श्रीकृष्णषट्कम्
(श्रीकालटिक्षेत्रे)
भगवत्पदकरपङ्कजपूजितपदपद्म शङ्खचक्रधर ।
यदुनन्दन नतनन्दन पाहि सदा मां कृपापयोराशे ॥ १॥
नवनीतादप्यधिकं मृदु मम हृदयं प्रणम्ररक्षायाम् ।
इति बोधयितुं धत्से नवनीतं किं करे कृष्ण ॥ २॥
गोगोपमुक्तिदं त्वां गोभारहरं कृपापयोराशिम् ।
गोपीजनार्चितपदं गोप्राप्त्यै नौमि देवकीसूनुम् ॥ ३॥
गोवर्धनमन्दरधरधरणाद्गर्वायसे वृथा शौरे ।
यद्यस्ति शक्तिरधुना धर मां धरणीरमार्चिताङ्घ्रियुग ॥ ४॥
अल्पबलकैटभादीन् हत्वा गर्वं वृथा कुरुषे ।
मोहाभिधानमसुरं जहि शीघ्रं शक्तिरस्ति यदि कृष्ण ॥ ५॥
शङ्करगुरुवरकरवरकमलार्चिताङ्घ्रियुग कृष्णा ।
किङ्करवरजनवृन्दं तोषय तोयालिशयनकमलेश ॥ ६॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीकृष्णषट्कं सम्पूर्णम् ।
Proofread by PSA Easwaran psaeaswaran at gmail.com