श्रीकृष्णमुक्तकम्

श्रीकृष्णमुक्तकम्

उदेतु हृदयाकाशे मम हेरम्बभास्करः । उत्साहकमलोल्लासं कुर्वन् विघ्नहिमं नुदन् ॥ अभ्यर्थितः कमलजेन भुवोऽपनेतुं भारं बभूव वसुदेवसुतोऽद्भुताङ्गः । तातेन यो व्रजमनीयत कंसभीत्या कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ १॥ नन्देन नन्दनधिया किल रक्ष्यमाणो यः पूतनामनयदन्तिकमन्तकस्य । वात्यासुरं च शकटं तु पदा बिभेद कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ २॥ मात्रे प्रदर्श्य भुवनं विवृते निजास्ये गर्गेण नामनि कृते सह पूर्वजेन । जह्ने मनांसि चरितैत्रेर्व्रजवासिनां यः कृष्णोडवतात् स भगवान् हृदयस्थितो नः ॥ ३॥ दुश्चेष्टितेन बत संयमितो जनन्या पाशैरुलूखल उपासकलोकनिघ्नः । भङ्क्त्वार्जुनौ धनदजाववति स्म यो वै कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ४॥ गोवर्धनं गिरिवरं समुपेत्य वत्सान् सञ्चारयन् सहबलस्तदुपत्यकासु । यो वत्सदानवमहन् बकदानवं च कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ५॥ गोपाभिकानजगरोदरसम्प्रविष्टान् दृष्ट्वा स्वयं प्रसभमेत्य गळे प्रवृद्धः । प्राणैर्वियोज्य दितिजं स्वजनानपाद् यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ६॥ ब्रह्माणमाशु परिदर्शितयोगमायो योऽमूमुहत् कृतवयस्यकवत्ससङ्घः । प्रीतश्च यः सपदि संस्तुवते च तस्मै कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ७॥ पौगण्डकं वय उपेत्य मनोज्ञवेषो वृन्दावने तु पशुपैः सह चारयन् गाः । योऽहन् बलेन सह धेनुकदैत्यमुग्रं कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ८॥ क्रीडन् वने सहृदयैः सह गोपवेषं ज्येष्ठेन यः सपदि धातितवान् प्रलम्बम् । मुञ्जाटवीमुपगतोऽग्निभयादपात् वान् । कृष्णोडवतात् स भगवान् हृदयस्थितो नः ॥ ९॥ यः कालियस्य गरुडस्य कलिन्दजायाः कालुष्यमेकपद एव पदा जहार । वह्निं समन्तत उपागतमापिबद् यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ १०॥ यो यज्ञविघ्नकुपितेन्द्रनियुक्तमेधै- रुत्सृष्टवारिपरिपीडितमात्मनाथम् । गोगोपवृन्दमवितुं धृतवान् महीघ्रं कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ११॥ इन्द्रेण यो गतमदेन कृताभिषेको गोविन्द इत्यभिहितस्त्रिदशैस्समेतैः । नन्दं जलेशपुरनीतमुपानयद् यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ १२॥ यः पृष्टनन्दवचसा गतमर्त्यबुद्धीन् स्वस्मिन् यथार्थमवगन्तुमुदूढवाञ्छान् । आत्मस्वरूपमवबोधयति स्म गोपान् कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ १३॥ वृन्दावने चरति चन्द्रकराभिमृष्टे वेणुस्वनश्रवणमोहितवल्लवीभिः । रासोत्सवं व्यतनुताखिलमोहनं यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ १४॥ यः शङ्खचूडमवधीदबला हरन्तं व्योमं च गोपगणमद्रिगुहां नयन्तम् । नन्दं व्यमोचयदहेर्मुनिशापतोऽमुं कृष्णोडवतात् स भगवान् हृदयस्थितो नः ॥ १५॥ योऽहन्नरिष्टमसुरं वृषभाकृतिं स्वान् सन्त्रासयन्तमपि केशिनमश्वरूपम् । श्रीनारदोदितसमस्तमहापदानः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ १६॥ अक्रूरमागतमकृत्रिमभक्तिभाजं यो मानयन् सहबलो मधुरां प्रयातः । मार्गे प्रदर्श्य परमं महिमानमस्मै कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ १७॥ दुर्वादिनं रजकमाशु निपात्य कुब्जा - मृज्वीं विधाय च सुदामकवायकाभ्याम् । दत्त्वा वरं सपदि यः प्रबभञ्ज चापं कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ १८॥ हत्वा गजं झटिति रङ्गगतः सराम- श्चाणूरमुष्टिकमुखान् विनिहत्य मल्लान् । कंसं गुरुद्रुहमहन् सह सोदरैर्यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ १९॥ कृत्वा च बन्धनगतौ पितरौ विमुक्तौ नन्दं विसृज्य सह बन्धुजनैव्रजाय । मातामहं यदुकुलस्य पतिं व्यधाद् यः कृष्णोडवतात् स भगवान् हृदयस्थितो नः ॥ २०॥ गर्गात् कृतोपनयनो व्रतमास्थितो यः सान्दीपनिं गुरुमुपेत्य गृहीतविद्यः । तस्मै मृतार्भकमदाद्घृतपाञ्चजन्यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ २१॥ आश्वास्य गोपवनिताजनमुद्धवेन गत्वा गृहं रमयति स्म वितीर्णगन्धाम् । श्वावल्किना हृतपृथात्मजसङ्कटो यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ २२॥ यो मागधेन समुपाहृतभूमिभारं प्राप्ताहवोपकरणो बत चित्रयुद्धम् । कृत्वाग्रजेन रहितो बहुशो जहार (सहितो) कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ २३॥ रुद्धे पुरे यवनकेन पुरीं विधाय यो द्वारकां स्वजनमत्र निवेश्य हृष्टः । म्लेच्छं चकार मुचुकुन्दहगग्निदग्धं कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ २४॥ मान्धातृसूनुमनुगृह्य जरासुताय दत्त्वा जयं श्रुतविदर्भसुताभिलाषः । तां राक्षसेन विधिनोदवहच्छ्रियं यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ २५॥ लब्ध्वा तु शम्बरहृतं तनयं स्मरं यः कृत्वा प्रयत्नमयशःपरिमार्जनाय । सात्राजितीमपि च जाम्बवतीमवाप कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ २६॥ हत्वा स्यमन्तककृते दयितापितृघ्न- मक्रूरसीरिहृदिकात्मजसत्यभामाः । क्षुब्धाः प्रसन्नमनसश्च कृता हि येन कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ २७॥ काळिन्द्यविन्दत पतिं मिहिरात्मजा यं विन्दानुविन्दसहजापि च मित्रविन्दा । बद्धर्षभं सपदि नाग्नजिती च सत्या कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ २८॥ भद्रां च केकयपतेस्तनयामुवाह भित्त्वा च लक्षमपरैर्नर पैरभेद्यम् । मद्राधिपस्य तनयामपि लक्षणां यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ २९॥ भौमं निहत्य समुरं तदुपाहृतानां स्त्रीणां तु षोडशसहस्रमुदावहद् यः । ताभिः पृथगूगृहगताभिररंस्त वै यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ३०॥ दातुं तु भौमहृतकुण्डलमिन्द्रमात्रे स्वर्गं गतः खगवरेण ससत्यभामः । यः स्वस्तरुं सह मदेन जहार शच्याः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ३१॥ आनर्तनाथतनयापतिनाग्रजेन यो द्वारकामधिवसन् निजवल्लभासु । एकैकशो दश दशाजनयत् तनूजान् कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ३२॥ यस्त्वर्जुनेन यतिवेषनिगूहितेन दुर्योधनप्रियकृतं हलिनं प्रतार्य । भद्रां स्वसारमपहारितवान् सुभद्रां कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ३३॥ इन्द्रात्मजेन सह खाण्डवमग्निदग्धं कृत्वा मयं च परिरक्ष्य सभामनेन । योऽकारयत् प्रियकृते खलु धर्मसूनोः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ३४॥ भीमेन मागधनृपं युधि घातयित्वा तद्बद्धभूपतिगणांश्च विसृज्य भक्तान् । योऽयाजयत् ऋतुवरेण हि धर्मसूनुं कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ३५॥ हत्वा तु चैद्यपृथिवीपतिदन्तवक्रा- वाजन्मनः प्रभृति सम्भृतमत्सरौ यः । तुष्टो बभूव कृतकृत्यतयातिमात्रं कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ३६॥ साल्वं ससौभमखिलानपि मोहयन्तं हत्वा ससैन्यमपि पौण्ड्रककाशिपौ यः । चक्रे च काशिनगरीं निजचक्रदग्धां कृष्णोडवतात् स भगवान् हृदयस्थितो नः ॥ ३७॥ आकृष्टनीलसरिता विविदान्तकर्त्रा साम्बापकारविषमीकृतहस्तिनेन ! । यस्त्वग्रजेन सह रञ्जितवांस्त्रिलोकीं कृष्णोडवतात् स भगवान् हृदयस्थितो नः ॥ ३८॥ अज्ञातभूमिसुरधेन्वपहारदोषात् सम्प्राप्तकूपवसतिं कृकलासरूपम् । उद्धृत्य यो गमितवान् नृपतिं नृगं स्वः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ३९॥ मायावलोकनकुतूहलतोऽभियातं धर्मं गृहस्थविहितं बहुधा प्रदर्श्य । चक्रे प्रसन्नमनसं खलु नारदं यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ४०॥ श्रुत्वा निरुद्धमनिरुद्धमुपेत्य बाणं जित्वा वृषध्वजगिरा तमथानुगृह्य । प्रत्यानयत् सपदि पौत्रमुषान्वितं यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ४१॥ दारिद्र्यतप्तदयितावचसा समेतं स्वस्मै प्रदत्तपृथुकप्रसृतिं कुचेलम् । भूत्या जितामरपतिं कृतवान् क्षणाद् यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ४२॥ सूर्योपरागसमये भृगुवर्यतीर्थ- स्नानार्थमागतनृपर्षिसुहृत्समाजे । यज्ञोत्सवं समतनोदृषिभिः पितुर्यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ४३॥ मात्रे तु कंसनीहतांस्तनयान् प्रदर्श्य वैदेहभूपतिवृषश्रुतदेवविप्रौ । अन्वग्रहीद् युगपदेत्य गृहं तयोर्यः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ४४॥ उत्पाद्य घोरसमरं कुरुपाण्डवानां भारं भुवो बत जहार निरायुधो यः । धर्मात्मजं च जयिनं कृतवान् सधर्मं कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ४५॥ तीर्थाप्लुते मुनिजनोज्झितसूतहत्यं स्विष्टक्रतुं निहतवल्कलमप्रजं यः । आनन्दयच्चिरवियुक्तमुपेत्य हृष्टः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ४६॥ ज्येष्ठेन रुकमिणि हतेऽतिबलेऽक्षगोष्ठयां कालिङ्गभूपदशनांश्च निपात्य सेषात् । सञ्चप्रियाञ्च समरञ्जयमात्मना यः (तञ्चप्रियां च समरञ्जयदात्मना यः) कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ४७॥ पार्थेन यः सह पदं परमं स्वमेत्य स्वीकृत्य नष्टतनयान् द्विजपुङ्गवाय । दत्त्वा वयस्यमकरोत् सफलप्रतिज्ञं कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ४८॥ मूर्त्या गिरा मधुरया स्मितवीक्षणाद्यै- राकृष्टसर्वकरणाः सकलाश्च देव्यः । आनन्दवारिधिगता न विदुर्यतोऽन्यत् कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ४९॥ यो विप्रशापहतमात्मकुलं निशम्य वैराग्ययुक्तमनसौ पितरौ मुमुक्षू । श्रीनारदेन कृतवान् विदितात्मतत्त्वौ कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ५०॥ प्रोवाच यः स्वमतमुत्तममुद्धवाय यं सूरयो जगति भागवतं वदन्ति । पीतासवं च कृतवान् कुलमात्मशेषं कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ५१॥ कीर्ति वितत्य भुवने सकलाघहन्त्रीं यो दैवतैरनुमतो भवपद्मजाद्यैः । व्याधेन विद्धचरणो गतवान् स्वकाष्ठां कृष्णोऽवतात् म भगवान् हृदयस्थितो नः ॥ ५२॥ श्रीकृष्णमुक्तकमिदं पठतां जनानां यः पातकानि सकलानि विधूय सद्यः । भक्तिं स्थिरां स्वविषयां विदधाति तुष्टः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ५३॥ गोपात्मजा व्रतकृशाः परिहासपूर्वं योऽन्वग्रहीत् तदभिलाषसमर्थनेन । चक्रे च यो द्विजसतीः सफलात्मभक्तीः कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ५४॥ कृष्णः कृष्णः कृष्ण इत्यन्तकाले जल्पन् जन्तुर्जीवित यो जहाति । आद्यः शब्दः कल्पते तस्य मुक्त्यै व्रीळानम्रौ तिष्ठतोऽन्यावृणार्थौ ॥ ५५॥ इति श्रीकृष्णमुक्तकं सम्पूर्णम् । Proofread by Mohan Chettoor
% Text title            : Shri Krishnamuktakam
% File name             : kRRiShNamuktakam.itx
% itxtitle              : shrIkRiShNamuktakam
% engtitle              : shrIkRiShNamuktakam
% Category              : vishhnu, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Description/comments  : From Stotras Samahara Part 2 (ed. K.Raghavan Pillai)
% Indexextra            : (Scan)
% Latest update         : September 4, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org