकन्दं हरिम् । नानारूपधरं च ह्य्कमगुणं त्रैलोक्यवन्द्यं हरिं सत्यानन्दमनन्तज्ञानममलं श्रीकृष्णचन्द्रं भजे ॥ १॥ मालाचन्दनकुङ्कुमं च तुलसीपत्रं धरं सुन्दरं कर्णे हेमसुवर्णकुण्डलधरं पीतं च वस्त्रं धरम् । नानारत्नमयं सुसौम्यमुकुटं पत्रं मयूरं धरं सत्यानन्दमनन्तज्ञानममलं श्रीकृष्णचन्द्रं भजे॥ २॥ अङ्गं मेघसमं च नेत्रकमलं रूपं सदा श्यामलं पादाम्भोजसमं च नित्यसुखदं दृश्यं सदा शोभनम् । तेजोमूर्तिसमानसूर्यविमलं लक्ष्मीपतिं केशवं सत्यानन्दमनन्तज्ञानममलं श्रीकृष्णचन्द्रं भजे ॥ ३॥ हस्ते चक्रधरं तथैव मुरलीवाद्यन्धरं सुन्दरं शत्रोरन्तकरं च नित्यसुखदं भक्ताय दत्तं वरम् । ब्रह्मानन्दसुरेन्द्रसूर्यमरुतः स्तुन्वन्ति यं तं परं सत्यानन्दमनन्तज्ञानममलं श्रीकृष्णचन्द्रं भजे ॥ ४॥ ब्रह्मानन्दवरिष्ठब्रह्ममुनयो ध्यायन्ति यद् रूपकं वेदैः नित्यनिरन्तरोपनिषदैः गायन्ति यद् रूपकम् । कालातीतममात्मव्यापकमजं कैवल्यचिद्रूपकं सत्यानन्दमनन्तज्ञानममलं श्रीकृष्णचन्द्रं भजे ॥ ५॥ ऊर्ध्वं नालमधोमुखं च कमलं ऊर्ध्वं प्रकाशं कृतं कृष्णं ब्रह्मसनातनं च परमं हृत्पुण्डरीके स्थितम् । सूक्ष्मात्सूक्ष्मतरं महान्नतिमहान् कैवल्यधामाख्यकं सत्यानन्दमनन्तज्ञानममलं श्रीकृष्णचन्द्रं भजे ॥ ६॥ मायातीतमगण्यरूपमगुणं वा सद्गुणं तं परं अज्ञानान्तकरं यथा प्रतिदिनं ज्ञान प्रदं तं हरिम् । उत्पत्तिस्थितिनाशकञ्चलयकं विश्वस्य त्वां कारणं सत्यानन्दमनन्तज्ञानममलं श्रीकृष्णचन्द्रं भजे ॥ ७॥ भक्तानां कृपया च पूर्णदयया धर्मार्थकाम प्रदं सर्वैश्वर्यप्रदं च नित्य सुखदं ज्ञानप्रदं मोक्षदम् । जन्माद्यन्तकरं च मोक्षफलदं तद्धामरूपं परं सत्यानन्दमनन्तज्ञानममलं श्रीकृष्णचन्द्रं भजे ॥ ८॥ निवेदयामि हे कृष्ण कृष्णाष्टकमिदं स्तवम् । भूयो भूयो नमस्तुभ्यमहं त्वां शरणागतः ॥ ९॥ इति गायत्रीस्वरूप ब्रह्मचारीविरचितं श्रीकृष्णाष्टकं सम्पूर्णम् ॥ Proofread by Vani V
% Text title            : Shri Krishna Ashtakam
% File name             : kRRiShNAShTakam11.itx
% itxtitle              : kRiShNAShTakam 11 (gAyatrIsvarUpa brahmachArIvirachitaM pUrNAnandamanantamadvayamajaM)
% engtitle              : kRiShNAShTakam 11
% Category              : vishhnu, aShTaka, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : gAyatrisvarUpa brahmachari
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Vani V
% Description/comments  : Author/publisher comment mentions the cost of the book as bhagavadbhakti
% Indexextra            : (Scan)
% Latest update         : January 7, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org