कृष्णगीति अथवा कृष्णनाटकम्

कृष्णगीति अथवा कृष्णनाटकम्

जगति सुकृतिलोकैर्नन्दितानन्दिताशा कळविरणितवंशीभासमानासमाना । पशुपयुवतिभोग्या देवतादेवता सा सजलजलदपाळीमेचका मे चकास्तु ॥ १॥ प्रेम्णालं लाळ्यमानः सदयमिह सदा नन्दसंज्ञेन पित्रा रामेण ज्यायसा वा विवशमतियशोदाख्यया वा जनन्या । आदीव्यन् दिव्यगव्या विबुधपारे(परि)वृढो रिष्टदाताघमोक्षं पुष्णन् कृष्णो गुरुर्मे परमपदसमुद्भासको बोभवीतु ॥ २॥ सौवर्णाद्भुतभूषणोज्ज्वलवपुः संवीतपीताम्बरो नीलाम्भोदनिभो भुजैधृ(र्धृ)तगदाशङ्खारिपङ्केरुहैः । भ्राजिष्णुर्गुरुवायुमन्दिरविरोचिष्णुः स विष्णुः स्वयं धृष्णुर्विश्वजनोपतापहरणे काव्यं मम ख्यापयेत् ॥ ३॥ ((१)वंशी-वेणुः । देवतानामपि देवता । (२)अत्र प्रस्तुतश्लेषेण भगवान् श्रीकृष्णस्तन्नामकः स्वगुरुरपि विवक्षितः ॥ (३)अरि चक्रम् ।) विक्रान्त्याक्रान्तविश्वद्विषत इहगुरोविङ्क्र(र्विक्र)माख्यस्य राज्ञः स्वस्त्री(स्री)यो मानवेदो मुरमथनकथावर्णनालोभनुन्नः । विष्णोर्वृष्णीश्वरस्य प्रथयति पदरूपेण किञ्चित् कथां तां कान्तां विश्वव्यथान्तामिह विबुधजनाः सन्तु सन्तोषवन्तः ॥ ४॥ लक्ष्मीनाथ पुरा सुरासुरमृधे ये कालनेम्यादय- स्त्वत्पिष्टा अपि शिष्टकर्मबलतो दैत्या न मुक्तिं गताः । तेषां भूरिभरेण भूतलजुषां सा भूतधात्री व्यथा- पात्री वेधसमेत्य वेगत इति प्रोवाच देवावृतम् ॥ ५॥

पाटिरागेण गीयते । एकताळेन वाद्यते ।

त्रपयालपितुमनीशामपि मां व्वसनभरो हि कथापयतीमां वनितानामिह वचनं परुषं विषहेथा मम रुगाधिकपरुषम् । (४)नुन्नृः = प्रेरितः । पदरूपेण = गानरूपेण । विश्वव्यथान्तां = सकलदुःखसंहर्त्रीं (५)मृधं = युद्धम् । पल्लवम् । नाथ कृपालय परिपालय मां पापनृपालकरचिताधिमिमां (नाथ) निगदितमिदमयि निशमय च विधे शुचमिह मम शमय च शमजलधे वनितावच इति न वचो हेयं मम, किमु गव्यं शकृदिति हेयं (नाथ) स्वशिरो न तु शक्नोति स विनतं पन्नगपतिरुन्नेतुं नियतं कमठाधिपमपि महितं भुवने न कुशलमयि मन्ये मम वहने (नाथ) कुलशिखरिकुलं खलु बत पतितं सपदि भवेदधिजलनिधि नियतं गतिरसि मम तु चकोरी शरणं कमयति जगति विना हिमकिरणं (नाथ) व्यसनमनोपममुदितमनूनं मम तु मनोगतमधुना नूनं परममतो नतजगदवनरते प्रभुरिह तु भवान्ननु भुवनपते (नाथ) (अधिजलधि = समुद्रे । कमयति = कं गच्छति? । अयेतः - परस्मैपद कविप्रयोगात् । अनोपमं असदृशम् । साधुत्वं चिन्त्यम् ॥) उर्वीं गुर्वीं वहन्तीं विपदमिति वदन्तीं पतन्तीं पदान्ते पश्यन् बाष्पं वमन्तीं त्वयि स कृतमना व्याजहाराधिहारः । वत्से सर्वंसहे त्वं क्षणसमयमये साध्वि सर्वं सहेथा लक्ष्मीनाथः स साक्षाज्जगदवनकलादीक्षितो रक्षिता नः ॥ ६॥ एवं व्याहृत्य शर्वादिकविबुधजनैः साकमुर्व्या च तीरं क्षीराम्भोधेस्तवोरस्थलघृततुळसीसौरभीलोभनीयम् । गत्वा नत्वा च स त्वामजित पुरुषसूक्तेन भक्त्योपतस्थे यावत्तावत्समाधौ दिवि तव गिरमाकर्ण्य मोदादगादीत् ॥ ७॥ हे देवा देवदेवेरितमतिरिदमावेदये दानवारे- र्लीलासाहाय्यहेतोर्जगति यदुकुलं तन्वतो धन्यधन्यम् । साकं नाकाङ्गनौघैरवतरत जवादेवमादिश्य गोभि- र्गामाश्वास्याप्तगेहो भवदवतरणात्युत्सुकोऽयं न्यवात्सीत् ॥ ८॥ त्वत्सान्निध्येन धन्ये पुर इह मधुरानामके देवकीं तां पाणौकृत्याथ शौरिर्व्यचलदतिनृशंसेन कंसेन साकम् ॥ आदायाकाशवाण्या क्रुधमपि च कृपाणीं कृपां स्वां त्रपां वा हित्वेमां हन्तुकामं यदुपतिमयमालोक्य वाक्यं बभाषे ॥ ९॥ ((६)आधिहारः = तापहर्ता ॥ (८)गोभिः = वाग्भिः ॥ (९)पाणौकृत्य = परिणीय ॥)

सामन्तमलहरिरागेण गीयते । चम्पताळेन वाद्यते ।

अनृशंस ननु कंस वसुधाभृदवतंस कथमिति व्यवसितं बत कृपाकुलमते त्वयि विदितवेद्ये किमुपदेश्यमन्येन तदपि मे मुखरतां प्रणयिता वितनुते । पल्लवम् । वरमते साहसान्ननु विरम नरपते परमतेजोनिधे सपदि बत यदुपते (वर) वपुषैव सह मृत्युरिह जायतेऽचिरा दतिचिरादपि च वा मृतिरियं सुनियता किमनित्यतासदननिजतनोरपि च कृते विदधते परहतिं निजहिते नृप रताः (वर) स्वसृहतेरपि तेन जीवितेन किमु ते निजनाशनतो यशो वरमिह तु भूतले उद्य(दय)ति सदा जगन्मदयाते(यति)यशोमय- शशाङ्के कळङ्कोऽय(द्य)नोदयेतामले (वर) (वपुषैव सहेत्यादि ``मृत्युर्जन्मवतां वीर देहेन सह जायते । अद्य वा(?)ब्दशतान्ते वा मृत्यु(त्युर्वै)प्राणिनां ध्रुवः'' इति भागवताशयविवरणम् ॥) वनितावधो निखिलकुशलानि नाशये- दिति नीतिमयि फलय न तु विबुधविरचितां बहुमतो बहुशोऽपि विबुधविजयेन ते धर्मपालो ननु परामृशन्न वनितां (वर) दयनयि(नीय)तरजने भवदीयमतिरन्य- रूपैव ननु मनो विमलय विमर्शनान् विपदां हि विवरमविचार इति बुधवचो विस्मृतं किमु विभो विदितमपि दर्शनात् (वर) त्वदधीनमतिदीनमपराधलवहीन(-) ममिताधिभरलीनमतिभीतिभाजनं निजशिशुजनं विवशमपकरुणमुपयमं नय न(नयनं)पुनरुपयमे बत जातवेपनं (वर) हितमिदं निगदितं शङ्कां न हरति चेत् परमपि मतं परमकरुण श‍ृणु पुनरिदं ननु सुतान् दातास्मि यत एव तव भयं नृप रुषं त्यज परुषमयि कुरु हृदुरुमुदं (वर) शौरेस्त्वदाहितमतेः किमु वाक्यभङ्ग्या किं देवकीसुकृतपुञ्जविजृम्भितेन । कंस्त(कंसस्त)थेति तरसैव तदीयवाच- मूरीचकार च चकार च हन्त चिन्ताम् ॥ १०॥ सत्या किमेषा वसुदेववाणी तथ्या किमेषा गगनोत्थवाणी । कालेन चैतन्निखिलं यथावत् ज्ञायेत तत्सम्प्रति सम्प्रतीक्षे ॥ ११॥ एवं विचिन्तयन्नेव विविधं विवशाशयः । विवेश स पुरं विष्णो विदूषितमनास्त्वया ॥ १२॥ भोजाधिपात्स हरिणीं हरिणारिवर्य- पाणिद्वयी महितपञ्जरतो यथा ताम् । धीमान्विमोच्य तरुणीं कृपणां कृपाण- पाणेर्भवत्प्रहितधीर्गृहमाप शौरिः ॥ १३॥ कंसो यथोदितमथो तव तातनीतं तं सोऽवधीन्न कृपया निजभागिनेयम् । आदाय नन्दनमुदारमना निकेत- मागम्य शौरिरखिलं निजगाद जायाम् ॥ १४॥ ((१३)हरिणारिः = सिंहः । शौरिर्वसुदेवः ॥) धन्येयं नारीदं वाक्यं श्रुत्वा स्मृत्वा चैतद्वृत्तम् । विद्युन्मालाभिख्यं पुत्रं दृष्ट्वा चासीत्तुष्टा विष्णो ॥ १५॥ तावश्च नारदमुनिर्मधुरापुरी(रीं)ता- मागच्छदाशयमयं भवतो विदित्वा । कंसं शशंस च नृशंसमलं प्रशंसन् तं सन्निविष्टमतिहृष्टमतिं सभायाम् ॥ १६॥ दैतेया यूयमेते यदव इह सुरास्त्वद्वधायैव विष्णुः प्रादुःष्यादेवमुक्तो विदुतयदुकुलः पञ्चतां षट् तनूजान् । प्राणैषीदेष शौरेर्निभृतमहिपतावाहिते माययाथो रोहिण्यां देवकीं तां त्वमपि समविशो देव हे देवहेतोः ॥ १७॥

भैरविरागेण गीयते । एकताळेन वाद्यते ।

परिपाण्डुपयोधरभरभासा शरदिव शुशुभे तदनु शुभा सा ((१५)अत्र मुद्रालंङ्काररीत्या ``धन्येयं नारी''त्यस्य ज्योतिषिक ``वाक्या''(?)न्तःपातिता वृत्तस्य विद्युन्मालाभिधेयता च द्योत्यते ॥ (१७)प्रादुःष्यात् प्रादुर्भवेत् । विदुतयदुकुलः सन्तापितयादवगणः । अहिपतौ शेषांशभूते बलभद्रे ॥) पल्लवम् । मञ्जुळदौहृदमन्दिरभूता कथमिव कथनीया तव माता (मञ्जु) कृशतरमुदरं गरिमपरीतं विबुधव्यसनमतो विपरीतं (मञ्जु) स कुचो मलिनमुखोऽतिकठोरो यदुपवदजनि विमुक्ताहारो (मञ्जु) विजहौ सा भरभयतो भूषा- मथ केवलतैवाजनि भूषा (मञ्जु) अदसीयमहो निभृतं हसितं मृदुळं च गतं भृशनिश्वसितं (मञ्जु) अवलोकितुमिव तव लळितमुखं कुचयुगळमभूदथ विनतमुखं (मञ्जु) आशां पाकरिपोः प्रसाधिततमामापादयन्नादरा- दालम्बो विबुधावलेस्त्रिजगतामेकावतंसो हरे । मन्दम्मन्दमहो वहन् निजतनोरापूर्णतामन्वहं सोऽयं दौहृदपार्वणेन्दुरिह नो कं सप्रमोदं व्यधात् ॥ १८॥ (यदुपवत् = कंस इव ॥ (१८)कंसस्य प्रमोद न व्यधादेवेति च श्लेषभङ्ग्या प्रतिपाद्यते ॥) भवदेकावलम्बा सा वसुदेवकुडुम्बिनी । आललम्बे परां शोभां जितदेवनितम्बिनी ॥ १९॥ कंसस्त्वापन्नसत्त्वामिह निजसहजां शोकदामेकदा तां त्वत्सान्निध्योत्थतेजःप्रसरभृशपरिध्वस्तनेत्रप्रचाराम् । निध्यायैवं स दध्यौ किमु कुसृतियुतः कोऽप्यसौ कृष्णसर्पो मत्प्राणैः पारणाय स्वसुरुदरगुहामध्यमद्याध्यवात्सीत् ॥ २०॥ मन्नाथायां हतायां स्वसरि च युवतौ धर्मपत्न्यां च शौरे- रन्तर्वत्न्यामकीर्तिर्मम तु सहचरी नूनमाजीवनान्तम् । हा हन्ताहिंसितायां पुनरिह सहसैवार्भकः कोऽप्यमुष्याः प्रादुर्भूतः करिष्यत्यसुरवरचमूघस्मरो भस्मसान्माम् ॥ २१॥ एवं दोळायितात्मा नरपतिरजिघांसाजिघांसाभिभूतः पुत्रं तस्याः प्रसूतं प्रसभमिह निहन्तास्मि हन्तास्मि नूनम् । इत्थं निश्चित्य दुःस्थाशय इह शयने भोजने सोऽथ याने स्नाने वा संस्मरंस्त्वां प्रतिपुरमवसत्तत्प्रसूतिप्रतीक्षः ॥ २२॥ ((२०)कृष्णसर्पः = कृष्ण एव सर्पः । तज्जातीयः पन्नगश्च । पारणाय = पारणां कर्तुम् । प्राणैः पारणायेति प्रयोगश्चिन्त्यः । (२२)द्वितीयं अस्मीत्यहमर्थेऽव्ययम् ॥) चतुर्मुखमुखा बहिर्मुखाः फुल(ल्ल)मुखाम्बुजाः । तुष्टुवुस्त्वां तदा तुष्टा निविष्टमुद्रे(दरे)हरे ॥ २३॥

मेच्चिद्भोळिरागेण गीयते । एकताळेन वाद्यते ।

बोधमयाव्यय लोकहिताय हि भजसे रूपमनन्तं यत्स्मरणादपि भवसागरमिह सपदि तरन्ति दुरन्तं पल्लवम् । याम इमे शरणं त्वां यदुवर याम इमे शरणं त्वां त्वयि विमुखानां पतनं सुनियत- मपि सुमहितपदभाजां क्वापि कुतोऽपि न हानिरिहाजित तव सुलळितपदभाजां (याम) त्रिभुवनसाक्षी भजतेऽजित तनु- गुणकृतिमरणभवान्नो ((२३)बर्हिर्मुखाः देवाः ॥) तदपि च तान्त्रि(न्नि)जभजनाय भजति भजतामरण भवान्नो (याम) स्मरणस्मारणनिकथननिशमन- मयि खलु तव तनुनाम्नां जगति वितन्वञ्जनिमृतिमेता- मेति न सुमहितधाम्नां (याम) भवहर तनुते भवपाथोधिं भरिताधिकमहिताधिं गोवत्सपदं त्वयि तु समाधिं विदधद्विहतसमाधिं (याम) मुरहर खलनृपकृतभूभारं व्यवहर सहसोदारं माधव मान्द्यं ननु तनु(मान्यान्ननु)तनु(न)या नो परिपालय तरसा नो (याम) नुत्वा नत्वा गते त्वामिति विबुधगणे प्रावृताशा पयोदैः प्रावृट् प्रादुर्बभूव प्रकटरसमुपानीततत्तत्पदार्था । अत्यासन्नप्रसूतिं सपदि परिचरन्तीव हन्तासहाया- मेनामत्यन्तदीनामिह पुनरनुकूले विधौ को न बन्धुः ॥ २४॥ (विह्तसमाधिं = निरस्तसमस्तसन्तापम् ॥) कृष्णाभिख्यं जगत्यां प्रचुरतरतमोवर्धने बद्धदक्षिं(दीक्षं) व्यादीव्यत्पुष्करास्यं भुवनमहितमारात्कृतार्कप्रकाशम् । जाया शौरेरुदीते शिशिररुचि निशीथे जयन्त्यां भवन्तं प्रादुश्चक्रेऽथ चक्रायुध वियति यथा प्रावृडेषा पयोदम् ॥ २५॥ अक्षीणाभं दयार्द्रैर्मृदुहति(सि)तसखैर्वीक्षणैरीक्षमाणं लक्ष्मीनाथं स साक्षात् परमिह पुरुषं लक्ष्यमक्षामपुण्यैः । त्रैलोक्याधीशमालोक्य च निजतनयं विस्मयस्नेहमोदै- राविष्टात्माथ शौरिः सदयित इति तुष्टाव पुष्टादरं त्वाम् ॥ २६॥

कानक्कुर्ञिरागेण गीयते । एकताळेन वाद्यते ।

महितशिरोधृतमणिमकुटं वर- तिलकविभासितफालं नतचिल्लीजितवल्लीतति पृथु - नयनजिताम्बुजजालं ((२५)कृष्णाभित्र्यं = कृष्णनामधेयं, नीलकान्तिमिति च । तमोवर्धने = तमोगुणनाशने, अन्धकाराधिक्यकरणे च । पुष्करास्यं पद्ममुखं, जलमुखं च । आरात्, समीपे दूरे च ॥) पल्लवम् । कथये माधव कथमिव रूपं तव नितरामनुरूपं (कथ) त्रिभुवनबन्धुरगन्धवहं मणि। कुण्डलमण्डितगण्डं अधररुगञ्चितदन्तगणं मुख- निन्दितपङ्कजषण्डं (कथ) निर्मलकौस्तुभकम्रगळं लस- दंसगळितवनमालं वत्सविराजितवत्सतलं वर- हारोदितरुचिजालं (कथ) करधृतदरकमलारिगदं जठ- रोषितभुवनकदम्बं केसरभासुरनाभितलं कपि- शाम्बरकम्रनितम्बं (कथ) करिवरकरकमनोरुयुगं मृदु- जानुकृताखिललोभं (वत्सतलं = उरस्थलम् । दरः = शङ्खः ।) प्रसृतायुगजितकेकिगळं प्रप- दाघृतकमठविशोभं (कथ) वल्गुरुगाततगुल्फयुगं वर- नूपुरभासुरपादं भङ्गिपदाङ्गुलिपङ्क्तिधरं नख- मणिधृ(घृ)णिधु(धृ)तविधुपादं (कथ) मृदुरेखासखपादतलं पद्- नतमतिशोधिपरागं अमलतमाभतमालनिभं जग- दानन्दननिखिलाङ्गं (कथ) दिव्यमिदं खलु तव रूपं लघु संहर जगदभिरूपं अयि मामचिरादव कंसादल- मवमादसवतंसात् (कथ) देवकीवसुदेवाभ्यां देव कीर्तिपयोनिधे । एवमीडित एतौ गामेवमीरितवान् भवान् ॥ २७॥ (अवमात् = अधमात् ॥) मातस्तात तपस्यया हि युवयोर्मोमुद्यमानात्मना प्राग्जन्मस्मरणाय मे वपुरिदं दिव्यं मया दर्शितम् । शश्वद् ब्रह्मधियाथवा सुतधिया मां संस्मरन्तौ युवां क्षिप्रं मत्पदमाप्नुयातममितैः प्राप्यं हि पुण्योत्करैः ॥ २८॥ नन्दालये नन्दसुतां प्रसूतां यशोदयादाय यशोदयाब्धे । निधाय मां तत्र निधे गुणानां निषीद चात्रार्य विषीद मा त्वम् ॥ २९॥ (वर् मात्रार्य) शिशुतामितवानभिधाय भवा- न्विशदामिति गां पशुपालमणे । प्रणयादधिकं विधुरौ पितरौ जनितावपि तौ जगती महितौ (जगतीमहितौ)॥ ३०॥ विज्ञाय त्वन्मतं त्वां दधदथ गतवान् गोकुलं सूतितल्पे गृढं विन्यस्य चित्तं त्वयि च स तु यशोदाप्रसूतां सुतां ताम् । धृत्वा विश्लेषपीडामपि सदनमुपेत्यास्त शौरिः पुरेव श्रुत्वा कंसो भगिन्याः प्रसवमतिजवादापपातातिपापः ॥ ३१॥ ((३०)इतवान् -प्राप्तवान् ॥) पाणिपञ्जरगतां स्वसुः सुतां चारुपङ्कजमुखीं तवानुजां आर्य देहि चरमामिमामिति प्रार्थितोऽपि जगृहे खलो बलात् ॥ ३२॥ हस्तादुत्पत्य सद्यो वपुरनुपममासाद्य च द्यां प्रपद्य क्रूरात्मन् किं ह्तायामयि मयि भुवि ते यत्र कुत्रापि वैरी । सम्भूतो जृम्भते यन्निभृतमिति विभो त्वद्भगिन्यां गतायां सामोक्त्या दम्पती तौ स तु किमपि समाश्वास्य यातो निकेतम् ॥ ३३॥ ततः प्रभातेऽजित निप्रहन्तुमिहार्भकाणामधिकप्रभाणाम् । मदोद्भटान् दैत्यभटान् दुरात्मा स पूतनामप्यशिषहु(द्दु)राशाम् ॥ ३४॥ वलभिदुपलनीलं सूतितल्पे लसन्तं विधुतमृदुपदाब्जं मुग्धवक्त्रं रुदन्तम् । विवशमतियशोदा सा तु दृग्भ्यां भवन्तं मुहुरपि च पिबन्ती नाप मोदं कियन्तम् ॥ ३५॥

रामगिरिरागेण गीयते । एकताळेन वाद्यते ।

जगदानन्दननन्दनजननाकर्णनतरलात्मालं वदनमुदीक्ष्य हिताप्लुत आप्लुतसादकृत स गोजालं ((३४)अशिषत् शासितवान् ॥ अर्भकाणामिति कर्मणि षष्ठी ॥ आप्लुतसादकृत = व्रतिभ्यो ददौ ।) पल्लवम् । व्यदधत किं पशुपा न तदा तव जननोद्यदुदारमुदा (व्यद) मागधगाथ(ध)कवन्दिमुखाखिल- विद्याजीविजनानां विततान मतिं विततातिमुदं वितरणतो विभवानां (व्यद) अधिसृति विविधं कृतनटनाना- मधिगतरसविवशानां अभिययुराळय इह पशुपाना- मबलावलिसहितानां (व्यद) बालक जीव चिरं पालय खलु वसुधामिति कृतलापाः अकृषत वृषगोततिमपि कपिशां निशया पशुपकलापाः (व्यद) सिषिचुर्गुरुशिष्यौ पितृतनयौ पयसा कुतुकपरीतौ (अकृषत = अकुर्वन् । निशया = हरिद्रया ॥) मिथ इह पतिभृतकौ नवनीतै- रपि चिक्षिपुरविनीतौ (व्यद) अवहन् कतिचन कतिचन पतिता व्यहसन् कतिचन कामं व्यनदन् कतिचन कतिचन विदधू रणविहृतिं च निकामं (व्यद) प्रदातुं नन्दं तं करमथ स कंसाय मधु(थु?)रां प्रयातं नन्दन्तं भुवनमहितेनात्मजनुषा । प्रकृष्टादृष्टानां प्रवरफलभूतेन भवता प्रहृष्टो दृष्ट्वा गामवददिति शौरिः स्वसुहृदम् ॥ ३६॥ भ्रातः किं कुशली शिशुस्तव च मे यत्नेन रक्ष्याविमौ लक्ष्यन्ते सुदुराचरव्रतपदे हन्तोपसर्गा इह । तद्याहीत्युदितो ययौ स कृतपोतापातना पूतना तावत्सम्भृतमञ्जुळाङ्गलतिका त्वामाप पापाशया ॥ ३७॥ सा शायितं(तां)त्वां शयने निशाम्य साशा निहन्तुं जगृहे सहेलम । ((३७)कृतपोतापातना = कृतबालकवधा ॥) सौन्दर्यसम्मोहितसर्वलोका मन्दं जगौ चामलमन्दहासा ॥ ३८॥

गाम्बोधिरागेण गीयते । एकताळेन वाद्यते ।

अतिलोभनमयि लोचनयुगलं मुकुळयास(सि)कुतो रुचिभरयुगलं पल्लवम् । बालक मा कुरु मा कुरु रोदं मामकमापिब कुचमुरुमोदं (बालक) किमपि किशोर निशामय सुत मां दृशमुन्मीलय कुवलयसुषमां (बालक) विशदय मृदुलं सुन्दरहासं विहसितविकसितकुन्दविलासं (बालक) क्षुधितोऽसि किमयि पशुपालमणे पृथुरोचिरपासित दिवसमणे (बालक) कुचतो गळति पयो रुचिसदनं किमपि विदारय दारक वदनं (बालक) (रुचिभरयुक् = कान्तिपुरयुक्तम् ॥) आभाष्यैवमपाययस्कुचमियं प्राणैः सहास्यास्त्वया प्राणोन्मोचकमाशु चूचुकमहो पीतं कृतं मेचकम् । प्राणाकर्षणदीर्णमर्मनिवहा प्राप्ता भृशं वेदनां प्रापद् घोरतरां तनुं प्ररुदती प्रावोचदेवं च सा ॥ ३९॥

इन्दिशरागेण गीयते । चम्पताळेन वाद्यते ।

हन्त सुत किं त्वमिति सन्तपसि हन्त मा- मन्तरितबन्धघृतिसन्ततिमिमां पल्लवम् । मुञ्च बत मुञ्च बत किञ्चन कुचं डिम्भ मम दम्भहर सम्भृतशुचं (मुञ्च) सञ्चलसि किञ्चन न वञ्चनरतान्वहं हन्त ननु वञ्चितावञ्चिताहं (मुञ्च) सम्प्रति तु सम्पतितसम्भरितसम्भ्रमा- मञ्चति रुगञ्चितां पञ्चता मां (मुञ्च) शिथिलनिखिलेन्द्रिया पृथुलहृदयव्यथा परिपृथिवि बत पताम्यहमनाथा (मुञ्च) विवृत्तनेत्राथ विकीर्णकेशा विमुक्तनादप्रतिनादिताशा । पदौ भुजौ केशव सा विसार्य पपात भूमौ सह पादपौघैः ॥ ४०॥ ((३९)पीतं कृतं = अपीयत, पतिवर्णमक्रियत च ॥) व्रजपदे श्रुतिदारणदारुणस्वनितजातभयाकुलवल्लवे व्रजपतेर्दयिता कृतखेलनं तदुपरीह भवन्तमुपाददे ॥ ४१॥ गत्वा घोषं सघोषं व्रजपतिरशनैरक्षताङ्गः सुतोऽसौ दिष्ट्या दिष्टानुकूल्यान्नियतमपगतो मृत्युवक्त्रादिति त्वाम् । आदायालिङ्ग्य रम्यं वदनसरसिजं वीक्ष्य वीक्ष्यापि चुम्बन् ब्रह्मानन्दे निमग्नः स तु सुकृतनिधिर्नैव किञ्चिद्व्यजानात् ॥ ४२॥ जन्मर्क्षे त्वं जनन्या मुरहर शकटाधस्तले शायितस्तत् पद्भ्यां क्षिप्त्वाथ वात्यावपुषमपि तृणावर्तदैत्यं व्यदारीः । गर्गे (गर्गें)भर्गोपमानं व्रजपतिरवलोक्याव्रजन्तं ब्रजं तं तेनैवातानयन्नाम स मुसलभृता ते बतानन्तनाम्नः ॥ ४३॥ नन्दपाक नृणां पुण्यवृन्दपाक विभो भवान् । मन्दमैधत घोषं स्वैर्नन्दयन् बालचापलैः ॥ ४४॥

पन्तायिरिरागेण गीयते । पञ्चकारिताळेन वाद्यते ।

बालसोमभासमान- फाललोलनीलबाल- ((४४)नन्दपाक = नन्दबालक ।) जाललळितवदनगळित- लालयाकुलाकृते पल्लवम् । शैशवं तु तव विलोभनं पशुपतनय शैशवं तु तव विलोभनं लक्ष्यमाणरदनमुकुळ- वीक्षणीयमृदुलहसित- वीक्षणातिविवशहृदय- विश्वकामिनीतते (शैश) रोदनेषु मषिमलीम- सातिदीनमुखसरोज- लोकनेषु मुषितघोष- योषिदावलीधृते (शैश) नियमहीनहासरोद- निरुपमाननावलोक- निरतिशायनोरुमोद- विवशगोपसंहते अङ्गसङ्गसङ्गताङ्ग- नाजनेन नीयमान गृहाद्गृहं रमापते सादरं करात् करं (शैश) अस्फुटाक्षरातिरम्य जल्पितामृतैकसेक- कल्पितोरुपुण्यलोक- कर्णमोद सत्पते (शैश) सङ्कव(ङ्क्व)णत्स्वकङ्कणोरु- किङ्किणीकमङ्कणेषु रिङ्खणेन पङ्कसङ्ग- ताङ्ग सुमनसां गते (शैश) विश्वमपि तवास्य एव विश्वमजित वीक्ष्य देव (वर् विश्वमहित) विस्मयातिविह्वलीकृ- ता प्रसूरसौ च ते (शैश) पाणिजानुचङ्क्रमे तु नूपुरारुतोदये कि- मेतदिति मुहुर्विवृत्त्य वीक्ष्य विहितलघुगते (शैश) बालमातुलं विलोक- येति मातृकथितमिन्दु- माजुहोथ तारकाभि- रपि स सविधमाप ते (शैश) दर्पणोदरेऽङ्गमखिल- तर्पणं निजन्निशाम्य सप्रमोदमर्भकेति चाह्वयो जगत्पते (शैश) स्वामिन्नन्दात्मजन्मन्निरुपमसुखसन्दोहसन्दोहनात्मन् साकं लोकाभिरामेण च दनुजविरामेण रामेण तेन । वेलातीतप्रमोदस्तिमितपशुपनारीदृशैरीदृशैस्त्वं हेलाजालैरुदारैरविरतमतनोराकुलं गोकुलं तत् ॥ ४३॥ गोपोपनीतनवनीतपरीतपाणिं त्वां द्वोऽपिदिव्यनखदीपितकण्ठभूषम् । वन्दे दराङकुरदुदाररदाभिरामं वक्त्रेन्दुकन्दळितसुन्दरमन्दहासम् ॥ ४४॥ ((४३)स्तिमिताः पशुपनारीणां दृशा नेत्राणि येस्तैः । आपं चैव हलन्तानामित्याप् ॥ (४४)व्याघ्रनखाकृतिर्भूषाविशेषः केरळेषु वालकैर्धार्यते । तदनुसारीदं वर्णनम् ॥) लोलम्बावलिलोभनीयसुषमं लोलं विहारे वधू- जालं व्याकुलयन्तमस्फुटगिरं व्यालम्बिकाञ्चीगुणम् । आलम्बं जगतां मुखाम्बुजगळल्लालं गळान्तोह(ल्ल)ळद्- बालं त्वां हरिदम्बरं मम मनो बालं बतालम्बते ॥ ४५॥ धन्यं स्तन्यं दिशन्तीमितरकुचमुखव्यापृतं त्वत्कराब्जं व्याचुम्बन्तीं मनोज्ञं बदनसरसिजं स्वैरमालोकयन्तीम् । प्रेमार्द्रां मातरं स्वां शिव शिव वदने स्मैरतारैरपाङ्गै- र्मुग्धं प्रोद्वक्षिमाणः पुरुसुकृतनिधिं मोदयामासिथैनाम् ॥ ४६॥ बाललोकमवलोकयन्नयं खेलनाकुलमथात्मसन्निधौ । उद्यतोऽमुमनुयातुमादरादुत्थितो निरपतो बताकुलम् ॥ ४७॥ इहाङ्गसङ्गादपि पादपांसुसङ्गो वरीयानिति किं धरायाम् । पापापहाभ्यां पद्पङ्कजाभ्यां चरन् परिक्रीडितुमुद्यतोऽभूः ॥ ४८॥

केदारगौडरागेण गीयते । चम्पताळेन वाद्यते ।

पादाम्बुजेन पशुपालाङ्गनानिवह- बाहावलम्बित करारविन्दं ((४५)हरिदम्बरं = पीताम्बरम् ॥) सञ्चेरिथेह मृदुसञ्जातमञ्जुतर- मञ्जीरनादमथ मन्दमन्दं पल्लवम् । नीलाम्बरेण सह भवता कृतं (?) लीलायितं जयति जगदादृतं (नीलां) मत्सविधमेहि यत वत्सेति वा(बा)हुयुग- मुत्सार्य तातेन जातमोदं उक्ते तु भित्तिमवलम्ब्य मृदुहासमद्- सोयाङ्कमविशो विवशपादं (नीलां) सञ्चरन्नवलम्बविकलमथ सम्मदं मुरमथन सन्ततं दददपारं तत्र तत्रापि निजमित्रकैरादाधिथ पावितं पदपरागैरगारं (नीलां) द्रुतगतौ निपतितं पुनरपि समुत्थितं निपतितं चामुमवलोकयन्ती पङ्काङ्गरागरुचिराङ्गं भवन्तमथ माता समाददे मुदमयन्ती (नीलां) पशुपाङ्गनासदसि भृशतुङ्गकुचकुम्भ- घृतकम्पमनुसरति पुरुविलासं व्यावृत्य दैत्यमथनालप्य यत्किमपि चालप्य यातोऽसि लळितहासं (नीलां) हर्षेण विहरणेनिकटमतिकर्षेण (?) गतमजित तर्षेण बत भवन्तं मुदितमतिरादाय मृदुहसितमम्बा चु- चुम्ब मुखमीषदुन्मिषितदन्तं (नीलां) श‍ृङ्गायुधादपि भुजगायुतादपि च दंष्ट्रायुधादपि च दहनतो वा त्वां परित्रातुमपि कृत्यानि कर्तुमपि शक्तेयमजनि न हि विवशभावा (नीलां) दात्यूहकोकिशुकपारावतान् धाव- तोऽनुधावन् विहतिविवशबालैः लीलैकलोलो भवन्नथ भवानति- (वर् लीलैकलोभवान्) जवादलमवारि तरसा पशुपजालैः (नोलां)(वर् पशुपबालैः) बाहाग्रसुगृहीतबालं हि वात्सक- समाकृष्यमाणमिह सर्वतो वा त्रैलोक्यनाथमवलोक्यतनुमालोक्य सकुतुकं त्वां जहं(ह)सुरुपरि देवाः (नीलां) रामेण साकमभिरामेण रिपुगणवि- रामेण यवि(यि)थ प(य)त्रोरुतोषाः तत्रैव देव तव गात्रावलोकैक- चित्ता विचेरुरपि घोषयोषाः (नीलां) व्रजपदवनितानां चोरणं चेतनानां विविधमिति वितन्वन्नच्युताचेतनानाम् । अपि रचयितुकामो नूनमप्यूनकामो दधिघृतनवनीतक्षीरचौर्योत्सुकोऽभूः ॥ ४९॥ मयोपयुक्तं हि यथाकथञ्चिन्मुक्तिप्रदं नृ(नू)नमिति त्वयैवम् । समुद्यतं तासु दयार्द्रभावान्मन्येऽन्यथा चोरयसीश किं त्वम् ॥ ५०॥

पाटिरागेण गीयते । एकताळेन वाद्यते ।

एहि कुमार मुदा कुरु नटनं नूतनघृतमूल्यकमतिकमनं इति युवतिगिरा मृदुनिहितपदं कृतनटनो घृतमपिबोऽतिमुदं पल्लवम् । मुरहर किमिह न बत भवता कृतमधिदधिघृतलोभवता (मुरहर) अवनीमवलम्ब्य पदाञ्चलतो भुजमुन्नीयोन्नमिताङ्गलतो घृतघटमपि नास्पृशदजित भवान् परिहसितोऽजनि जगदपि मितवान् (मुर) द्रुतमुपनेतुमना नवनीतं भृशमविनति(नीत)भवानपनीतं अभिपत्य घटं निजगात्रलता- मभिवीक्ष्य गतो मणिभित्तिगतां (मुर) उच्चमुलूखलमधिरूढवता शिक्यं कथमपि च गृहीतवता भवता गळिताधिकलळितपदा बत दोळाविहृतिरतानि तदा (मुर) निजगृहकृत्ये निरवधियत्ने पितृसुतभृत्येषु च भृशसक्ते युवतिजने दधिघृतमपि हृत्वा पपिथ बिडालगणाय च दत्वा (मुर) दध्यादिकघटनिकटोपगते- र्निध्याने समुचितहेतुकृते (निध्याने = दर्शने ॥) बद्धादरमुपतदमाहितवा- नद्धाजित विहरणवस्तु भवान् (मुर) विमोहनानामपि वा विमोहनं प्रमोदनानामपि वा प्रमोदनम् । किशोरलीलायितमीश ते विभो विशेषरम्यं विवशीकरोति मां ॥ ५१॥

शङ्कराभरणरागेण गीयते । चम्पताळेन वाद्यते ।

नन्दनन्दनेह दुग्धलोभतो भवा- न्मन्दमन्दमेव गेहमेकमेयिवान(न्) मन्थदण्डखण्डितातितुङ्गकुम्भतो निपतितं पपौ पयो मुखेन मोदतः पल्लवम् । विश्वनाथ तव तु चोरणेषु नैपुणी विस्मयावहेह लोकहृदयहारिणी (विश्व) चक्षुषैव कापि वीक्ष्य मन्दिरान्तरे चोरयन्तमिह भवन्तमवसरान्तरे (उपतदं = तम्य समीपे ॥) चोरयेति कीलिताररागताबला नन्दमिह निशाम्य बत भवन्तमाकुला (विश्व) किं त्वयाप्यभेदि चौर्यसर्गवेधसा घट इतीरिते कयापि सरळचेतसा मर्करचितकर्म किं मयेति कैतवा- दाहितोरुकोपमालपोऽतिवैभवात् (विश्व) तिष्ठ चोर दृष्टकैतवेति वादिनीं मृष्टपाणिरित्थमूचिथाथ कामिनीं दृष्ट एष किन्न कष्टभाषिणीह में रुष्टमानसे करोऽधुना त्वयाधमे (विश्व) अलमलमयि लीलालोलगोपालबालैः सह विविधविहारैस्तेऽयमाहारकालः । प्रणयविवशयेत्थं प्रार्थितोऽध्यम्बयागा न तु नवनवनीतोद्गन्धिवक्त्रारविन्दः ॥ ५२॥ नवमनवममाज्यं प्राज्यहर्षं जिहीर्षुः क्वचन वदनवातेनाशु निर्वाप्य दीपम् । (कीळिताररा = बज्र(बद्ध)कवाटा ।) वलयमणिगणाभाजालभग्नाभिलाषो निशि निववृतिषे च म्लानवक्ला(क्त्रा)म्बुजन्मा ॥ ५३॥ तर्षादवापदिह गव्यगृहं सतोषं भीत्या ततो निववृते च भवान् सशोकम् । एवं मुहुः सुलळितानि गतागताने(नि) तन्वन्नविन्ददजितामितशोकमेव ॥ ५४॥ एवं देवातिहृद्यैस्त्रिभुवनमहितैरभ्युपायैरनेकै- र्दु(मु)ग्धं दुग्धादि मुष्णन्निह सह मनसा पश्यतां श‍ृण्वतां च । धन्यैरन्यूनरागं व्रजयुवतिजनैरादरादीक्ष्यमाणो बालैरक्षीणपुण्यैरनवरतमरंरम्यथा रम्यमूर्ते ॥ ५५॥ सदा मुद्दा(दा)लोकत केवलं त्वां जनो मनोज्ञानपि नान्यबालान् । विधुं विध्याधिकभासमानं विधो विलोकेत किमृक्षभेदान् (५६) ((५५)अरंरम्यथाः = अभीक्ष्णमरमथाः । यङन्ताल्लङ् ॥ (५६)विधो = विष्णो । ऋक्षभेदान् = नक्षत्रविशेषान् ॥) हृद्ये पदार्थेऽपि सदावलोकात् कुतूहलं हीयत एव लोके । विश्वैकरम्यानन पश्यतां त्वां व्यजृम्भतेवान्वहमम्बुजाक्ष ॥ ५७॥ मन्दं विन्यस्य पादाम्बुजमतिचकितो जातु मञ्जीरनादा- त्तत्रत्ये गेहकृत्ये निरत इह जने गूढमन्तः प्रविश्य । शिक्यादुद्धृत्य दुग्धं ससखि समपिबस्तावदेवाङ्गनाभि- र्दृष्टो धावन् गृहीतोऽन्तिकमथ गमितो मातुरुक्ता च सैवम् ॥ ५८॥

मलहरिरागेण गीयते । चम्पताळेन वाद्यते ।

त्वत्सुतेनामुना यत्स्म नो भिद्यते तद्व्रजे कुत्रचिद्विद्यते नो मुग्धद्धि(दधि)नवनीततक्रघृतरक्षणं नियतमस्माभिरिह शक्यते नो पल्लवम् । गोकुलैकाधिपे सूनुरयि ते गोकुले सकलमपि रहसि हरते (गो) देवि मे मन्दिरे बालवृन्दैरमा नन्दनेनागम्य मन्दमन्दं (बालवृन्दरमा - बालकसमूहैः सह ॥) गोरसं गृहनिहितमापीय पातितं बत दृषदि पाटितं कुम्भवृन्दं (गो) देवि मे मन्दिरे दोहनव्यापृतां लोभनो लोकयन्मा कुमारैः आविश्य गर्भगृहमनिरीक्ष्य दुग्धमय- माक्रोश्य शिशुजनमयादुदारैः (गो) देवि मे मन्दिरे सञ्चरन्मन्थरं वञ्चको निशि च दधिरसनरागात् वलयमणिगणरूचा धुततमा दधि पिब- न्नधिरसं सपदि सरसं समागात् (गो) (वर् स चागात्) देवि मे मन्दिरे मन्दमेत्याखिले केळिदोळाकुले गव्यमोहात् प्राज्यरसमास्वदन्नाज्यरसमार्द्रय- न्मम दृशमनेन गतवान् सगेहात् (गो) देवि मे मन्दिरे लीलाहवावलो- काकुलैरविदितो निखिललोकैः आपतन्नेष पय आपिबन्नोतुमपि पाययन्निर्ययौ गोपतोकैः (गो) (ओतुर्बिडालः । तोकमपत्यम् ॥) देवि मे मन्दिरे भीषयित्वा भृशं क्रन्दयित्वाप्ययं बालजालं आकुले सकलजन आपतत् कलशघट- मावहन्नगमदपि हेलयालं (गो) देवि मे मन्दिरे चामुना मोचितं वात्सकं वीक्ष्य भृशविवशभावे निरयति जनेन्तरेत्यापश्यता किमपि घटकुले मेहयित्वा दधाने(वे)(गो) देवि मे मन्दिरे पीठभृतपीठगत- बालगळगोघटमसौ विभिन्दन् क्षीरधारां करेणापिबन्नितवधू- दृशि पयः ष्टी(ष्ठी)व्यञ्जगाम नन्दन् (गो) नन्दपत्नीह ते नन्दनेनाहितं व्यापृतं बालचापलमितीदं अक्षमामहि वयं शिष्यतेऽयं न चेत् अक्षमा रक्षितुं सममपीदं (गो) (कलशघटः = क्षीरघटः ॥ वात्सकं = वत्ससमूहः ।) देवि ननु पश्य विश्वचोरोऽयम- वतिष्ठते सुप्रतीक इव लोके किञ्च यत्किञ्चन च वञ्चितं नो मये- ति स्फुटं नाटयति निजविलोके (गो) देवि ननु पश्येदमपि वधूभणितिरिति वितथैव ननु जननि नयधुरीणे विश्वसिहि न च वचनमेतदिति मञ्ज्वसा- वञ्जसा व्यञ्जयति नयनकोणे (गो) श्रुत्वा तासां विलापं भयविवशदृशं म्लाननम्राननाब्जं दृष्ट्वा चासक्तपाणिद्वयमधिगळमुर्व्यां लिखन्तं पदेन । शोकस्नेहानुकम्पाविवशितहृदया शिक्षणेऽशिक्षणे वा नेशा सूनुं न्यगादीदतिरुषमभिनीयेयमुद्यम्य दण्डम् ॥ ५९॥ महितवंशे महितजाते (वर् विहितजाते) रतिरहो ते कथमकार्ये कथय चौर्य(र्ये)कलिनिकाय्ये तनय वार्ये परमनायें(र्ये) विदितनीते दुर्विनीते विगतभीते लळितगीते विभवजातं तो निकेते भवति नूनं श्रीसमेते तब सुबोधे गुणपयोधे रिङ्गितं किं न्वन्तरङ्गे परमतुङ्गे भरितसङ्गे कुटिलताया हन्त रङ्गे तनय चौर्य(र्यं)विहसनीयं भुवि विगेयं भुवनहेयं परममुष्मान्न तु विधेयं भवतु भद्रो ननु विधेऽयं जननसाराञ्जनय सूनू- नित्यनाथं भुवननाथ(थं) जननचोरं तनयमापं विधिबलात्त्वां विहितनाथं प्रणयभरपरीतां भारतीं मातुरेता- मजित मधुरवादी त्वं निशम्येत्यवादीः । वचसि तव वरिष्ठे सर्वदाम्बावतिष्ठे शप इह चरणाभ्यां तत् प्रसीदामुकाभ्याम् ॥ ६०॥ (अनाथं = अयाचिषि । विहितनाथं = कृतोपतापम् ॥) श्रुत्वा कर्णरसायनं तव गिरं प्रीत्या यशोदावद- द्गोप्यो नन्दत नन्दनेन न भवेत् कोऽप्याधिरस्मात् परम् । प्रोदीर्योति विमुष्टमिष्टद वितीर्यासौ तव श्रेयसे दण्डन्न्यस्य तवास्यबिम्बमधिकप्रेम्णा चुचुम्बोत्स्मितम ॥ ६१॥ लीलालोले कदाचित्वयि फलकुलसञ्चोरणात्यन्तकुप्यद्- बालोक्तत्वन्मृदाशश्रवणकुपितया प्रोचिषे त्वं जनन्या । वत्सेह त्य(हात्य)न्तकुत्स्यं जगति मृदशनं किं कृतं दुर्विनीत श्रुत्वा तद्वाचमात्यं(स्यं)विकचकमलदेश्यं त्वयाशु व्यदारि ॥ ६२॥ मृदाशसन्देहविदारणे तदा निजानने देव मुदा विदारिते । महीमहीनां महितान्महीधरान् समाः स्वमातुस्त्वमदीदृशो दिशाः ॥ ६३॥ (वर् दिशः) मथ्नत्यां दधि मातरि त्वमपिबो गत्वा स्तनं जातु सा प्रोद्धर्तुं लघु दुग्धमुत्सृतमगात् क्रुद्धोऽर्धपानात् भृशम् । ((६२)कमलदेश्यं = पद्मसदृशम् ॥ (६३)समाः = सर्वाः । दिशा इति भागुरिमतेनाप् ॥) भित्त्वा तद(द्द)धिपात्रमात्तनवनीतो यातवानेतया त्वं चान्वीय धृतोऽथ बन्धनहरो बद्धो बतोलूखले ॥ ६४॥ आकृष्येदमुलूखलं धनदजावापात्य तावर्जुनौ शापान्मोचितवान्व्यमोचि च भवान् पित्राथ सत्राखिलैः । यातो जातुचनोपनन्दवचसा बृन्दावनं पावनं वत्सानामवनोत्सुकोऽभवदथ त्रैलोक्यरक्षोद्यतः ॥ ६५॥

अ(आ)हरिरागेण गीयते । एकताळेन वाद्यते ।

अहनि च कुहचन रचयन्नदनं प्रग इह हलिना प्रमुदितवदनं तपनीयकलापैरजित भवान् कमनीयोऽपि च काचं धृतवान् पल्लवम् । विविधं विदधिथ विहृतानि विधो विपिने बालकविलसितसविधो (विवि) मुरळीं गवलं कलयन्निलया- नि(न्नि)जतर्णकसङ्घयुतो निरयात् (तपनीयकलापैः = स्वर्णभूषणगणैः ॥ तर्णको वत्सः ॥) मुरळीरवतरळीकृतहृदयै- मु(र्मु)रहर पृथुकैरपि च सहृदयैः (विवि) परिभासुरपरभागललामा भृशपावनशुभभाजननामा वनमारिथ विषमायुधधामा विततोरसि सततोदितदामा (विवि) रचयन्मुरळीं मुखरां मधुरं रजयन्नपि विपिने मृगनिकरं रमयन्नुलपैर्वत्सकनिकरं रसयन्नचरोऽर्भकनिकरमरं (विवि) फलदलविलसिततरुमन्यायां खरतरदिनकरकरशून्यायां तव पदनळिनमिळनधन्यायां व्यहरो नरवर वरवन्यायां (विवि) हेलाभरतो मुरहर मुषितं लीलासाधनमपरैर्विदितं वेलातीतप्रमुदितमिह जहतो बालान् समभिननन्दिथ हसतो (विवि) (वनमारिथ = वनं प्रापिथ ॥) क्वचनारचयन्नाहवमनुगै रचयन् व(क्व)चनोत्प्लवनं प्लवगैः क्वचन च कृतझङ्कृतिरळिनिकरैः कचन प्लवनकृदिह भेकवरैः (विवि) क्वचनोपविशन् बकवन्निभृतं कचनानुरुवन् बत पतगरुतं क्वचनारचयन् वृषवन्नदनं रचयन् वचन च शिखिवन्नटनं (विवि) इति जडजनतारचितेन पथा (वर् जनताचरितेन) विहरन्नजितारमथारमथाः अपि कृतरतिरात्मनि सहपृथुकै रमरैरवलोकितुमुरुकुतुकैः (विवि) मुहुरापीय हरे तव रूपं मुरहर ननु मुनिनिवहदुरापं विहृतिपरैरिति पृथुकैरमितं सुकृतिन इह जगति जिता नियतं (विवि) तत्समये वत्सवपुस्त्वत्सरणीमुत्ससर्प दर्पभरात् त्वत्समरसमुत्सुकमतिरुत्सृतकोपात्सुरारिरिह कोऽपि ॥ ६६॥ दृष्ट्वा दुष्टाव(वम)र्दोद्यत दनुजपतिं लीलया पादयुग्मे धूत्वा तं घूर्णायित्वा द्रुतमुपरि कपित्थस्य चिक्षेपिथ त्वम् । वत्सान् व(स?)त्सैः सहाहन्यथ कुहचिदवन् पाययित्वाथ पाथो नाथामून्पा?(मुत्पा)तुकामान् सखिभिरपि भवान् पति(पीत?)वान् पीतवासः ॥ ६७॥

शङ्कराभरणरागेण गीयते । एकताळेन वाद्यते ।

बकनामकदनुजो बत सविधं तव गतवान् बकरूपक उदितामितरभसं कबळितवान् दहनोपमवपुषं लघु गळतो विगमितवान् स भवन्तमपि च केशव शसितुं द्रुतमितवान् अयि माधव वधलोलुपधिषणं सपदि भवा- नवधार्य तमसुराधिपमधिकं क्रुधमितवा- नदसीयकसविधं पुनरशनैरुपसृतवा- नथ तं लघु मुखतो विदलितवान् विशसितवान् प्राप्तो भोक्तुमना वनं दिनमुखे वंशीरुतामोदितै राजत्तेमनजेमनैः शिशुजनैः साकं भवानेकदा । तत्राघं निजघान वाहसतनुं तत्रे च तद्वक्त्रगां- स्तत्सत्वस्थमहो महोजनि सुरा हर्षादवर्षन् सुमम् ॥ ६८॥ तिष्ठन्मध्येऽर्भकाणां कबळफलगणान् पाणिपद्मे च वामे कक्षे श‍ृङ्गं च वेत्रं जठरवसनयोरन्तरे वंशिकां वा । ((६८)वाहसतनुः = महोरगशरीरः । तत्रे = रक्षितवान् ।) बिभ्रद्विभ्राजमानो विधुरिव भगणैरावृतो हात(स)यन् स्वान् नर्मोक्त्या भुक्तवांस्त्वं दिवि विबुधगणैर्वीक्षितो विस्मयेन ॥ ६९॥ ज्ञातुं तावन्महत्त्वं तव सपदि तिरोधाद्विधाताथ वत्सां- स्त्वय्यन्वेष्टुं गतेऽमून् करधृतकबळार्धे सगोपार्भकान् वः । वत्सात्मा वत्सपा(का)त्मा गवलमुरळिकावेत्रशिक्यादिकात्मा प्रापः प्राग्वद्विहृत्य व्रजमथ मुरळीं नादयन् मोदयंस्त्वम् ॥ ७०॥ त्वद्वीक्षैकप्रवणहृदयाः सादरं प्राक् सवित्रीः पुत्रेक्षैकप्रवणहृदयाः साम्प्रतं ता भवन्तीः । त्वां चालोक्य प्रतिकलमलं हर्षमुत्कर्षयन्तं भ्राता सर्वे तदधिगतवानब्दकान्तेऽब्दकान्ते ॥ ७९॥ वत्सौघं वत्सरान्ते नवमनवमपि व्याकुले लोकयित्वा लोकेशेऽदीदृशो द्रागरिनळिनगदाशङ्खसङ्क्रान्तबाहम् । भ्राजिष्णुं रत्नरोचिष्णुभिरभिनवभूषाभिरिन्द्रोपलाभं राजत्पीताम्बरालम्बितजघनभरं तावदेनं नवीनम् ॥ ७२॥ तास्त्वन्मूर्तीरसङ्ख्याः सुरमुनिदनुजैः शूलिनाप्यात्मना च प्रत्येकं सेव्यमानाः श्रितजलधिसुता वीक्ष्य धाता मुमोह । तावत्त्वां जातमेकं करघृतकबळार्धं स पादारविन्दं वन्दं वन्दं च मन्दं सविधमुपसरन्नस्तवीदस्तवीर्यः ॥ ७३॥

मुखारिरागेण गीयते । चम्पताळेन वाद्यते ।

घनकमनरोचिषे तटिदुपमवाससे माह(महि)तवनमालिने पशुपसूनो कचभरकलापिने मृदुपदविराजिने मुरहर नमोऽस्तु ते खलवनकृशानो पल्लवम् । विबुधवर विषह ननु साहसमहो मे वितर च विबोधमयि माधव विभो मे वपुषोऽपि तेऽस्य न हि महिमानमवसातु- मीश इह किमु निजसुखानुभूतेः अवधूय बोधमापीय चरितामृतं तव रूपमाभजन(न्)केऽप्युरुविभूतेः (वि) भक्तिमपहाय यो बोधमभिलप(ष)ति तुषहन्तुरिव हन्त फलमस्य शोको नित्यमपि निश्चलां तव तु पदपङ्कजे भक्तिमेवायमभिलषति बुधलोको (वि) (अवसातुं = निश्चेतुम् ॥) लोकय दुरात्मतां मम परात्मनि भवति मायिजनमोहने भुवनयोनौ मायां वितत्य विभुतां बोद्धुमभिलष- न्नहमिह कियान् कीट इव स कृपीडयोनौ (वि) मयि खलु रजोमये मदभारभाजने मानान्धमानसे दीनबन्धो भुवनेशमानिनि च भवदीयचरणैक- शरण इह् कुरु कृपां करुणैकसिन्धो (वि) पृथुकस्य शयितस्य निजमातृकुक्षौ पदोत्क्षेप आगसे कल्पते किं(किम्-सिर्, हो@@व्@@ किं बेचोमेस् किं इन् Oछ्ऱ्?) भवदुदरशायिनो मातेव मदप- राधं भवान् विषहेत न जगत्पते किं (वि) तस्मिन्नुक्त्वेति याते तदनु मतिमिते सार्धमर्भैः क्षणार्धे(र्धं) मन्वानैरब्दमेकं कबळमथ भवान् भुक्तवान् भक्तबन्धो । सोल्लासैर्वाग्विलासैर्मुहुरपि रसयन्नेष तोषेण घोषं पश्चात्तैः पश्चिमाशामरुणयति रवावीषदीषाम्बभूवे ॥ ७४॥ प्रकाममेतां वसतिं प्रकाशयन् प्रसारयन् कामद कौमुदोदयम । ((७५)वसतिं = निवासं, रात्रिं च । कौमुदोदयं = भूमौ सन्तोषसम्पत्तिं कैरवोदयं च । गवां = धेनूनां, रश्मीनां च ॥) समेधमानः शनकैः शशी यथा गवामथातेनिथ चारु चारणम् ॥ ७५॥ कान्तारान्ते विसृतसुमनस्सौरभे सौरभेयी- र्नायन्नायं(नायन्नायं- चन्गेद् इन् Oछ्ऱ्)विपुलमुलपं बाललोकेन साकम् । गायं गायं सुमधुरमपि द्रावयन् गोपबालान् (वर् ग्रावजालं) चारं चारं स पुनरपुना हन्त बृन्दावनन्तं (नान्तं?)॥ ७६॥ श्रीदामनाम्नः प्रणयैकधाम्नः सख्युर्गिरा तालफलं जिघत्सुः । त्वं धेनुकारण्यमितोऽग्रजेन न्यजीघतो धेनुकमुग्रवीर्यम् ॥ ७७॥ सञ्चार्य(सञ्चार्य- चन्गेद् इन् Oछ्ऱ्)गाः सरसमस्तमहास्त भास्वान् सम्पाविताखिलदिशोऽस्तमहास्तदानीम् । घोषं भवानपि च भूरिमहाः सतोषं योषाजनेन निखिलेन निरीक्ष्यमाणः ॥ ७८॥ नाथ त्वं जातु यातः पृथगथ हलिना यामुनं काननान्तं पाथःस्फायद्विषाक्तं पशुपशुपगणानातपार्त्याशु पीत्वा । ((७७)म्यजीघनः -अघतयत् । (७८)अहास्त -गतवान् । व्यतिरेकध्वनिः ॥) आलोक्याविष्टमोहान् द्रुतममृतरसस्यन्दसन्दोहनैस्तान् कारुण्यार्द्रैः कटाक्षैर्जगद्भयविधावर्पितात्मन्नतार्प्सीः ॥ ७९॥ अवलोकयतो गरळाकुलितान् पततो निखिलान् पततोऽनुजले करुणाकर हे करुणाजलधे करुणामसृणा धिषणाजनि ते ॥ ८०॥ अहिसारमसारमसारमतिं तरसासरसादपसारयितुं उरुसार रसादथ सानुचरं मनसा व्यवसायमसावकृथाः ॥ ८१॥

पाटिरागेण गीयते । एकताळेन वाद्यते ।

अम्बरचुम्बकविटपकदम्बं तटगतममुमधिरुह्य कदम्बं यमुनाम्बुनि रयविजितकळम्बं तदनु पपात भवानविळम्बं पल्लवम् । रमते नितरां मतिरमरपते ननु ते दमने खलु खलवितते (रमते) त्रिभुवनभारभृतोऽजित भवतो निपतनतो निरुपमवेगवतो धनुषां शतमथ तटमज सहसा सममज्जयधि(ज्जयदधि)कमुदा सह सा (रमते) उद्कादुदगादुरगोऽथ रयात् सविधं तव हन्तुमभीतिरयात् अपि मर्मसु दुर्मतिरदशदयं शिवशिव रभसादपयातदयं (रमते) स तु समवेष्टयदाशु भवन्तं सकलजनेष्ट सदा शुभवन्तं स तटस्थोऽपि निशाम्य दशां तां पशुपजनो रुजमभजदशान्तां (रमते) अजित ननु त्वामतिशितदशनै- रलमदशदसावहिपतिरशनैः बत मोहरुजापरितापादिक- मिह पुनरभजत पशुपानधिकं (रमते) वपुरेव तवावृणुतेह परं विपुलोऽहिवरो न बलं हि परं शैवलजालवृतो जगति गजो भवति विभो किमु परिकलितरुजो (रमते) पशुपजनोऽथ सरोदो जन्यं सपदि निशम्य समोदोऽजन्यं सकलोऽपि विभो विवशोऽतिशुचा व्रजतोऽथ गतो विहतोऽपि रुचा (रम) अरिदरमुखरेखानिवहपदै - रयि सूचितया तव विशदपदैः तरणिसुता च सरण्या तरसा तरळहृदमुनापे महितरसा (रम) वीक्ष्य दशामथ तत्र रुजमतनुं याता पातयितुं पयसि तनुं आरभतावलिरिह गोपाना- मापतिताधिकवृतिलोपानां (रम) रुजमजित भवान् निजबन्धुतते- र्निरसितुमुरुतनुभृदनन्यगतेः नतजनबन्धो पशुपालमणे विगलितबन्धो निपपात फणे (रम) (समः पशुपजनः = सर्वो गोपलोकः । जन्यं = युद्धम् । अरिदरेत्यादेश्चक्रशङ्खादिरेखालाञ्छनैरित्यर्थः । तरलहृदिति क्रियाविशेषणं बोध्यम् ॥) पीताम्बरेण रुचिरेण विरोचमान- स्तिष्ठन् भुजङ्गपतिमूर्धनि भेजिषे त्वम् । बालांशुमालिकरजालविराजमान- नीलाचलाग्रप्रभ(ग्रभ)वबालतमाललीलाम् ॥ ८२॥

काम्बोदरिरागेण गीयते । पञ्चारिताळेन वाद्यते ।

भोगनाम्नि नटनमकृत रङ्गसीम्नि महितरत्न- दपिधाम्नि विबुधविसर- वक्षिकं भवान् पल्लवम । कृष्ण राम कृष्ण राम कृष्ण राम कृष्ण राम कृष्णराम तव तु नटनमधिकमोहनं (कृष्ण) पादकमलकलितकनक- पादकटकनिनदवलय- नादकमनपाणिकमल ताळमोहनं (कृष्ण) चारुनिहितचरणनळिन ताळसदृमखिलविबुध- जालमधिककुतुकमकृत वाद्यवादनं (कृष्ण) दैवतानि वियति विविध- यौवतानि विदधुरधिक मोदितानि मधुरमधुर- गीतकानि ते (कृष्ण) देवपरिषदजित कुसुम- माववर्ष पशुपवितति- राजहर्ष नुनुवुरपि च तापसर्षभाः (कृष्ण) श्रान्तबन्धगळितलळित- कुन्तळान्तलसितचलित- पिञ्छकान्तमधिकतरळ- मकरकुण्डलं (कृष्ण) शर्मकारिघुसृणतिलक- कर्महारिनिटिलनिलय- घर्मवारिमिळितलुळित निर्मलाळकं (कृष्ण) कञ्जकदनकम्रवदन- मञ्जुविस्तनन्ददमित- कुन्दसमितमन्दहसित- कन्दसुलाळितं (कृष्ण) तरळतरळधन्यहार- मिळनलळितवन्यदाम- वहनसुबहुमन्यमान- बाहुविवरकं (कृष्ण) स्थानचलितकमनकनक- सारसनकनिकररुचिर- सारकपिशवसनमुदित- किङ्किणीरुतं (कृष्ण) उरगशिरसि विलसदरुण- मणिकविसरविसृतकिरण- निकरमिळनकमनचरण- नळिनयुगलकं (कृष्ण) नर्तनेऽत्र ललितनळिन- पत्रनेत्र सजलजलद- मित्रगाव(त्र)मयि तवाति- मात्रमावभौ (कृष्ण) सन्नतं च सन्नतं च सन्त्यजन् फणं भवान् (वन्यदाम = वनमाला ॥ सारसनकं = कटिसूत्रमू)॥ समुन्नते समुन्नते समुन्ननर्त च (कृष्ण) यद्वदेव वसनमजित पदद्व(द्व)येन पयसि तमिह तद्वदेव परिममर्द स च रजो जहौ (कृष्ण) अखिलवदनविगळदसृज- मधिकविवशहृदयमनघ- मजित तदनु फणिनमतनु- विनयमतनुत (कृष्ण) अहिरयं तु विदितमन्त रथ भवन्तमस(म)रबृन्द- परमवन्दद्य(न्द्य)मयि मुकुन्द परमवन्दत (कृष्ण) सन्तापशान्त्यै हृदयेषु धन्यैः सन्धार्यमाणं विसृतोरुसारम् । भद्रश्रियं त्वां भुजगेव(श्व)रोऽयमवेष्टयद्देव तदेव युक्तम् ॥ ८३॥ (यद्वदेव वसनं = वस्त्रं यथा । रजोत्र = रजोगुणः परागच ॥ (८३)भद्रश्रियं -मङ्गलकरलक्ष्मीय(यु)तं, चन्द्रनतरुं च ॥) व्रजभुवि वनितानामन्वहं जीवनाशा- वहमहह भुजङ्गं त्वां भुजङ्गाधिपो यत् । परमभयविधाने प्रोद्यतं देहभाजां विशसितुमदशद् द्रागच्युतैतच्च युक्तम ॥ ८४॥ धन्या नागेन्द्रकन्या वरमतिविधुरं मूर्ध्नि पार्ष्णिप्रहारै- र्दृष्ट्वा पुष्टाधयोऽथ त्वरितमुपगता लिप्सवो भर्तृभिक्षाम् । त्वत्पादाब्जे पतित्वा प्रणतिधरजगत्पारिजातायमाने हस्तावस्तोकभक्त्या शिरास(रसि)मुकुळयन्त्योऽमुमस्तोषत त्वाम् ॥ ८५॥

सौराष्ट्ररागेण गीयते । एकताळेन वाद्यते ।

विरचितशमले समुचितमयि ते विफलितसलिले शमनं दयिते एतदनुग्रह एव हि जातं प्राप्तवतोऽस्य भवत्पद्जातं पल्लवं जीवितनायकजीवितदानात् ईश द्या(दया)वश जीवय दीनाः (जीवि) ((८४)भुजङ्गः = विटः । परमभयविधाने इत्यत्र परं, अभयविधान इत्यपि छेदः । जीवनाशावह इत्यस्य जीवनाभिलाषकर इति चार्थः ॥) खलजनदमनो निजमवतारं फलयसि कुशलततेरवतारं अलभत तव पादरजोऽद्य वरो यदर्थं जननवतामजनि वरो (जीवि) पावनपादरजोऽजित भजते यो बहुतरसुकृतवशादज ते(वशदतामजते) वाञ्छति न दिवं स खलु सुजन्मा माधव तदयं जयति सुकर्मा (जीवि) तव पादरजो जहदाधिनिधौ गळदवधौ शिव शिव भवजलधौ मुहुरुन्मज्जति मज्जति नूनं क्वचिदपि तरति न स तु पुनरेनं (जीवि) मायादिव्यत्रिभुवनमहिततोरिह मूलं भवति भवाननुपमसुखमूलं अतिवितताजित वृतिरपि च भवान् स्वरमरुदपि भङ्गकरोऽस्य भवान् (जीवि) नयनाम्बुजचुळकेन तु पिबतां तव रूपरसायनमिह जगतां भाग्यलताफलमपचेळिमतां भजति किमंहोऽदनहेळिमतां (जीवि) अलमिह न वने योगिजनोऽयं किमु तव नवने भोगिजनोऽयं मुदितः स्वयमेव जवादयि तं मोचय शोच्यामिमं नो दयितं (जीवि) अनुकम्पालय नो विवशाना- मनुकं पालय शोकवशानां विलसद्विभुममुमतिविवशेहं विलसद्विनयं विमृदितदेहं (जीवि) सकृदपराघं निजजन विहितं विषहेत महीपतिरपि महितं पतिजीवितवितरणतो हि हरे प्रतिजीवय नोऽरुषमपि च हरेः (जीवे) नारायण नरकान्तक नारक- पारायणहरचरणसरोजं मुरहर मुहुरपि नाथ नमामो मुरहर मुहुरपि नाथ नमामो (जीवि) (अनुकम्पालय = कृपानिलय । अनुकं = कमितारं १ विलसद्विभुं = सर्पश्रेष्ठम् । ``सत्सूद्विषे॑'त्यादिना क्विपि विलसदिति सर्पवाचि ।) दामोदर ते दनुजरिपो जग- दामोदरते चरणसरोजं मुरहर मुहुरपि नाथ नमामो मुरहर मुहुरपि नाथ नमामो (जीवि) एवं देव स्तुतोऽहश्वि (हीश्व)रममुममुचः सोऽप्यवादीद्भवन्तं जायैवात्यन्तकोपाकुलमखिलमहीनां कुलं पङ्कजाक्ष । त्याज्यो जातिस्वभावः किमु मुरहर मे निग्रहोऽनुग्रहो वा स्वामिन् कामं विधेयो भणित इति भवानभ्यभाणीत् फणीन्द्रम् ॥ ८६॥ भो भो भोगीन्द्र वेगात् प्रविश जलनिधिं नागवैरी न वैरं मत्पादोत्पन्नचिह्ने त्वयि ननु तनुयादेवमादेशतस्ते । भक्त्या नत्वाशु भूयोऽप्युपहृतविविधोपायनानां वधूनां सार्थः(र्थेः)सार्धं प्रतस्थे प्रति जलधिमसावग्रणीः पुण्यभाजाम् ॥ ८७॥ ससर्प दर्परहितः स सर्प उदधिं विभो । सदर्पकवधूपेतः समर्पितमनास्त्वयि (८८) ((८८)सदर्पकाभिः सकामाभिर्वधूभिरुपेतः ।) काळिन्दीं विश्वभोग्यां विदधदपनयन् काळियं नागमेवं मित्रैः सम्मोदपात्रैः समगत च भवानस्तशैलेन चार्कः । गन्तुं ध्वान्तोपरोधाधिकमकुशले बन्धुलोके शयाने दावाग्मिं पीतवान्द्रागिह तु विसृमर(रं)पातवान् बन्धुतां च ॥ ८९॥ काण्डीरैर्जातु भाण्डीरकवटनिकटे गोदमानोऽथ गोपै- र्द्वन्द्वारस्कन्दे प्रलम्बं मुरहर हा(ह)लिना घातयित्वाविलम्बम् । ऐषीकाख्यं वनान्तं तृणरसनरसादेयुषीष्वेव गोषु द्रागन्विष्यात्र यातो दवदहनभयात् पालयामासिथ स्वान् ॥ ९०॥ त्वद्रूपालोकनोद्यत्स्मरविधुरधियो हन्त कान्तं भवन्तं काङ्क्षन्त्यो गोपकन्या विदधुरथ कळिन्दात्मजातीरदेशे । वर्यामार्यासपर्यां विधिवदिह विभो मागशीर्पा(मार्गशीर्षा)ख्यमासे तीरे विन्यस्य वासांस्यथ तद्व(तदव)सितौ रो(रे)मिरे वारिपूरे ॥ ९१॥ मन्द(न्दं)मन्दं प्रयातो निभृतमिह भवान् हेलया चेलजाला- न्याहृत्यारुह्य नीपं कमपि मुखरयन्वेणुमत्रावतस्थे । ((८९)समगत = समगच्छत । ``वा गम'' इति कित्त्वपक्षेऽनुनासिकलोपः । बन्धुतां = अ(ब)न्धुसमूहम् । पातवान् = रक्षितवान् । लुग्विकरणस्य पातेरीत्वं न ॥ (९०)गोदमानः = क्रीडन् ॥) व्रीळाभीतिप्रमोदैरथ विवशधियो मञ्जुवाणीरवाणी- र्वाणीं वेणीं सुधायाः सरसमिति हरे त्वां च ताश्चञ्चलाक्ष्यः ॥ ९२॥

नादरामग्रिरागेण गीयते । पञ्चकारिताळेन वाद्यते ।

चेलजालमखिलमेणशावलोचना हेलयाशु नयत पेलवाङ्गरोचनाः सत्यमेव गदितमेतदङ्ग नर्म नो तथ्य एव निरतमाकलयत मन्मनो पल्लवम् । युवतिलोकलोभनाकृते मनोगतं ननु मनोरथं जवेन पूरयामि तं (युवति) अम्बरेण रहितमम्बुनीह खेलना- दम्बिकार्चनाफलमचलदम्बुजाननाः अंहसो हि विहननाय रंहसैव मा संहता विनमत सुबहुमानमनवमा (युवति) बाल चेलमाहरेह मोहनाकृते लीलयालमखिललोकविरचितानते ((९२)अवाणीरुक्तवान् ॥) नन्दगोपकृतवरेण्यपुण्यपरिणते नन्दसीदृशी हि ते कथाद्ध शुभमते (युवति) व्यापृतं तु निन्द्यमेतदेत्य गोकुलं व्याहृतं तु यदि विहारलोलुपाखिलं सद्य एव स खलु पशुपलोकरक्षको हृद्यरूप दुर्विनीत साधुशिक्षको (युवति) सुचिरमार्य जीव वसनमपहृतं रहो वितर किमवशीकरोषि किङ्करीरहो विवशमुदितमेतदेष विदितवान् भवान् विशदमृदुलहसनवसनमेव दत्तवान् (युवति) युवतिविततिरजित लज्जितापि वेपिता महितशीतवैभवेन तीरमापिता चलदुरोजकलशगरिमसम्पदानता प्रणयमदननुन्नमानसं पदानता (युवति) सुदुर्लभामत्र हि वल्लवीजने रतिं परामात्मनि शुद्धतां च ताम् । विदन्नदादेव मुदा तदंशुकं तदीयकामानपि चान्वमन्यथाः ॥ ९३॥ कन्याम्ता(स्ता)धन्यधन्याः सद्यमनुगृहीतास्त्वयैवं प्रपन्ना बी(वी)क्षं वीक्षं त्रिलोकीजननयनमनोमोहनाङ्गं भवन्तम् । गेहं देहेन याता भवति दृढतरं नाथ विन्यस्य चेतो डिम्भैरम्भस्ययार्तैस्त्वमथ तरणिजां प्राप्तवान् पार्श्वमाप्तैः ॥ ९४॥ आपीयाम्भःक्षुधान्धैरयि वरद भवान् बन्धुभिर्याचितान्धो हन्तालं भक्तलोलोऽप्यजनि पुनरपि द्रागलं भक्तलोलः । एतानूचे च पोतान् हरिरयमदनार्थीत्यमून् बाडवेन्द्रा- नीजानान् व्याहरध्वं द्रुतमिति कथितास्तेऽब्रुवन्नाप्य विप्रान् ॥ ९५॥ आरादास्ते सरामः प्रसित इह हरिर्भो(र्भोज)ने भोजनेता तीरे सूरात्मजाया मुहुरिति कथितास्तेऽभजन्मौनमुद्राम् । पोताः प्रोदुश्च तत्त्वामथ समचकथस्तत्प्रिया नाथतेति प्रोक्तास्तैर्विप्रभार्याः प्रणयपरवशास्त्वां प्रपन्ना धृतान्नाः ॥ ९६॥ धूळीपाळीनिलीने रुचिरकचभरे लाञ्छितं पिञ्छजालैः फाले बालेन्दुलीलां कलयति तिलकेनाङ्कितं कौङ्कुमेन । काम्ये साम्येन हीने नयन उरुदयावारिणा पूर्यमाणं कान्ते कान्तेर्निधाने वरद परिलसत्कुण्डलं गण्डदेशे ॥ ९७॥ ((९४)अम्भस्या = पिपासा । तरणिजा = यमुना ॥ (९५)याचितान्धो = याचितान्नः । भक्तमन्नम् । ईजानान् = यजमानान् ॥ (९६)भोजने प्रसितः=अशने उत्सुकः ॥) वत्से वत्सेन रम्ये विलसितवनमालं च पीताम्बरेण श्रोणीबिम्बे च संवेष्टितमनुगवरस्कन्धसक्तैकबाहम् ॥ धन्यात्मन्नन्यबाहाघृतकमलमिमाः काळिकाको(के)ळिकारं रूपं ते रूपयन्त्यो गतनिखिलपरीतापमापन् प्रमोदम् ॥ ९८॥ सकलमपि विधूय स्वावलोकैकलोभा- त्सपदि निजसमीपं सङ्गतानां वधूनाम् । समुदितमतिगाढं लोकयन् भक्तिभारं समुदितमतिरेवं मञ्जुलां गामवादीः ॥ ९९॥ (वर् गामगादीः)

सामन्तमलहरिरागेण गीयते । एकताळेन वाद्यते ।

आगमनं पुनरुदितमतीना- मिदमुचितमतीव हि भवतीनां पल्लवम् । स्वागतमयि वनिता भवतीनां सादरमिह मयि विहितरतीनां (स्वा)(विहितमतीनां) मयि खलु निखिलजनात्मनि सुकृती सुमहितभावं वितनान्ति(नोति)कृती (स्वा) ((९८)काळिकाकेळिकारं - मेघजालपरिहासकरम् । ततोऽपि सुन्दरतरमित्यर्थः ॥) अयि तरसैव तरिष्यथ भक्त्या भवजलधिं कृतविषयविरक्त्या (स्वा) अधुना सेधत विविधविधानं विधिना च समापयत वितानं (स्वा) लब्ध्वाप्येवं प्रसादं तव विरहशुचा विप्रभा विप्रभार्या नत्वा भूयोऽपि कृत्वा त्वयि खलु विगतं मानसं मानसङ्गात् । पीत्वा रूपामृतं तत्स्रुतरतिभरतोऽलोचनैर्लोचनैस्ता गत्वा मन्दं प्रपन्ना निजपतिनिकटं विभ्रमा विभ्रमात्ताः ॥ १००॥ प्राज्यं साज्यं सभोज्यं सरसमुपहृतं विप्रभार्याभिराभि- र्भुक्त्वा मित्रैर्भवान् गोकुलमगमदलं सङ्कुलं सम्भ्रमेण को वा तातोद्यमोऽयं व्रज इति निजगादाविजानन्निवामुं सोऽप्याचष्टेह वृष्ट्यै शरदि शरदि शक्राध्वरो नो विधेयः ॥ १०१॥ जन्तूनां तापशान्त्यै स खलु शतमखः पुष्टितो(ष्टिहेतो)श्च वृष्टिं काले काले कृपालुः सृजति मुदितधीः सर्वलोकैकपालः । वर्षाधीनं नराणां सकलसमुपजीव्यं विशेषादिदं नः सर्वा गव्यापि नव्योलपचयमुपजीव्येयमाव्या पृथिव्याम् ॥ १०२॥ (सेधत = गच्छत ॥ (१०२)नव्योलपचयं = नूतनतृणसमूहम(म्)। गव्या = गोसमृहः । आव्या = रक्षणीया ॥) इदं वचो निशमयन्मदं बत शमं नयन् । मघोनोऽयमघोनाङ्गमगादीरजिताथ तम् ॥ १०३॥ (वर् अघोनां गां)

भूपाळरागेण गीयते । त्रिपुटताळेन वाद्यते ।

तात हे श‍ृणु मामकं मतमादराधिसाधु तोषमेष गतो वृषै- व हि वर्षतीति न साधु पल्लवम् । त्वयि मम विभो विदितवेद्ये भणितिरिति का वा (त्वयि) कानने खलु पादपावलि- रादधाति सुखेन पाकशासनमानसे किमु सम्मदं हि मखेन (त्वयि) मन्मतं तव सम्मतं त्वपि किन्नु वा घटते हि (तृ(वृ)षा इन्द्रः ॥) किञ्चनापि च चिन्तिते सति सन्मते तदवेहि (त्वयि) स्थितिलयोदयमपि च देहिषु विहितकर्मभिरेव नियतमीश्वर इह तदनु सृतिमात्रतत्पर एव (त्वयि) स्वीयकर्मफलान्यथा- करणे कृती न वृषापि तात कर्मवशं जगन्ननु वर्तते हि सदापि (त्वयि) अप्रमाणमदृष्टमादध- दत्र कोऽपि च जातु न भ्रमेण तदन्यदैवत- वन्दनं विदधातु (त्वयि) वन्दते यदि मन्दधीरयि विन्दतीह न कोऽपि मङ्गलं परसङ्गमेन स(स-) दङ्गनेव कदापि (त्वयि) सन्देहगदसङ्घातसंहारकरणौषधम् । साधु चेदं वचो मे त्वं सावधानमये श‍ृणु ॥ १०४॥

घण्टारमाळवरागेण गीयते । एकत(ता)ळेन वाद्यते ।

अवनिसुरावलिररयि विबुधगणा- दपि नियतं त्रिजगति महितगुणा यदयमगस्त्यो रुषमृषिरितवा- न्नहुषं सुरपतिमपि पातितवान् पल्लवम् । ननु तात गुरो गुणवारिनिधे विशदोरुयशोगणवारिनिधे (ननु) नृपतिं त्रिशङ्कुमिह कुशिकसुतो(तोऽ)- ऽमरपातितमुद्पी(दपी)पतदपि तं (वर् हरिवारित) तद्नुग्रहनिग्रहयोरवना- ववनीसुर एव विभुर्नियतं (ननु) द्विज इह भुवने गुरुरपि च वरो द्विज इह भुवने सुहृदपि च वरो (उदपीपतत् -ऊर्ध्वमगमयत् ॥) द्विज इह भुवने निधिरपि च वरो द्विज इह भुवने विधिरपि च वरो (ननु) दारुमृदुपला अपि विप्रजनैः कृतसंस्तुतयो बत दैवततां उपयान्ति तदैव च कामदता- मिह को नु वदेद् द्विजसुमहिततां (ननु) तदपर्याकुलमेषु हि कार्या परमिह वर्या सपदि सपर्या जगतीह तु हेतिभिरभिलसिते दहने हि जुहोति न खलु भसिते (ननु) पशुनिवहावनमिह पशुपानां कुलधर्मो भवति हि सकलानां अवनमिदं भवति बनाधीनं वनमिदमपि भवति धराधीनं (ननु) तदमुं पूजय गोवर्धनकं प्रतिदिनमुलपैर्गोवर्धनकं (हेतिभिर्ज्वालाभिः ॥ धरः = पर्वतः ॥) यवसैरपि मोदय गोपाळिं विविधैर्विभवैरपि गोपाळिं (ननु) इति मेऽभिमतं तात मतं मतिमतां वर । तरसानुचरेरेतत्तव चानुमतं यदि ॥ १०५॥ आस्वाद्यासौ त्वदास्यामलकमलगळद्वाङ्मधूळीमधूळीं नन्दो नानन्यमानो ननु वचनमिदं वत्स विश्वोपपन्नम् । इत्याभाष्यायमाघोष्य च गमनसमुद्योगमुद्वेलमोदैः सर्वैः सार्धं च गोवर्धनमगमद्गं(दगं)मानयन् साम्र(ग्र)जं त्वाम(म्)॥ १०६॥ भक्त्या भक्तेन वित्तेन च मुदितमनास्तर्पयन्त्रि (न्वि)प्रवर्यान् विश्वोत्कृष्टानहार्याय च सपदि सपर्यां स वर्यां वितीर्य । गव्या नव्याम्बुतृण्यादिभिरपि मदयन् गोपवामाळकानां जालैस्त्वद्गानलौलैस्तदगमथ परिक्रम्य यातो निकेतम् ॥ १०७॥ त्वमपि पशुपमध्ये मोदयन्नास्थितोऽमू- नपि गिरिवरमूर्धन्याद्मि गोवर्धनोऽहम् । स्वयमिति मुहुरुच्चैः प्रोच्य विश्वास्य सर्वान समुदथ्(थ)समवापः सद्म सत्रैव पित्रा ॥ १०८॥ (गवां पाळिः पङ्क्तिः । गोपानामाळिरपि गोपाळिः । (२०३)अहार्यः = पर्वतः । गव्या = गोसमूहः ॥) श्रुत्वा वार्तामथैतामधिकतररजोघूर्णितात्मा स तूर्णं जानन्नप्यञ्जसा त्वां शिवशिव शतमन्युः स्वमन्योर्विघातात् । तन्वन्निस्सीममन्युं पशुपशिशुरसौ बालिशः सूरिमानी वाचालो नो विनिन्दत्यहह स महिमा कोऽपि नष्टो नराणाम् ॥ १०९॥ (वर् नष्टोऽमराणाम्) नैतन्मृष्ये हरिष्ये श्रियममुमपनेष्ये मदं द्रागमुष्ये- त्यासज्य त्वज्जयेऽसौ व्रजभुवि विससर्जाशु पर्जन्यजातम् । आरूढो दुर्मदान्धः स्वयमपि मघवा सिन्धुरं सम्मदान्धं निर्यातो वैरिवक्षोभिदुरभिदुरदुष्प्रेक्षदोर्दण्डचण्डः ॥ ११०॥ सक्रोधं तेन शक्रेण हि सपदि विसृष्टेषु पुष्टाभिमानं सङ्घर्षोद्भूतघोषस्तनितमिषमहासिंहनादोद्धतेषु । वर्षत्स्वभ्रेष्वदभ्रं विहितसुमहितस्तम्भदम्भापसारै- रासारैरातुरा सा त्र(व्र)जपदजनता त्वां प्रपन्ना विपन्ना ॥ १११॥

माळवगौडरागेण गीयते । पञ्चकारिताळेन वाद्यते ।

पशुपलोकमधिकशीतजातवेपनं प्रचुरशोकमजित वीक्ष्य विवशचेतनं ((१११)सिन्धुरं = गजम् । भिदुरं = पविः ॥) अरुणपाणिसरसिजेन लीलयातुलं करुणयातिमसृणधीरधारयोऽचलं पल्लवम् । एकशैलवहनमिह तु किं प्रशस्थ(स्य)ते भूरिशैलगहनभुवनवाहकस्य ते (एक) मातरं च पितरमाकुलं च गोकुलं कातरं च निखिलगोपगोपिकाकुलं सादरं त्वमथ तदीयमापयो विलं सारसं तु मदकरीव दधदिहाचलं (एक) पोतमेतमजित साहसैकलालसं पाहिमैहि विपदि पतितमवशमानसं स्थेमपद भवत्कृते भवान् सरोदया प्रेमविवशमति च याचितो यशोदया (एक) प्रेमभारपरवशा हि पशुपबालिकाः क्षेमलोलहृदयगोपगोपबालकाः गोधनानि पुरुधनानि चाधिकादरा विप्रसंसदे धियादुराधिकातराः (एक) शिखरिसत्तमं तु वामबाहुना वहन् सुरभिमर्शनन्त्वमपरबाहुनावहन् (?) सरसतरगिरा च सकलमापयन्मुदं प्रथमनिहिततोऽचलोऽथ नो पदात् पदं (एक) पशुपयूथममृतरूपमधिहृदं दधत् तव तदमृतरूपममितमोदमादधत् सुहिततां सुरेशसुमहिताभिवावहत् न तु तृषापि न क्षुधापि तापमावहत्(एक) निर्विशङ्कमचलधारिणः श्रमं तदा संविशङ्किय सवयसोऽथ तब(व)गळन्मदाः सर्व एव बाहुमुदनयन्नसम्मदा- स्तान् विलोक्य किमपि हसितवान् भवान्मुदा (एक) वोढुमपटुरूढकपट इह सहाचलं गोपवटुरयं पतेद्विकम्पिताचलं एवमुदितनिन्दनः पुरन्दरोऽशनै- र्देव भृशमवर्षयदखिलैरथो घनैः (एक) सर्व(प्त?)वासरमिति सप्तहायनो भवान् सप्रमोदवहदचलमप्रमादवान् शक्रमादमुदितमक्रमेण विहतवा- नद्रिमाशु महितलेऽत्र देव निहितवान् (एक) सद्यो मोमुद्यमानैरहमहमिकया त्वं परिष्वज्यमानो नन्दाद्यैर्नन्द्यमानो गृहमथ पशुपैराप्तवानार्तबन्धो । तातोक्तत्वन्महत्त्वद्विगुणितबहुमानानुरागार्द्रगोपं वंशीनादामृताब्धौ जगदखिलमपि क्षिप्रमाप्लावयस्त्वम् ॥ ११२॥ आताम्रातिमनोहराधरपुटे विन्यस्तवंशं मुदा रन्ध्रव्यापृतकोमळाङ्गुलिदळं साचीकृतास्याम्बुजम् । व्यत्यस्ताङ्घ्रि सविभ्रमोन्नमितवामभ्रूलतं ते स्थितं चित्ते मे स्फुरतादिदं मुररिपो विश्वैकसम्मोहनम् ॥ ११३॥

शङ्कराभरणरागेण गीयते । चम्पताळेन वाद्यते ।

मधुरतरमुरळिकानिनमधु रसयतां प्रमदभरविवशतां लळितगीते विशदयितुमीश के जगति पुनरीशते शिव शिव रमापते परमसुखमयाकृते पल्लवम् । मुररिपो तव विभो मुरळिकानिपुणतां भणति यदि फणिवरो गिरि भजति मसृणतां (मुर) निखिलजगदुपगीतनिरतिशयनिजगीत- निरवधिकमदममरयोषाकुलं गळितां कराञ्चलादपि विपञ्चीं तदा किञ्चिदपि नाविदन्मा(न्म)हिततोषाकुलं (मुर) (अविददिति कथञ्चिदुपपादनीयम् ॥) तृ(दृ?)प्ततरमत्तगजमस्तकविमर्दने बद्धमतिरिद्धरुषमुद्धतपदा कुम्भिनीं पीडयन्नङ्गमुत्तम्भयन्नचरमं कृतक इव हरिरभादपि तदा (मुर) किमपि मीलितनयनमस्पन्दनिखिलाङ्ग - मनुभूतानन्दभरसङ्कुलं उलपाग्रनिहितास्यमुन्नमितकर्णयुग- मखिलमपि लिखितमिव संस्थितं गोकुलं (मुर) अधिजानुनिहितनिजमुखपाणिनयनयुग- परिहीणचलनमतिमोदाविलं कीशकुलमीश पुनराशु वनशाखि- शिखरेषु निषसाद भृशवीतनिजचापलं (मुर) किसलयविहीनोऽपि विदलोऽपि विफलोऽपि विसुमोऽपि विपिनभुवि विटपिनिकरो बाल्य इव पल्लवैरपि दलैरपि फलैरपि मणीवकचयैरपि भवदतिसुखकरो (मुर) बहुना किमिह वेणुकूजने मोहने जृम्भमाणे जगति निखिलभुवनैः क्रियमाणकर्मविरतैरहो स्थाणु- वदवस्थितं भूरितरमोदभवनैः (मुर) गोपिका हि तव वंशिकाविरुतसेवनाकुलितमानसा गेहतो बहुलवेगतो गहनमागता महितलालसाः । सान्द्रकान्तिभरचन्द्रकान्ततरचन्द्रिकावति निशामुखे बालवातधुतसालजातसुमवासिताखिलदिशामुखे ॥ ११४॥ नन्दनं हृदयनन्दनं प्रणयमन्दिरं जनितकौतुकं स्वापयन्त्यजित पाययन्त्यपि पयोधरं मधुरगीतकम् । तावकीनवरवंशिकाविरुतनूतनामृतनिषेवया गोपिका विधुतबालका विपिनमाप कापि विवशाशया ॥ ११५॥ आचरन्त्यधिगतादरं चरणमर्दनं प्रणयसंयुता मातरं त्वरितमातुरामपि परा विधूय विपिनं गता । व्याधितं क्षुदतिबाधितं सुमहिताधिकं बत पराभिकं मानयन्त्यजित भोजयन्त्यपि च सन्त्यजन्त्ययिगतार्दितम् ॥ ११६॥ देवदेव ननु देवनेन निशि खेलने वरतनू रता कामुकेन वरधामकेन सह तं विहाय विपिनं गता । निर्भरं हि परिरभ्य निद्रितमपास्य कापि निजकामुकं निर्भयैव निशि निर्जगाम लघु निर्जरेन्द्र पुरुकौतुकम् ॥ ११७॥ आकुला मनसिजाशुगावा(व)लिभिराशु कापि पशुपाङ्गना यातुमीश विहिताशया बत निजानुकेन कृतवन्धना । बन्धमोचनसमीहिनीदमुपलभ्य यद्वदिह योगिनी हन्त सा खलु भवन्तमाप लघु भान्तमन्तरवियोगिनी ॥ ११८॥ श्रोणिभार उरुतारहारमुरसीश सारसनपाळिकां धारयन्त्यधिकधामिका सपदि धाविता पशुपबालिका । अञ्जसैकदृशमञ्जनेन सुखमञ्जती सुतनुरेकिका सञ्जगाम वनमञ्जनाभ लघु कञ्जनाभ सशलाकिका ॥ ११९॥ केशवेश घनपेशले रुचिनिवेशने रुचिरगात्रिकां केशवेश इह् कामवेशविवशा निबध्य मणिपात्रिकाम् । मालतीकुसुममालिकामपि पयोधरेऽधिकमनोहरे बालिकाशु पशुपालिका सरसमाप कापि विपिनं हरे ॥ १२०॥ मामयं मनसिजामयं मनास(नसि)जाज्वलं मधुहरोऽधुना सोढुमक्षमतयोढरागमिह गूढमाह्वयति वेणुना । देवदेव वनमेतदेव ययुरेवमेव विहिताशया व्याकुला निखेइ(खि)लगोपिका न विदिता मिथो हि भवदाशया ॥ १२१॥ रम्ये धम्मिल्लबन्धे लसितमतिलसच्चन्द्र(न्द्रि)कैः पिञ्छजालैः कान्ते दन्तच्छदान्ते मुखरमुरलिकं वक्षसि स्फारहारम् । निस्सीमाभं नितम्बे विशदतरपिशङ्गाम्बरेणाम्बुजाक्ष्यो व्यत्यस्तं पादयोस्त्वामतिकुतुकमलोकन्त लोकाभिरामम् ॥ १२२॥ बन्धून् सम्भावयन्त्यो गुरुजनमपि शुश्रूषया तोषयन्त्यः सूनून् संलाळवन्त्यो वयमपि रमयन्त्योऽपरानार्तव(ब)न्धो । सर्वाश्चाकृष्य नीता वनमयि मुरळीनादमन्त्रेण वेगा- त्तस्मादस्मान् भजस्वेत्यवशमवनता मुत्पदे त्वत्पदे ताः ॥ १२३॥ पादाग्रभागविनताः पशुपालबालाः सौभाग्यगर्वितधियोऽथ विभो विभाव्य । मन्दस्मितातिविलसद्वदनारविन्दो मन्दस्मिता वदसि वाममवामचेताः ॥ १२४॥ (वर् मन्दं स्म ता)

केदारप्पन्तुरागेण गीयते । चम्पताळेन वाद्यते ।

स्वागतमुदयतु सुकृतवतीनां साम्प्रतमयि भवतीनां यानत इह लघु खेदवतीनां शीलितमृदुलगतीनां पल्लवम् । लोकविलोचनलोभनहेळाः हे गोपालमहेलाः (लोक) आननलङ्धितपङ्कजजाताः यूयं जगति सुजाताः मत्कृतसुकृतवशादभिजाता दृक्पथयाता जाताः (लोक) अलमलसमपासितधृतिसारं कटितटकुचकचभारं किमिति व्यथितं चरणमुदारं नवकिसलयसुकुमारं (लोक) इह् मम भजनकृते यदि यानं तदुचितमुपचितमानं तदपि गृहानित दूरे नूनं फलतो भजनमनूनं (लोक) स्वयमापतिता सुमहितकामा कथमिव ने(हे?)या वामा तदपि सतीनां मम ननु वा मा मतिरिह सङ्गेऽवामा (लोक) पतिचरणपरिचरणमशेषाणां परिजहदिह योषाणां निपतति बत निवहोऽविषहाणा- मुदरे खलु निरयाणां (लोक) असदृशमदृशं पतिमुरुकोपं व्यसनिनमितधनलोपं असुभगमपि जरठं जळरूपं न सती त्यजति विरूपं (लोक) रतिरिह वरपुरुषे वनितानां पदमयि परमसुखानां सुरुचिरमावासममुं त्वरितं तदयत मान्यं दयितं (लोक) मोहाविष्टा महेळाततिरिति गिरमाकर्ण्य वक्त्रोद्गतां ते हा हा कष्टं कराळा खलु गरळझरी निस्सृताद्यामृतांशोः । किं कुर्मः किं वदामः शिव शिव शरणं कं प्रयामो व्रजामः कुत्रायं रागभारो हृदय इह परं नो जरिष्यत्यवश्यम् ॥ १२५॥ एवं सा चिन्तयन्ती मुरमथन मुहुर्निश्वसन्ती च दीर्घं गम्भीरेऽम्भोदनादे प्रसरति भुजगीवाकुला दीनदीना । मुञ्चन्ती बाष्पधारा मुखमवनमयन्ती लिखन्ती पदा गां वक्तव्यान्यत्र युक्तान्यनवगतवती दुस्थितात्मैव तस्थौ ॥ १२६॥ रोषव्रीळाविषादैरपि विवशधियश्चञ्चलाक्ष्यः कथञ्चित् किञ्चित्संश्रित्य धैर्यं नयनसरसिजे बाष्परुद्धावलोके । बाहाग्रेणावमृज्य प्रणयपरवशा भङ्गुरैस्त्वामपाङ्गैः सभ्रूभङ्गं सरागं स्फुरदधरपुटं वीक्षमाणा जगुस्ताः ॥ १२७॥

इन्दिशरागेण गीयते । चम्पताळेन वाद्यते ।

भुवनकमनाकृते तावके पाद- पाथोजके पातुका महितकामाः गदितुमिति किमुचितं नो निखिलमपि विभूयागता हन्त मा सन्त्यजेमाः पल्लवम् । जय जय रमारमण कृपणबन्धो जय जय सतां शरण करुणैकसिन्धो (जय) अपि कुहचिदिह जगति विजहाति किमु वारिवाहो हि चातकीरधिकदीनाः अपि च विसृजेदमृतकिरणो हि कै- रवाणामिह किमावलीरात्मलीनाः (जय) आतपादतिपिपासातुरा तटगता मृगवधूततिरहो भूरितापा भुवनाधिहारेण कासारकेण यदि वार्यते का गतिः पूरितापा भद्र शतपत्रसमवक्त्र ननु भक्तजन- मत्र स तु पद्मनाभो यथा वा भज तथा पुनरिमा वयमिमामयि सखे बत सहेमहि रुजामिह कथं वा (जय) तदभिनवतारुण्य तव महितकारुण्य- पदपावितारण्यभुवि निषण्णाः त्वां भजामो विविधगुणवरेण्यं विनु(न?)तजनशरण्यं विषमशरविषण्णाः (जय) भवदपाहृतहृदां किमपि नो विचलतो न तु पदौ कथमिमौ महितबाहो मुरळिवरगानजामयि मदनदाहिका- मधरसुधयाशु निर्वापयाहो (जय) सुमुख यदि विमुखोऽसि जन एष दग्धतनु- रेत्य च त्वां भवेत्सफलकामो भवविरोधी भवान् किं चायमपि पश्च(ञ्च)- सायको जायेत विफलकामो (जय) सुदतीनामुदितमिदं रुदतीनामथ निशम्य रम्यतनो । करुणाकर सपदि भवान् करुणाकुलधीरभूद्विभो नितराम् ॥ १२८॥ आभीरीणामाशामाभीक्ष्ण्यादर्थितामभिप्रातुम् । आभी रसेन विरहादाभीरुभिरचलदचलहृदय भवान् ॥ १२९॥ ((१२९)अभिप्रातुं = पूरयितुम् ॥) मन्दरणन्मञ्जीरो मन्दस्मितसुन्दराननेन्दुरगात् । नन्दज चलवनमालो नन्दन्मुदिताभिरथ यमुनाम् ॥ १३०॥ गोपीभिरुत्तरीयैराकल्पितसंस्तरो निषण्ण इह । आत्मारामोऽपि भवानारब्धाभिः समं तदा रन्तुम् ॥ १३१॥ ललितैः केळीलपितैर्लसितैर्हसितैश्च चुम्बनैः कमनैः । कृतमोहैरुपगूहैरपि तासु तदोदजृम्भयो मदनम् ॥ १३२॥ अतिकमनादुरुजघनान्नीवीं नावैन्नितान्तविश्व(श्ल)थिताम् । कुचयुगळादपि गळितां लळितां वनिताजनोऽपि कञ्चुळिकाम् ॥ भवदर्पितदन्तव्रणमण्डनलाभेन कापि गोपवधूः । इतरं मण्डनवृन्दं निनिन्द नितरामनिन्दनीयमपि ॥ १३४॥ कलशपयोधेरुदितं त्रिदशगणायादिशोऽमृतमकामः । अधुना पुनरधरामृतमापीयासां स्वयं न तृप्तोऽभूः ॥ १३५॥ प्रमदापादितमुदयद्रागभरादधिकरुचिरमाश्लेषम् । प्राप्य यथेप्सितममुना मुमुदे जगदेकनाथ हे भवता ॥ १३६॥ ((१३१)आरब्ध = आरब्धवान् ॥ (१३२)उपगूह = आलिङ्गनम् ॥ (१३३)नावैत् = नाजानात् (१३६)मुमुदे । भावे लिट् ॥) सुतनूनां या सङ्ख्या स्वतनूमपि तावतीं भवान् कृतवान् । मञ्जुळकुञ्जगृहादिषु मन्दमुपानीय ता बतारमयत् ॥ १३७॥ मयि मयि मायाविकलं विलीयतेऽमेयरागभरतोऽयम् । इति मदभरमपनेतुं द्रुतमथ तासां तिरोदधाथ विभो ॥ १३८। अद्वैतानन्दसिन्धाविति सपदि निपात्याङ्गनाः स्वावलम्बाः कान्तारेऽन्तर्हिते त्वय्यथ मदरहितां गूढमादाय राधाम् । भग्नाशास्ताः शुचा त्वां निगमहृदि निगूढं ब(व)ने मार्गयन्त्यो वार्तामार्तैकबन्धो तव च तरुलताः प्रश्नयन्त्यो विचेरुः ॥ १३९॥

नादराम(मा)ग्रिरागेण गीयते । एकताळेन वाद्यते ।

त्वमशोक निशामय शोकवशा ननु शोकविनाशन नो विवशाः कपिशदुकूलं कमनीयांसं किमलोकय इह कमपि पुमांसं पल्लवम् । यदि स तु दृष्टो वद बत वार्ताः द्रुतमयि जीवय नो भृशमार्ताः (यदि) ((१३९)निगमह(हृ)दि = उपनिषदन्तरे । प्रश्नयन्त्य इत्यस्य द्विकर्मकत्वं चिन्तनीयम् ॥) तावकनवकिसलयमृदुलाभ्यां चारुतरामलपदकमलाभ्यां विचरणपर इह निरुपमहेळं विपिने विवशितनिखिलमहेळं (यदि) परिमळपरमनिकेतन गहने ननु केतक कोऽपि युवा गहने भवतालोकि किमतिकमनीयो बहुसुकृतवशादिह महनीयो (यदि) तावक मञ्जुळ नवमञ्जरिका- मञ्जुतराभोगविभञ्जनिका प्रसृतातिरुचीभररमणीया प्रसृतायुगळीह ह ह यदीया (यदि) कृतमाल सखे मदनसमानं ध्युतिजालनिधे निरवधिमानं कमपि युवानं कळमृदुगानं किमु लोकितवानसि लसमानं (यदि) महति यदीये जघनेऽतिघने मनसिजभवने भुवने कमने (लसमानमिति चानशि रूपम् ॥) परिहितमम्बरमतिकमनीयं भवदीयमणीव(च)करमणीयं चलदलविलसित कोऽपि च पाको ननु चलदल सुचरितपरिपाको निखिलदृशां निरवधिसुकृतवता किमलोकि वने विजने भवता (यदि) भवदीयामलदलतुलनीयं जगतीहाधिकतरकमनीयं युवतीजनमानसमदनीयं जगतीपदमुदरं हि यदीयं (यदि) सुपलाश पलाशक चपलाशं विसृतयशोविशदितनिखिलाशं कमपि भवान्मुखविजितकलेशं (यदि) पुरुषं किमलोकत सकलेशं ललनामानसविचलनमूले लळिते हि यदीये भुजमूले नवनवरेखाविलसितसमिता तव मुकुळवरै रुचिततिसमिता (यदि) (मणीवकं -कुसुमम् ॥ चलदलोऽश्वत्थः ॥) कुरव(ब?)कलतिके कुसुमविलसिते परिमळभरिते किमु दृशमयि ते इह कोऽपि युवा शिशिरीकृतवान् जनममुमधुना विधुरीकृतवान् (यदि) तव कोरकनिकरैरधिकमहो तुलनामयते जननयनमहो जगतीह यदीयो रदनिवहो रुचिरतरामलरुचिनिकरवहो (यदि) सखि कमलिनि कमनविलासवती ननु लोकविलोभिविलासवती पुरुतरसुषमं त्वमदृष्टवती परमं पुरुषं किमु दृष्टवती (यदि) तव नवदळदळिता भुवि सारा दृगिह यदीया विजितविसारा परिधुतयुवतीततिधृतिसारा महितरुचीभरममितमसारा (यदि) कुवलयवन ननु कुशलं भवते कुवलयवर इह कोऽपि युवा ते (नयनमहः = नयनोत्सवः ॥ विसारो मीनः ॥) सविधं किमितो मदयन् हृदयं सजलपयोधरपरमसुहृदयं (यदि) तावकसुषमामनुहरमाणो भावकजनचेतसि रममाणो जगति यदीयो घनचिकुरभरो लसति महीयो घनरुचिरत(भ)रो (यदि) एवं पृच्छन्त्य एता विविधतरुलताः सञ्चरन्त्यो वनान्ते दृष्ट्वा पुष्टाधिभारां गदितनिजदशां तां पुरोधाय राधाम् । सर्वाः सप्ताश्वपुत्रीपुळिनमुपगता रंहसा संहतास्ता- स्त्वच्चेष्टास्त्वन्मनस्काः सिततरसिकताविष्टरेषूपविष्टाः ॥ १४०॥ पादौ तौ लळितौ सरोजलसितौ जङ्घे च ते बन्धुरे जङ्घाले खलु केकिकण्ठविजये ते जानुनी चारुणी । ऊरू तौ महितौ च तत् कटितटं व्यालम्बिपीताम्बरं वत्सं तद्वनमालभारि विपुलौ भोगोपमौ तौ भुजौ ॥ १४१॥ वक्त्रं नेत्रमहोत्सवो ननु च तत् सम्मोहनं तत् स्मितं तद्बन्धूकनिभं तु दन्तवसनं कान्ता हि दन्ताश्च ते । ((१४०)सप्ताश्वपुत्री = यमुना ॥ (१४१)इष्टकेषीकामालानां चिततूलभारिष्विति हूस्वे मालभारीति रूपम् । (@@P@@लेअसे चेच्क्-ओच्र् @@व्@@अस् नोत् च्लेअर्)भोगः = सर्पकायः । (१४२)दन्तवसनमधरः ॥) गण्डौ तौ मणिकुण्डलाञ्चितरुचौ नासा च सा भासुरा नारीणां स्मरणेऽपि धैर्यहरणे ते दीक्षिते चेक्षणे ॥ १४२॥ चिल्लीना जगतां विलोकितवतां चिल्लीमतली च सा फालं तत्तिलकोपशोभि नितरां ते कुन्तळा मञ्जुलाः । लोकक्षोभकरीह सा च कबरी पिञ्छावलीलाञ्छिता सा कान्तिः सजलाम्बुवाहसुषमासंहारिणी हारिणी ॥ १४३॥ वाणी मानसहारिणी नवसुधावेणी च सा श‍ृण्वतां सा भङ्गी गमने निकामकमने रम्या च सा नर्मगीः । गूढापाङ्गनिरीक्षितं शिवशिव त्रैलोक्यविक्षोभि तत् मारोन्मादविधायि वेणुरणने तत् कौशलं पेशलम् ॥ १४४॥ लावण्यं तदवर्णनीयमपि तदा(द्दा)क्षिण्यमव्याहतं नैपुण्यं तदशेषकर्मसु च तत् कारुण्यमव्याजकम् । तारुण्यं भुवनैकहारि किमपि प्रोद्भिन्नमङ्गेषु तत् प्रावीण्यं जनरञ्जने तदिह तच्चौचित्यमत्यद्भुतम् ॥ १४५॥ सा स्त्रीणां हृदयङ्गमा सुभगता सौजन्यमुद्रा च सा सा वा हन्त सुशीलता मधुरता भावज्ञता प्राज्ञता । ((१४३)चिति बुद्धौ लीना ॥) स्मारंस्मारमहो मुहुर्मुहुरिति त्वय्येव तासां तदा लीनं नूनमभूदलं ननु हरे चेतो हि चेतोहरे ॥ १४६॥ इति भवति सकामं लीनचित्ता निकामं विदधुरपि विलापं ता हरे भूरितापम् । तव सपदि वियोगादाकुला वीतभोगा मुरमथन महेला व्याधुताशेषहेलाः ॥ १४७॥ क नु भवानिमा दासिका रया- द्व्यसनसागरे पातयन्नयात् । सकृदपीश ते दर्शयाननं नळिनलोभनं लोकमोहनम् ॥ १४८॥ कुचकुशेशये कर्कशे भृशं पदपयोरुहं नाथ तेऽनिशम् । मृदु निलीयते तेन कानने चरसि हा कथं कण्टकायने ॥ १४९॥ अधरशीथुना तेऽधुनातुलं विजहि नो विभो मन्मथानलम् । ((१५०)शीथुर्मधु । विजहि = नाशय । सुधाकिरा -अमृतवर्षिणा । गोपिकागीतच्छायानुकारि गीतकमिदं ।) व(श्रव)णमेकयापीश नो गिरा शिशिरयाचिरात्त्वं सुधाकिरा ॥ १५०॥ अधिकमाधुरीलोभनोदिते सकलकामिनो(नी)मोहनाकृते । कुटिलमानसेन त्वया दया- (वर् त्वयादयं) सरळमानसा वञ्चिता वयम् ॥ १५१॥ विलुठतीरिमा भूतलेऽवशं दृढशुचा विमूढाशया भृशम् । सुखय धैर्यचौर्यैकदीक्षितै- रुरुदयोक्षितैर्नो निरीक्षितैः ॥ १५२॥ श्वसितमारुतापातवेपिते नयनवारिहारैकभूषिते । मनसिजानलेनातितापिते कुरु पयोधरे पाणिमीश ते ॥ १५३॥ हृदयदारणं तापजृम्भणं विद्य(दय)किश्च(ञ्च)न त्वं च दारुणम् । ((१५१)अधिकमाधुरीलोभनी उदितिरुक्तिर्यस्य तत्सम्बुद्धिः ॥ (१५३)विदय = निर्दय ॥) कलय चापले नाथ कारणं विनयवारणं धैर्यचोरणम् ॥ १५४॥ तव तु नो दया मानिनीकुले भवतु जातुचिन्मेदिनीतले । (वर् भवति) यदिह पूतना भूरिसौहृदा बत हतापि ते स्तन्यदा मुदा ॥ ६५५॥ चिकुरजालकं मञ्जुपिञ्छकं रुचिरफालकं मञ्जुळाळकम् । धृतिविमोचनं चारुलोचनं कप(म)लभञ्जनं लोकरञ्जनम् ॥ १५६॥ मकरकुण्डलं गण्डमण्डनं वदनमण्डलं तापखण्डनम् । अधरमाधुरी बन्धुरामलं विजितकम्बु ते कन्धरातलम् ॥ १५७॥ पृथुनिरन्तरं से भुजान्तरं भुजभुजङ्गमं कान्तिदन्तुरम् । ((१५७)कन्धरा = ग्रीवा) जघनमण्डलं काममन्दिरं कपिशवाससा चातिसुन्दरम् ॥ १५८॥ करभचारु ते चारुगौरवं (?) चरणपल्लवं धूतपल्लवम् । (वर् चरणतल्लजं) अजित बन्धुरां गानमाधुरीं विजितसिन्धुरां यानचातुरीम् ॥ १५९॥ सकलमेव सञ्चिन्त्य सन्ततं हृदिह नोऽतिसन्तापसन्ततम् । भजति चन्द्रकान्तोदयन्महो- मिळितचन्द्रकान्तोपमामहो ॥ १६०॥ अकरुणावशेऽपीदृशे जने तव पदाम्बुजैकावलम्बने । कपटनाटके पाटवं हरे प्रथयसे कथं मन्मथातुरे ॥ १६१॥ जय जयोरुकारुण्यवारिधे जय जयोरुलावण्यवारिधे जय जयोरुविज्ञानवारिधे जय जयोरुसम्मोहवारिधे ॥ १६२॥ भवति चेद्दया तेऽतिपीडिते भवति नोऽपि चेद्भक्तिरीडिते । वपुरिदं मनोमोहनं मना- (वर् मनोमोददं) गधिकशोभनं दर्शयाधुना ॥ १६३॥ इति विलप्य ता दीनमानसा भवदवेक्षणे भूरिलालसाः । पुरुदयानिधे माधवाबला रुरुदुरुच्चकैरच्युताकुलाः ॥ १६४॥ गोपीनां विविधं विलापमधिकं रम्यं निशम्यार्द्रधी- र्लोकानन्दन सुन्दराङ्गलतिको मन्दस्मितार्द्राननः । कान्तारान्तरतो मुरान्तक भवानाविर्बभूवाग्रतो जीमूतोदरतो यथामृतकरो व्याजृम्भयन्मन्मथम् ॥ १६५॥ पुरः प्रादुर्भूतप्रचुरकरुणासार्द्रनयनं प्रसन्नास्याम्भोजं प्रसवशरमोहावहतनुम् । प्रहृष्टा दृष्ट्वा त्वां युगपदजितोत्तस्थुरबलाः प्रपन्ना जीवं स्वं द्रुतमिह मृता माधव यथा ॥ १६६॥ प्रसर्पन्निश्वासाभिधनवनभस्वत्प्रियसखे प्रदीप्ते विश्वात्मन्विरहदहने तापगहने । ((१६५)उपमात्रालङ्कारः ॥ (१६६)प्रसवशरः - कुसुमबाणः । उत्तस्थुयुगपत्सर्वास्तन्वः प्राणामिवा- गतमिति श्रीमद्भागवतम् ।) कृतापाता गोपीरनघ लघु गोपायितुमनाः कटाक्षैराकृष्य प्रमदजलधौ प्राक्षिप इमाः ॥ १६७॥ तदा काचिद्बाला प्रणयभरसन्ना द्रुतमिता प्रसन्नासन्नं ते किसलयमनोज्ञं करतलम् । गृहीत्वाघ्राय स्वे कुचकलशमध्ये निदधतो विराजद्रोमाञ्चं विरहजरुजं हन्त विजहौ ॥ १६८॥ विधूयेमां हा मां वनभुवि विधूतार्यचरितं वधूमन्यां धन्यां सरसमनुभोक्तुं बत गतः । स्पृशेत् का वा धूर्तं शठतरमते त्वामिति रुषा हरे पश्यन्त्यन्या परुषमतिदूरे स्थितवती ॥ १६९॥ सुधारूपं रूपं त्रिजगदभिरूपं तव मुदा दृशापीयापीय प्रणयविवशा कापि वनिता । निधायान्तः स्वैरं पुनरिदमनुध्याय निभृतं स्फुरद्ब्रह्मानन्दा बत मुकुळिताक्षी स्थितवती ॥ १७०॥ भुजाकाण्डं कान्तं तव भुजगभोगातिसुभगं परा काचित् कण्ठे प्रणयतरळा वोष्टे(वेष्टि)तवती । ((१६८)सन्ना=क्न्ता(कान्ता)) निरुन्धानेवासून् कथमपि यियासनतिरयात् स्वकीयान्नाळीकाशुगविशिखपातेन विवशा ॥ १७१॥ मनो मे त्वं मुष्णन् क्व नु कितव कृष्णान्तरदधाः क्वचिच्चोरो दृष्टो यदि सपदि दण्ड्यो हि नियतम् । उदीर्यैवं दाम प्रणयतरळादाय कुरळा- दराळापाङ्गी काप्यकृत कृतबन्धौ तव भुजौ ॥ १७२॥ अहो मां रागान्धां वनभुवि विधूयाशु गतवान् भवान् व्याजेन त्वां कितव कथयित्वा तु विपिने । विधूयाहं यामि व्यसनमिह जानातु विरहे निगद्येत्य त्वन्यान्तर्हिततनुलतास्थात्तरुतटे ॥ १७३॥ वचः श्रुत्वा तत्तादृशविशदरागातिविवशं वधूनां साधूनां प्रणयकलहात्यन्तसुभगम् । स्वनाथानामासामथ सपदि कोपं व्यपनयन् गिरं प्रेमावेशादभिदधिथ नाथातिमधुरम् ॥ १७४॥

सौराष्ट्ररागेण गीयते । चम्पताळेन वाद्यते ।

आभीरिका नियतमापूरये निखिल(ल-) माशासितं मनासे(नसि)यदिह लोके ॥ ((१७३)अस्थात् = स्थितवती । लु(ल)ङ्गि रूपम् ।) आशु भृशमहितमिह शोकमयि हृदि जहित तोषमपि भजत गतसकलशोके पल्लवम् । कुसुमशरशरनिकरजनितभङ्गं शिशिरयत मृदुहसितसुधया मदङ्गं (कुसुम) अनुवृत्तये तु मयि चेतसो नियत- मिदमाहितं मुनिभिरपि दुरवलोके अतिकरुणहृदयनिभि(मिम)मतिकठिनहृदय इति बत किमपि कलयत न युवतिलोके आलोभनीयसुषमालोकनीयवपु- रालोकनादिहाशु भवतीनां आकुलं भवति बत मानसं नियतमयि मामकं महिततरशुभवतीनां (कुसुम) अपि यामिनीशकरभृशराजिनीषु मदभरदायिनीषु रजनीषु नूनं अधिकरसमनिशमपि परिरमत विविध- मपि विपुलतरपुळिनभुवि विरहहीनं (कुसुम) (परिरमत ``व्याङ्परिभ्यो रम'' इति परम्मैपदम् ।) निशम्येदं रम्यं निरवधिकरागं निगदितं निरातङ्कैरेतैर्निरतिशयसम्मोदविवशैः । वधूलोकैः साकं सरससरसां रासविहतिं विधातुं प्रारब्धाः प्रहितमतिरासां सुचरितैः ॥ १७५॥ दण्डकम् । नद्धा कलापतात(तति), रद्धा सखीभिरथ, बद्धादरं चिकुरजाले । नवरुचिजटाले ननु विमलफाले नमदमरवरनिकर रुचिरतरमपि तिलकमरचि तव भसळ (न)कुललसदळकमाले ॥ तारं मनोज्ञरुचि, धारं भवानुरसि, हारं दधौ भुवनसारं, तरळरुचिभारं ततजघनभारं तरुणतरतरणिकरमदविसरहरण-परकपिशतरवसनवरलमि(सि)तमकृतारम् ॥ बाहायुगे विहितमाहावने रचितहाहारवे रिपुततीनां बहुमणिनिलीनां बहळरुगहीनां वलयततिमधित वरकटकमपि च रणभुवि जयति वपुरिदमजित गतिरिह यतीनाम् ॥ नाणीयसीं तदनु वेणीं बबन्धुरलमेणीदृशो विशदचेलाः नतसुरमहेळा नयनहरहेळा नरकहर वलयवरनिकरमपि कटकमपि पदकटकमपि च दधुरतिमधुरशीलाः ॥ ((१७५)प्रारब्धाः = आरब्धवानसि ॥) योषाकुले विपुलतोषाकुले विमलभूषाकुले वलयचारे युवधृतिविदारे युवतिमदहारे युगळमपि युगळमुभयत उदितरुचिररुच उपरचितसुबहुवपुरिह खलु विहारे ॥ राधाभिधामधिकमासादितामलविलासामिमां विहृतिकान्ते रतिरमणकान्ते रतिरचितकान्ते रभसगतकलहरतमुनिरमितमुप(मुदप)दत पुनरजितभृशमहितसुरपटलिकान्ते ॥ रागाद्म(दम)र्त्यततिरागात् प्रियाभिरनुरागाकुलाभिरनुयाता रयभरपरीता रसवशहरीता रजनिकरनिभवदन तव महिततरचरितनुतिनिरतभृशमुदितमुनिततिपरीता ॥ जल्पैरिहेश किमनल्पैः सुरैरधिकदर्पौर्वियद् वृतमशेषैः जनितपुरुतोषैर्जवरचितघोषैर्जननहर तव विहृतिमहितमहममितरसभरितमनुभवितुममुमतिकुतुकपेषैः(पोषैः)॥

घण्टाररागेण गीयते । पञ्चकारिताळेन वाद्यते ।

पाणिकमलताळमिळितपादपातने पादकटकहेमवलयनादमोहने पल्लवम् । गोपलोकपुण्यपरिणतेऽतिमोहने वासुदेव लेसिथेह रासखेलने (गोप) कमनकनकसारसनकनिनदलोभने तरळतरळतारहारनिकरशोभनें (गोप) सरसमंसलम्बिमृदुलकम्रकरतले चलितकुण्डलाभिरामगण्डमण्डले (गोप) वदनलसितधर्मसलिलबिन्दुजालके रुचिरचिकुरभारगळितकुसुममालिके (गोप) मधुरमध(धु)रगळितवेणुनादबन्धुरे विविधविबुधवाद्यताळमेळसुन्दरे (गोप) तदनु मृदुलहासी वेणुनादापहासी मधुरतरमगासीरूढरागैर्विलासी । पशुपयुवतिजातैरीश साकं सुजातैः पुरुसुकृतसमेतैर्भूरिसम्मोदमेतैः ॥ १७६॥

केदारगौडरागेण गीयते । एकताळेन वाद्यते ।

श्रुतियुगसुखदो मृदुपिकनिनदो बत जयति हृदो मम विहितमदो पल्लवम् । ननु कमनीजनकमनीयानन कमलालोभन कमनविलोचन (ननु) विधुनोति च नो विधुकिरणगणो धृतिभरमखिलं कृतहिमकिरणो (ननु) विदधति हृदये परिमळलळिता विकृतिं लतिका मम सुमलसिताः (ननु) वितनोति रतिं मरुदतिशिशिरो हृदि नो मृदुरतिसौरभरुचिरो (ननु) मधुकरविरुतं मम मधुरतरं विदधाति मनो ननु विधुरमरं (ननु) रसभरलसितं सारसरसितं रसयति बत नो मतिमय(यि)नियतं (ननु) मदयति हृदयं शिवशिव मदनो मम नियतमयं त्रिभुवनमदनो (ननु) सुखयति सुतरां यमुनापुळिनं मदनं यमिनामपि नो नयनं (ननु) निशाम्य सुदृशामीश विहृताविति चातुरीम् । विस्मयादुत्स्मयोऽगादीस्त्वां च ताश्चञ्चलाशयाः ॥ १७७॥

भैरविभूपाळीन्दिशकानक्कुरिञ्चिरागैर्गीयते । पञ्चकारिताळेन वाद्यते ।

वामलोचना लोकलोभने । नैपुणीह वो रासखेलने ॥ सन्तनोति मे हन्त साम्प्रतं स्वान्तमेतदानन्दसम्भृतं देव देवकीपुण्यसंहते देवदेवतासंसदां पते नाथ केवलानन्दसन्तते जायते किमानन्दनं तु ते कुङ्कुमद्रवोऽयं कुचान्तरे भूषणान्तरं मे भुजान्तरे जायतामलं मीनकेतुना व्याकुलात्मनो मीनलोचनाः इन्दिराविलासैकमन्दिरे निन्दिताररे लोकसुन्दरे वत्सदन्तुरे ते भुजान्तरे मण्डनान्तरेणेह किं हरे गोपबालिका लोकलोभना- दाननेन्दुतो मोददोहनात् मन्मथव्यथादायकादलं मन्मनोऽमृतं पातुमाकुलं (निन्दिताररे = धिक्कृतकवाटे, ततोऽपि विशाले, वत्सदन्तुरे = श्रीवत्ससुन्दरे भुजान्तरे = वक्षसि ॥) नाथ पादपाथोजसेविने भाग्यभाजनायेह देहिने साधु तेऽमृतं संहृतव्यथं दातुरीश गीरीदृशी कथं नृत्यतोऽपि मे धृत्यपोहने नर्तनान्तरे चित्तमोहने साम्प्रतं रतिं याति चेतना मारमार्गणैरूढवेदना यो रतिं सदाप्यात्मनीयते किं त्वमन्यतो रन्तुमी ह(मीह)से किं गिरेदृशा नोऽखिलाऽत्मना किङ्करीरिमा योजयात्मना सारसारसाकारलोचना हारिहारिणाम्पाङ्ग(णापाङ्ग)लोचनाः तारतारका वो भवेत् प्रियाः साधु साधुना सङ्गतिर्मया कामकाममोहावहाकृते कामकामदानोदितादृते देव देवतापादितस्तुते देवदेव शौरे नमोस्तु ते ॥ कान्ता सीमन्तिनीसंसत् क्वान्तासीदथ खेलनात् । कामरूप हरे कामं कामबाणवशंवदा ॥ १७८॥

कामोदरिरागेण गीयते । अटताळेन वाद्यते ।

तदा काचित्पयोजाक्षी क्लमादत्यन्ततान्ताक्षी निलीनांसे तवोदारे सलीलं हरे पल्लवम् । वधूवृन्दं न किं तेने तटे यामुने प्रमोदारूपे(ख्ये)तदापारे परीपातादकूपारे (वधू) परा कापीह तन्वङ्गी त्वदीयास्यं तु खिन्नाङ्गी सरोमाञ्चं चुचुम्बेदं सदामोददं (वधू) वधूरन्या कपोलान्ते हरे धन्या कपोलं ते निधायारं सुधासारं पपावधरं (वधू) महेळान्या महीयोऽलं महाभाग्याप ताम्बूलं त्वदास्याम्भोरुहे लीनं हृदामोदनं (वधू) गळन्माला मिळद्बाला विदुर्नीवीं न ता बालाः गळन्तीं कुन्तळीपाळीं न वा कञ्चुळीं (वधू) अलं वाचा वहन्मोदं कदम्बं ज्योतिषां चेदं विलम्बालम्बितं शौरे चिरादम्बरे (वधू) प्रकामोद्यद्भवत्सेवैः प्र(वैर्व्र)जाधीशादिकैर्देवै- रशेषैरासनिष्णातुं विशेषादृतं (वधू) सुजातं गोपिकाजातं मनोराज्यं मनोजातं त्वदीयादञ्जसैवायासादोदयात् (?)(वधू) तदा नन्दार्भकात्मानं सदानन्दार्पकात्मानं परं ब्रह्मैव साकारं भवन्तं परं (वधू) प्रपद्येमा महाभागा भवत्येवोदयद्रागा जनि(निं)धन्यामिमां शौरे निजां मेनिरे (वधू) महेळानामाळी महिततमहेळा मधुरिपो महेळामाधुर्या विहरणमहे लालसवती । अरं सा क्लान्तापि प्रसृमररिरंसान्धहृदया वरं सामोदं त्वां पृथगथ गिरं साधु निजगौ ॥ १७९॥

गाम्बोधिरागेण गीयते । एकताळेन वाद्यते ।

विसृजन्नतनुरशङ्कं -कृष्ण विशिखं विहितातङ्के विदलति बत मामेतां-कृष्ण विदयमपि त्वदुपेतां अयि मां पायय साध्वीं-कृष्ण तव मधुराधरमाध्वीं सुमनोहर येनाहं-कृष्ण लघु विझा(जहा)म्ययि दाहं त्वामविलोकयमानां-कृष्ण त्वामपि लोकयमानां पञ्चशरोऽयमये मां-कृष्ण सन्तपतीश बतेमां अच्युत भवदवलोके-कृष्ण तृप्यति का वा लोके रात्रिरुपैति विरामं-कृष्ण तत् परिपूरय कामं अयि विरचय परिरम्भं -कृष्ण सफलय मम कुचकुम्भं अधरं तेऽमृतजूषं-कृष्ण कुरु रदखण्डनभूषं विलसितहृदयविकारं-कृष्ण विरहितविविधविचारं विलुळितपृथुकुचभारं-कृष्ण विगलितकुसुममुदारं। मदचलमदनागारं-कृष्ण मसृणितनियताचारं मुखरितरशनावारं-कृष्ण मुकुळितनयनमसारं जृम्भितमन्मथवीरं -कृष्ण सम्भृतरागमधीरं भुग्नपयोधरभारं-कृष्ण भग्नमनोहरहारं व्यञ्जितरसगम्भीरं-कृष्ण शिञ्जितमणिमञ्जीरं मृदुहसितसुधासारं-ष्ण मृदुलवचोमधुधारं श्रमजलसुभगशरीरं-कृष्ण श्रमहरपुळिनसमीरं अलसतरामलतारं-कृष्ण विलसितमणितमतारं प्रकटितगृढाकारं-कृष्ण प्रकृतजनीफलकारं पुरुपुळकालङ्कारं-कृष्ण परमानन्दाकारं फलि(त?)मनोरथपूरं-कृष्ण भणितमनोधिकदूरं प्रियसख ननु सुखसारं-कृष्ण प्रसरतु विहरणसारं प्रत्यक्षरस्रुतसुधालहरीममूं गां प्रेमानुरागकरुणामसृणैरपाङ्गैः । अङ्कीचकार च भवान् पशुपाङ्गनाना- मासामनङ्गशरभङ्गुरमानसानाम् ॥ १८०॥ देवततिरावृतमथाळिभिरमेयं देवतरुसूनमबलाळिभिरमेयम् । व्याततमुदाजित विकीर्य नतकायं व्यातनुत नूतिमिततापसनिकायम् ॥ १८१॥

धनाशिरागेण गीयते । एकताळेन्न वाद्यते ।

नतवल्लवजन पदतल्लज- जितनवपल्लवकुल मुरहर - जयजय नर नारायण नरकनिवारण ((१८१)अबलाळिभिरमा = स्त्रीसमूहैः सह । नूतिं = स्तुतिम् ॥ नतो वल्लवजनो यं तस्य सम्बुद्धिः ॥) नरकविदारण मुरहर-जयजय- नयनप्रमददकमठप्रवरक कमनप्रपदक मुरहर -जयजय शिखिकण्ठावलिभृशशङ्कावह- मृदुजङ्घायुग मुरहर-जयजय इभकरलोभनरुचिभरमोहन- महिततरोरुक मुरहर-जयजय जघनस्थलघृतकमनप्रभनव- वसनप्रवरक मुरहर-जयजय तारमनोहरहारविराजित- चारुभुजान्तर मुरहर-जयजय मृदुसङ्क्वणदुरुकङ्कणकाङ्गद- वरसङ्गतभुज मुरहर जयजय स्मरदरस(म)दहरवरतररुचिभर- विलसितगळतल मुरहर-जयजय शरदुदितामलशिशिरकरोपम- वदनसरोरुह मुरहर-जयजय तरळीकृततरुणीजनमुरळी- वरलाळिताधर मुरहर-जयजय चञ्चलकाञ्चनकुण्डलमण्डित- मञ्जुळगण्डक मुरहू(ह)र- जयजय सुमनोरमतिलसुमसुमनोहर सुमहितनासिक मुरहर-जयजय यौवतमानसमानविमोचन लोभनलोचन मुरहर -जय जय रुचिविजिताळिकरुचि(चिर)तराळक- लाळिततराळिक मुरहर- जयजय चन्द्रकलाञ्छितपिञ्छकुलाञ्चित- मञ्जुलकुन्तळ मुरहर-जयजय म(स)जलपयोधरनिकरमनोहर सकलकळेबर मुरहर - जयजय देवैरेवमभिष्टुतोऽथ शनकैः क्रीडां समाप्यारा- दासामाकुळचेतसां स्मरशरैरापूरयो वाञ्छितम् । काळिन्दीसलिलेऽथ देव विहरन कान्ताभिराभिः समं कान्तारे च मनोहरे पुनरगा मोदाकुलो गोकुलम् ॥ १८२॥ सान्द्रानन्दचिदात्मनि त्वयि विभो साक्षात् परब्रह्मणि स्वान्तं कान्तधिया निवेश्य रममाणानां रमावल्लभ । (यौवतं = युवतिसमूहः । अळिकं = ललाटम् ॥) गोपीनामगणेयपुण्यविभवानां वर्ण्यते केन वा तत्तादृग् ब(ग्ब)त भागधेयमहिमा भक्तैकबन्धो हरे ॥ १८३॥ गौर्यां(र्या)वर्यां सपर्यां क(क्व)चिदहनि सरस्वत्युपान्ते वनान्ते दव्यिन्त्या देव गोपा विधिवदथ विधायास्वपन्नत्र रात्रौ । तन्मध्ये नन्दगोपं बत कबळितवान् दन्दशुकोऽथ कोऽपि द्रागस्माद्भक्तबन्धो त्वमपि पदहतात् पालयामासिथैनम् ॥ १८४॥ ततिमथ वनितानां कामबाणान्धितानां विहरणनिरतानां कामपालान्वितानाम् । क्वचन निशि विशङ्कं शङ्खचूडोऽथ निन्ये त्वमपि महितमन्युस्तं जवादन्वधावीः ॥ १८५॥ प्रमदानिकरं च मदं च निजं प्रविहाय गतं धनदानुचरम् । प्रददाथ विभो प्रततातिरुषा प्रददाथ च मौलिमणिं हलिने ॥ १८६॥ आयातं जातु भद्रात्मकमपि तमभद्रात्मकं द्रागरिष्टं गोष्ठे निष्पीडयामासिथ वसनमिवाक्रम्य पादेन सार्द्रम् । ((१८६)प्रददाथ = हतवान् । दातेर्लिटि रूपम् । प्रददाथ दत्तवान् । ददातेर्लिटि रूपम् ।) प्रापद्भावत्कभावैकविदुरुभियमुत्पातजातावलोकात् भोजेन्द्रं नारदोऽसाविह मुनिरमुनाप्यच्युताभ्यर्चितोऽभूत् अथ मुनिपुङ्गवभोजनृपा- वहितवधावगमैकरतौ । अतिमधुरां गिरमेवमुभा- वकथयतां च मिथोऽजित तौ ॥ १८८॥ भूमिपालकुलमौलिजालमणिराजमानपदपीठ ते वासरोपगतधूसरोडुपतितुल्यमास्यमवनीपते । तावकीनहृदि तायमानमयि तापभारमधुनातुलं व्यक्तमेव बत वक्ति तेन मम वर्तते हृदयमाकुलम् ॥ १८९॥ न्यक्षतो नृवर रक्षतो भुवनमक्षतोरुबलबाहुना लक्षये नियतमक्षयेह न तु दुःखमूलमिह तेऽधुना । लोभनीयगुण गोपनीयमयि नो यदीह मयि सादरं साधु तद्विभज तावकीनहित साधनाहितमतावरम् ॥ १९०॥ ((१८७)भद्रात्मको वृषभरूपी । भोजेन्द्रः = कंसः ॥ (१८९)तायमानं -वर्द्धमानम् ॥ (१९०)न्यक्षतः = निश्शेषम् । मयि विभज = मह्यं कथय । अरं = द्रतम् ॥) विश्वलोकभृशविश्रुताधिकसुदुश्चरामलतपस्यया दीप्तरूप ननु वेत्सि लोकगतवृत्तमेतदतिशस्यया । चित्तरूपमुकुरोत्तमे त्विह महत्तमे स्फुरति किं न ते कीर्तयाशु यदि कीर्तनीयमजचेष्टितं नियमिनां पते ॥ १९१॥ शौरिणा नृवर वैरिणा तव निकारिणा कुसृतिकारिणा तानि तानि विहितानि किन्न विदितानि वैरिगणदारिणा । माधवे निखिलदानवेशभृशतानवेऽनिशकृताग्रहे जात एव विनिमाय तेन धृतनन्दजोऽयमवसत् पुरे ॥ १९२॥ कामपालमपि नाकपालमुखलोकपालहितलोलुभौ(भो?) भूमिपाल लघु धेनुपालनिलयेऽकृताथ निभृतं विभो । एधमानतनुशोभमाननवयौवनौ भुवनलोभनौ तावुभावपि च तावकानुचरतापिनौ व्रजनिवासिनौ ॥ १९३॥ दानवेंषु महिताहवेषु भृशवैभवेषु भवता द्रुतं याचितेषु लघितेषु तेषु बत केन वा पुनरिहागतम् । सावधानमिह ते वघाय बत तौ मनो वितनुतो रणे तद्विधेहि लघु तद्वधाय परमुद्यमं यदुशिखामणे ॥ १९४॥ ((१९२)भृशतानवे = अत्यन्तक्षये ॥ (१९४)लघितेषु = गतेषु ॥) श्रुत्वा वार्ता त्वदीयां तदनु मुररिपो जन्मकर्मादिरूपां तत्तादृक्क्रोधभारस्फुरदधरपुटो मण्डलाग्रं कराग्रे । धृत्वा कंसं जिघा(घां)सुं पितरमजित ते स्वासनादुत्थितं तं दृष्ट्वा भीतो मुनीन्द्रो मधुरमभिदथे तं प्रशंसन्नृशंसम् ॥ १९५॥ नरदेव वृथा वसुदेवमहो जहि मा जहि मा महिमावसथ । लघिमापि भवेल्लघु माननिधे तदतो विरतो भज तोषभरम् ॥ १९६॥ इति तं नृपतिं तव तातवधा- द्विनिवार्य गतेऽथ मुनौ मुदिते । कुपितेन च तेन नृपेण विभो तव तौ पितरौ कलितौ रचितौ ॥ १९७॥ कंसो मांसाददेश्यस्तव तदनु वधे केशिनं हस्तिपालं मल्लांश्चादिश्य कल्यान् भवदुपनयने प्राहिणोद्गान्दिनेयम् । धन्यानामग्रगण्यो निखिलभुवनरूढः शताङ्गाधिरूढो हन्तायन्नन्तरेऽयं त्वयि विनिहितधीरन्तरेवं व्यचिन्तीत् ॥ १९८॥ ((१९७)कलितौ = बद्धौ ॥ (१९८)मांसाददेश्यः = मांसादतुल्यः । गान्दिनेयोऽक्रूरः ॥)

केदारगौडरागेण गीयते । चम्पताळेन वाद्यते ।

सुचरितं विचरितं प्रागमेयं यदजितं त्वरितमवलोकयेयं पल्लवम् । मम खलु मनो महितमयति मोदं मदभरितभोजनृपरचितखेदं (मम) हन्ताद्य मम विह्तमशुभजातं नन्तास्मि हरिपदं यदभिजातं (मम) विश्वमपि शकुनमिह कुशलरूपं वीक्षेय विधुमुखं तदभिरूपं (मम) फलवदपि जनुरजनि ननु मदीयं पश्येयमपघनं यददसीयं (मम) अरिपक्षगोऽयमिति किमुत निन्दे- दतिभक्तिभागिति स किमुत नन्देत् (मम) एवं चिन्तां वितन्वन्विविधमयमयन् गान्दिनेयो दिनान्ते सम्प्राप्तो गोकुलं तत्तदनु तत इतः सङ्कुलं गोकुलेन । भद्रां श्रीपादमुद्रां यवकुलिशसरोजाङ्कुशाद्यङ्कितां ते किं किं नालोक्य चक्रे शिवशिव नितरां भक्तिभाराकुलात्मा ॥ माहादोहनलोकनाकुलतरस्वान्तौ चरन्तौ मुदा सायाह्नाहितमज्जनामलतरस्वान्तौ भवन्तौ तदा । संवीतासितपीतरूपवसनौ त्रैलोक्यसम्मोहनौ व्यालोकिष्ट स हृष्टधीः कतिपयैराभूषितौ भूषणैः ॥ २००॥ भवता भवतापहृता भजता- मसतामपि तापमिहावहता । अवलोकयता हलिना सह तं मुमुदे जगदेकपते नितराम् ॥ २०१॥ भक्त्या दूरान्नमन्तं प्रणयविवशमुत्थाप्य चालिङ्ग्य दोर्भ्यां केशिव्योमाभिधानासुरहननविधाश्लाघिताभ्यामुभाभ्याम् । प्रोद्यत्प्राज्यप्रहर्षं परपुरुषदुरापोरुभाग्यप्रकर्षं सभ्राताभ्यर्हयामासिथ नतशिरसं गान्दिनीनन्दनं तम् ॥ २०२॥ करकमलेन तदीयकरं परिकलयन् हलिनापि समम् । निरतिशयं निलयं निभृतं तमसि निनेथ दिनेऽथ गते ॥ २०३॥ प्रशान्तेनाशेषामपि कथयता कंसभणितिं निशां तेनानैषीरथ सपदि नन्दादिपशुपैः । निशान्तात्त्वां यान्तं पशुपसुदृशो वीक्ष्य विवशा निशान्ते सन्तापादिति बत विलापं विदधिरे ॥ २०४॥

काम्बोधिरागेण गीयते । पञ्चकारिताळेन वाद्यते ।

(१)ननु विधे दया नैव जायते कुहचनापि हा लोकनाथ ते यदिह मोहयन् देहिनोऽखिला- न्महितरागभाराधिकाकुलान् अतिमुदा मिथो नाथ योजय- न्नतिशुचा ततोऽमून्वियोजयन् विविधभोगलोलान् गुणाम्बुधे विहरसे विनोदाय किं विधे भुवनलोभनं माधवाननं परमशोभनं शोकलोपनं प्रमददोहनं लोकमोहनं रुचिरलोचनं मानमोचनं महितनासिकानाळदन्तुरं मकरकुण्डलेनातिभासुरं अधरबिम्बकान्त्यातिबन्धुरं ((१)``अहो विधातस्तव न क्वचिद्दया संयोज्य मैत्र्या प्रणयेन देहिनः । तांश्चाकृतार्थान् वियुनङ्क्ष्यपार्थकं विचेष्टितं तेऽर्भकचेष्टितं यथा'' इति भागवतम् ॥) मधुरमन्दहासानि(ति)सुन्दरं किमपि हन्त नो दर्शयन्निदं लघु तिरोदधाथातितापदं कठिनचेतसो व्यापृतं तु ते बत विनिन्द्यमेवेह चिन्तिते अजित ते कथं नाथ दासिकाः सह सदा त्वयैवाहितासिकाः (१) त्यजसि माधस्तमूरुपा(स्तवा)स्सि(सि)काः बत पदाम्बुजैकावतंसि(तानि)काः मृदु पुरास ते नाथ मानसं शिव शिवाधुना जातमायसं (२) किमिह देहिनां देववैभवं वितनुते हि नो भूरिगौरवं अपृथगास्थिता कुत्र ते गता निजजने दया लोकविश्रुता इह कृपालुतापादितां प्रथा- मयि सखे हरे मा कृथा वृथा ((१)आहितामि(सि)काः = कृतावस्थानाः ॥ (२)आयसमयोविकारः ॥) स्वपितरौ पतीनात्मजान् गृहा- नपि विहाय ते सङ्गमाग्रहाः सततमास्महे तन्न वेत्सि किं सकलसाक्षिता ते क्षताज किं मधुकिरो गिरो मन्थरं गतं मधुरमीक्षितं मोहनं स्मितं मनसि तेऽखिलं माधव स्मृतं मदनपावके मारुतायते अगतयो वयं माधवाधुना त्यजसि चेदिमा नो दयां विना जगति चातकीनां घनादृते व्रजति को नु जीवातुतां पते प्रतिदिनं दिनेशो वियोगिनीं सुखयते न किं वा सरोजिनीं पुरपुरन्ध्रिकापुण्यपूर ते स्मृतिपदं भवेमेह किं पते अपहरन् स नो जीवितं परं व्रजभुवो द्रुतं क्रूरधीर्वरं बत भवन्तमक्रूरनामतां कथमयेदयं धूमकेतुतां स सुकृती पुरे कामिनीजनो जनिफलं भजेदय(द्द्य)किन्नु नो कळभयानवल्लोभनं गतं तव तु रूपयन् रूपमद्भुतं असुकृतीह चेद्गण्यते वयं ननु कनिष्ठिकाधिष्ठिताः स्वयं किमिह कुर्महे शोकसञ्चिताः किमिह चक्ष्महे दैववञ्चिताः इति बत विलपन्त्यो गोपिका निश्वसन्त्यो रुरुदुरिह बहन्त्यो हन्त तापं दुरन्तम् । प्रणयममितमन्तर्वीक्षितैः सूचयन्त्यो विवशमति भवन्तं सस्पृहं लोकयन्त्यः ॥ २०५॥ शरण्य जगतां पेतुस्तरुण्यो विरहानले । हिरण्यरेतसि यथा हरिण्योऽरण्यसम्भवे ॥ २०६॥ अक्रूरेणाधिरूढो रथमथ हलिना वासहायं सखायं गोपीनामातुराणां कमपि खलु विमुच्याधिभारं विमोच्य । वेगादागाः प्रतीरं दिनकरदुहितुस्तज्जले त्वां विमज्जन् वीक्ष्योन्मज्यैक्षत त्वामतिकुतुकमपि स्यन्दने गान्दिनेयः ॥ २०७॥ निर्मज्यालोक्य भूयो भुजगवरशयं भूषणैर्भूषिताङ्गं निस्सीमोद्यत्प्रभोत्सारितसमसमयोत्सर्पिभास्वत्सहस्रम् । राजन्तं वैजयन्त्याप्यरिकमलगदाकम्बुकम्राग्रहस्तं लक्ष्म्या भूम्या च संसेवितमिति नुतवान् पूरुषं त्वां पुराणम् ॥

पाटिरागेण गीयते । चम्पताळेन वाद्यते ।

मुरनरकमथन जय पुरमथनदयित जय सुरपरिषदधिप जय जय जय मुरारे आनन्दरूप जय गोविन्द राम जय गोवृन्दपाल जय जय जय मुरारे मरणभयहरणकर कृपणजनभरणपर चरणगतशरणपर जय जय मुरारे आनीलबाल जय गोपालबाल जय लोकैकपाल जय जय जय मुरारे सुरविसरसुखनयन सरसिरुहसमनयन पुरुसुकृतकृतनवन (१)जय जय मुरारे शान्ताशयावनत सन्तापनापहर कान्तामलाङ्गलत जय जय मुरारे लक्ष्मीकान्त विभो भवापह भवानक्षीणकान्ते हरे वक्षोभागविलासिहार भगवन्नक्षामरक्षामते । ((१)कृतनवनः = कृतस्तुतिः ॥) जिष्णो विद्विषतां स्थितौ त्रिजगतां धृष्णो भविष्णोऽवने विष्णो वृष्णिकुलावतंस शमलं मुष्णातु पुष्णातु च ॥ २०९॥

मलहरिरागेण गीयते । एकताळेन वाद्यते ।

(१)सारविसारवराकृतिमितवा- नाशु हयग्रीवं विशसितवान् यो निगमगणान्विधयेऽर्पितवा- न्माधव तस्मै नाथ नमस्ते पल्लवम् । पुरुषोत्तम परपुरुष नमस्ते विबुधोत्तम मुरमथन नमस्ते (पुरु) कामठमपि पृथुलवपुर्घृतवान् कामद ननु मन्दरमुद्धृतवान् योऽमृतममरानपि पायितवा- न्माधव तस्मै नाथ नमस्ते (पुरु) क्रोडवराकृतिमलमनुकृतवान् घोरहिरण्याक्षहतिं कृतवान ((२०९)शमलं पाप मुष्णातु, शं सुखमलं पुष्णातु च ॥) (१)इदं ``प्रळयपयोधी'' त्यादिगीतगोविन्दगीतकच्छायामर्थतोऽनुसरति ॥) क्षोणिमिमां यो बत रक्षितवा- न्माधव तस्मै नाथ नमस्ते (पुरु) नरकेसरितनुमुररीकृतवान् सहिरण्यं खलु कशिपुं हतवान् प्रह(ह्)लादं यो बत पालितवा- न्माधव तस्मै नाथ नमस्ते (पुरु) मोहनमपि वामनवपुरितवा- न्दानवकुलनाशन बलिमृतनान् (१) यो जगदिदमखिलं बत मितवा- न्माधव तस्मै नाथ नमस्ते (पुरु) भृगुकुलममलं तदलङ्कृतवान् कृतवीर्यसुतं समरे जितवान् नृपकुलमपि कुपितो यो हृतवा- न्माधव तस्मै नाथ नमस्ते (पुरु) दिननाथकुलं हि सनाथितवान् पितृवाचा वनभुवि विचरितवान् रावणगळमपि यो विदलितवा- न्माधव तस्मै नाथ नमस्ते (पुरु) ((१)बलिमृतवान् = महाबलिं गतवान ॥) हलवरधर ननु राम नमस्ते क्षितिभरहर ननु कृष्ण नमस्ते नरनारायण नाथ नमस्ते सुखबोधसन्देकमय नमस्ते (पुरु) मज्जन्नप्याशु मज्जन्निह सुकृतवतामग्रगण्यो वरेण्ये ब्रह्मानन्दाम्बुराशावतिविवशमतिर्भक्तिभारेण नुत्वा । तत्रैवान्तर्हिते त्वय्यथ सकुतुकमुन्मज्य फुल्लाननाब्जं कंसारामं स निन्ये सपदि परिणते त्वां दिने गान्दिनेयः ॥ २१०॥ भ्रात्रा सवा(त्रा)त्र भुक्त्वा सखिभिरपि भवान्नूनमाकृष्यमाणः पौराणां पुण्यपूरैरखिलजनवृतां राजवीथीमथागात् । अत्रायान्तं च कञ्चिद्रजकमद्ल(दल)यत् प्रार्थनापार्थ्यरोषात् प्राणैषीत्तोषभारं वरवितरणतो वायकं मालिकं वा ॥ २११॥ कुब्जामृज्वीं वितन्वन् सरसतरगिरा सङ्गमं चानुगृह्णं- श्चापं भित्त्वाथ भित्तेन च सपदि भटानक्षिणो रक्षिणो वा । सानन्दं नन्दवाटीं सह सखिभिरितो यामिनीं यापयित्वा रङ्गद्वारं बृहद्वारणगहनतरं प्रापिथाथ प्रभाते ॥ २१२॥ ((२१२)भित्तं शकलम् ।) स कराळतरं करवाळवरं स्वकरेण वहन(न्)समरोहदरम् । अज रम्यतरं निजहर्म्यतलं यदुराडपि मन्त्रिजनेन समम् ॥ २१३॥ प्रकोप्याभ्याशापातितमिभकुलापीडममुकं प्रहारैस्ते घोरैरजित विततापीडममदम् । विलुञ्छन् दन्तौ त्वं कृतरिपुकुलापीडन विधो नदन्तं साम्बष्ठं लघु कुवलयापीडमवधीः ॥ २१४॥ (अथवा सम्प्रहारवर्णने सति । नाम्ना कुवलयापीडं धाम्ना निरुपमाजित । कोपयन् दन्तिनं यन्ता प्रापयन्निकटं तव ॥ २१५॥ रभसाकुलितं रभसापतितं तरसा भरितं तरसावितथम् । अवपात्य जवादवनीकदनौ प्रहरे न्यहरोऽपि हरे रदनौ ॥ २१६॥ अतिघोररदाहतिवीतमदं द्विषदन्तक हन्त नदन्तमभ(मु)म् । ((२१४)इभकुलापीडः = गजगणावतंसः ॥) असतामवधीरणधीरवधी- रपि यन्तृवरानपि मन्तुकरान् ॥ २१७॥ दन्ती कुवलयापोडो मृतोऽप्युदपतद्बत । अधिकं सम्भृतक्रोधादाजावमृदुलो भवान् ॥ २१८॥ प्रमदमथ भजन्तौ मल्लशालां भवन्तौ विविशतुरिभदन्तौ स्कन्धदेशे वहन्तौ । हृदयमपहरन्तौ पश्यतामावहन्तौ मुदमलमसदन्तौ साधुलोकानवन्तौ ॥ २१९॥ तनुमानतनुर्वनितावितते- रशनिर्ननु माधव मल्लततेः । पशुपालजनस्य ननु स्वजनो विदितोऽयमिति व्यलसो हलिना ॥ २२०॥ वीक्ष्यैतौ विश्वलोकैरपि तृषिततरैर्विस्मयस्मेरतारै- र्नेत्रैर्निर्यन्निमेषैर्मुरहर मुहुरापीयमानाखिलाङ्गौ । रङ्गे भान्तौ भवन्तौ सह समुपसरन्मुष्टिकेनापि तुष्ट्या चाणूरोऽसावराणीत्सबल इह भवानप्यमुं तृप्यदात्मा ॥ २२१॥ ((२२०)``मल्लानामशानि''रिति भागवतपद्यार्थशकलमेतत् ॥)

शङ्कराभरणरागेण गीयते । एकताळेन वाद्यते

अगधर हलधर हन्त भवन्तौ परमनियुद्धे परिचयवन्तौ इति गमितौ पुरमरिसमिदन्तौ नरपतिनाधिकमहितोदन्तौ पल्लवम् । भवतोरवलोकनतो हृदये वीर्यवतोरियमुदयति मुदये (भवतो) अवनीभृदवलोकितुमतिलोभी सदसि नियुद्धं पृथुबलशोभी प्रियमवनिपतेरयि करणीयं निखिलजनैरिदमिह महनीयं (भवतो) प्रियकृत उदियान्मङ्गलजालं विप्रिय कर्तुरमङ्गलजालं सुशुभाशुभयोरिह जगतीशो निखिलसुरेशमयो जगतीशो (भवतो) श‍ृणु ननु चाणूर नृपाभिमतं करणीयमितीह समानुमतं अमुकौ पृथुकौ ननु पृथुलव(ब)लै- र्विहरेव कथं प्रथने कुशलैः (भवतो) बकहर बालबलौ न भवन्तौ बलमिह नियतं बलवदयन्तौ यदिभं धेनुकमपि हतवन्तौ प्रसभं बलिनं प्ररुषितवन्तौ (भवतो) समुचित इह तत्समरविहारो नियतमसाविह नहि परिहारो कृष्ण मया झटिति भवान् घटिता मुष्टिकनाम्ना मुसली घटतां (भवतो) उक्त्वैवं तौ भवन्तावपि भुजयुगमास्फोट्य जाघट्यमाना- वन्योन्यं विक्षिपन्तौ पुनरपि तरसैवापतन्तौ रुषान्धौ । जानुभ्यां जानुयुग्मं शिर इह् शिरसा वक्षसा चापि वक्षो निघ्नन्तौ निष्पतन्तौ निरतिशयरयादापतन्तौ हसन्तौ ॥ २२२॥ अन्योन्यं गृह्याणौ मुहुरपि बलतो मुच्यमानौ समानौ वेगादाश्लिष्यमाणावधिकदृढमथ भ्रामणैर्भ्राम्यमाणौ । मुष्ट्या निष्कट्यमानौ निरवधिकबलं स्थापने स्थाप्यमानौ तन्वानौ कर्षणं चेरतुरिह विविधं चालनैश्चाल्यमानौ ॥ २२३॥ कोपभरशोणतरलोचनसमेतौ लोकवरबाहुबलमूलगृहभूतौ । लोकयितृभीतिकरमाहवविनीतौ घोरतरमादधतुराराहवमथैतौ ॥ २२४॥ बलिनोरनयोरतिबालकयो- रसमं समरं समवेक्ष्य च वाम् । अनुरागदयाव्यसनाकुलधी- रबलावलिरीश मिथोऽकथयत् ॥ २२५॥

मुखारिरागेण गीयते । चम्पताळेन वाद्यते ।

सखि यो विलोकयति बालबलिनो रणं स्पृशति तमधर्मोऽयमघकारणं पल्लवम् । वीक्ष्य रणमसममपि वदनमनयो रणे स्थातुमपि यातुमपि न तु पारये (वीक्ष्य) धर्मव्यतिक्रमो भवतीह सुनियतं तत्सदसि वर्तितुं न तु समुचितं (वीक्ष्य) क्व च किसलयातिमृदुलाङ्गको बालकौ क्व च वज्रनिभतनू मल्लहतकौ (वीक्ष्य) श्रमवारिभृशहारि बालयोराननं व्यालोकयाखिलजनामोदनं (वीक्ष्य) श्रुत्वा च दीनं वचनं वधूनां स्मृत्वा च पित्रौ(त्रो)र्वचनं दयालू । यातौ भवन्तौ व्यवसायवन्तौ हन्तुं द्विषन्तौ पुरुपुण्यवन्तौ ॥ २२६॥ चाणूरं त्वमपोथयोऽथ पृथिवीपृष्ठे व्यसुं भ्रामणा- द्रामो मुष्टिकमेष मुष्टिभिरहन् वेगादमैवानुगैः । आलोक्येदमुदीर्णरोषभरतो व्याघूर्णमानाशयो वाक्यं व्याहरदेष भोजनृपतिर्वाद्यं हरे वारयन् ॥ २२७॥

नाट्टरागेण गीयते । चम्पताळेन वाद्यते ।

अपगमितभूरिमदमपनयत दूरतर- मसुरकुलनाशपरपशुपयुगपाशं (१) आहत्य पशुपचयमाहृत्य वसुनिचय- माबध्य नयत (मु)बहुराशु विहताशं अनिशमपि वसुदेवमहिततरमदसीय- पितरमपि नयताशु पितृपतिसकाशं कन्दळितनिरुपमानन्दभरविवशित नन्दमपि कलितमावहत सुदुराशं अहितहितसाधने सततकृतमानसं जनकमपि मामकं गळकलितपाशं ((२२७)अहन् = हतवान्) ((१)पशुपयुगपाशः = कुत्सितं गोपयुगलम् ॥) दूरतरमाकृष्य धूतकृपमाहत्य भूरिमदमाहुकं नयत लघु नाशं भूभृत्कुञ्जरनिस्वनं निशमयन् भूरिक्रुधाशूत्पत- न्नुत्तुङ्गं बत हर्म्यश‍ृङ्गममुमापात्यावनौ त्वं हरिः । हत्वाथ स्वपदं निनेथ तरसैवाष्टो हली पिष्टवान् कह्वादीन् प्रतिधेन घोरपरिघेणास्यानुजान् सानुजान् ॥ २२८॥ कंसो नित्यनृशंसधीरपि भवत्सारूप्यमाप्तो जवा- ज्जीवानां भुवने हि पुण्यनिवहं जानाति को वा पुमान् । वैरेणापि स ते स्नरन् पदमगात् स्नेहादहो किं पुन- स्तस्मात्त्वत्स्मृतिरूद्धृताखिलमला त्वत्प्राप्तिसिद्धौषधम् ॥ २२९॥ तावेतावति कातरौ स्वपितरावासाद्य सद्यो युवां तावेतावधिकादरावतिचिरादालोक्य मोदाकुलौ । पाशादाशु विभो विमोच्य विनिबध्य प्रेमपाशैभृ(र्भृ)शं भक्त्या तत्पदपङ्कजेषु पतितौ सत्रा प्रमोदाश्रुणा तौ प्रभूतनयौ वीक्ष्य तौ प्रभू तनयौ युवाम् । सर्वदा भजतां पुंसां सर्वदाभजतां मुदम् ॥ २३०॥ तत्त्वं विदद्भ्यामतिशङ्किताभ्यां ताभ्यां पितृभ्यामभिवन्दिताभ्याम् ॥ २३१॥ एतौ भवन्तावकृतोपगूहा- वेतौ च गामूचतुरात्तमोहाम् ॥ २३२॥

भैरविरागेण गीयते । एकताळेन वाद्यते ।

जननि विभो जनक वृथा युवयो- रभजनतोऽजनि ननु जनिरनयोः शिव शिव विधिनाहतयोरयि नौ वरमिह गुरुजनसेवनमवनौ पल्लवम् । भवदसभाजनतो बत जनितं बृहदपराधमिमं नौ सहतं (भव) निजपितृनिकटे खलु निवसन्तो निरवधिलाळनमपि च भजन्तो भुवि पृथुका यं प्रमदमयन्ते क्वचन न तादृशमिह नियतं ते (भव) अपि भवदन्तिकनिवसनयोग्यौ सन्ततमावामसकलभाग्यौ किञ्चिदविन्दाव न नूनमिदं किं नु विनिर्माति न दैवमिदं (भव) किमपि च वृत्तिं शित्र शिव पुत्रो यो न विधत्ते भुवि निजपित्रोः प्रयमालयमेत्य स नियतं मृत्यु- गिरा निजवृत्तिमत्ति च पिशितं (भव) कुशलोऽपि च योऽवति न कुटुम्बं वसुलोभादपगळदवलम्बं श्वसितयुतोऽपि मृतो नियतमयं भजति हि महितममुत्र च निरयं (भव) मातुलभवभयपरमातुरयो- र्मुहुरापतितारिभिराकुलयोः परतन्त्रकयोरयि बालकयो- र्दोषमशेषं विषहतमनयोः (भव) दैवादुपनतभवदभजनयो- र्भवदीयदयाभरभाजनयोः निजनन्दनयोरनयोरुभयोः शरणं ननु नौ चरणं युवयोः (भव) प्रमोहदां वाचमिमां निशम्य प्रणीय वामाङ्कमपेतशङ्कम् । प्रकाममालिङ्ग्य पिता च माता प्रमोदभारं बिभराम्बभूव ॥ २३३॥ अथ तौ दधतौ तनयौ सनयौ प्रणयात् प्रळयाद्विधुरौ पितरौ । नयनान्नळिनाद्गळितैर्लळितै- रपि तैरमृतै रचितौ स्नपितौ ॥ सामोक्त्या सान्त्वयित्वा भृशमिति पितरौ प्राज्यमोदाकुलौ तौ राज्यं न्यस्योग्रसेने ततिमथ भयदूनां यदूनां प्रदानैः । सद्यो हृयैः(द्यैः)प्रला(सा)द्य प्रणयपरवशं तं विसृज्याथ नन्दं विद्या लब्ध्वाप्य सान्दीपनिमथ भवता दक्षिणार्थेऽर्थितोऽसौ ॥ २३४॥ अच्छौ(ब्धौ)जातु मृतं सुतं मम दिशेत्युक्त्या गुरोरर्णवं गत्वा पञ्चजनं निहत्य सहलो धृत्वा दरं तद्भवम् । मृत्योरेत्य च पत्तनं दरवरं दध्मौ रवं दारुणं श्रुत्वोपेत्य यमोऽनमत् समगदप्री(त्प्री)त्या भवानध्य(प्य)मुम् ॥ २३५॥

मलहरिरागेण गीयते । पञ्चकारिताळेन वाद्यते ।

धूतदुरितनूतचरित भवदुपागतं भूतमहित पूतमकृत सद्म साम्प्रतं पल्लवम् । अयि हरे श‍ृणोतु मम वचोऽवधानवान् अखिलजनहितैकविनिहिताशयो भवान् (अयि) अयि हेतुना तु केन वा युवामिहागतौ देवदेव नैव वेद्मि हेतुमागतौ (१)(अयि) ((१)आगतौ = आगमने ॥) (१)सकलदोहळाभिपूरणोद्यतात्मनोः किमिह पूरयामि दोहलं महात्मनोः (अयि) धर्मराज विहितकर्मजालनियमितं वारिराशिपतितमानयाशु गुरुसुतं (अयि) ननु निजाधिकारहानिरिह न जायते मम नियोगयोजनेन जीवितेश ते (अयि) तदिह सपदि शिशुकममुकमानयाधुना देशिकस्य दक्षिणां हि साधयामुना (अयि) आभाषितेन भवतैवमनेन दत्त- माचार्यसूनुमुपनीय दिदेश तस्मै । आश्लिष्य नष्टतनयेन ततः प्रमोदा- दाशासितोऽजनि भवानमुना ससीरी ॥ २३६॥ पौरानामोदयन्नापिथ पुरवरमापूरयन् पाञ्चजन्यं मित्रं लब्ध्वोद्धवं तं निखिलनयविदामुत्तमं बुद्धिमन्तम् । आयासेनालमायास्यति सपदि सरोजायताक्ष्यो जनोऽयं सन्देशैरेवमाश्वासय पशुपवधूरेनमेवं न्यगादीः ॥ २३७॥ ((१)दोहळोऽभिलाषः ॥) आदायाज्ञां त्वदीयामथ रथमधिरुह्याशु तोषेण घोषं सोऽयं सायं गतोऽरीरमदपि पितरौ ते विशेषैरशेषैः । आलोक्याभ्येत्य गोप्यो लघु तव सदृशं वेषभूषादिभिस्तं वीतव्रीळा विलेपुर्विविधमिति विभो विह्वलास्त्वां स्मरन्त्यः ॥ २३८॥

कामोदरिरागेण गीयते । पञ्चकारिताळेन वाद्यते ।

प्रहितवानये त्वां प्रसूकृते पितृकृतेऽथवा सुन्दराकृते पशुपराडयं क्रूरधीररं किमिह तस्य कार्ये(र्यं)व्रजे परं नगरकामिनीकामदोऽद्य ते सुमुख हे सखा कुत्र वर्तते व्रजममाधवं वक्ष्यि चेतना क्रकचदीर्यमाणैव नोऽधुना कथमिमाः स्मरेद् ग्रामकामिनी- रनुभवन्नयं पौरकामिनीः किमु पिकः स्मरेन्निम्बमञ्जरी- रनुभवन्नयं चूतमञ्जरीः जहति निर्धनं वेशजाङ्गना जहति खल्वकल्यं नृपं जनाः गुरुमधीतविद्या हि तत्क्षणं नियतमृत्विजो दत्तदक्षिणं फलविहीनमुर्वीरुहं खगा विहितभोजना गेहमध्वगाः दहनदह्यमानां मृगा वनीं समनुभूय जारोऽन्यकामिनीं स हि तथैव हा नोऽनुभूतवान् सपदि चावधूयेह यातवान् बत जनार्दनो निर्दयो भृशं व्रजजनार्दनो जायतेऽनिशं विरहवेदना जृम्भते हि नो हृदय एव हा तस्य जातु नो विरहतो विधोराधिभागियं कुमुदिनी तु नैवोडुराडयं अतिगते भवे पापजालकं नियतमाहितं घोररूपकं निपतिता वयं हन्त दुस्तरे निरवधौ यतो दुःखसागरे विलपितैरलं विश्वदृक्पुमान् न यदि वेद नो वेदनामिमां विगतविग्रहाः प्राप्य तं पतिं विरहवर्जिताः प्राप्नुमो रतिं स्मारं स्मारं भवन्तं मुहुरिति विलपन्त्यो भृशं निश्वसन्त्यो हा हा कान्तेति कान्ता मुमुहुरपि हरे त्वत्प्रिया विप्रयोगात् । आश्वास्यासौ त्वदास्योदितमधुरगिरा तादृशीं वीक्ष्य भक्तिं विस्मेरास्याम्बुजस्त्वां व्रजयुवतिदृशामुद्धवोऽप्युद्धवोऽगात् ॥ २३९॥ कुब्जामब्जायताक्षीं सरसमुपसरन्नुद्धवेनापि सार्द्ध(र्द्धं) दत्वोपश्लोकसंज्ञं सुतमथ हलिना नन्दयन् गान्दिनेयम् । ज्ञात्वा कौन्तेयवार्ताममुमथ विसृजन्मागधं क्रोधभारा- दाप्तं जामातृघातान्मुहुरपि जितवान्निन्यिषे सैन्यमन्तम्(न्तः)॥ २४०॥ घोरतरकोपभरयोधवरशोभी वीरवरभीतिकरभीमरणलोभी । नाथ मधुरामथ रुरोध पृथुरोष- स्तावदयि देव यवनाधिपतिरेषः ॥ २४१॥ रुन्धाने म्लेच्छनाथे नगरमथ निजान् बान्धवान् द्वारकाया- माधायोदारयोगाच्चकित इव गतः पत्तनादात्तमोदम् । पद्भ्यामाधावमानो यवनपरिवृढेनानुयातो गुहाया- मालीनोऽमुं व्यतानीः पदहतमुचुकुन्देन भस्मावशेषम् ॥ २४२॥ ((२३९)उद्धवः = उत्सवः ॥) तस्मै भूपाय तस्थे व्यतरदयि भवान्मुक्तिदात्रीं च भक्तिं हत्वा तां म्लेच्छसेनामधिसृति रभसेनाकुलायागताय । दत्वा दर्पावहं माधव विजयमहो मागधायैकवारं सम्प्राप्य द्वारकां तां पुरटमयपुरद्वारकान्तां ननन्द ॥ २४३॥ भारतीपतिभारत्या रेवती रेवताहृताम् । हृद्यामुद्धाहयामास सद्यो हलभृता भवान् ॥ २४४॥ अद्धागौरदुकूलबद्धरशनाजाताभिजातप्रभौ स्फीतामोदसुरौ कळिन्दतनयादारादनन्ताभिधौ । ज्यायांसौ नवकालफुल्लकमलश्रीहारिणौ हारिणौ रामं त्वामपि रेवतस्य दुहितुर्वन्दे वरं देवरम् ॥ २४५॥ वैदर्भोऽदभ्रशोभाधुतविबुधवधूं रुग्मिणीं सोऽपि रुग्मी हृद्यां चैद्याय दातुं समय इह समारब्धवानिद्धमोदम् । ज्ञात्वा वार्तामथैतामधिकतरशुचा व्याकुला बालिकासा- वाबाल्यारूढभावा त्वयि पुनरहिनोद्बाडवं वासुदेव ॥ २४६॥ प्रोद्दामाङ्गजबाणसङ्गजरुजा प्राप्तौ च ते संशया- च्चैद्योद्वाहविशङ्कयाप्यवशतां यान्ती श्वसन्ती च सा । ((२४३)पुरटं = हेम(मं?)॥ (२४५)शे(श्ले)षेण विशेषणानि रामकृष्णयोर्योज्यानि ॥) शय्यायां लुठतीह जामिरुदती पर्याकुलं जाग्रती खिन्नाङ्गीति चिचिन्त हन्त भगवन्नाळीजनालम्बना ॥ २४७॥

मुखारिरागेण गीयते । एकताळेन वाद्यते ।

शरणागतशरणदचरणाब्जं भुवनामोदनवदनजिताब्जं (१) मधुनाशनसविधमितो गतवा- नधुनापि स कुत इह नागतवान् पल्लवम् । हरिरिह जगदभिमतसाधयिता मम तु किमभिमतमभिपूरयिता (हरि) दमघोषसुतो मम पुरमागा- दुरुघोषयुतो ननु पुरुवेगात् रजनीव्यवहित एष विवाहोऽ- प्यजनि बताद्य तु मेऽसुखवाहो (हरि) त्रिजगति विदिते मुहुरतिलळिते मम मतिरजिते धावति दयिते ((१)अब्जश्चन्द्रः । समासद्वयस्य सविधविशेषणत्वं चिन्तनीयम् ॥) मतिमतिगहनां कमलाजाने- रहमतिकृपणा किमपि न जाने (हरि) यदि किमपि च हन्त पुरा सुकृतं व्यतिगतजननेषु मया तु कृतं दयितो भवतु स वसुदेवसुतो न तु जातुचिदपि दमघोषसुतो (हरि) नळिनेषुगृहिण्यपि कमनीयं भुवनेषु तममुमतिकमनीयं यदि पश्येन्निजपतिशरनिवहै- र्विदलितहृदया वितपेदसहैः (हरि) शैशव एव गतोऽतिथिजनतो रागवशं गुणगणनिशमनतो हृदयं कृतपदमिह पुंसि परे न तु पुनरभिरमते पुंसि परे (हरि) अबलैकबलोऽपि स मे हृदयं मदनो हि दुनोति शरैरदयं बलसखकृतपदमपि किमहो नो कुरुते जगति विवेकविहीनो (हरि) यदि स विनिन्दन्नसुनाथो मा विसृजेदहमपि चासूनवमा सति च तथा सुयशस इह भूयो (१) भवितायश इति दूये भूयो (हरि) एवं चिन्ताभरान्धां मुरहर मुदितामातनोदातुरां ता- माप्तो विप्रोऽयमाप्तो रहसि तव खलु श्रावयित्वाथ वार्ताम् । प्राप्ताप्याश्वासमेषा पुनरपि च हरे हन्त शङ्कामयन्ती वाचं तां विश्वसन्ती विवशमति तवाप्तिप्रतीक्षैव तस्थौ ॥ २४८॥ विष्वक्सेनोऽयमायाति, हि नृपनिवहो भद्ररूपो बतासौ कृष्णोऽभ्येति, द्विपौघो व्रजति खलु पुरीमच्युतोऽसौ, स्ववृत्तात् । विप्रौधो वाचमेवं पुरजनकथितां बालिका सा निशम्य प्रोद्यत्प्रोद्दाममोदव्यसनशबळधीः कां दशां वा न भेजे ॥ २४९॥ तावत्प्राप्तो बतैको मधुमथन भवान् दिव्यया देहकान्त्या त्रैलोक्यं क्षोभयन्त्या मदनमदभरापूरमुत्सारयन्त्या । स्त्रीणां पुंसां च चेतो दृशमपि च हरन्नञ्चितं मञ्चदेशं भीष्मेणाभ्यर्चितोऽसावलमलमकरोत्प्रणयन् पौरलोकम् ॥ २५०॥ श‍ृङ्गारोऽङ्गीकृताङ्गः किमु महितविवाहावलोकार्थमागा- दङ्गीकृत्याङ्गजोऽङ्गं त्रिभुवनकमनं सङ्गतो वाङ्गनार्थी । ((१)भूयो बहुलमयशः ॥ (२४९)विश्वक्सेनोऽयमायातीत्येतावच्छ्रवणे कृष्णागमनबुद्ध्यामोदः, नृपनिवह इत्यस्य श्रवणे सेनापरिवृत इति तात्पर्यग्रहणाद्व्यसनम् । एवमुत्तरत्रापि ।) किं वा भूमौ मनस्संवननमयपरब्रह्मविद्यैव मूर्ता विस्मेरैर्विश्वलोकैर्विविधमिति भवान् पङ्कजाक्षाशशङ्के चन्द्रो वायमुदेति सान्द्रसुषमो लक्ष्मात्र नो लक्ष्यते किं वा सारसमेव शारदमिदं कुत्रापयातं पयः । एवं संशयिताशयेन निपतल्लीलावलोकेन ते लोकेनाननमित्यनल्पकुतुकं पश्चाद्विभो निश्चितम् ॥ २५२॥ काचित् पुण्यैरगण्यैर्यदि पुरुषमणेरुर्वरापार्वणेन्दो- र्जायेतामुष्य जाया प्रतिनवसुषमामण्डलामग्नमूर्तेः । धन्यां मन्यामहे तामिति नरकरिपो गाढमुत्कण्ठिताभि- र्वैकुण्ठोत्कण्ठमाभिर्युवतिततिभिरुद्वेलमुद्वीक्षितोऽभूः ॥ २५३॥ आनर्ताधीश्वरायै(द्यै)रथ सह सहसानर्तबद्धाभियोगै- रानर्तो वीरलक्ष्म्याः प्रणयविवशमानर्त तत्राग्रजस्ते । रुद्राणीं रुग्मिणी तु प्रवणमति सखीविप्रपत्नीसमेता गत्वा गुप्ता भटौघैः कृतनतिरिति तां त्वद्गतात्मा ययाचे ॥ २५४॥

इन्दिशरागेण गीयते । एकताळेन वाद्यते ।

अहमयि दयिता हि भवानि (१)हरे ((२५२)शारदं सारसं = शरत्कालजातं कमलम् ॥) (१)लोडुत्तमैकवचनम् ॥) रिह विहतिं देवि भवानि (१)हरेः (२) पल्लवम् । अभिमतमभिपूरय तरसा मे नतजनवरवितरणकृतकामे (अभि) दमघोषसुतो न तु परिणयता- मनघे तव मां परिचरणयतां (अभि) विपदावलिपरिहरणे निपुणं मम ते पदमुरुकरुणे शरणं (अभि) याचित्वैवं भवानीमथ विधिवदिमां पूजयित्वा च भक्त्या निष्क्रान्ता सा निजाळीकरनिहितकरा नम्रकम्राननाब्जा । क्षोणीन्द्रान् क्षोभयन्ती दिशिदिशि निभृतं लोकयन्ती चरन्ती भान्तं हन्तालुलोके मदनमिव तदा मूर्तिमन्तं भवन्तम् ॥ २५५॥ तामथ स चारुतरतामरसनेत्रां कामशितबाणशतकामहतगात्राम् । लोकयति भूमिपतिलोक इह मोदा- न्नाथ रथमाशु च निनेथ गतखेदम् ॥ २५६॥ ((१)सम्बुद्धिः । (२)लिङि रूपम् ॥) देव सहसैव बलदेवसहकृत्वा रुग्मिणमनीकमपि तिग्मयुधि जित्वा । स्वीयमुपनीय महनीयमथ गेहं तामजित तात कृतवानसि विवाहम् ॥ २५७॥ बालां वी(व्री)ळाकुलां तां कथमपि च विधायोक्तिभङ्ग्या विधेया- माधायाङ्के तु पङ्केरुहनयन सम(मा)लिङ्ग्य कम्राङ्गवल्लीम्म्(म्)। वीक्षं वोक्षं च चुम्बन्मुहुरपि चिबुकं प्रोन्नयन्नाननाब्जं पायं पायं च रागाधरमधु भवान्नैव तृप्तिं प्रपेदे ॥ २५८॥ सत्राजिन्न ददौ स्यमन्तकमहो जातु त्वयाप्यर्थितं तद्भ्राता मृगयारतो वनमितो धृत्वा प्रसेनो मणिम् । सिंहोऽमुं हतवान्मणौ पिशितधीः सिंहं न्यहन् जाम्बवान् रत्नं चाधित बालके मणिहरं त्वामेव लोको जगौ ॥ २५९॥ कृष्णो बाल्येऽप्यमुष्णाद्दधिघृतनवनीतांशुकाभीरनारी- र्भौजङ्गं शाङ्ङ्ख(ङ्ख)चूडं वसु पुनरघुना भीष्मकन्यां समक्षम् । रत्नं चाप्येष एव क्व पुनरपसरेन्मानसे वासना सा तस्मादस्माभिरस्मिन्निह निवसति रत्नादि यत्नेन गोप्यम् ॥ २६०॥ ((२५९)पिशितधीः = मांसभ्रमवान्) आक्रुष्टो निखिलैर्भवानिति ययावाकृष्टसेनो वनं शङ्कां पङ्कजलोचन व्यपनयन्वीक्ष्य प्रसेनं हृतम् । गत्वा जाम्बवतो गुहामिह शिशुं रत्नं च दृष्ट्वोद्यते हर्तुं तत्तदवेक्ष्य सम्भ्रमवशाच्चुक्रोश धात्री भृशम् ॥ २६१॥ अथ कोपवता द्रुतमापतता हृदि भूमिसुतापतिमावहता अनुभाववताधिकभाववता बत जाम्बवता जघटे भवता ॥ २६२॥ उद्यावनसंहरणे परमं ननु कारणमीश भवन्तमिमम् । स परं पुरुषं पुरुषं हि परं हृदये कलयन् विधे समरम् ॥ २६३॥ शल्यघनपट्टसपरश्वधकृपाण- प्राससृगशक्तिमुखशस्त्रनिकरेण । ग्रावतरुबाहुचरणैरपि स च त्वं विव्यधतुरव्यथमथान्तरिततत्त्वम् ॥ २६४॥ ((२६१)आक्रुष्टो निन्दितः । धात्री उपमाता ॥) ((२६२)भूमिसुतापतिः श्रीजानकीरमणः ॥) अष्टयुतविंशतिदिनानि समसत्त्वं शिष्ट रणमादधतुरिष्टद स च त्वम् । मुष्टिशतपिष्टहृदवेत्य तव तत्त्वं पुष्टरति सोऽवदत तुष्टहृदपि त्वम् ॥ २६५॥

केदारगौडरागेण गीयते । एकताळेन वाद्यते ।

त्वामवकलये परमयि पुरुषं भूभरहृतये यदुकुलजनुषं पल्लवम् । श‍ृणु गिरमज नन्दन भक्तिमतां परम हरे रामसहायमितां (श‍ृणु) यो हरिमर्कज (१)मतनुत बन्धुं वनभुवि मुरहर वन्दे तं त्वां (श‍ृणु) यो बालिनमनुपमबलवन्तं हतवान्मुरहर वन्दे तं त्वां (श‍ृणु) यो महति रणे दशवदनं तं न्यवधीन्मुरहर वन्दे तं त्वां (श‍ृणु) ((१)हरिमर्कजं = सुग्रीवम् ॥) योऽकृत सिन्धौ नळकृतबन्धं सेतुं मुरहर वन्दे तं त्वां (श‍ृणु) नवनैरलमलमधुना भवता किमिति समागतमिह जगदवता (श‍ृणु) मयि मणिमूलं कृतमभिशापं कपिवर विनुदन्विलमिदमापं (श‍ृणु) क्रियतामभिमतमयि मम तरसा भवता हरिवर पुरुतरतरसा (श‍ृणु) श्रुत्वा जाम्बवतेति ते निगदितं दत्तां जगन्मोहिनीं धृत्वा जाम्बवतीं मणीमपि विभो त्वन्मुष्टिपिष्टं हरे । स्पृष्ट्वाङ्गं सरुजं करेण विरुजं कृत्वा स्मयावाहिना गत्वाधा रमणीं गृहे वरमणीं सत्राजितेऽदा मुदा ॥ २६६॥ सवा(त्रा)जितापत्रपयोपसर्पता सवा(त्रा)जिता पात्रविदा समर्पिताम् । तां सत्यभामां सद्सी(दसी)ह सादरं त्वं सत्यभामासहितोऽप्युदूढवान् ॥ २६७॥ नीतामेतां सखीभिः कथमपि सविधं नम्रवक्त्रारविन्दां धूतां वातेन रम्भामिव तरळतनुं सम्भ्रमोद्भ्रान्तनेत्राम् । ((२६६)अधा, अदा इति लुङि रूपे ॥ (२६७)अपत्रपया सत्रा = लज्जया सह । सत्येन, भया, मया च सहितोऽपि ॥) बालां हेलाविधूताखिलविबुधवधूलोकहेवाकजालां रागावेशादगादीरनुनयसरसां शारदामादरेण ॥ २६८॥

शङ्कराभरणरागेण गीयते । एकताळेन वाद्यते ।

दयिते जनमिममयि ते परिजन- मिति परिकलय सुशीले सुशिथिलबाले शिथिलय चालं ह्रियमपि भियमपि बाले पल्लवम् । ननु भज भामे दृढतरकामं जनमिममनितरकामं (ननु) इयमाकुलता ननु वरतनु ते तनुते बत मम खेदं भवसि यदेवं रहसि च हृदयं विशरणमेव ममेदं (ननु) मुखमुन्नमय स्मितचन्द्रिकया परिहर मम परितापं ((२६८)हेवाकः श‍ृङ्गारविलासः । शारदा वाक् ॥) श्रुतियुगमयि मम निशमयितुं भृशकौतुकमिह पिकलापं (ननु) विहसितभृङ्गैर्विलसदनङ्गैः सकृदपि सुखयापाङ्गैः स्मरकृतभङ्गं सुदति मदङ्गं शिशिरय शिशिरैरङ्गैः (ननु) सुन्दरि सफलय हन्त रसं तव सुमधुरमधरसुधायाः मुखचुम्बनमुखयाचनया किमु मयि करुणाकरणीया (ननु) चिकुरो रुचिरो वदनं कमनं जघनं घनमपि वा ते निखिलावयवा मम मतिमबला- माकृष्य नयन्त्येते (ननु) मम भवती परमवलम्बो मम भवती वंशपताका मम भवती ननु जीवितमपि मम भवती मुखशशिराका (१)(ननु) ((१)मुखशशिनो राका पूर्णिमा । मुखप्रसादहेतुरिति यावत् ॥) मम भवती वरमण्डनमपि मम भवती भाग्यमनूनं मम भवती ननु जनिफलमपि मम भवती निधिरिह नूनं (ननु) मम भवती हृदि निर्वृतिरपि मम भवती दृगमृतधारा मम भवती परमिह सुहृदपि मम भवती सम्पदुदारा (ननु) नतमुखि दयिते जगदभिरामे जितकुसुमायुधरामे (१) द्रुतमनुकूला भव ननु भामे सुतनु मनोहरभा मे (ननु) वाचा व्रीळाविहस्तां कथमपि च रहस्तां विधेयां वितन्व- न्नाधायाङ्केऽङ्गमालिङ्ग्य च किमपि भवानास्यबिम्बं च चुम्बनम् । लोलापाङ्ग्या नताङ्ग्या भुवनकमनलावण्यवेण्या रमण्या साकं लोकाधिनाथाधिकरुचि भुवनैकाभिरामाभिरेमे ॥ २६९॥ इन्द्रप्रस्थाय पार्थप्रियकृदथ गतो यामुने काननान्ते कालिन्दीं लोभयन्तीं हृदयमुदवहत् खाण्डवानन्दिताग्निः । ((१)कुसुमायुधरामा = रतिः ॥ भूयः पैतृष्वसेयीं नृपसदसि भवान्मित्राव(वि)न्दामविन्द- ज्जित्वा सप्तापि सत्यामहृत वृषवरान्नग्नजिन्नन्दनां ताम् ॥ २७०॥ भद्रां तां भ्रातरस्ते ददुरधिकमुदा देव सन्तर्दनाद्या लक्षं तोयैकलक्ष्यं सपदि विदलयन् लक्षणामप्यवापः । इष्टाभिस्ताभिरष्टाभिरपि परिरमन् भौमचेष्टां स कष्टां श्रुत्वा भामासहायः स्मृतसमुपनतं तार्क्ष्यमारुह्य चागाः ॥ २७१॥ प्राप्य प्राग्ज्योतिषाख्यं पुरवरमधिकं दुर्गमं दुर्गवर्गैः कौमोदक्या गिरीन्दा(न्द्रा)नपि वरणगणं शस्त्रसार्थ शरौघैः । चक्रेणाग्न्यम्बुवायून्दृढतरमुरपाशावलीं नान्दकेन क्षिप्रं संहृत्य दध्मौ प्रसभमथ भवान् पाश्चजन्यं च धन्यम् ॥ २७२॥

भैरविरागेण गीयते । एकताळेन वाद्यते ।

मुखरं स्वदरं मुखशीतकरे न्यदधा दयितासहितो नु हरे । पल्लवम् । गरुडे व्यलसोऽथ रणं लषतां निनदेन भयं जनयन् द्विषतां ((२७०)सप्त वृषवरान् जित्वा नग्नजितो नृपस्य नन्दनां सत्यामहृत हृतवान् ॥ (२७१)भौमो नरकासुरः ॥) स निशम्य तदा निनदं निलया- दसुरोऽथ मुरोऽतिरुषा निरयात् मुखपञ्चकनिस्सृतानिस्वनितै- र्मुखरं भुवनं रचयन्नमितैः अभिपत्य दुरत्ययय(?)विक्रमवा- नभिपत्र्यं(त्र्य)(१)धिपत्युरुसार्थकवान् निशितत्रिशिखप्रमुखायुधवान् व्यकिरत्त्वयि पत्रिवरान् (१)बलवान् द्रुतमच्छिनदच्युत तद्विशिखान् निजपत्रिवरैरथ तीक्ष्णशिखान् व्यसृजच्च भवान्विशिखप्रवरान् (२)प्रसृतप्रतिघो युधि दीप्रतरान् अनवेक्ष्य तदाशु स पक्षिपतिं प्रति पक्षहतप्रतिपक्षततिं व्यसृजत्त्रिशिखं ज्वलदग्निशिखं व्यनदच्च दिशो दलयन्नपि खं त्वमिदं लघु पत्रयुजार्दिवा(र्दितवा)- नरिमप्यरिणाजित मर्दितवान् ((१)पत्रिणौ पतगाशुगौ । (२)प्रसृतप्रतिघः=उज्वलितकोषः(पः)॥) सबलेऽथ मुरे निहते बलवान् नरको रुषितः स्वयमागतवान् अधिरूढवतो युधि रूढमिभं(दं) सुदुरासदशूलभृतः प्रसभं त्रिशिखप्रहृतेः पुरतो हृतवान् गळतोऽस्य शिरोऽरिवरेण भवान् घातं नीतेऽतिघोरे नरक इह भवानस्य पुत्राय दत्वा राज्यं वाचा धरित्र्या भवसख भगदत्ताय गेहं प्रविश्य । कारागारे निरुद्धा निजपुरमनयत् (यो)द्व्यष्टसाहस्रनारीः स्वर्गं प्राप्यादितेः कुण्डलमदित जितेन्द्रोऽहरत्पारिजातम् ॥ २७३॥ भामारामे निधाय द्युतरुमुदवहो व्यष्टसाहस्रनारीः प्रीत्या च प्रत्यगारं विहितबहुवपुर्मेदयामासिथामूः । त्वद्रूपालोकनोद्यत्कुतुकसुरमुनीन्द्रातिविस्मापकैस्त्वं तैस्तैर्लीलाविशेषैः प्रतिनिलयमलं रोज(रेजि)षे रेमिषे च ॥ २७४। रुग्मिण्या प्रियया कदापि शयने प्रीत्या शयानो भवान् सूनुं ते सदृशं दिशेति सुदृशा नाथानया नाथितः । नूनं ते तनयं दिशामि गिरिशं देवं प्रसाद्याचिरा- दित्युक्त्वा पतगाधिपेन बदरीमागान्मुनीन्द्रावृताम् ॥ २७५॥ घण्टाकर्णोऽपि निघ्नन् मृगततिमितवान् सानुजन्मा सुजन्मा सानन्दं नन्दसूनो नरकहर हरे कृष्ण रामेति गायन् । आलोक्योपेत्य च त्वामवददतिमुदा भक्तलोङ्का(का)वतंसो भक्त्या मोमुद्यमानो भवसख स भवानप्यमुं भक्तबन्धो ॥ २७६॥

घण्टाररागेण गीयते । चम्पताळेन वाद्यते ।

पुरुषवर कुतो भवानिह कुतो यातवा- न्मम भवोऽद्य फलवान्ननु जातवान् पल्लवम् । सौम्य नुन साम्प्रतं भावमवलोक्य ते सम्मदो मानसे मम जृम्भते (सौम्य) त्वयि तु मम मानसं सजति पुरुषोत्तमे यदुकुलमणौ कृष्ण इव सत्तमे (सौम्य) ननु पिशाचकुलशेखर यदुकुलेऽभवं पापनृपपीडितामवितुं भुवं (सौम्य) किञ्चिदहमुद्दिश्य वीक्षितुं शङ्करं द्रुतमयाम्ययमखिलजनशङ्करं (सौम्य) भक्तजनसत्तम भवानपि च को नु वा त्वत्सविधवर्त्यसावपि च को नु वा (सौम्य) त्वामेव लोकितुं शिवपदाद् द्वारकां शिवसेवको यामि शिवदायिकां (सौम्य) जगति घण्टाकर्णनामधेया वयं भवति भक्ता विभो सोदरोऽयं (सौम्य) इत्युक्त्वोपायनाग्र्यं द्विजशवशकलं सानुजन्मा तवाग्रे नृत्यन् न्यस्य प्रमोदादुदितनिजतनोः पादमूले पपात । कारुण्यार्द्रः कराभ्यां वपुषि परिमृशन् दिव्यदेहौ दिवं तौ नीत्वा गत्वा च रूप्याचलमचलतरात्मा तपोऽतप्यथास्त्वम् ॥ सुस्मेरास्यं प्रसादाद्भुतविवशतरैर्विश्वदेवोपदेवै- र्भूतैः प्रेतैः पिशाचैरपि तमनुगतं शैलकन्यानुयातम् । नासान्यस्ताङ्गुलीकं त्वरितमुपगतं विस्मयोत्फुल्लनेत्रं व्यालोलाहीन्द्रहारं गिरिशमजित तुष्टोऽथ तुष्टोथ दृष्ट्वा ॥ २७८॥ हे देवदेव जय, हे वामदेव जय हे वातदेव जय, जय जय पुरारे शरदुदितशिशिरकररुचिरतररुचिविसर- सुभगतमतनुसुषम, जय जय पुरारे ((२७८)तुष्टोथ = त्वं स्तुतवान् ॥) तनुविततफणितते, पदविनतसुरपते भव गिरिश पशुपते, जय जय पुरारे मुक्तिपरभक्तजनचित्तमयभित्तिलिखि- तार्तिहरमूर्तिवर, जय जय पुरारे जय शर्वरीशधर, जय शर्व शूलधर जय सर्वदेववर, जय जय पुरारे नळिनसमनयन जय, नळिनशरदहन जय नवनपरभुवन जय, जय जय पुरारे आक्षेपवचनशर विक्षेपतरळतर दक्षेऽपकारकर, जय जय पुरारे विहितमहिततोषा तावकी तावदेषा तनुरनुपमशोभा कल्पितानल्पलोभा । मुहुरपि जनमेतं भूरिभक्त्या समेतं मुखरयति पुरारे चन्द्रचूड स्मरारे ॥ २७९॥

पाटिरागेण गीयते । एकताळेन वाद्यते ।

कलितनदीवरकपिशजटाभर- खचितनिशाकर पुरहर जय जय पल्लवम् । भवभयभञ्जन भव मृड जय जय फणिगणभूषण पुरहर जय जय (भव) लोकभयानकपावकलोचन- भासुरफालक पुरहर जय जय (भव) चिल्लीयुगळमतल्लीविदलित- वल्लीमदभर पुरहर जय जय (भव) भव निन्दितकुवलयमञ्जुळलोचन- नन्दितकुवलय पुरहर जय जय (भव) शुकतुण्डकमदभरखण्डकरुचि- मण्डितनासिक पुरहर जय जय (भव) बिम्बकदम्बविडम्बकडम्बर कम्रतराधर पुरहर जय जय (भव) युक्ताखिलगुणमुक्ताफलगण- मुग्धामलरद पुरहर जय जय (भव) हालाहलरसहेलाकबळन- काळामलगळ पुरहर जय जय (भव) भुजगवरान्तरभृशतरदन्तुर पृथुलभुजान्तर पुरहर जय जय (भव) परशुमृगाभयवरदविराजित- मृदुलभुजालत पुरहर जय जय (भव) चलदलदलकुलरुचिभरहृतिपर रुचिरतरोदर पुरहर जय जय (भव) अजिनपरावृतजघनभरादृत फणिरशनाशत पुरहर जय जय (भव) मदकुञ्जरकमदभञ्जनकर- मञ्जुतरोरुक पुरहर जय जय (भव) त्रिभुवनलोभनरुचिभरभाजन- शुभतरजानुक पुरहर जय जय (भव) मदननिषङ्गाधिकभङ्गावह- मृदुजङ्घायुग पुरहर जय जय (भव) नळिनायुधनळिकादृतगुळिका- यितमृदुगुल्फक पुरहर जय जय (भव) कमठकुलाग्रगकलहसदाग्रह कमनपदाग्रक पुरहर जय जय (भव) सुजनाशयसुजलाशयसुखशय- चरणकुशेशय पुरहर जय जय (भव) गिरिजापाङ्गावलिरङ्गायित- निखिलाङ्गाञ्चित पुरहर जय जय (भव) शारदनीरदनिकरनिकार (१)द- रुचिररुचीभर पुरहर जय जय (भव) विनमज्जनसुखरसविनिमज्जन विसृमरसज्जन पुरहर जय जय (भव) त्वदीयानाममेयानां गुणानामनुवर्णनात् । परमेश विभो को वा विरमेत् परमाद्भुतात् ॥ २८०॥

कानक्कुरिञ्ञिरागेण गीयते । चम्पताळेन वाद्यते ।

सकलशमलहरणनिपुणपदपराग ते नमोऽस्तु कमनचरणकमल पशुपते नमोऽस्तु ते पल्लवम् । शारदाम्बुदोपमाङ्ग चारुचन्द्रखण्डचूड चारणादिवन्द्य पशुपते नमोऽस्तु ते प्रपदरुविभिरधिकसुभगचरणकटक ते नमोऽस्तु शरधिसदृशजङ्घ पशुपते नमोऽस्तु ते (शार) ((१)निकारः अवमानः ॥) भुवन सुभगबहळसुषमजानुयुगळ ते नमोस्तु सुलळितोरुयुगळ पशुपते नमोऽस्तु ते (शार) जघनविलसदजिनकलितभुजगरशन ते नमोस्तु भुवनभवनजठर पशुपते नमोऽस्तु ते (शार) तरळबहळभुजगसुभगबाहुविव(वी)र ते नमोऽस्तु गरळगहनकण्ठ पशुपते नमोऽस्तु ते (शार) स्वकरविलसदभयवरदपरशुहरिण ते नमोऽस्तु भुवनकमनवदन पशुपते नमोऽ स्तु ते (शार) अधररुचिभिरधिकरुचिरमृदुलहसित ते नमोऽस्तु महितमधुरवचन पशुपते नमोऽस्तु ते (शार) नयननळिनयुगळविगळधिककरुण ते नमोऽस्तु भुजगकमनकर्ण पशुपते नमोऽस्तु ते (शार) विहितमदनदहननिटिलनयनदहन ते नमोऽस्तु शिरसि लसितसोम पशुपते नमोऽस्तु ते (शार) तुहिनशिखरिदुहितृसततलसितसविध ते नमोऽस्तु निगमनिवहवर्ण्य पशुपते नमोऽस्तु ते (शार) एवं देव स्तुतोऽसौ सपदि पशुपतिः पाणिना पाणिपद्मं सामोदं संस्पृशंस्ते सरसमिति जगौ सस्मितं विस्मितात्मा । प्राप्यं किं पूर्णकाम प्रणतवरद ते नूनमेनां तपस्यां शस्यां तस्यातनोर्मे नयनहुततनोरुद्भवायातनोस्त्वम् ॥ २८१॥ रुग्मिण्यां ते रमण्यां द्रुतमजित भवेदङ्गजन्माङ्गजन्मा प्रद्युम्नो नाथ नाम्ना य इह विशसिता शम्बरं सङ्गरान्ते । उक्त्वैवं कोरकीकृत्य स करकमलं मूर्ध्नि पुष्टावधानं विश्वोत्कृष्टापदानं पुररिपुरपि तुष्टाव तुष्ट्या भवन्तम् ॥ २८२॥

कुरिञ्ञिरागेण गीयते । चम्पताळेन वाद्यते ।

जगदुदयभृतिविलयरचनमयविहतिचय- रतहृदय विततदय विजयसख जय विभो पल्लवम् । जगति के यदुपते निरवधिकगुणतते नुतिविधावीश ते किमपि पुनरीशते (जग) खरकिरणमदहण(हरण)खरकिरणगणशरण- रथचरणधरणचण विजयसख जय विभो (जग) शरणगतकृपणजनमरणभयहरणभृश- निपुणमृदुचरणयुग विजयसख जय विभो (जग) प्रणतसुरशरणवर कृपणनरभरणकर धरणिभरहरणपर विजयसख जय विभो (जग) ((२८१)अतनोः = कामस्य । अतनोः = कृतवान् ॥) निगमनुतनिजचरितलसदमृतरसमुदित- बहुसुकृतमुनिविनत विजयतख जय विभो (जग) जलवि(धि)पतिदुहितुरतिसुखविहृतिसुभगतर- विपुलवरभुजविवर विजयसख जय विभो (जग) वलमथनमणिकिरणम(मद)मथनरुचिसदन- भृशकमनसदपधन(१)विजयसख जय विभो (जग) स्तुया(त्या)त्वामन्त्र्य तुष्टं पुरमिह शिपिविष्टोऽतितुष्ट्या प्रविष्ट- स्तूर्णं दुर्वर्णशैलात्त्वमपि निजपुरं श्रीसुपर्णाधिरूढः ! रुग्मिण्यै वर्णयामासिथ तदथ मुदं साप चाजीजनस्त्वं भार्यास्वार्यासु भूयो दश दश सुकुमारान् कुमारानुढ़ा(दा)रान् ॥ २८३॥ प्रधु(द्यु)म्नः सूतिधाम्नः प्रथम इह सुतः शम्बरेणाम्बुराशा- वस्तो प्रस्तो झषेण प्रददुरथ झषं शम्बरायाशु दाशाः । तुन्दे भिन्नेऽस्य दैत्याधिपवचनकरी वीक्ष्य मायावती तं प(पु)त्रं ते कृत्यमूढा सुरमुनिवचनात् प्रेषयामास गूढम् ॥ २८४॥ ((१)अपघनोऽङ्गम् । (२८३)दुर्वर्णशैलात् = रजतगिरेः । (२८४)दाशः = मीनग्राहीः तुन्दं = अट(जठ)रम् ॥) -- हत्वाजौ शम्बरं शं वरमिह जनयन् पत्तनं त्वत्तनूजः प्राप्तो रत्याथ पुत्रीमथ समुदवहद्रुग्मिणो रौग्मिणेयः । पौत्रीमस्यानिरुद्धोऽप्यवहदथ रुचा रोचनां रोचमानां भ्रात्रा तत्रान्तरे ते हत इह सहसा द्यूतवैरेण रुग्मी ॥ २८५॥ जातु स्वप्नानुभूतं निशि निजनगराच्चित्रलेखोपनीतं शुद्धान्तेऽत्यन्तमोदं समुषितमुषया बाणबाणैर्निरुद्धम् । श्रुत्वा तत्रानिरुद्धं कलहरुचिमुनेर्निर्गतो मित्रवर्गै- स्त्र्यक्षेणारक्षितं शोणितपुरमरुणो दारुणो रोषभावात् ॥ २८६॥ घोरोऽभूत्सम्प्रहारो मुरहर तब वा तावकानां च ताव- त्साकं बाणेन बाणाननवधि किरता तद्भदैरुद्भदै(टै)र्वा । भस्मीकर्तुं बलं ते व्यवसितमनसा भूतभर्त्रापि भूतैः शर्वं तं सर्वभूतैरपि सह सहसैवाजयो वासुदेव ॥ २८७॥ सन्तोषादथ हन्त भवन्तौ सन्ततमानतलोकमवन्तौ । धन्यावूचतुरन्योन्यं ते सैन्यविराजिरणावन्यन्ते ॥ २८८॥ ((२८६)त्र्यक्षेण = परमेश्वरेण । अरुणः = निरूद्धवानासि ॥)

माळवगौडरागेण गीयते । चम्पताळेन वाद्यते ।

तव हरे माया ममापि हृदि मोहदा यदजितं जेतुमहमीहे भवन्तं यदुवर यथाभिमतमखिलजगदुदयलय- पालनविधानेन हन्त विहरन्तं पल्लवम् । विजयपरहृदय जय सकलेश पशुपते भव हर वृषाकपे सत्प्रभोमापते (विज) स्मरति न तु लोक इह मोहितो मायया तव चरणमिदमखिलजनसेवनीयं विषजति च विषयेषु विरतिविरसेष्वमृत- मपहाय विषमेव बत सेवतेऽयं (विज) द्वारमपवर्गगमने पुनरपावृतं बत चिराद्भवमवाप्यापि नरलोके विषयेषु विषजति हि यो मूढमारूढ- पतितमिह सन्तो वदन्ति तमनेके (विज) अविनीतमपनीय दूरमवनीयमवनीये (१) ति विरचितो नियतमवतारो ((१)अवनीया = रक्षणीया) भवता तु पदपदितभवतापभरहरण- भरितादरेण धरणावयमुदारो (विज) बाणोऽयमधिकमविनीतोऽपि भवतो न विशसितुं समुचितो विबुधकुलवैरी नतपरायण मया खलु पुरा ननु मुरान्तक वितीर्णाभयो मम तु परिचारी (विज) तरुणेन्दुचूड करुणाम्बुधे मम च पर- मनुमतैव भवता वागभिहितेयं पुरहर पुरा विरोचनकुलोदित- मिह न विशसिताहमिति संश्रुतमिदमहेयं (विज) मदभारहरणाय तव चरणसेविनो- व्यदलयममुष्य पृथुभुजनिकायं ननु सखे पशुपते परमतो बलिसुतो धृतचतुर्भुज एवं जगति भवितायं (विज) समतत्ववेदितरि सर्वस्ववितरितरि चैतस्य पितरि यद्वदयि मम दासे सम्मदो ननु मनसि जृम्भते शश्वदपि तद्वदिह तस्य तनयेऽपि तव दासे (विज) न च मूतिर्न च जरा न च कुतोऽपि च भयं न च पराभवकथाप्यस्य न नु भूयात् (विज) महितेषु निखिलेषु निजकेषु भृतकेषु परमेष परमेश नियतमपि भूयान् (विज) त्वां जगति यो भजति मामपि च यो भजति तावुभावपि गिरिश तव मम च दासौ निखिलगुणवारिधे निरुपमयशोनिधे नामसु भिदां विना का नौ भिदासौ (विज) अन्योन्यं तौ प्रसन्नाविति किमपि हसन्तौ भणन्तौ भवन्तो यान्तौ स्वं स्वं निशान्तं निजनिजभृतकैरुल्लसन्तौ नितान्तम् । निध्यायाथानिरुद्धं सह च दयितया हन्त ते बन्धुता सा मग्ना सम्मोदसिन्धौ मुरमथन यथा नष्टमासाद्य रत्नम् ॥ २८९॥ प्रद्युम्नाद्याः कदाचित्सरसमुपवनं प्राप्य सङ्क्रीडमाना दैवादालोक्य बालाः कमपि च सरटं हन्त कूपेऽन्धरूपे । उन्नेतुं ते न शक्ताः कृतविविधनयास्त्वां जगुस्तामवस्थां गेहात् प्रस्थाय वेगात्सरसमुदनयो विप्रशापार्दितं तम् ॥ २९०॥ (सदयमुदनयो) तव भास्वत्करस्पर्शाद्राजन्राजा कराम्बुजम् । ((२९०)सङ्क्रीडमानाः । ``क्रीडोऽनुसम्परिभ्यश्चे॑' श्चे''त्यात्मनेपदम् । सरटः = कृकलासः ॥ (२९१)कळङ्कं तु जहाविति प्रसिद्धचन्द्रा(?)त्प्रकृतस्य राज्ञो व्यतिरेकः ॥) अयं कोरकयन् स्वीयं कळङ्कं तु जहावहो ॥ २९१॥ श्रुत्वा वार्तां तदीयां तदनु तदुदितां तं नृहंसं नृगं त्वं सद्यो नाकं निनेथाजित सुकृतवतामग्रिमेष्वग्रगण्यम् । आकर्ण्योदीर्णमोदाद्भुतविवशतरांस्तच्चरित्रं विचित्रं प्रीत्या भृत्यानभाणीः परममिह हितं बोधयन्माधवामून् ॥ २९२॥

आहरिरागेण गीयते । एकताळेन वाद्यते ।

श‍ृणुतादरतो बत नृगनृपते- रुपदेशपरं सुमहितचरितं बहुमतिरिह का मादृशदाने स्मृत इह महिते नृगनृपदाने पल्लवम् । न हरत न हरत धृतमोहभराः महिसुरवसु किमपि च लोभपराः (नह) नाकादिकभोगादिकसुकृतं शोकाय फलावसितौ नियतं अर्पितमिदमिह मयि बोधमये मुक्तिदमिति कलयत यूयमये (नह) ((२९२)नृहंसं = नरश्रेष्ठम् ॥) तिष्ठतु निखिलं पुरुसुकृतततौ द्विजशापेन विपन्नृगनृपतौ अपि जनिता किं पुनरितरनरे किञ्चिदनार्जितसुचरितनिकरे (नह) अज्ञानापतितौ(ता)गौरेतौ भूसुरनाथौ भृशमनुनीतौ सुचरितजलनिधिरवनीपाता (१) तदपीदृशविपदिह बत जाता (नह) कृकलासकता जगति निकृष्टा कृपयैप(व?)तयोरजनि विशिष्टा क्षितिसुरजनता सुरतरुसमिता मुदिता कुपिता हुतवहसमिता (नह) विप्रधने पुनरज्ञानहृते दोषोऽयमियान्धीपूर्वहृते क्वचिदपि कथमपि न समाधानं कलयत तदिदं मिळदवधानं (नह) हेहयराडपि भूरिविमोहा- ((१)अवनीपाता = राजा ॥) म्न(न्न?)नु स पुरा खलु भूसुरमाहां (१) बहुमतसचिववचा बत हृतवान् नृपकुलमखिलं लघु संहृतवान् (नह) अजरयदशनैर्गिरिजो हि विषं दुर्जरमखिलैर्ब्रह्मस्वविषं दहति हि विषमिह परमदनकृतं (२) ब्रह्मस्वविषं कुलमपि नियतं (नह) द्विजवसु यदि दुरनुज्ञापहृतं पुरुषत्रयमातनुते पतितं यदि पुनरिह बत बलतोऽपहृतं दश पूर्वान् दश च परान्नियतं (नह) दुरितेरितमतिरिह यो हि पुमा- निजकरदत्तां द्विजवृत्तिमिमां स्वयमेवापहरेदपि च मितां शकृति भजेत स शिव शिव कृमितां (नह) यावद्रेणुसिचो मुखजाततते- रश्रुकणा धरणौ द्रविणहृतेः ((१)माहा = गौः ॥ (२)अदनकृतं परं = भक्षकं केवलम् ॥) तावद्वर्षशतं द्रविणहरो निपतति कुम्भीपाके स नरो (नह) महिसुरविततावपराधकरो महिताधिधरो धरणिपनिकरो गदविधुरो भवति च गतसुकृतो विकलतरायू रिपुनृपविजितो (नह) विप्रियमिह कल्पयति प्रयता विप्रसभा जगति हि विप्रकृता क्षिप्रमसावप्रतिममनल्पं तत्परिचरतानिशमविकल्पं (नह) द्रोढुं प्रौढगुणान्महीसुरगणान्मा मा भवन्तो मना- गीहन्तां मनसापि हन्त शपतो वा निम्न(घ्न)तो वा क्रुधा । एते जातु कृतापराधविधयोऽप्याराधनीया जनै- भू(र्भू)देवेषु निकारकृन्मम भुजादण्डोऽपि खण्ड्यो भवेत् ॥ २९३॥ मत्काः(त्का)मत्कामसम्पादननिरतधियो निग्रहेऽनुग्रहे वा दक्षानक्षामवीर्यानविरतमपि नन्दन्तु निन्दन्तु नामून् । ((२९३)द्रोढुं = द्रोग्धुम् ॥ (२९४)मत्काः = मदाश्रिताः । अञ्चनीयान् = पूजनीयान् । मङ्क्षु = व्र(द्रु)तम् ॥) किं चैतानञ्चनीयान् प्रसभमपि यदा हन्त निन्दन्ति मन्दाः शापात् तत्कोपजातात् कुलमपि च तदा मङ्क्षु वो नङ्क्ष्यतीदम् ॥ २९४॥ दुर्वादानुद्वमन्तौ पितृपति भटयोस्तुल्यतामुद्वहन्तौ भूदेवावावहन्तौ भयमखिलनृणां रूक्षमालोकयन्तौ । भूपेनानेन यद्वत्प्रसरदपदकोपान्वितौ सान्त्वितौ तौ तद्वन्नूनं भवन्तोऽप्यवनिसुरजनान् सन्ततं सान्त्वयन्तु ॥ २९५॥ नित्यं मर्त्यजनेन तावदमुना वन्धा हि वृन्दारका लोकेशो गिरिशोऽपि तैरविरतं वन्द्यौ तयोरन्वहम् । वन्द्योऽसावहमादरेण च सदा वन्द्या मया भूसुरा- स्तद्वन्द्या भवताममी न खलु चेद्दण्ड्या भवन्तो मया ॥ २९६॥ आबोधयन्निति हितं वचनैरुदारै- रामोदयन्मृदुलहाससखैरपाङ्गैः । आवासमाप च भवान्नृगधर्मजात- मामोददयि वदता स्वजनेन साकम् ॥ २९७॥ गोपीलोकेन साकं तदनु विहरमाणे मदान्धे वनान्ते काळिन्द्यां कामवा(बा)णेन च विवशमतौ कामपाले कदाचित् । व्याहिंसीर्वासुदेवं तव सदृशतनुं पौण्ड्रकं काशिपं वा कृत्यां विद्राव्य काशीपतिसुतमदहत्सालयं ते रथाङ्गम् ॥ २९८॥

मुखारिरागेण गीयते । एकताळेन वाद्यते ।

धरणीरमणीयमणी रमणीरुपनीय वनी (१)रज रैवतके मदनेन मदेन च मूढमना मुसली स सलीलमिहारमत विविदोऽपि विभो विपदं विदधन्नरकानुचरो नगरे च गृहे स तदा तु गतोऽजित रैवतकं समलोकत तं सहयौवतकं अबला हि विलोक्य कपिं विटपं चलयन्तमलं बलवन्तममुं अहसन्नथ सोऽप्यवरुह्य तरोरहरत्सुरनाथ सुराकलशं उपलेन बलेन बलेन बली निहतोऽमुमवञ्चयदेष जवी स मदी समदीदृशदीश गुदं हलिनं ललनाकुलमध्यगतं स तु सम्मुखचिल्लिनिरासमुखैः स्वकृतैरथ नाथ निकारशतैः प्रततप्रतिघस्य पुरो हलिनो व्यभिनत्तरसा च सुराकलशं शसितुं बलतो बत गर्द्धितवान्मुसलं सहलं सहसोद्धृतवान् विविदोऽपि विभो तरुमुद्धृतवान् बलमूर्द्धनि ताडितवान् बलवान् सहसा स हली सहलीलममुं स्वहलेन हरे समरे हतवान् ससुनन्दहतोऽथ बलेन जवात्तदिहागणयन् द्रुममभ्यमधात् अपि तं कुपितोऽप्यभिनन्मुसली विपिनं विदधे विविदो वितरुं प्रहृतासु शिलासु हृतासु हली समताडि करेण हरे हरिणा ((१)रमणीः वनीः उपनीय = स्त्रियो वनं प्रापय्य ॥) विधुतायुध आशु करेण हरे प्रहरन् प्लवगं स च जत्रुतले नरकानुगमेव विभो विदधे विरुजं विततान च विश्वमिदम् । साम्बं जाम्बवतीसुतं स कुरुभिर्बद्धं बलो द्वारकां निन्ये हस्तिनपत्तनादथ भवान् सर्वैः सहार्कग्रहे । तीर्थाग्र्यं समन्तपञ्चकमगात्स्नात्वा च वित्तान्यदात् सर्वैर्बन्धुभिरावृतः सुखमुवासात्रैव मासत्रयम् ॥ २९९॥ आभीरीर्विधुराः पुरेव रमयन्नासां च बोधं दिश- न्नाश्वास्याथ गिरा पुरीवरमयात्तातं निजं याजयन् । श्रुत्वा मागधरुद्धभूपविपदं सद्यो यियासुर्भवा- निन्द्रप्रस्थमवाप्य नारदगिरा पार्थैश्च सम्भावितः ॥ ३००॥ भीमाद्यैर्भवता विजृम्भितबलैर्भूपान्विभोऽजापयो वाचा धर्मभुवोऽथ मागधमया भीमार्जुनाभ्याममा । धृत्वाशु द्विजरूपमस्य सविधं गत्वा तु तेनार्चितो युद्धं तावदयाचथाः स च तथेत्युक्त्वा गदामाददे ॥ ३०१॥

शङ्कराभरणरागेण गीयते । एकताळेन वाद्यते ।

स हि तां सहसादित मारुतये सहितां सहसा परिगृह्य परां ((३०१)अजापयः जयतेर्णिचि रूपम् । अयाः = गतवान् ॥) समरोचित भूमिमतो गतवान् सवृकोदरशक्रसुतोऽपि भवान् प्रथितौ भुवि मागधवायुसुतौ युधि तौ कुशलौ दृढबाहुबलौ कुपितौ तरसाथ मिथो घटितौ द्विरदौ समदाविव घोरगदौ विधृतोरुरती विवरावगमे विविधं च विचेरतुरत्र रणे विटपस्य विपाटनयारिवधे विदधाथ नयं विबुधेश मृधे तदवेत्य निपात्य मरुत्तनयो विनिवेश्य तदीयपदे स्वपदं निजपाणियुजा परमस्य पदं कलयन्नभिनद्गुद्तो(दतो)बत तं अमुना समुदा तरसा दलिते जरसा तु पुरा तरसा घटिते व्यथिता जनता शकले खलु ते सकला समलोकत लोकपते परिरभ्य वृकोदरमीश भवा- न्विजयोऽपि विभो निकटं गतवान् अधिकं मदयन्नति सम्मदवा- नपि तं भगवन्नभिनन्दितवान् भीमेनेति जरासुते युधि हते तेनैव सम्पाशितान् भूपानाशु विपाश्य भक्तिविवशानाशास्य मुक्तिं मुदा । तत्पुत्रं च जगत्पतेऽथ सहदेवं तत्पदे कल्पयन् गत्वा तु प्रकृतं वितानमतनोस्त्वं राजसूयाभिधम् ॥ ३०२॥ कृत्वा तास्ताः क्रियाश्च त्वयि खलु विदधे धर्मजन्मा सुजन्मा तामग्र्यामग्र्यपूजां सह स तु सहदेवेन कार्यं विचार्य । तुष्टं चाशेषभूतं बत तदसहमानोऽथ मानी सभायां प्रोद्यत्प्रोद्यामरोषश्रवणकटु वचो दामघोषिर्व(र्ब)भाषे ॥ ३०३॥

नाट्टरागेण गीयते । चम्पताळेन वाद्यते ।

नादेय (१)मपि च नरदेवमपि सहदेव- मधिकजळबुद्धिमपि धिग्धिगेतान् ((३०२)सम्पाशितान् = बद्धान् । विपाश्य = विमोच्य ॥ (३०३)दामघोषिः = शिशुपालः ॥) ((१)नान्दे(नादे)यो भीष्मः ।) तापसानपि मुदितमानसान् भूसुरान् विनयभरभासुरान् धिग्धिगेतान् पल्लवम् । अपचितिं विरचितामनुचिततमां कथमेष विषहेत दमघोषजनिरिमां (अप) शिशुनायकं युवतिनायकं बहुनायकं वृद्धनायकं धिग्धिगेतत् अपि राज्यतन्त्रमपि च भवतां व्यवसितं नियतमिह दुर्धियां धिग्धिगेतत् (अप) अपि सति सभाजने सुमहति सभाजनं (१) युक्तमिदमस्मिन्नसत्तमे किं जातिहीने गुणैरपगते निष्क्रिये युक्तमिदमस्मिन्नसत्तमे किं (अप) वरमातुलाहितवधे लोकबाह्ये च युक्तमिदमस्मिन्नसत्तमे किं कैतवाहितलतिरूपे विरूपके युक्तमिदमस्मिन्नसत्तमे किं (अप) ((१)सभाजनं = पूजनम् ॥) निष्किञ्चने निष्परिग्रहे निष्कळे युक्तमिदमस्मिन्नसत्तमे किं विहितवृषसंस्थे पृथग्जनकृतार्चने युक्तमिदमस्मिन्नसत्तमे किं (अप) कुलयुवतिचारित्रविध्वंसनोत्सुके युक्तमिदमस्मिन्नसत्तमे किं यत्स्मरणमपि हन्त परमसुखदायकं युक्तमिदमस्मिन्नसत्तमे किं (अप) वचसालमपचितिं न खलु गोपहतके शिशुपालनरपाल इह सहेत (अप) कर्णारुन्तुदमस्य वाक्यमशनैराकर्ण्य दीर्णाशया कर्णौ हन्त पिधाय साधुजनता तूर्णं ततो निर्ययौ । नासौ किञ्चन सञ्चचाल च भवान् पश्चाननोऽयं यथा गोमायोरथ निस्वनं निशमयन् भूमातिरेकास्पदम् ॥ ३०४॥ दुर्वादानुद्वमन्तं परुषतरमिति स्वासनादुत्थितं तं क्रोधोद्भ्रान्तेक्षणान्तोदितदहनकणोद्योतविद्योतिताशम् । पश्यन् पार्थन्निवार्य त्वरितमथ भवान् कालचक्रेण चक्रे लूनग्रीवं निलीनं त्वयि च तदुदितं धाम वेगास्त्रि(त्त्रि)धामन् ॥ ३०५॥ कारुण्यात्ते समाप्ते महति मखवरे विश्वलोके विसृष्टे सन्तुष्टे वित्तवृष्ट्या जयजयवचनोद्घोषिताशेषलोके । भूपोऽभूत् पूर्णकामो मयरचितसभामाप्तवान् धार्तराष्ट्रो बभ्रामाथस्थ(धस्त)लाम्बुभ्रमविवशतरोऽसावसूयाकुलात्मा ॥ ३०६॥ पार्षदीमुखसरोरुहे तदा मारुतेरपि मुखे समुत्थितम् । वीक्षितैर्हसितमेधितं व्यथा(धा) बीजभूतमवनीभरक्षतौ ॥ ३०७॥ समायातः साल्वो विजयमभिकाङ्क्षी तव मुदा स मायातः सौभेन तु पुरमभाङ्क्षीदपि तदा । स मानी प्रद्युम्नो यदुभिरमुनायुध्यत बली समानीकामोदं दददुपगतस्त्वं च सहली ॥ ३०८॥ साल्वोऽसौ युध्यतस्ते धनुरजित कराग्रात् किलाभ्रंशयद्रा- ङ्मायातातस्य घातं व्यधित तव पुरो मोहयित्वा किल त्वाम् । सौभं शम्भुप्रसादोदितमथ गदया क्षोभयित्वा भवांस्तं चक्रेणोत्कृत्तकण्ठं मुरहर गदया दन्तवक्रं च चक्रे ॥ ३०९॥ ((३०९)युध्यमानस्येति तु न्याय्यम् ॥) द्रौपद्यास्त्वं रुदत्या वसनमनवसानं व्यतानीः सभायां द्यूते जाने कुरूणां मृडजनुषि मुनावन्धसोऽन्ते क्षुधान्धे । भोक्तुं प्राप्ते वनान्ते द्रुपदनृपसुताचिन्तितोऽभ्येत्य शाकं भुक्त्वामुं तृप्तमाधाः कुरुनगरमगा हन्त कौन्तेयदूतः ॥ ३१०॥ श्लाघ्ये वाक्ये त्वदीये बत कुरुपतिना धिक्कृते तत्क्षणात्त्वं विश्वात्मा विश्वरूपं सदसि विशदयन् पाण्डवागारमागाः । विष्णो जिष्णोर्नियन्ता खलनिवहनियन्ता भवानित्थमूचे पार्थं बुध्वाथ युद्धाल्लघु विरतमतिं सोऽप्यवादीद्भवन्तम् ॥ ३११॥

गाम्बोधिरागेण गीयते । एकताळेन वाद्यते ।

त्यज सुमुखाकुलभावं-कृष्ण दृढतरमावह भावं रणविरतिर्महिपानां-कृष्ण कथमुचिता महितानां तत् त्यज युधि सन्देहं -कृष्ण तिष्ठ न बत मन्देहं रणविधिरतिपृथुबाहो-कृष्ण ((३१०)मृडजनुषि मुनौ = दुर्वासासे(सि)। अन्धसः = अन्नस्य ॥ (३११)नियन्ता = सारथिः ॥) सुनियतमतिशुभवाहो गुरुजनहृदि विशिखानां - कृष्ण निकरं निशितशिखानां प्रहराम्यपगतशङ्कं -कृष्ण कथमजिताहितपङ्कं विसृजन् गुरुजनघातं-कृष्ण विपिनमितो मुनिजातं मदयन्निह निवसेयं- कृष्ण मदुदितमिदमवसेयं प्रियसख हत इह को वा-कृष्ण त्रिजगति हन्ता को वा रहितो विकृतिभिरात्मा-कृष्ण सचराचरभूतात्मा बाल्ययुवत्वजरा वा-कृष्ण देहे स्युरिह यथा वा तद्वन्मृतिरपि सेयं -कृष्ण भवतेति व्यवसेयं (१)विसृजन्वसनं जीर्णं-कृष्ण ((१)``वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ भगवद्गीता ।) नवमयति यथा तूर्णं तद्वदसाविह देही-कृष्ण देहान्तरमतिमोही भजति यदीह तु देहं --कृष्ण त्यजतीदमसन्देहं व्यसनं विसृज स तत्त्वं - कृष्ण कलयन्मनसि स तत्वं प्रियसख विधुतविशङ्कं - कृष्ण रणमिह विगतकळङ्कं धर्ममिदं कुरु राज्ञां -कृष्ण सौम्य विधेहि ममाज्ञां महितार्थगभीरेण परमार्थतरेण च । वल्गुना वचनेनाधाः फल्गुनं प्रथनोत्सुकम् ॥ ३१२॥ दुर्वारे वाहिनेये प्रतिदिनमयुतं वाहिनीशे नृपाणां सङ्घे संहर्तरि क्ष्माभरहतिसहकृत्वन्यघृष्णौ च जिष्णौ । त्यक्त्वा निश्शस्त्रतागून्त्वरितमथ रथादुत्पतन्नात्तचक्रो व्याधावन् क्रोधभारादिव नतशिरसं वीक्ष्य तं विस्मितोऽगाः ॥ ३१३॥ ((३१३)वाहिनेये = भीष्मे । अयुतं संहर्तरीति ``न लोके'' त्यादिना षष्ठीनिषेधात् द्वितीया । निश्शस्त्रतागूं = निश्शस्त्रताप्रतिज्ञाम् ॥) द्रोणे नाथे चमूनामिभगतभगदत्तास्तमुग्रं निजास्त्रं वत्से धत्से स्म चक्रावृततरणिमहा घातयन् सिन्धुराजम् । कर्णास्ते पन्नगास्त्रे भुवमवनमयन्मौलिमात्रावकृत्तं कृत्वा चात्रायथास्त्वं विजयमिह न किं पाण्डवार्थे चकर्थ ॥ ३१४॥ तीर्थस्नायी रणादौ मुसलभृदविशन्नैमिशं तत्र सूतं हत्वानुत्थायिनं तस्य च तनयमथो तत्पदे कल्पयित्वा । व्याहिंसीत्पल्वलं पर्वणि विहतमखं भैमदुर्योधनेऽगा- ज्जन्ये तन्मन्यमानो दुरुपशममयात्वन्निशान्तं च शान्तः ॥ ३१५॥ संसुप्तद्रौपदीनन्दनहननकरं द्रौणिमेत्यामुनास्तं ब्रह्मास्त्रं सञ्जहर्थ त्वरितमहृत पार्थश्च तन्मौलिरत्नम् । अस्त्रे सन्तानमन्तं गमयितुमुदरं प्राप्तवत्युत्तराया आविष्टोऽङ्गुष्ठमात्रो मुरहर तरसापालयो बालमेतम् ॥ ३१६॥ धर्मान् धर्मात्मजायाथ स समुपदिशन् देव देवव्रतोऽग्रे वीक्षं वीक्षं भवन्तं वपुरिह विजहद् ब्रह्मभूयं बभूवे । ((३१४)सिन्धुराजो जयद्रथः ॥ (३१५)भैमदुर्योधने = भीमदुर्योधनयओः(योः)सम्बन्धिनि ॥ (३१६)देवव्रतो भीष्मः । ब्रह्मभूयं = ब्रह्मसायुज्यम् । बभूवे = प्राभवतिः प्राप्त्यर्थक आत्मनेपदी ॥) विश्वाग्र्यैरश्वमेधैस्त्रिभिरमलयशोभाजनं याजयित्वा भूपं तं पूर्णकामं स्वपुरमथ भवानाप्तवानाप्तकामः ॥ ३१७॥ दारिद्र्योद्रेकनित्यार्दितनिजदयिताप्रेरितो भूरितोषं वेगात्तेऽगादगारं पृथुकमथ कुचेले कुचेलो दधानः । आमोदादच्युतालोक्य तमिह सहसैवाच्युतामेयभक्तिं भूदेवं पूजयित्वा सरसमचकथः शारदामादरात्त्वम् ॥ ३१८॥

भैरविरागेण गीयते । चम्पताळेन वाद्यते

गुरुगृहान्निजगृहानुपगतोऽथ सुदृशं किमु सखे पुनरुदवहोऽतिसदृशं पल्लवम् । स्वागतं भवतु तव तापसशिखामणे साम्प्रतं ब्राह्मतेजोऽनलमहारणे (१)(स्वा) स्मरसि किल मानसे वयसि खलु शैशवे किमसि गुरुमन्दिरे स्थितिमयि कवे (स्वा) गुरुवधूशंसनादानेतुमिन्धनं ((३१८)अचकथः = अकथयः ॥) ((१)ब्राह्मतेजोऽनलस्य महानराणिस्तस्य सबुद्धिः ॥) क्वचिदहनि वयमिता घोरविपिनं (स्वा) जलमुचो ववृषुरपि रविरपरपर्वतं बत गतो जगदजनि तमसावृतं (स्वा) अन्योन्यमस्माभिरयि कलितबाहुकं वन्यासु बत परिभ्रान्तमधिकं (स्वा) उदितवति दिवसकृति गुरुरिदं विदितवान् विपिनमितवान् वचनमिति गदितवान् (स्वा) प्राणाननादृत्य दुःखिता मत्कृते यूयमिह बत वने केसरिवृते (स्वा) महिततरशुभवतां प्रभवतां हि भवतां भवतां मनोरथो लघु सफलतां (१)(स्वा) एतानि गुरुकुले रचितानि चरितानि भवता किमयि सखे विस्मृतानि (स्वा) उक्त्वैवं पटखण्डतोऽस्य पृथुकं हृत्वा भवानादराद् भुक्त्वा मुष्टिमितं च तुष्टिमितवान् भूतिं ददौ भूयसीम् । भक्त्या तृप्तमनाः स च स्वसदने स्वर्गोपमे संस्थित- स्त्वध्यानोद्भुतविश्वपापविसरो मुक्तिं शनैराप्तवान् ॥ ३१९॥ ((१)सफलतां भवतां = प्राप्नोतु ॥) लक्ष्मीकान्तं नितान्तं मुदमिह भजतामावहन्तं वहन्तं कारुण्यं कान्तिमन्तं जगदवनकलालोभवन्तं भवन्तम् । अश्रान्तं ये भजन्ते पशुपकुलवधूवल्लभं ते लभन्ते शान्तिं किं चाप्तवन्तः पदमपि परमं तेऽरमन्ते रमन्ते ॥ ३२०॥ आचार्यात्मभवाहृतेर्निशमनाजा(ज्जा)तस्तुहां मातरं सूनूनामवलोकने मृतवतां पण्णां विषण्णाशयाम् । पाताळादुपनीय तानतितरां दामोदरामोद्यो(दयो) भूयोऽमूननयो विभो निजपदं पुत्रान्मरीचेः पुरा ॥ ३२१॥ देवाथ श्रुतदेवमेत्य मिथिलां प्रीत्या महत्या द्विजं धात्रीशं बहुलाश्वमप्ययि भवानायोजयन्नाययौ । अत्रागाद्विजयो द्विजस्य रुदितं श्रुत्वाश्रवं चातनो- नानेष्ये यदि बालकं शलभतां नेध्ये(ष्ये)तनुं पावके ॥ ३२२॥ त्रातेऽप्येतेन पोते मुरहर शरकूटेन जाते विनष्टे सर्वत्रान्विष्य मोघोद्यममनलनिपातोद्यतं तं निवार्य । साकं तेनाधिरूढो रथवरमरिण(णै)वान्धकारं निरुन्धन् गच्छन्निन्धानवेगं निजनगरमगाः कालनाभाभिधानम् ॥ ३२३॥ दीव्यद्दिव्यास्त्रभूषं महितभुजगभोगे निषण्णं प्रसन्नं दीव्यन्तं नारदाद्यैरकृतकवचसामर्थमेकं निगूडम् । ((३२२)आश्रवः प्रतिज्ञा ॥ (३२४)अकृतकवचसां = श्रुतीनाम् ॥) स्वा(त्वा)मेव त्वं पुराणं पुरुषमुपनिषत्सुन्दरीबृन्दवीतं काळाम्भोदाभिरामं कृतनतिरिति तुष्टोऽथ तुष्टोथ दृष्ट्वा ॥ ३२४॥

कानक्कुरिञ्चिरागेण गीयते । चम्पताळेन वाद्यते ।

जय जय रमारमण जय जय जगत्पते जय जय धरारमण जय जय सुरपते पल्लवम् । जय जय जनार्दन मुरार्दन दयालो जय जय जनार्चितपदाब्जपतयालो (१)(जय) जय जय जगन्निवहपालनाकुलमते जय जय भुजङ्गशयनाहितरते (जय) जय मकुटतटघटितमणिविजितदिनपते जय नयनयुगळधृतनळिनवितते (जय) जय कमनतरवदनजिततुहिनदीधिते जय नासिकातुलिततिलसुमतते (जय) जय दशनवसनरुचिरुचिररदसंहते जय मकरकुण्डलोदितरुचितते (जय) जय लळितगळतलोल्लसितकौस्तुभमणे जय गदार्यम्बुरुहकम्बुपाणे (जय) ((१)पदाब्जपतयालुः भक्तः) जय विपुलभुजविवरविततहारावले जय जठरकुहरगतभुवनपाले (जय) जय नाभिनळिनगतशतधृते नरहरे जय जघनवीतपीताम्बर हरे (जय) जय चरणसरसिरुहयुगसततनतयते जय सजलजलदवरसदृशद्युते (जय) प्रणुवन्तमिति प्रणयाकुलितं प्रणमन्तमरं प्रमदातिभरम् । प्रभवन्तमलं स भवन्तममुं प्रजगाद भवान् प्रततातिमुदा ॥ ३२५॥ हे वत्स कृष्ण भृशमस्मदभिन्नरूपौ हे वत्स फल्गुन युवां परमाभिरूपौ । विश्वशिनौ भुवनलोभनवेषरूपौ निश्शेषपापजनताधिकदुर्निरूपौ ॥ ३२६॥ आलोकितुं कुतुकवन्त इमौ भवन्ता- वालोभनीयचरितौ पृथुवीर्यवन्तौ । आनीतवन्त इह हन्त वयं तु पोता- न्मत्पोषितान्नयतमेव निकेतमेतान् ॥ ३२७॥ एवं सस्नेहमुक्त्वा मुदितमति वितीर्णानुदीर्णोरुमोदा- नादायानीय चामूनयि मुरहर तीर्णप्रतिज्ञार्णवेन । सख्या विख्यातधाम्ना पृथुकुतुकवता दारकान दापयित्वा भूदेवं पूर्णकामं सपदि समतनोर्वासुदेवादिदेव ॥ ३२८॥ सोऽयं देवावतारो जगति विजयते यत्र पापौघहारै- रेवं नानाविहारैर्जगदभिरमयन(न्)व्यावधानो वितानान् । तैस्तैस्तांस्तानुपायैः स्वपदमुपतयन् संहरं भूभरं त्वं ब्रह्मैवाखण्डमङ्गीकृत मनुजतनुर्व्यतो(र्व्यद्युतो)द्वारवत्यां तपस्तत्वा(प्त्वा)दैत्यो वृक इह गिरा नारदमुने- र्वरं लब्ध्वा शम्भोश्शिरसि करमाधाय निधनम् । तमेवाधावन्तं बत वरपरीक्षार्थमशनै- रुपायेनाहिंसीस्त्वमपि भुवनोत्कृष्ट महिमा ॥ ३३०॥ सरस्वत्यास्तीरे प्रकृतयजनैस्तापसजनै- स्त्रयाणां देवानामधिकमिह विज्ञातुमजित । भृगोर्नुन्नस्योग्रां रुषमबहुमानादभजतां विधीशौ त्वं प्रापः प्रमदमपि तत्पादहननात् ॥ ३३१॥ त्वत्तातोऽलब्ध बोधं कलहरतमुनेर्द्वारकैकाधिवासा- न्नष्टप्रायेऽथ साम्बाद्यविनयजनिताद्ब्रह्मशापाद्यदूनाम् । सैन्ये भूभारभूते स्वपदजिममिषुं त्वां विदित्वा कृतार्थं विश्लेषार्त्त्योद्दवोऽभाषत तमपि भवान भक्तलोकैकबन्धो ॥ ३३२॥

सामन्तमलहरिरागेण गीयते । एकताक्रेन वाद्यते ।

स्वकुलं मुरहर सकलं हृतवान् स्वपदं सपदि गभी किमुत भवान् मुनिशापमिमं मुदभुपगतवान् विभुरपि यदिहाजित न विहतवान(न्) पल्लवम् । यदुवरनयनोद्धव स(म)म ताव- न्मानसमिह सुमहिततापं (यदु) उपनय निजपदमपि जनमेतं मुरहर निरुपमभावसमेतं क्षणमपि विरहं तव मम चेतो न तु बत सहते यदुकुलकेतो (यदु) मम तावदिदं भवताभिहितं प्रियसख हृदये परमभिलषितं अपि विबुधततेरधुना नियतं मम निजपदगतमेवानुमतं (यदु) मुनिशापोदितकलहमनूनं कुलमपि मङ्क्षु विनङ्क्ष्यति नूनं स्वजने विजहत्प्रेम विमर्शी मयि कृतमतिरिह चर समदर्शी (यदु) प्रणयं बन्धुषु बन्धनहेतुं विषयी विभुरिह नाथ न हातुं तदहं तव पदपल्लवमेतं शरणमुपैमि भवोदधिपोतं (यदु) द्रुतमशुभततेरुद्धव सुकृती स्वयमेव स्वमिहोद्धरति कृती आत्मन आत्मा गुरुरखिलानां सविशेषं हि सखे मनुजानां (यदु) प्रत्यक्षादनुमानादपि ते मर्त्या यन्निजहितमादधते अविदितपूर्वं बहुमतिपूर्वं यदुमिदमवधूतोममपूर्वं (यदु) भागवतोऽनिशमपि च भजन्मा विषयविरक्तिमुपैति सुजन्मा उपगतवानिह विषयविरक्तिं पुरुशमवानुपयाति विमुक्तिं (यदु) के भागवता इति भुवनपते बोद्धाहं नतहितलोलुप ते गदितं भवदाननगळितमृतं तृप्यति को नु पिबन् गळदमृतं (यदु) बोध्यबोधनवैदग्धीधारयामवधारय । उद्धवाधिकपुण्याब्धे भक्तशेखर मे गिरम् ॥ ३३३॥

आहरिरागेण गीयते । चम्पताळेन वाद्यते ।

ननु सखे मनुजवपुरतिचिरान्मुक्तिद- मनित्यमपि दुरवाप्यमनघाप्य मयि रतो जगति यो निखिलभूतेषु मद्भाव- मुद्भावयति भागवतवर एप निगदितो पल्लवम् । बहुधिषण ननु विबुधवरगणशिरोमणे अवदातमहितनय यदुकुलशिखामणे (बहु) मयिमहितहार्दमपि भक्तेषु सौहार्द- मपि सततमज्ञेषु परमकरुणार्द्रतां यो विपक्षे पुनरुपेक्षाञ्च वितनुते भागवतमध्यमोयमिति हृदि बुध्यतां (बहु) अपचितिं मम तु यो वितनुते प्रतिकृतौ परमसौ प्राकृतो भागवत ईरितो नळिनभवमुखविबुधनमसितात् क्षणमपि न चलति वैष्णववरो मम चरणयुगळतो (बहु) प्रणयगुणनद्धोऽहमुद्धव न यद्धृदय- मुज्झामि विद्धि तं भागवतसत्तमं अखिलमपि मायेति यो निखिलभूतेषु समदृगयि विद्धि तं भागवतमुत्तमं (बहु) धुतपातकानि भृशपावनानि मम नामानि गायन्नयन् भुवनानि स पुनाति क्वचन मम चिन्तया मोदते क्वचन रो- दिति हसति गायति स तनुभृतो विनमति (बहु) मनसैव मम रूपमभिरूपमधिकसुख- रूपमापीय स तु मुदितोऽनवरतं जातुचन लोचने विनिमील्य विपिने विधावन्न स्खलेन्न च पतेत्सुनियतं (बहु) मायया न विचलितमानसं सर्वदा मयि रचितलालसं सुकृतचयसागरं भागवतमनुयामि पादरजसा सखे पावयितुमात्मानमहमपि च सादरं (बहु) मन्मतिर्वेदितुं तव महितमायां हि मायिनामपि हृदयमोहिनीमीहते त्वामृते (१)हितमिह रमापते सरसमिति बोधयितुमीश के जगति पुनरीशते (बहु) निर्गुणे निर्मले ब्रह्मणि जगद्भ्रमो मम तु मायेति भवतोद्भव विबुध्यतां ((१)त्वामृते इत्यपाणिनीयम् ॥) कलुषितो बत यया कर्माणि काम्यानि निर्माति लब्धवानपि हृदि विशुद्धतां (बहु) निजविहितकर्मफलमनुभवन्निह भवपयोनिधौ भ्राम्यति सुखेतरं शुभमते स(त)न्मनुजतां गतो मुक्त्यै यतेत खलु विषयसुखामिह सखे सर्वतो जायते (बहु) अन्यथा निजशुभाशुभकर्म जानितानि तानि तानि बत देहान्तराणि विवशं समवाप्य शिव शिव भवाप्ययावाप्रळय- माप्नुयादाप्यायितार्तिभरमनिशं (बहु) स्थूलमतिरधिजगति नाथ कथमतितरति देव तव महिततरमायां विलोभनी- मिह पुनरर्हामि शिक्षितात्माभिरधोक्षज तरितुमपि मायिनामपि विमोहिनीं (बहु) मायाया मामिकायास्तरणसुनिपुणोपायसारेषु सारं त्वामद्धा बोधयाम्युद्धव महितमते गोप्यमप्यादरेण । भक्तो भृत्यो ह्यमात्यस्सुहृदपि च वयस्योऽपि शिष्योऽपि मे त्वं किं किंवा देशिकोऽसौ न पुनरुपदिशेदीदृशे शिष्यलोके ॥ ३३४॥

केदारगौडरागेण गीयते । एकताळेन वाद्यते ।

विधानायेह सौख्यानां विघातायापि दुःखानां अहो लोके प्रवृत्तानां गृहैः कृत्यैः प्रमत्तानां सखे को वा विलोकेथाः विपर्यासो विषण्णानां सदाराणां सदा नॄणां सरागाणामशेषाणां पल्लवम् । महामाया ममामेया सखे दानवैः महामोहावहा सर्वैरविज्ञेया तथा देवैः (महा) धनं धान्यं गवां जालं कदम्ब(म्बं)बान्धवानां वा गृहं देहं वधूवृन्दं नृणां मोदं कियन्तं वा नितान्तं चञ्चलं कुर्यात् कृतान्तास्यं प्रपन्नानां यथा लोके वधार्हाणां वधस्थानं प्रपन्नानां (महा) त्रिलोकीचारुरूपां वा विवेकी दारुरूपां वा प्रमादाज्जातुचिन्नारीं न पादेनापि स्पृशेद्यो वा सुखे स्वल्पे दुरावेशात् परामृश्याश्नुते बन्धं करेणूनां करी स्पर्शे दुरावेशाद्यथा बन्धं (महा) निशाम्यैनां महामायां ममामेयां विमूढात्मा तदीयानां विलासानां तदैवायं विधेयात्मा मया हन्तोपभोग्येति प्रलोभाद्वञ्चितो देही पतेच्चाधो गताधारः पतङ्गोऽसौ(ग्नौ)यथा मोही (महा) अतो नारीपिशाचीं नो सुरूपां रूपयेदेनां व्यलोकीयं दुराशा चेद्विमोहिन्येव लोकानां न विद्याभिर्विजेतव्या विवेकेनापि योगैर्वा धनौघैर्वा तपोभिर्वा तथान्यैरप्युपायैर्वा (महा) दृशा कामान्ध्या(न्धया)वश्यं विमूढात्मा दुराशायां सुखभ्रान्त्याधिसर्वस्वे सजत्यस्यां महेळायां वसामांसासृगादीनां समाहारे नरो लोके वधूपिण्डेऽप्यहो मोहीर्नखैर्दन्तैर्दुरालोके (महा) मुखं पूर्णेन्दुसङ्काशं स्तनौ पीनौ घनौ यूनां नितम्बो वानुभोग्योऽयं सखे सम्पूर्णभाग्यानां नरो रंरम्यते चैवं शकृन्मूत्राधिकक्लिन्ने सुबीभत्से श्ववन्मांसे सुदुर्गन्धत्वमापन्ने (महा) अलं निन्द्यं यदत्राङ्गं रतिस्तत्रैव मर्त्यानां सखे पश्येह मायायाः प्रभावं त्वं विमूढानां महेळानामहो सङ्गात्तथा तत्सङ्गिनां सङ्गा- द्यथा बन्धो यथा पीडा तथा नैवान्यतः सङ्गात् (महा) सखे सङ्गं वितन्यान्नो नृणां शिश्नोदरेहाणां सतां सङ्गो निधेर्लाभो विधेयः कामधेनूनां खगा रात्रिश्चरा दैत्या मृगा वृत्रादयो वान्ये सुदुष्प्रापात्सतां सङ्गाद्रमन्ते मत्पदे धन्ये (महा) वधूसङ्गं विधूयालं सखे तत्सङ्गिसङ्गं वा स्मृतिर्मे कीर्तनं नाम्नां मदर्थे सर्वचेष्टां वा सदा भूतेषु मद्भावं मदात्मत्वेन वा ध्यायन् चरन्मत्कानिमान् धर्मी(र्मां)स्तरेन्मायामिमां नूनं (महा) ये केचिन्न जितेन्द्रिया ननु जनाः कामाभिभूताशया लोकेशन्न भजन्ति हन्त हृदये भान्तं भवन्तं विभो । ये तेषां बत काम्यकर्मनिरतानां का समाप्तिर्नृणा- मेतद्बोधविधौ मतिर्मम तु वैकुण्ठेयमुत्कण्ठते ॥ ३३५॥

घण्टाररागेण गीयते । एकताळेन वाद्यते ।

प्रियसख मुखबाहूरुपदो मे वर्णा जाता ननु पूर्वमिमे तदपि च केचन मां न भजन्ते निवसन्तं निखिलजनहृदन्ते पल्लवम् । निरा(श)मय संशयविसरविदारं निगदितमिदमतिविशदमुदारं (निश) अयि मयि विमुखा ये खलु सुमते कथमपि सविधगता अपि मम ते निपतन्ति च शिव शिव निजपदतो निन्दितयोनौ बत नियतमतः (निश) कर्मत इह पर ईश्वर इति नो कोऽपि भवेदिति नियतात्मानो जगति गृणन्तो बहु कर्मगुणान् छलयन्ति च ते बत सूरिगणान् (निश) धनकुलविद्यादिभिरुदितमदाः कामक्रोधवशा जगति सदा विहसन्ति च बत कर्मसु विरता- निह सन्ततमपि ते मयि निरतान् (निश) मुहुरपि विलपति बत नियताक्षं मुरहर मधुमथनेति समक्षं गूहितुमयमिह निन्दित चरितं विहसन्त्येवमिमे मयि निरतं (निश) विसरतरैरिह हरिहरचरितै- र्विफलतरैर्मुहुरनुगदितैः अधुनेह विधेयशतं विफलं प्रलपन्त्यबुधा इति ते सततं (निश) एवमिमे शिव शिव भागवतान् कर्मपरान् मन्मयभोगरतान् मामपि बत जगदन्तनिदानं विहसन्त्यलमिह महिमानं (निश) अतिलोभपरा धनमेव हृदि निदधत इह निधनैककरं अपभोजनदक्षिणमविधानं कथमपि ते विधति(विदधति)वितानं (निश) प्रणयाकुलितान् परिचयमसृणान् । विशसन्ति पशूनपि ते कृपणान् निजसुखलाभे विनिहितधिषणै- रसुकरमिह किं नृभिरपकरुणैः (निश) अविगळकुचसदृगीश्वर इह तत् निजकर्मैव फलावहमेतत् इति कथयन्तो विहसन्ति च तान् मयि ते तु निवृत्तिपथैकरतान् (निश) घृतकर्मततेर्मयि विवृतमतेः सुखमिह यदुदयति तदिदं क्वचिदपि किमुतोदयते बत कर्मिण उरुविषयैकरतेः (निश) विषयैकरता व्यसनैकनिधौ पतिता बत ते जनिमृतिजलधौ मयि खलु विमुखा हन्त दुरन्ते कर्मरता न तु पारमयन्ते (निश) भाषन्तेऽखिलमानुषा हि विषयानापद्गणानां पदं सेवन्तेऽपि च सावधानमतयो हा ``हन्त रागान्धिताः । अश्रान्तं श्वखराजवत्परममी, श्राम्य(य)न्ति दुःखावहा- नुद्भ्रान्ताः सुखलेशलोलुपतया नाथैतदेवं कथम् ॥ ३३६॥

गाम्बोधिरागेण गीयते । पञ्चकारिताळेन वाद्यते ।

इह विवेकविरहितस्य हृदि यदोदये- दविनयादनात्मनि दृढमात्मधीरये लघु तदा मनो भजति रजोऽतिदारुणं प्रियसखापि महितसत्त्वगुणविभूषणं पल्लवम् । देवमुरुमुदानयातिकुशलशुभमते पादविनतभक्तलोकवृषभ यदुपते (देव) विषमतररजोऽभिभूतमनसि मानवे विषयविविदिषापि तदवगमनमपि भवेत् विषयचिन्तयाथ काममद्ग(दग)जो भृशं बत विजृम्भते विश‍ृङ्खलं निरङकुशं (देव) विविधमपि च काम्यकर्म कामवशगतो विवशहृदयमनिशमपि वितनुते ततो व्यसनदमिदमिति विदन्नपि रजसन्धितो विसृजति न तु विषयसुखदुराशयान्वितो (देव) ध्यायतो हि विषयनिवहमेव मानसं जायतेऽधिविषयविसरमुदितलालसं ध्यायतोऽमुमनिशमादरेण मामये लीयतेऽलमिह मयि खलु परमसुखमये (देव) जननमरणजलधिमखिलसुकृतपरिणते तरितुमुदितरसभरेण नरवरेण ते स्मरणमरणपदजुषा कथन्नु तन्यते वदतु ननु तदयि भवान्यदीश मन्यते (देव) सावधानमयि सखे श‍ृणुष्व (१)निर्मलं ध्यानसारमेतदखिलभुवनमङ्गलं आदरेण नरवरो यताचरणरतो मामकीनपदमुपैति महितमचिरतः (देव) आसने समेऽङ्कनिहितबाहुरास्थितो नासिकाग्रनिहितदृगथ विजितमारुतः ऊर्ध्वनाळमष्टदळहृदम्बुजं सुखं चिन्तयेदमूर्ध्ववदनमित्यधोमुखं भानुसोमदहनमण्डलानि मयि रतो भावयेदुपर्युपरि च कर्णिकाग्रतो मां प्रसन्नतरमुखारविन्दकन्दळं मन्दहासमनलमण्डले स्मरामलं (देव) ((१)आत्मनेपदं निरङ्कुशत्वात् ।) पादकटकभासुरतरपादयुगळकं पीतवसनवीतजघनशोभिरशनकं वत्सलसितवन्यदामहारवरकुलं निस्तुषाभकौस्तुभातिशोभिगळतलं (देव) दरगदारिकमलकलितशोभकरतलं मकरकुण्डलाभिरामगण्डमण्डलं अधरकान्तिमिळितलळितदन्तसमुदयं भुवनकान्तलोचनान्तवान्तपुरुदयं (देव) बालसोमसमितफालशोभितिलककं जातरूपमयकिरीटजातसुषमकं नीलनीरदोपशोभिनिखिलतनुलतं तेजसापहसितमिहिरहिमकरायुतं (देव) सावधानमिति विचिन्त्य सकलमङ्गकं ध्येयमेतदेकमेकमपि ममाङ्गकं तत्र लब्धपदमिदं विकृष्य हृदयमये मन्दहाससखमुखाब्ज एव सज्जयेः (देव)

इन्दळरागेण गीयते । पञ्चकारिताळेन वाद्यते ।

समवधारितं किं त्वया सखे सकलवेद्यसारं मयोदितं जगति विद्यते नामुतोऽधिकं किमपि वेदितव्यं विवेकिनां किमु मनोनिलीनं तवाधुना गहनमोहरूपं तमो गतं विमलबोधरूपो विभाकरो (१) मनसि चोदितो हन्त किं तव न च तथा प्रियो मे पितामहो न च रमापि नो राम एव वा न च महेश्वरो नो सुरेश्वरो न च सखे ममात्मा यथा भवान् सकलतापभारापहारकै- स्तव विधो (२)विभो गोनिकायकैः मयि तु संस्थितं मोहसंज्ञितं गमितमीश नाशं तमोऽखिलं विदितवानिदं त्वन्मुखोदितं लषति (३)वेदितव्यान्तरं किमु अमृतमापिबन् किं नरोऽपरं मुरहरेह पातव्यमीहते ((१)विभाकरः = सूर्यः । (२)विष्णो, इन्दो इति च । (३); इच्छति ॥) न तु शठाय वा दाम्भिकाय वा न तु खलाय वा नास्तिकाय वा मयि च भक्तिहीनाय वा त्वया न खलु हे सखे दीयतामिदं पुरुविरक्तये भूरिभक्तये लषितमुक्तये पूतसक्तये सुकृतसद्मने चामलात्मने सुमहितात्मने दीयतामिदं अधिवसन् भवान्विश्वपापहं बदरिकाश्रमं निश्शलाककं अनुचरन्निदं मन्मुखोदितं मम परं पदं लप्स्यते सखे इत्युक्तो भवतोद्धवोऽथ विसरन्नेत्राम्बुरुद्धाक्षरो वक्तुं किञ्चिदशक्नुवन्मुहुरपि त्वत्पादपद्मे पतन् । त्वद्रूपं हृदये निधाय गतवान् प्रेमाकुलो लोकयन् व्यावृत्यैष पदे पदे तव वपुस्त्रैलोक्यसम्मोहनम् ॥ ३३७॥ एवं धन्याप्रगण्ये गतवति शनकैरुद्धवे लब्धबोधे दृष्ट्वारिष्टं यदूनां विसरमथ विभासं प्रभासं प्रणीय विप्रानातर्पयोऽथो मधु मधुहर मैरेयमापीय जन्यं तन्वन्नुन्नैरकं तद्बलमजनि यदूनां भवन्मात्रशेषम् ॥ ३३८॥ ((३३८)नुन्नैरकं -क्षिप्ततृणविशेषम् ॥) तीरे वारामधीशस्य स मुसलधरो योगमास्थाय देहं तत्याजालोक्य तद्द्रागखिलजनमनोलोचनानन्दधाराम् । मूर्तिं स्वां त्यक्तुकामः स्वयमपि च भवान् भूमिभारापहारा- दानन्दन्नन्दसूनो वरद चलदलस्याविशन्मूलदेशम् ॥ ३३९॥ व्याधो विव्याध पादे जर इति जगति ख्यातनामा त्रिधामन् क्षिप्रं ते विप्रशापप्रभवमुसलशेषप्रणीताशुगेन । त्वत्पादे निष्पतन्तं भयवशमतनोन्निर्जरं तं जरं त्वं तावत् प्रापद्भवन्तं व्यथितमतिरथो दारुको द्वारकायाः ॥ ३४०॥ तार्क्ष्येणाक्षीणशोभः सपदि तव रथस्तूत्पपातोत्पताक- स्तद्वीक्ष्याक्षामकौतूहलममुमबदस्त्वद्वियोगासहिष्णुम् । ज्ञातीनां सूत घातं वद मम पितरावावयोरप्यवस्थां न स्थेयं द्वारवत्यां ननु जलधिरिमां प्लावयेत्सप्तमेऽह्नि ॥ ३४१॥ मद्धर्मैर्मामुपेयास्त्वमिति निगदितेऽस्मिन् परिक्रम्य याते यान्तं विष्णो स्वधिष्ण्यं दरनळिनगदाचऋ(क्र)दीप्ताग्रहस्तम् । भास्वत्कोटिप्रकाशं परिहितनवपीताम्बरं नरि(नीर)दाभं देदीव्यद्दिव्यभूषं विलसितवनमाल्यं सुरास्तुष्टुवुस्त्वाम् ॥ ३४२॥ ((३४२)देदीव्यदित्यपाणिनीयम् ॥) संयोज्यात्मानमात्मन्यतिविशदधियां ध्यानगम्यां रमायाः काम्यां विश्वैकरम्यां त्रिभुवनजनतागीतकीर्तिं स्वमूर्तिम् । आदायागाः स्वधाम एकटनिजविभूत्या महत्या च भूत्या क्षित्या युक्तः सतोषे मृदुतळिमविशेषेऽथ शेषे स्म शेषे ॥ ३४२॥ स्फायद्भक्तिभरेण नुन्नमनसा श्रीमानवेदाभिध क्षोणीन्द्रेण कृता निराकृत कलि ``र्ग्राह्या स्तुतिर्गाथकैः'' । लक्ष्मीवल्लभ कृष्णगीतिरिति विख्याता तवानुग्रहा- देषा पुष्करलोचनेह पठतां पुष्णातु मोक्षश्रियम् ॥ ३४३॥ केळीलोलमुदारनादमुरळीनाळीनिलीनाधरं धूळीधूमळकान्तकुन्तळभरव्यासङ्गिपिञ्छाञ्चि(ञ्च)लम् । नाळीकायतलोचनं नवघनश्यामं क्वणत्किङ्किणी- पाळीदन्तुरपिङ्गलाम्बरधरं गोपालबालं भजे ॥ ३४४॥ ((३४३)तळिमं = तल्पम् । शेषे = अनन्ते । शेषे स्म = शयितवानसि ॥) इति मानवेदन् विरचिता कृष्णगीति समाप्ता अथवा कृष्णनाटकं सम्पूर्णम् । श्रीकृष्णाय नमः । Proofread by Mohan Chettoor
% Text title            : Krishna Giti or Krishna Natakam of Manaveda Raja
% File name             : kRRiShNagIti.itx
% itxtitle              : kRiShNagIti athavA kRiShNanATakam (mAnavedan virachitA)
% engtitle              : kRRiShNagIti
% Category              : vishhnu, krishna, kRitI, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Manavedan, Zamorin Raja of Calicut
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Description/comments  : Text used for the dance drama Krishnanattam
% Indexextra            : (Scan, Info 1, 2, 3, 4, Videos 1, 2, 3, 4, 5, nAmAvalI)
% Latest update         : March 23, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org