श्रीकृष्णवत्सरावलिस्तोत्रम्
अस्मद्गुरूंस्तदाचार्यानपि सर्वगुरूनहम् ।
नमामि शिरसा वाचा स्तौमि ध्यायामि चेतसा ॥ १॥
अब्दवाचिपदोपेतपद्यजालेन माधवम् ।
स्तोष्यामि देवकीसूनुमस्मदन्वयदैवतम् ॥ २॥
विश्वस्य प्रभवं वेदमौलयो यं प्रचक्षते ।
स भाति यदुवंशस्य परिष्कारो रमापतिः ॥ ३॥
विभवं वेदजालानि प्राहुर्यस्य ततोऽवदत् ।
वेदैः सर्वैरहं वेद्य इति यस्तं समाश्रये ॥ ४॥
ध्यायन्ति यत्पदाम्भोजद्वयं शुक्लहृदो जनाः ।
तत्प्रपद्यामहे गम्यं गतिं वयमकिञ्चनाः ॥ ५॥
दयया विश्वविषयप्रमोदूतस्तु योऽभवत् ।
स्थास्नूनां पाण्डुसूनूनां स्वा ङ्घ्रिं गतिमुपेयुषाम् ॥ ६॥
प्रजापतिशिवेन्द्राश्च यन्मायामोहिताः सुराः ।
मुनयो यस्य माहात्म्यं तत्त्वतो न विजानते ॥ ७॥
आङ्गीरसस्य यस्य श्रीर्विश्वाह्लादकरी-शुभा ।
नीलतोयदवाक्यादिश्रुतिवाक्येषु कीर्तिता ॥ ८॥
श्रीमुख महिषीवर्गं भक्तान भागवतानपि ।
मुनयश्चक्षते व्योम्नि परस्मिन् यज्जुषः सदा ॥ ९॥
युदुक्तं ज्ञानमाश्रित्य जना गीतागमादिषु ।
तद्भावभावमापन्नाः सर्गादीनामगोचराः ॥ १०॥
युवा कुमारो यः प्रोक्तः युवतिश्च कुमारिणी ।
यस्य पत्नी तया श्रद्धानाम्न्या देवत्वमश्नुते ॥ ११॥
धातुसाम्ये स्थिते स्मर्ता यस्तं काष्ठादिसन्निभम् ।
नयामीति कृती कोलः स्वजन्मन्यत्रवीद्भुवम् ॥ १२॥
व्यापनं भरणं स्वाम्यं स्वस्य यो लोकतोऽवदत् ।
ईश्वरः सर्वभूतानां यो हृद्देशेऽवतिष्टते ॥ १३॥
यस्मिन्नन्दकुलं याते नार्द्रमार्द्रञ्च धेनवः ।
बहुक्षीरदुधाश्चासन बहुधान्यं च भूतलम ॥ १४॥
प्रमाथी कंसदन्तीन्द्रो यदुद्धृतरदोऽभवत् ।
त्यक्तासुर्येन मल्लाश्च सोऽपि सौधतलस्यितः ॥ १५॥
यद्विक्रमस्य ककुभौ पूतनारिष्टकेशिनौ ।
प्रलम्बधरणीसूनू कालियाद्याश्च साक्षिणः ॥ १६॥
वृषप्रेरितवर्षेण गोपगोपीजनाकुलम् ।
आर्तं गवां कुलं दृट्वा यो दधार धराधरम् ॥ १७॥
यद्वाहमुक्तहेतीशबिम्बोद्यच्चित्रभानुना ।
दग्धा वाराणसी कृत्यासहिता सर्षभीकृता ॥ १८॥
सुभानुना रथाङ्गेन यस्य भानुरितरोहितः ।
जयद्रथवधोद्युक्तपार्थस्य प्रीतये दिवा ॥ १९॥
भारापहरणाद्भुमेरविता भवितारणः ।
यमुनायास्तटे रेमे यो गोपीसहितो मुदा ॥ २०॥
अजातारे राजसूये योऽसौ पार्थिवसंसदि ।
अर्चितः सहदेवेन सर्वसम्मतिपूर्वकम् ॥ २१॥
अव्ययश्चेदिराजस्य व्ययं चक्रे विनिन्दतः ।
चक्रेण बहुशो यस्तु स्वपादकमलं गतम् ॥ २२॥
यः सर्वजिदिति ख्यातो जितं भगवता जगत् ।
इत्यादिवाक्यैर्योऽप्येवं जितो भक्तजनैः प्रियैः ॥ २३॥
सर्वधारी स्वरूपेण सङ्कल्पेनापि यः श्रुतौ ।
ख्यातो मत्स्थानि भूतानीत्यादिवावयेषु च स्वतः ॥ २४॥
विरोधी रुद्ररक्ष्यत्वभ्रान्तिर्बाणासुरो यतः ।
कान्दिशीके ससैन्येऽस्मिँल्लूनबाहुवनोऽभवत् ॥ २५॥
प्रकृतेर्विकृतिः सर्वा येनाध्यक्षेण जायते ।
यच्छरीरं समस्तं च यस्येत्यादिर्यदीरितम् ॥ २६॥
यद्भयात् पवते वायुः खरवृष्टिरुदेति च ।
लोहिताश्वस्सुरेन्द्रश्च मृत्युर्धावति पञ्चमः ॥ २७॥
लेपनं दाम चान्नानि कुब्जा माल्योपजीविनी ।
विदुरोऽपि ददुर्यस्मै स पायान्नन्दनन्दनः ॥ २८॥
यस्माद्विजयसारथ्यं कृतं सकलसाक्षिकम् ।
तस्मात् कृष्णस्य सौलभ्यकाष्ठा लोके विदर्शिता ॥ २९॥
जयतात्पतगाधीशमधिरूढः सुरेश्वरम् ।
विजित्य पारिजातं योऽनयत् सत्यामुदे भुवम् ॥ ३०॥
रासलीलावियोगेन याः पीड्यन्ते स्म गोपिकाः ।
तासामाविरभूद्योऽसौ साक्षान्मन्मथमन्मथः ॥ ३१॥
सुमुखी सुमना वापि विरहे यस्य गोपिका ।
न कापि दुर्मुखी किन्तु दुर्मना च लसत्तनोः ॥ ३२॥
यादवेन्द्रस्य सेवायां हेविलम्बिजनद्रुतम् ।
भजस्व तं भवाम्भोधिं तरितुं दुरितालयम् ॥ ३३॥
विलम्बितुलसीमाल्यं विष्णुं नन्दजमाश्रये ।
विग्रहे स्वस्य रक्तानां विषयासक्तिवारकम् ॥ ३४॥
अविकारि समस्तस्य वस्तु प्रकृतितां भजत् ।
अपि यच्चिदचिद्द्वारा तदच्युतमुपास्महे ॥ ३५॥
शार्वरीतीः समस्ताश्च ब्राह्मरीतीश्च हे जन ।
विचार्य हेया विश्वस्य पतिं प्राप्नुहि यादवम् ॥ ३६॥
नृदेहं प्रतिलभ्यापि प्लवं कृष्णेन वायुना ।
ईरितं यो भवाब्धिं स न तरेदात्महा भवेत् ॥ ३७॥
यस्य केलिः प्रलम्बघ्नलीलया सङ्गताखिला ।
लोकोपकारिणी जाता शुभकृत् भवतात् स नः ॥ ३८॥
मधुरां गमितो योऽसावरेण सशोभकृत् ।
गोपीनां विरहार्तानां नगरस्त्रीरसावहः ॥ ३९॥
नीलः सुवक्रो धिषणां यद्गुडालकसञ्चयः ।
पश्यतां हरिणीं हर्तुं जालति स्निग्धशीतगुः ॥ ४०॥
द्वित्रास्त्रिचतुरा वापि कटाक्षा यस्य पञ्चषाः ।
विश्वावसुजनस्यालं दातुं धनदतुल्यताम् ॥ ४१॥
पराभवति यस्याङ्घ्र्योर्भक्तिस्थस्य तु केशवः ।
सुलभस्तस्य नाभक्ते भक्तिक्रीतो हि स स्मृतः ॥ ४२॥
प्लवङ्गदूत्यकरणान्न सौलभ्यमलाभि यत् ।
पूर्वजन्मनि तत्सोऽयं वृतोऽभूत् पाण्डुजन्मनाम् ॥ ४३॥
वरं स कीलकशिखिपञ्जरान्तर्व्यवस्थितिः ।
न शौरिचिन्ताविमुखजनसंवासवैशस ॥ ४४॥
केशवो यस्य हृद्यास्ते सौम्यरूपो भवत्ययम् ।
अन्तः क्षितिरसं ब्रूते चारुत्वात् सालभूरुहः ॥ ४५॥
गोपिका चिन्तयन्ती यद्विग्रहं निजमन्दिरे ।
साधारणं निजासूनां न लभे किन्तु यत्पदम् ॥ ४६॥
येनाविवादो यस्यासीत्तिष्ठता हृदयाम्बुजे ।
स कृतार्थस्तु नोजीवेत् क्रूरात्मा यद्विरोधिकृत् ॥ ४७॥
गोपालशिशुभिस्तुल्यैःसह वृन्दावने चरम् ।
वस्तु वत्सावनं नौमि परिधावि सुदीप्तिमत् ॥ ४८॥
प्रमादी चन्द्रसङ्काशमुखबिम्बावलोकने ।
कृष्णस्य मा भूः कैङ्कर्ये जनैतत्पदगोचरे ॥ ४९॥
नरानदमुपक्रम्य यदानन्दगुणं श्रुतिः ।
परिच्छेत्तुमना वाचोऽप्यभूमिं मनसोऽवदन् ॥ ५०॥
कृष्ण पाहि गभीराक्ष सन्न्यस्तभरणं त्वयि ।
मां त्वमेवार्जुनव्याजादात्थ सर्वादिपद्यतः ॥ ५१॥
पृतनां धार्तराष्ट्राणां पार्थस्यन्दनचक्रतः ।
नलाटवीमिवाक्लिष्टं द्विपो मत्तः पिपेष यः ॥ ५२॥
पूजनं कुसुमं योग्यं श्रीमतः केशवस्य हि ।
न भिक्षोः पिङ्गलजटाधारिणस्तु कदाचन ॥ ५३॥
यस्य चेतसि गोविन्दः कृतं तस्य कलौ न चेत् ।
सत्कालयुक्तितः श्रैष्ठ्यं नैव तस्य युगं कलिः ॥ १४॥
सिद्धार्थिनां निजाभीष्टप्राप्तिः कृष्णस्य सेवनात् ।
स्यात् प्रसिद्धो हि सर्वेषां सर्वकामप्रदो हरिः ॥ ५५॥
रौद्रं वा सेवनं ब्राह्ममन्यदैवतगोचरम् ।
वर्जयन्ति प्रबुद्धास्तु यस्मात् परिमितं फलम् ॥ ५६॥
वासुदेवपरित्यागी योऽन्यसेवापरो नरः ।
तृषितः स्वर्णदीतीरे कूपं खनति दुर्मतिः ॥ ५७॥
यथा कृष्णप्रभावेण मुक्त आनकदुन्दुभिः ।
शृङ्खलायास्तथा जन्यास्तस्या मुच्येत तत्परः ॥ ५८॥
येन नीलाविवाहाय पुङ्गवाः सप्त दुर्दमाः ।
एकदा रुधिरोद्गारिवदना विनिपातिताः ॥ ५९॥
येनोढा रुक्मिणी स्वानुरक्ता क्षिप्त्वा स्वयंवरे ।
आगतान्नृपतींस्तस्याः परिभूय सहोद्भवम् ॥ ६०॥
सक्रोधनयनः कालयवने पुरतः स्थिते ।
मुचुकुन्दो नृपो येन विशेषेण कटाक्षितः ॥ ६१॥
सम्पूर्य वीथ्यामायान्तं गवां पश्चात् सवेणकम् ।
गोपजैर्बालगोपालं नमाम्यक्षयसम्पदम् ॥ ६२॥
वादिभीकरपुत्रेण वेङ्कटेशेन धीमता ।
कृता स्तुतिः कवीन्द्रेण कृष्णेन विषयिण्यसौ ॥ ६३॥
वत्सरावली मत्सरातिगैः-
missing in manuscript ज्वला ।
दृश्यतामियं वश्यमानसै-
र्भद्रदा भवेद्विद्रुता मतिः ॥ ६४॥
इति श्रीकृष्णवत्सरावलिस्तोत्रं सम्पूर्णम् ।
Proofread by Rajesh Thyagarajan