श्रीकृष्णस्तवनम्

श्रीकृष्णस्तवनम्

(गीतिवृत्तम्) केशव! के शवतुल्या न स्वयि विमुखाः स्वला मलाकाराः ? भक्तास्तव सक्ताः स्तवनतिपूजासु प्रभो! न के धन्याः? ॥ १॥ माधव! साधव एव त्वयशसि रता न दुर्जना मलिनाः । (१)हंसा इव नो दृष्टा मौक्तिककवलारता बकाः काकाः ॥ २॥ यत्यादृकथ! भगवन्नत्यादरतस्त्वमुपगताछरणम्(२) । नत्या सकृदपि कृतया सत्यानन्दप्रदो भवसि सद्यः ॥ ३॥ यस्साधुगीतया त्वं कीर्त्या निजयापि देव! । मुदमेषि । तत्तां तब प्रियार्थं गातुमहं प्रेमतः प्रवृत्तोऽस्मि ॥ ४॥ दत्वा विषमपरिमितं लब्धं त्वत्तोऽमृतं नु पूतनया । (३)पूतनयाऽध वृतस्त्वं कीर्त्या तत एव नित्यनूतनया ॥ ५॥ (४)यः सति साधुः स तथा न यथाऽसति साधुरीड्य एष सताम् । सदसि कथयन्ति कवयः पापोद्धृतिमेव विस्मरन्ति न ताम् ॥ ६॥ अयि ! के त्वयि केशव! न हि विनता (५)विनतातनूजवाह! जनाः । कंसारे! कं सारे पीते ते यशसि न च (६)पुमर्थमिताः ॥ ७॥ अजगरमज(७) गरनिधिमरिमत्युग्रं प्रस्तसारमशिशुवरसम् । अकरोरमृतनिधिं किं न करो दाता जनायते सुहृदे ॥ ८॥ अमुना यमुनामिव मे मतिमपदोषां पदा(८) कदा कर्ता । वद भो मदभोगिमथन ! पृच्छामि यतस्त्वमादृतो यशसि ॥ ९॥ कुरु कुरुवर(९) इव पतिते मयि शरतल्प इव देव! । संसारे । करुणां करुणावरुणालय ! वरदगुरो! मुकुन्द ! कंसारे! ॥ १०॥ जानन्नप्यहमहितैः प्रसभं विषयैर्जनैः स (१०)धर्म इव । क्रीडितुमलं प्रवृत्तस्त्वं दीनानां स एव बन्धुरसि ॥ ११॥ कामादिभिरहितैर्मे मतिरुग्रैः कौरवैरिव प्रसभं । धर्मस्य वधूरिव हाऽन्यायाद्विवशीकृता त्वया रक्ष्या ॥ १२॥ कंसाराते! कीर्तिः कं सारा ते जनं न पातुमलम् । (११) वसुधाधाराद्य विभो! न (१२)सुधाधारा क्षमावितुं रुग्णम् ॥ १३॥ य उपायनं प्रदातुं (१३)पृथुकप्रसूति त उपगतो, भवता । अवता स दीनबन्धोऽकारि सुदामा पदं मुदामाशु ॥ १४॥ कविना न विना व्रजति ख्यातिं, बह्वपि यशः प्रभोर्जातु । मुदितमतः कुरु मां कविमविगीतकथा यथासुखं गातुम् ॥ १५॥ पीतांशुक ! गीता शुककविना वाल्मीकिनेव रामस्य । रसिकाः पियन्ति भवतः कीर्तिं देवाः सुधामिवाजस्रम् ॥ १६॥ साधु शुकेनेव पुनर्गीतानि यशांसि ते मयूरेण । ख्यातिं प्रयान्तु लोके भोः ! के बद्धादरा न (१४)नव्यरसे ? ॥ १७॥ स्तोतुमनसमकरोः किल गल्ले स्पृष्ट्वा ध्रुवं ध्रुवं दरतः(१५) तद्वन्मामादरतः कुरु पुरुकरुणार्य निजनुतौ निपुणम् ॥ १८॥ नुतिकृतिकृतादरस्त्वं सदसि सतां श्रुतमिति श्रुतिज्ञानां । त्वां तेन ते नमजनमन्दारं प्रार्थये नमन्नङ्घ्रिम् ॥ १९॥ ननु ते न नुतेरधिकं मतमन्यद्यदि तदिष्टमेव तव । वितर वरं मय्याश्रितहित रवरञ्जितजगत्स्ववंशेन(१६) ॥ २०॥ स्तुत्वास्तु त्वामयमिह संसारे भोः प्रभो! । जनो धन्यः । याचे यतस्त्वमिच्छां पूरयसि सुखं वदान्यमूर्धन्यः ॥ २१॥ येनार्थिकामपूर्तिः क्रियते वलु झटिति पारिजातन । स मया कथं नु रमया पूजितमपहाय ते पदं सेव्यः? ॥ २२॥ भवदाश्रितैः स (१७) लभ्यस्त्वं तु न जात्वपि तदाश्रितैर्भगवन्! । भामाद्वारि स सततं न भवान् स्थित इन्द्रमदिरान्तरपि ॥ २३॥ तं जडमविवेकिनमगमस्वाधीनं(१८) समाश्रयिष्यति कः । त्वां प्रभुमपास्य सर्वगमादिकविं करुणमखिलकामकरम् ॥ २४॥ अन्तर्बहिरपि कठिनश्चितामणिरुपक एव खल्वेषः । कामधुगपि पशुरशुभं भवतोऽन्यन्नाथ सर्वमस्माकम् ॥ २५॥ ब्रह्मादयोऽपि देवाः कृच्छ्रे(१९) त्वां देवदेवमुपयान्ति । सगदा(२०) जगदाधार! (२१)प्राज्यामृतपाणिमिव गुरुं भिषमाम् ॥ २६॥ यः पुरदाहं चक्रे शक्रेण प्रार्थितः प्रभुः(२२) सपदि । सोऽपि वृकव्यसनास्किल विलयं गत एव रक्षितो भवता ॥ २७॥ भीतांस्त्रातुं दातुं वरमभिलषितं समस्तमर्थिभ्यः । अनलसमनलसमं (२३) खलशलभलये त्वां वदन्ति सत्कवयः ॥ २८॥ गजमम्बुजन्तुशक्रान्नकाच्चक्रायुधावता(२४) भवता । दत्तमनुक्त्वाप्यभयं संसारग्राहपीरितेभ्यो(३२५) नः ॥ २९॥ नारायणेत्यजामिल आक्रुश्यापत्यमत्यपत्यमतिः । त्वां प्राप पापनिलयः किल यः (२६)शतकल्पनिरयवासार्हः ॥ ३०॥ त्वामहमनिशं (२७)कलये कलये यहत्तसाध्वसोऽसि त्वं । (२८)प्रणतेर्यत्ना अवमा अव मामित्यानतं दयालुमणे! ॥ ३१॥ एकस्त्वमेव शाश्वत आस्से सुखमब्जनाभ! । यदनल्पे । कल्पेऽखिललोकानां भो भगवन् ! भोगिभोगमयतल्पे ॥ ३२॥ नाथ कथङ्कारं ते महिमानमगाधमिममहो! । ब्रूमः । यत्वत्तत्वविचारेऽचाद्यास्ते प्रभुरचञ्चल भ्रूमः ॥ ३३॥ गोप्या कोऽप्याप्तस्ते पांसुलयापि प्रसाद ईश्वरतः । सत्याप्यत्यादृतया (२९) न मया न मयाद(३०) उच्यतेऽप्यखिलैः ॥ ३४॥ बद्धोऽस्युलूखले त्वं गोप्या हन्त! । व्रजे स दाम्ना यं । ज्ञातुं कवयो न वयोगतमपि पश्यन्ति खलु सदाऽऽन्नायम् ॥ ३५॥ (३१)अवतारातिभ्यो जगदवतारा देव! । ये गृहीतास्ते । माधुरतः साधुरतः कोऽपि नतेष्विह तु सूद्धृता बहवः ॥ ३६॥ इह गोकुलं व्रतं ते शिशवोऽप्यसवः कुमारिकाः श्रुतयः । गोपा गुरवः परमेश्वर किं बहुनारयः प्रियातिथयः ॥ ३७॥ (३२)माथुरमवतारामिमं मन्येऽखिलकामकरुपतरुमेव । वस्तु सकलमेकरसीकर्तुं द्रुतमस्ति जगति न रुमेव ॥ ३८॥ भुक्तं सह पशुपशिशुभिरुक्तं कृतमेव गोपवामदृशां । मुक्तं चाश्रु वियोगे युक्तं भगवत्यदः किमात्मरते ? ॥ ३९॥ भक्तानां पुरतस्वां नर्सयतीत्थं स्वभक्तवत्सलता । न व्यापूतो भवानिव कोऽपि कुटुम्बी क्वचित् कुटुम्बे स्वे ॥ ४०॥ पार्थसहायस्य न ते का वा रीतिः कुटुम्बिरीतिरिव? दूतत्वं सूतत्वं भजतो व्रजतोऽनृतेन चापि पथा ॥ ४१॥ सक्तं सपत्नमथनं भक्तं भजता किरीटिनं पार्थं । व्यक्तं निजमाहितत्वं त्यक्तं स्वीकृत्य साधु सारथ्यम् ॥ ४२॥ सोढ्वाप्यायासमरं समरं गत्वाऽसुसंशयं प्राप्य । लुब्धेनेव स्वार्थः पार्थः परिरक्षितस्त्वया व्यसने ॥ ४३॥ भङ्गे श्रीकान्त ! नवे शान्तनवे(३३) प्रकुपिते प्रतिज्ञायाः । प्राप्तस्तथा न कम्पं त्वं पङ्कजनेत्र ! हृदि यथा सख्युः ॥ ४४॥ उपनिषदां सर्वस्वं मूर्तं श्रेयः श्रियः सतां सत्वं । (३४)वपुरापगेयसमरेऽनादृतमिषुविक्षतं न ते मित्रम् ॥ ४५॥ श्रितमवतस्तव भीष्माद्रथचक्रभृतः क्षतप्रतिज्ञभ्य । अद्यापि सत्यसन्धैरप्युच्चैर्गीयते यशः सदसि ॥ ४६॥ (३५)भगवन्नूनं नूनं श्रितसमवनतोऽन्यदखिलमपि कर्म । परिपालयन्यदेकलमर्जुनमसि सर्वथा सतामीड्यः ॥ ४७॥ भक्तं नक्तन्दिवमपि (३६)कपिकेतुं नेतुमीप्सितां पदवीं । किं किं न रक्षता कृतमुप्त किं किं कारितं न वान्यैस्ते ॥ ४८॥ धर्मों यदवददनृतं यदकाण्डेऽदर्शनं जगाम रविः । यदभजदिषुतल्पं कुरुगुरुरन्यद्यच्च तत्तवैव मतम् ॥ ४९॥ धर्मद्विषोऽनुसरणे न रणेऽपि धनुभृतां गुरोर्विजयः । धर्मस्य तु ध्रुवं सोऽशस्त्रस्यापीति त उपदिष्टमिह ॥ ५०॥ यद्यत्कृतं त्वयेश्चर जीवानामाशु तत्समुद्धृतये । श्रुतवेच्छया नृमूर्त्या श्रीसख्या श‍ृण्वतः सतां धृतये(३७) ॥ ५१॥ बद्गोप्या राधिकयाराधि (३८)कयाधूसुतेन चाप्यन्तः । हृतभवगदं पदं ते ध्यायन्ति विमुक्तिपदमपि न सन्तः ॥ ५२॥ राधामाधायोरसि बाधा माधाम्नि कामजा हृत्वा । सुप्तं गुप्तं सतमःपुञ्जे कुञ्जे स्मरन्ति यतयस्त्वाम् ॥ ५३॥ गोपीर्भुक्त्वापि विटैः कृत्वापि न दस्युभिः (३९)सम स्तेयं । हृत्वापि धातुकैस्त्वं जगति गुणस्तेऽद्भुतः समस्तेऽयम् ॥ ५४॥ यासां स्वया सुसञ्चितमपहृतमेकान्ततोऽपि नवनीतं । ताभिरबलाभिरपि वद मनसि हृते देव! किं न तव नीतम् ॥ ५५॥ राधास्तननिहितदृशं गलदमलस्तन्यबिन्दुवदनेन्दुं । त्वां ध्यायत्यन्तःश्रीः साधुसभा साश्रु (४०)सात्मकुस्समपि ॥ ५६॥ त्वामधिकदम्बमबलापटुपटपाटश्चरं(४१) विलिख्य यथा । सत्यः प्रत्यहमात्मवतसंसिद्ध्यै भजति पतिमस्यः ॥ ५७॥ दीपमिव त्वां स्नेहादुद्भासितरूपसम्पदं गोप्यः । अभजन्पतङ्गिका इव मरणभयमपास्य रुचिररुचिरुचयः ॥ ५८॥ (४२) मृत्स्नाशनागसि विभो! । भीताया विश्वदर्शनान्मातुः । स्वस्मिन्दुर्लभपुत्रस्नेहापायात्वमेव बहुभीतः ॥ ५९॥ हा! । बत! हन्त! पिबन्तं त्वाममृतनिधिं द्रुतं निरस्य भुवि । याता माता बहुमतदुग्धा, मुग्धाः खलु मियो जात्या ॥ ६०॥ दुग्धे मुग्धे किमधिकमम्ब! । त्वं बत! सुवञ्चितासीति । ज्ञापयितुमेवमेव त्वं गोरसभाजनेऽकरोः कोपम् ॥ ६१॥ गुरुभिरपि गुरुवरेण च भवता ये बोधिताः क्रतौ गुरवः । हत कथं तेऽप्यन्धा बन्धावहमेव यैर्वृतं कर्म ॥ ६२॥ धन्या मन्यामह इह ता रामाः(४३) सस्कृतोऽसि मामिस्त्वं । अज्ञपतीनां नौकाः सत्यः सत्यः स्तुतिर्न माहिमासाम् ॥ ६३॥ श्रीकरधृतो जडोऽपि प्राप यशो जगति (४४)पर्वतः स (४५) ततं । (४६)तद्दुर्दिनमप्यभवत्साधुमतं पुण्यपर्वतः सततम् ॥ ६४॥ करुणामृतधन ! करुणामृतवृष्ट्या ते जितैव सा वृष्टिः । (४७)जडजाप्यधः पतन्ती हेतुः पङ्कस्य या च कम्पस्य ॥ ६५॥ गोवर्धनधर! तव (४८)भुजवीक्षाक्षणविस्मृतात्मना स्त्रीणां । अपि (४९) खरशब्दा अब्दाः शम्पाः कम्पाय नाभवन्मनसः ॥ ६६॥ त्रासेन सहोस्खातः सुहृदां सममुद्धृतो गवां पुच्छैः । अवतारितः पुनर्गिरिरिन्द्रमदभरेण साकमीश्वर ! ते ॥ ६७॥ (५०)भूगोलभृद्भुजगमनमनुकुर्वन्(५१) लीलया धृताहार्यः । उच्चैर्बभौ भुजस्ते छत्रस्य महेन्द्रनीलदण्ड इव ॥ ६८॥ वपुषः कान्त्या मेघास्तव करकाराशयः(५२) स्मितप्रभया । तरितोऽपि वाससा खलु पीता (५३) भीता भुजाद् ध्रुवं वाताः ॥ ६९॥ पर्वतधरेण भवता वनधरो लीलयाद्रिभिद्विजितः । आस्तां गिरिरपि हरिरपि जेतुमलं त्वं तृणेन कालमपि ॥ ७०॥ (५४)गोत्रारेर्वज्रभृतः क्रुद्धाद्गिरिरेकलोऽप्यपक्षोऽपि(५५) प्राप्तो जयं न भङ्गं सत्पुरुषभुजाश्रितो न को विजयी? ॥ ७१॥ अमितापराधशमनं नमनं तव पादयोः सकृद्विहितं । व्यतिरेकोऽर्थान्तरन्यासश्च । किं द्रागिन्द्राहूरीकर्तुमघमतोऽन्यदद्भुतं तीर्थम् ॥ ७२॥ आगस्कृत्सु नमत्सु द्राक्कुरुषे त्वं क्षमां भृशं करुणः । अपराधिना न चेत्किं कवचं तव चण्डकालभीतिजुषाम् ॥ ७३॥ त्रातो न कस्तृणादिर्जीवस्ते स्वपदरेणुना दरतः । कश्च चरः संसारान्मशकादिर्मधुरवेणुनादरतः ॥ ७४॥ यश्चुंवितस्त्वयानिशमीश्वर! । परमादृतेन वंशस्तं(५६) मन्ये रमाधराद्धरमिह माधुर्यं सदा नवं शस्तम् ॥ ७५॥ जगता सममनुभूतं माधुर्य चुम्बता त्वया यस्य । स वरं श्रियोऽधरादिति वदता कविना श्रियः किमपराद्धं ? ॥ ७६॥ कास्ताः स्त्रियो न नीता वंशेन (५७)स्थाणुभावममुना याः । अन्यासां कैव कथा? सुकविशुक (५८)स्तम्भमाह यमुनायाः ॥ ७७॥ एणो(५९) न केवलं तव वेणो रवमोहितो भुजङ्गोऽपि । हिंस्रोऽपि देव! बहुना किं (६०)स्रोतश्चारिजन्तुनिकरोऽपि ॥ ७८॥ (६१) द्युसदां सुमोहिता रवमधु पाययता च वेणुना सत्यः । पिदधे श्रुती शयाभ्यां यासां मुखमीक्ष्य मङ्क्षु नामत्यः ॥ ७९॥ वंशो राकाजानेरंशोरपि(६२) तापनाशको मधुरः । कोऽप्योघ (६३) एष वहता गोप्यो दूरं हृता रसैर्येन ॥ ८०॥ भगदं जगदन्तर्वहिरस्तु सम्मुत्तव(६४) यशोऽमृतं पीत्वा । इति भगवत्यपराद्धं विधिना खलु वत्सवत्सपान्हरता ॥ ८१॥ तदनुभवाक्तोर्ब्रूमो वयमद्भुतमेव हन्त मोहस्तं । निन्ये वशमाकृष्य द्युमणिमिव निजं गृहं तमोहस्तम् ॥ ८२॥ पित्रा गवां रसास्ते तव पुत्रेण तु सपालका वत्साः । तच्चरितेन तु सकला गोपा गोप्यो वयं सुराश्च हृताः ॥ ८३॥ स कथं निद्यः कविभिः संस्थापयितुं पदे प्रशस्ते नः । (६५)योऽमृतसागरफेनस्तेनमिह ततान ते यशस्तेनः ॥ ८४॥ (६६)कृच्छाद्यददित्यातं दुर्लभमतुलैस्तपोव्रतैश्चीर्णैः । प्राप्ता गोप्यो गावस्तच्छ्रभूत्वं भियो जगन्मातुः ॥ ८५॥ यदोगोप्यो गावस्त्वामापुरपस्यमीश्वरं जगतः । न गतः किमिहोत्कर्षं विध्यपराधोऽपि(६७) नाकिनां नगतः ॥ ८६॥ अङ्गीकृता यदा ते गोगोपीनां जगद्गुरो! । सुतता । मूर्तिर्न केवलं तव जाता सत्कीर्तिरपि जगत्सु तता ॥ ८७॥ विधिपशुपशुपसमदृशा (६८) गोपकरायत्तबन्धमोक्षण । वसायितेन भगवन् ! दाम्न्यर्पितकन्धरेण तृणमशितम् ॥ ८८॥ तेषां यत्स्वतनुभुवा(६९) धनमपहृतमीश! । सत्यपतिनापि । तेषां तदनूनाधिकमात्मधनं तेऽर्पितं सदीड्येन ॥ ८९॥ (७०)सवसंस्कृतहविषोऽपि प्रापितमुच्चैः पदं त्वया यवसं । भवसन्तरणेच्छुरहं हन्त तृणेष्वपि तदा नतेश्ववसम् ॥ ९०॥ हा हन्त ! । तं तमन्तर्भावयतोऽनुग्रहं बजे भवतः । मम तदपात्रस्य मनः किं तां चिन्ता ब्रवीमि यां यातम् ॥ ९१॥ वत्सीभूतं ब्रह्म ब्रह्मप्रमुखैर्महात्मभिविश्चिन्त्यं । त्वां गोगोपीगोपाः पुपुषुः प्रेम्णान्तनौ च रोमाञ्चम् ॥ ९२॥ स्वर्गाद्गुरु सस्यपदं सत्यपदाद्गुरुतरं च वैकुण्ठं । वैकुण्ठादपि गुरुतममवनौ वृन्दावनं वनं मन्ये ॥ ९३॥ याः पूर्वं न क्वचिदपि कस्मैचिदपि प्रदर्शिताः प्रभुणा । अत्रैव पीतपट! ता अटता नटता त्वया कलाः सकलाः ॥ ९४॥ यौ कमलावक्षस्यपि वक्षोजस्पर्शभूरिरक्तत लौ । तौ तव वृन्दावनभुवि चङ्क्रमणं चक्रतुश्चिरं चरणौ ॥ ९५॥ वृन्दावनेऽनुभूतं गोपैर्गोपीभिरपि च यद्गोभिः । तन्नन्दनेऽपि न सुरैर्नानन्दवनेऽपि पण्डितैः शर्म ॥ ९६॥ चरणसरोजरजोभिर्देवसरिस्कतिपयैः पुरा प्राप्तैः । महिमानमियन्तमिता वृन्दावनभूः किमङ्किता पदकैः ॥ ९७॥ तृणगुल्मव्रततिद्रुमदृषदो वृन्दावनेऽत्र धूलिरपि । सर्वं तीर्थशताधिकमीश्वर! (७१)तीर्थाघ्रिंणा कृतं भवता ॥ ९८॥ भोः ! कतमो लोकतमो बाह्यं हर्तुं क्षमोऽन्य आदित्यात् । तेजस्विपूज्यपादात् आन्तरमपि लोकबन्धुतस्त्वत्तः ॥ ९९॥ कुम्भ(७२)भुवाम्भोधिरिव स्वेन निरुपमेन तेजसा यशसा । शौरिभुवा भवता द्रागप्ययमप्ययमलं भवो नीतः ॥ १००॥ गोपोऽपि पण्डितानां सर्वेषां सम्मतः सदा नन्दः । यत्तैरलब्धगन्धस्स्वमपि तदङ्कं गतः सदानन्दः ॥ १०१॥ जगति यशोदानन्दौ धन्यौ शिशुना त्वया जगद्गुरुणा । (७३)उक्तावाश्लिप्य गले यौ शतकृत्वस्त्वयाम्ब! तातेति ॥ १०२॥ वृद्धैरलमन्यैर्नो मैत्री भवतैव गोपशिशुनाऽस्तां । वृद्धसखा यामाप्तास्त्वत्तो मुदमाश्वपीह पिशुनास्ताम् ॥ १०३॥ (७४)यमभृतमुचो वरं निजकिसलयतोऽमंस्त देवविटपी तं । तं घोषयोपिदधरं विटेन भवता पीतं धन्यं । किं घोषयोपिदधरं धन्यं ब्रूमो न देव विटपीतम् ॥ १०४॥ द्रारद्रवति धीः श्रुते ते यशसि यथा नस्तथा न वेदान्ते । लब्धरतिः स्वपिति भुवि न पल्यङ्केऽपीतरा(७५) न वेदान्ते ॥ १०५॥ त्वां सगुणं ब्रह्म वयं निर्गुणमपि नाथ संश्रिताः कवयः । रुचिवैचित्र्यादेकेऽलङ्कृतिमिव हेम केवलमिवान्ये ॥ १०६॥ कैवल्यं पदमाप्ता ये भक्ता ये च विद्विषस्तव ते । तेन श्रिता वयं त्वां ब्रूमो भगवन्! प्रभो! नमो भवते ॥ १०७॥ सकलं(७६) स्ववयः कवयस्तव यत्र वयस्यममृतकरमहसः । सुयशः काले देशे व्यवहारे तनयन्ति तत्रैव ॥ १०८॥ सरसि सरोजमिव त्वयि हृदयमिदं नः सुजीवने वसतु । तत्र(७७) श्रीरिव भक्तिश्चात्रापि परन्तु मात्र सेव चला ॥ १०९॥ गीत्या मृग इव कुशलैः कामी प्रभुरिव सुरूपयार्पितया । भक्त्या भागवतैस्त्वं भगवन् ! बहुभिर्वशीकृतोऽस्याशु ॥ ११०॥ हृश्रस्तं(७८) कस्य कवेः कालाच्छ्रुतरत्नसानुकम्पस्य । तव संश्रयेग्र पादौ श्रितचिन्तारत्नसानुकम्पस्य ॥ १११॥ इति श्रीरामनन्दनमयूरविरचितं श्रीकृष्णस्तवनं सम्पूर्णम् । टिप्पणि १। यथा हंसा मौक्तिकानां कवलेच्चादृता दृष्टास्तथा दुर्जना इव बकाः मलिना इव काकाश्च नो दृष्टा न दृष्टाः इत्यन्वयः । २। उपगतान् शरणमिति पदच्छेदः । ३। पूतनया पवित्रया । पवित्रार्थे पूतनशब्दो न कुत्रापि दृष्टचरः । ४। यथा असति दुर्जने साधुः सतामीड्यो भवति न तथा सति सत्पुरुषे साधुरित्यन्वयः । ५। विनतातनूजो वैनतेयो वाहः वाहनं यस्य तत्सम्मुद्धौ । ६। पुमर्थं पुरुषार्थं धर्मार्थकाममोक्षाख्यम् । ७। अज हे कृष्ण । गरस्य विषस्य निधिम् । ८। त्वपदसञ्चरणेन यमुनामिव त्वद्वसत्या मे मतिमपदोषां विगतदोषां कदा कर्ता करिष्यसीति योजना । ९। शरतल्पे पतिते कुरुवरे भीष्मे । १०। धमों युधिष्ठिरः । अहितैर्जनैः कौरवैः । ११। वसुधाधार आद्य इति सम्बुद्धिस्थं पदद्वयम् । १२। सुधाधारा रुग्णमवितुं रक्षितुं क्षमा न किमिति प्रश्नः । क्षमैवेत्यर्थः । १३। पृथुकानां प्रसतिम् । ते उपगतस्त्वामुपगत इत्यर्थः । १४। नव्ये रसे सर्वेऽपि बद्धादरा इत्यर्थः । १५। शङ्खेन गले स्पृष्ट्वा त्वं ध्रुवाख्यं वालं ध्रुवं निश्चितं स्तोतुमनसमकरोरिति योजना । १६। स्ववंशेन स्ववेणुनिर्गतेन रवेण राजितं जगद्येन तत्सम्बुद्धौ । सापेक्षत्वेऽपि गमकत्वात्समासः । १७। स पारिजातः । १८। अगं वृक्षं पारिजातमिति यावत् । व्यतिरेकेण पारिजाताद्भगवानेव श्रेष्ठ इति सूच्यते । १९। कृच्छ्रे सङ्कटे । २०। सगदाः सातङ्का भीता इत्यर्थः । २१। अमृतहस्तं धन्वन्तरिमित्यर्थः । २२। प्रभुः शिवः । वृको भस्मासुरः । २३। खला एव शलभास्तेषां लये विनाशेऽनलसममग्निसदृशम् । २४। अम्बु-जन्तुषु जलजन्तुष शक्रात् श्रेष्ठात् । २५। ``षड़र्गग्राहपीडितेभ्यः'' इति पाठान्तरं। षड़र्गः कामादीनां समूहः । २६। शतं कल्पान् निरयवासं नरकवासमर्हतीति तादृशः । २७। कलये मनसि करोमि चिन्तयामीत्यर्थः । २८। प्रणतेर्यत्नाः अवमाः अपरित्याज्याः । सदा मया प्रणतिः कार्यैवेत्यर्थः । २९। ``अत्यानतया'' इति पाठान्तरम् । ३०। मया अदः इति पदच्छेदः । ३१। अरातिभ्यो रिपुभ्यः । ३२। मथुरायां भवम् । ३३। भीष्मे । ३४। आपगेयो भीष्मस्तेन सह समरे । ३५। भगवन् ऊनं इति पदच्छेदः । ३६। अर्जुनम् । ३७। प्रमोदाय । ३८। कयाधूसुतः प्रह्लादः । ३९। समः स्तेयमिति पदच्छेदः । विटैर्न दस्युभिः समः त्वं स्तेयं कृत्वापीति योजना । ४०। सात्मकुत्समात्मनो निन्दया सहितं यथा स्यात्तथा । ४१। स्तेनम् । ४२। मृत्स्नाया मृत्तिकायाः अशनेन भक्षणेन यदागः योऽपराधस्तस्मिन् । ४३। ऋषिपत्न्यः । ४४। गोवर्धनगिरिः । ४५। व्याप्तम् । ४६। मेघच्छन्नमहः । ४७। उलयोरभेदाज्जलजा । पङ्कस्य कम्पस्य च हेतुरित्यन्वयः । ४८। भुजवीक्षायां क्षणं विस्मृतः आत्मा याभिस्तासाम् । ४९। गर्जन्तः । ५०। शेषं इत्यनेन नकारस्यानुनासिको लकारः कविना न प्रयुक्तः । ५१। अत्र ``तोलिं''। इत्यनेन नकारस्यानुनासिका लकारः कविना न प्रयुक्तः । ५२। करका वर्षोपलास्तासा राशयः । ५३। पीताः पीतवर्णास्तडितः । ५४। गोत्राणां पर्वतानामरेरिन्द्रात् । ५५। पुरा पर्वतानां पक्षा आसंस्ते च महेन्द्रेण च्छिन्ना इति कथात्र लक्ष्यते । ५६। वेणुः । ५७। स्थाणोः स्तम्भस्य भावं धर्म स्तब्धतामिनि यावत् । ५८। यमुनाया जलमपि निश्चलमासीदित्याहेत्यर्थः । ५९। हरिणः । ६०। जलचरसमूहः । ६१। यासां मुखं वीक्ष्य पुरा नासत्योऽश्विनीकुमारः पाणिभ्यां मङ्क्षु सपदि श्रुती श्रोत्रे पिदधे पिहितवास्ता घुसदां देवानां सत्योऽपि स्त्रियोऽपि रवमधु पाययता वेणुना सुमोहिता नितरां मोहिता इत्यर्थः । ६२। अंशोः किरणात् । ज्योत्स्नाया इत्यर्थः । ६३। एष वेणुरवस्य कोऽप्यपूर्व एव ओघः प्रवाहः । येन वहता रसैः श‍ृङ्गारादिभिर्जलैश्च गोप्यो दूरं हृताः ``दूरं गोप्यो वहता रसैर्हृता येन'' इति पाठान्तरम् । ६४। मुदा सहितं यथा तथा । ६५। अमृतसागरस्य दुग्धसागरस्य यः फेनस्तस्य स्तेनं चौर्यकरम् । ततोऽप्यधिकं धवलमित्यर्थः । ६६। यत् अदित्या आप्तमिति पदच्छदः। देवजनन्या यत् कृच्छ्रादाप्तमित्यन्वयः । ६७। विधेर्ब्रह्मणः अपराधस्त्वां गोपीनां पुत्रं विदधतो विधेरपराध एव । स तु तासां नाकिनां नगतः कल्पवृक्षादप्यधिकं फलमदादित्यपराधस्योत्कर्षः । ६८। ``समकरुण'' इति पाठान्तरम् । ६९। स्वपुत्रेण ब्रह्मणा । ७०। सवे यो संस्कृताद हविषोऽपि । यवसं तृणम् । ७१। तीर्थ क्षेत्रं अघ्री यस्य तेन । ७२। कुम्भभुवा अगस्त्येन । ७३। यौ यशोदानन्दौ त्वया अम्ब ! तात ! इति शतकृत्वो गले समाश्लिष्योक्तौ इत्यन्वयः । ७४। यं देवविटपी कल्पवृक्षोऽमृतं मुञ्जता निजपल्लवाद्वरमंस्त न ब्रूमः किमिति प्रश्नः । ७५। ``प्यन्यथा'' इति साधुः पाठः। (मयूरकविः) ७६। कवयो यत्रामृतकरमहसो वयस्यं तव सुयशो यत्र काले देशे व्यवहारे च वर्तते तत्रैव तत्सकलं स्ववयो नयन्तीत्यन्वयः । ७७। त्वयि श्रीरिव नो भक्तिर्वसतु । सा भक्तिस्तु सा श्रीरिवात्र त्वयि चला मास्तु इति योजना । ७८। हे श्रितानां चिन्तारत्न चिन्तामणे ! श्रुतो रत्नसानोर्मेरोः कम्पो येन तादृशस्य कस्य कवेः पण्डितस्य कालान्मृत्योस्त्रस्तं भीतं हृन्मनः सानुकम्पस्य करुणावतस्तव पादौ न संश्रयेत् । सर्वस्यापि मनस्ते पादौ संश्रयेदेवेत्यर्थः । Proofread by Rajesh Thyagarajan
% Text title            : Shri Krishna Stavanam
% File name             : kRRiShNastavanam.itx
% itxtitle              : kRiShNastavanam (shrIrAmanandanamayUreshvarakRitam)
% engtitle              : kRiShNastavanam
% Category              : vishhnu, vishnu, moropanta, stava, krishna, shataka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Mayurakavi or Moropanta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Stotras composed by Moropanta mayUrakavi
% Indexextra            : (Scan)
% Latest update         : December 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org