श्रीकृष्णस्तुतिः
सृजद्रक्षत्संहरद्यद्विश्वमात्मनि मायया ।
तद्ब्रह्म दद्याद्ब्रह्मास्मीत्यनुभूतिमयीं धियम् ॥ १॥
श्रीमत्यां द्वार्वत्यामासीनं कल्पपादपाधस्तात् ।
मणिमण्डपान्तरब्जे विद्याश्रयमाश्रये परं धाम ॥ २॥
हीमत्या रतिमत्या रुक्मिण्या सत्यभामया चापि ।
ऊरुस्थितयोपासे श्लिष्टमविद्याश्रयमहं धाम ॥ ३॥
क्लीङ्कारात्मकमूर्तिः स्फूर्तिः सत्ता च सकलस्य ।
मायिमहोऽञ्जननीलं सच्चित्सुखरूपमनिशमाशासे ॥ ४॥
कृतसक्तिभक्तिमति प्रसृमरमदने च गोपयुवतिजने ।
मणिमकुटाङ्गदकटकप्रभृतिभिरिद्धो हरिर्मुदे नः स्तात् ॥ ५॥
ष्णाधातुवाच्यनिरतैर्जपद्भिरनिशं स्मरद्भिश्च ।
मुनिभिरूपासितमीडे गोपालं नारदप्रमुखैः ॥ ६॥
यमवरुणसोमशक्रप्रभृतिभिरमरैरुपास्यमानाय ।
कृष्णायास्तु नमः सत्सुखमयपरमार्थरूपाय ॥ ७॥
गोपवधूनां निकरैः प्रियमुखपद्मोत्कलोचनभ्रमरैः ।
विश्लथनीवीकबरैः परिवृतमीडे परं महस्तदहम् ॥ ८॥
विन्यस्य वेणुमधरे नादब्रह्मामृतोदधौ भुवनम् ।
मग्नं कुर्वाणा में निर्वाणायास्तु भावना काचित् ॥ ९॥
दानवरक्षोयक्षप्रेतोरगसिद्धकिन्नरप्रमुखैः ।
परिवृतमस्तु परं तद्वस्तु विभूत्यै यदोः फुलाभरणम् ॥ १०॥
यमिनामन्तः स्वान्तं बद्धस्थितये नमोऽस्तु चिद्वपुषे ।
गोविन्दायासुसमाकटाक्षवीक्षाद्विरुक्तनीलिम्ने ॥ ११॥
गोघटया परिवीते गोपालैरपि च धाम्नि निर्विकृतौ ।
विहरतु मानसमनिशं यन्तरि कुन्तीसुतस्य मम ॥ १२॥
पीताम्बरोज्ज्वलश्रीश्रीवत्सोद्भासितोरस्का ।
कौस्तुभकृतमणिभूषा रक्षतु मां भाग्यपरिगतिर्महताम् ॥ १३॥
जलजारियोगमुद्रावेणुगदाभासुराष्टभुजम् ।
प्रणतिपरदुरितनिकरप्रमथनकृतदीक्षमच्युतं नौमि ॥ १४॥
नरसुरवारकतनुभृद्धृदयगुहागूढनिजमहिमा ।
वनमालया निवीतः परमात्मा स्फुरतु मम हृदये ॥ १५॥
वल्लवसुचरितमव्यात् सव्याग्राश्लिष्टजानुदक्षपदम् ।
क्रामदनारतविगलद्रत्नघटन्यस्तपादुकमस्मान् ॥ १६॥
लक्ष्मीवक्षोजमिलद्घुसृणारुणवर्णवक्षसं वन्दे ।
अङ्कस्थितदयिताभ्यामभिषिक्तं रत्नधारया शौरिम् ॥ १७॥
भासुरभूसुरनिकरैर्विचीयमानोऽच्युतस्त्रयीशिरसि ।
मम सुरतरुमञ्जर्या दिशतु मुदं मणिभिरभिषिक्तः ॥ १८॥
यश्च प्रकुतेस्तस्याः कार्याणां प्रेरकोऽहिराजेन ।
सिक्ताय नमो रत्नैर्गोपीजनवल्लभायास्मै ॥ १९॥
स्वाश्रयमेतद्विश्वं स्वमपि च विश्वाश्रयं विदुर्हि बुधाः ।
यन्नमनात् सकलैरप्यभिषिक्तो मणिभिरवतु मां स हरिः ॥ २०॥
हारं यद्धाम बुधाः स्वात्मनि पश्यन्ति सोऽहमिति ।
तदतिप्रसन्नवदनं स्वाहाजानिर्ममास्त्वविद्यायाः ॥ २१॥
मन्त्राक्षरारब्धमुखार्णपद्यां-
तद्ध्यानवाच्यप्रकटोक्तिहृद्याम् ।
मन्त्रार्णमालां दधतोऽनवद्यां
यतो लभेरन् परमात्मविद्याम् ॥ २२॥
व्रजरमणीरमणीयकटाक्ष-
भ्रमरघटारभटीपरिशोभि ।
कपटशिशोरशिवप्रतिघातं
मुखनवतामरसं मम कुर्यात् ॥ २३॥
इति श्री कृष्णस्तुतिः समाप्ता ।
Proofread by Rajesh Thyagarajan