श्रीकृष्णचतुर्विंशतिस्तोत्रम्
केशवं केशिमथनं वासुकेर्नोगशायिनम् ।
रासक्रीडाविलासाढ्यं कृष्णं वन्दे जगद्गुरुम् ॥ १॥
नारायणं नरहरिं नारदादिभिरर्चितम् ।
तारकं भवबन्धानां कृष्णं वन्दे जगद्गुरुम् ॥ २॥
माधवं मधुरावासं भूधरोद्धारकं विभुम् ।
आधारं सर्वभूतानां कृष्णं वन्दे जगद्गुरुम् ॥ ३॥
गोविन्दमिन्दुवदनं श्रीवन्द्यचरणाम्बुजम् ।
नवेन्दीवरसङ्काशं कृष्णं वन्दे जगद्गुरुम् ॥ ४॥
विष्णुमुष्णीषभूषाढ्यं जिष्णुं दानवमर्दनम् ।
तृष्णाभयप्रभेत्तारं कृष्णं वन्दे जगद्गुरुम् ॥ ५॥ (कृष्णाभयप्रभेत्तारं)
मधुसूदनं विधिनुतं बुधमानसवासितम् ।
दधिचोरं महाभागं कृष्णं वन्दे जगद्गुरुम् ॥ ६॥
त्रिविक्रमं त्रिलोकेशं भवदादिविजैर्नुतम् । (वृषाद्यदितिजैर्नुतम्)
कविं पुराणपुरुषं कृष्णं वन्दे जगद्गुरुम् ॥ ७॥
वामनं श्रीमदाकारं कामितार्थफलप्रदम् ।
रामानुजं सामलोलं कृष्णं वन्दे जगद्गुरुम् ॥ ८॥
श्रीधरं श्रीधरानुतं राधेयाद्यैर्नुतं हरिम् ।
राधाविडम्बनासक्तं कृष्णं वन्दे जगद्गुरुम् ॥ ९॥
हृषीकेशं विषावासं भिषजं भवरोगिणाम् ।
तुषाराद्रिसुतावन्द्यं कृष्णं वन्दे जगद्गुरुम् ॥ १०॥
पद्मनाभं पद्मनेत्रं पद्माहृत्पद्म बम्भरम् ।
आध्मातमुरलीलोलं कृष्णं वन्दे जगद्गुरुम् ॥ ११॥
दामोदरं श्यामलाङ्गं सोमसूर्यविलोचनम् ।
चामीकराम्बरधरं कृष्णं वन्दे जगद्गुरुम् ॥ १२॥
सङ्कर्षणं वेङ्कटेशं ओङ्काराकारमव्ययम् ।
शङ्खचक्रगदापाणिं कृष्णं वन्दे जगद्गुरुम् ॥ १३॥
वासुदेवं व्यासनुतं भासुराभरणोज्ज्वलम् ।
दासपोषणसंसक्तं कृष्णं वन्दे जगद्गुरुम् ॥ १४॥
प्रद्युम्नमाम्नायमयं खद्योतनमयार्चितम् ।
वैद्यनाथं प्रपञ्चास्यं कृष्णं वन्दे जगद्गुरुम् ॥ १५॥
अनिरुद्धं ध्रुवनुतं शुद्धसङ्कल्पमव्ययम् ।
शुद्धब्रह्मानन्दरूपं कृष्णं वन्दे जगद्गुरुम् ॥ १६॥
नरोत्तमं पुराणेशं मुरदानववैरिणम् ।
करुणावरुणावासं कृष्णं वन्दे जगद्गुरुम् ॥ १७॥
अधोक्षजं सुधालापं बुवमानसवासिनम् ।
अधिकानुग्रहं रक्षं कृष्णं वन्दे जगद्गुरुम् ॥ १८॥
नारसिंह दारुणास्यं क्षीराम्बुधिनिकेतनम् ।
वीराग्रेसरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥ १९॥
अच्युतं कच्छपाकारमुज्ज्वलं कुण्डलोज्ज्वलम् ।
सच्चिदानन्दवीर्याढ्यं कृष्णं वन्दे जगद्गुरुम् ॥ २०॥ (सच्चिदानन्दरूपेशं)
जनार्दनं घनाकारं सनातनतमं विभुम् ।
विनायकपतिं नाथं कृष्णं वन्दे जगद्गुरुम् ॥ २१॥
उपेन्द्रमिन्द्रावरजं कवीन्द्रनुतविग्रहम् ।
कविं पुराणपुरुषं कृष्णं वन्दे जगद्गुरुम् ॥ २२॥
हरिं सुरासुरनुतं दुरालोकं दुरीक्षणम् ।
परेशं मुरसंहारं कृष्णं वन्दे जगद्गुरुम् ॥ २३॥
श्रीकृष्णं गोकुलावासं साकेतपुरवासिनम् ।
आकाशकालदिग्रूपं कृष्णं वन्दे जगद्गुरुम् ॥ २४॥
कृष्णस्तोत्रं चतुर्विंशमेतत् सन्नामगर्भितम् ।
यः पठेत् प्रातरुत्थाय सर्वपापैः प्रमुच्यते ॥ २५॥
कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥ २६॥
इति श्रीकृष्णचतुर्विंशतिस्तोत्रं सम्पूर्णम् ।
Proofread by Rajesh Thyagarajan