श्रीकृष्णस्तुतिः

श्रीकृष्णस्तुतिः

वंशीवादनमेव यस्य सुरुचिङ्गोचारणं तत्परं वृन्दारण्यविहारणार्थ गमनं गोवंश सङ्घावृतम् । नानावृक्ष लतादिगुल्मषु शुभं लीलाविलाशं कृतं तं वन्दे यदुनन्दनं प्रतिदिनं भक्तान् सुशान्तिप्रदम् ॥ १॥ एकस्मिन् समये सुचारू मुरलीं संवादयन्तं जनान् स्वानन्दैकरसेन पूर्णजगतिं वंशीरवम्पाययन् । सुस्वादुसुधया तरङ्ग सकललोकेषु विस्तारयन् तं वन्दे यदुनन्दनं प्रतिदिनं स्वानन्द शान्ति प्रदम् ॥ २॥ वर्हापीड सुशोभितञ्च शिरसि नृत्यङ्करं सुन्दरं ॐकारैकसमानरूपमधुरं वक्षस्थलेमालिकाम् । रूपं श्यामधरं हिरण्यपरिधिं धत्तेकरेकङ्कणं तं वन्दे यदुनन्दनं प्रतिदिनं विज्ञानदंज्ञानदम् ॥ ३॥ या वंशी शिवरूपकञ्च सुमुखे संयोज्य फुत्कारयन् ब्रह्मा यष्टि स्वरूपकं करतले शोभाकरं सुन्दरम् । इन्द्रोऽपि शुभरूपश‍ृङ्गमभवत् श्रीकृष्णसेवारतः वेदस्य सुऋचाऽपि धेनु-अभवन् देव्यस्तु गोपीजनाः । तं वन्दे यदुनन्दनं प्रतिदिनमानन्ददानेरतम् ॥ ४॥ कालीयदमनं सुचारू गमनं लीलाविलासं सदा नृत्यन्तमतिसुन्दरं रुचिकरं वर्हावतंशन्धरम् । पश्यन्तंरुचिरं सुहासमधुरं भालंऽलकैर्शोभितं तं कृष्णं प्रणमामि नित्यमनिशं निर्वाण शान्तिप्रदम् ॥ ५॥ श्यामं कान्तियुतं सुकोमल तनुं नृत्यं शिवं सुन्दरं नाना रत्नधरं सुवक्षसि सदा कट्यां शुभां श‍ृङ्खलाम् । पीतं वस्त्रधरं नितम्बविमले तं श्यामलं कोमलं वन्देऽहं सततं हि नन्दतनयं श्रीवालकृष्णं हरिम् ॥ ६॥ राधा माधव रासगोष्ठि विपुलं कृत्वा च वृन्दावने नाना गोपशिमन्तिनी सखिजनाः नृत्यन्ति रासोत्सुकाः । नाना छन्द रसाऽनुभूतिमधुरं गायन्ति स्वानन्ददम् तं वन्दे यदुनन्दनं प्रतिदिनं भृत्यान् सदाशान्तिदम् ॥ ७॥ समाकर्षयन्तं कृपावर्षयन्तं भवभीतलोकं सुशान्ति प्रदन्तम् । सदानन्द सिन्धौ निमग्नं रमन्तं समास्वासयन्तं भवामीतलोकम् । सदाबोधयन्तं सुधादानशीलं नमामि सदा त्वां कृपासिन्धुदेवम् ॥ ८॥ इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं श्रीकृष्णस्तुति सम्पूर्णम् । Proofread by Paresh Panditrao
% Text title            : Shri Krishna Stuti
% File name             : kRRiShNastutiHumeshvarAnanda1.itx
% itxtitle              : kRiShNastutiH (umeshvarAnandatIrthavirachitA 1 vaMshIvAdanameva yasya suruchiNgochAraNaM tatparaM)
% engtitle              : kRiShNastutiH by umeshvarAnanda 1
% Category              : vishhnu, krishna, stuti
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Swami Umeshvaranand Tirth
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : Ganga Mahatmya And Stuti Ratnavali By Swami Umeshvaranand Tirth
% Indexextra            : (Scan
% Latest update         : July 8, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org