श्रीकृष्णमङ्गलम्
मङ्गलं बालकृष्णाय दिव्यलीलाय मङ्गलम् ।
मङ्गलं नीलवर्णाय मातृमान्याय मङ्गलम् ॥ १॥
मङ्गलं रुक्मिणीशाय जगदीशाय मङ्गलम् ।
मङ्गलं यदुनाथाय दीननाथाय मङ्गलम् ॥ २॥
मङ्गलं देवदेवाय वासुदेवाय मङ्गलम् ।
मङ्गलं नन्दपुत्राय सदानन्दाय मङ्गलम् ॥ ३॥
मङ्गलं पूतनाहन्त्रे लीलामर्त्याय मङ्गलम् ।
मङ्गल शकटच्छेत्रे पद्मपादाय मङ्गलम् ॥ ४॥
मङ्गलं वत्सपालाय विश्वपालाय मङ्गलम् ।
मङ्गलं योगिमृग्याय गोपमित्राय मङ्गलम् ॥ ५॥
मङ्गलं बालगोपाय ब्रह्मविद्याय मङ्गलम् ।
मङ्गलं कमलाभर्त्रे गोपीकान्ताय मङ्गलम् ॥ ६॥
मङ्गलं मातृबद्धाय जडघ्नायास्तु मङ्गलम् ।
मङ्गलं क्रीडते स्त्रीभिः कुन्दारूढाय मङ्गलम् ॥ ७॥
मङ्गलं द्विषते क्रूरान् प्रियाक्रूराय मङ्गलम् ।
मङ्गलं वल्लवीभर्ने कंसघ्नायास्तु मङ्गलम् ॥ ८॥
मङ्गलं प्रीतभक्ताय विद्यावासाय मङ्गलम् ।
मङ्गलं मागधजिते द्वारकेशाय मङ्गलम् ॥ ९॥
मङ्गलं पार्थसुहृदे जितदैत्याय मङ्गलम् ।
मङ्गलं रुक्मिणीजाने रुक्मिणीशाय मङ्गलम् ॥ १०॥
मङ्गलं नैकरूपाय नरदैत्याय मङ्गलम् ।
पुत्रिणे नित्यरूपाय ब्रह्माचार्याय मङ्गलम् ॥ ११॥
मङ्गलं द्रौपदीड्याय मानदायास्तु मङ्गलम् ।
मङ्गलं प्रियभक्ताय भक्तपालाय मङ्गलम् ॥ १२॥
मङ्गलं दिशते कामान् विप्रप्रार्थ्याय मङ्गलम् ।
मङ्गलं शिष्टपालाय भारघ्नायास्तु मङ्गलम् ॥ १३॥
मङ्गलं मायिनेऽमायसारथ्यायास्तु मङ्गलम ।
मङ्गलं पूर्णरूपाय गीताचार्याय मङ्गलम् ॥ १४॥
मङ्गलं विश्वरूपाय योगिध्येयाय मङ्गलम् ।
मङ्गलं विश्वगुरवे कृपावासाय मङ्गलम् ॥ १५॥
मङ्गलं ज्ञानरूपाय सर्वाभिज्ञाय मङ्गलम् ।
मङ्गलं सर्वशक्ताय महासत्त्वाय मङ्गलम् ॥ १६॥
मङ्गलं दिव्यवीर्याय माहेश्वर्याय मङ्गलम् ।
मङ्गलं तेऽच्युता य सत्कुलत्राणाय मङ्गलम् ॥ १७॥
इति श्रीकृष्णमङ्गलं सम्पूर्णम् ।
Proofread by Rajesh Thyagarajan