रागगणानां श्रीकृष्णचन्द्रस्तवम्

रागगणानां श्रीकृष्णचन्द्रस्तवम्

श्रीनारद उवाच - भैरवाद्या रागगणाः पुरः प्राप्ता हरेः प्रभोः । रूपानुरूपावयवां तनुं दृष्ट्वातिहर्षिताः ॥ १॥ यत्र यत्र च तेषां वै दृष्टिः प्राप्ता हरेस्तनौ । तत्र स्थिता च निर्गन्तुं लावण्यान्न शशाक ह ॥ २॥ अहो श्रीकृष्णचन्द्रस्य रूपमत्यद्भुतं हरेः । दृष्ट्वोपवर्णनं तस्य चक्रुस्तेऽपि पृथक् पृथक् ॥ ३॥ भैरव उवाच - भज हरिजानुद्वयमिति लक्ष्मीः । भजति सदाङ्के कमलकराभ्याम् ॥ ४॥ मेघमल्लार उवाच - ऊरू विष्णो रम्भाखण्डौ हेमस्तम्भौ ध्याये वन्द्यौ । ओजः पूर्णौ शोभायुक्तौ वस्त्रापीतौ कृष्णस्योभौ ॥ ५॥ दीपक उवाच - सकलसुखकरं कनकरुचिधरम् । प्रथितहरिपदं भजत कटितले ॥ ६॥ मालकोश उवाच - कटी केशवाद्या हरेरस्ति तत्र नृणां नेत्रयोर्दृष्टिमानं हरन्ति । परं कम्पिता मन्दगच्छत्समीरैः सुनम्रेण सा सर्वचेतोहरेत्थम् ॥ ७॥ श्रीराग उवाच - नाभेः सरः पुष्करकुण्डवच्च तल्लसत्त्रिवल्ल्यूर्मिमनोहरं पदम् । रोमावलिप्रोज्झितकामकाननं भजामि नित्यं हृदि राधिकापतेः ॥ ८॥ हिण्डोल उवाच - अक्षरपङ्क्तिः किन्न्वलिपङ्क्तिः पिप्पलपत्रे मोहनमाला । किं कमले यच्छ्यामलरेखा किं ह्युदरे रोमावलिरेखा ॥ ९॥ भैरवरागिण्य ऊचुः पीतपटं यत्कृष्णहरेरिन्द्रधनुर्वद्दीप्तियुतम् । काञ्चनशिल्पैश्चारुरुचि तद्भज नॄणां दुःखहरम् ॥ १०॥ भैरवपुत्रा ऊचुः चतुःसमुद्रा इव विश्वपूरका आनन्ददा एव चतुष्पदार्थवत् । ते बाहवो लोकवितानदण्डवज्जयन्ति भूधारणदिग्गजा इव ॥ ११॥ मेघमल्लाररागिण्य ऊचुः अरुणबिम्बफलद्युतिमण्डितं भज हरेरधरं मधुरं मनः । नवजपादलमल्लसुविग्रहं सकलवल्लभभूमिपतेः प्रभोः ॥ १२॥ मेघमल्लारपुत्रा ऊचुः कर्पूरकेतकसुमौक्तिकहीरकाणां श्रीखण्डचन्द्रचपलामृतमल्लिकानम् । तेषां रुचेश्च परिभावमकारि पूर्वं या दन्तपङ्क्तिरमला स्मरतां परस्य ॥ १३॥ दीपकरागिण्य ऊचुः नयनयुगलजातं पातु नोऽहर्निशं ते मदनशरपरोक्षं सर्वलावण्यदीक्षम् । परिहृतसुरवृक्षं कोटिशो लक्षलक्षं निजजनकृतरक्षं दानदक्षं कटाक्षम् ॥ १४॥ दीपकपुत्रा ऊचुः किं वा कुलिङ्गयुगलं नवपद्ममध्ये दुःखक्षायाय वसतां निशितासियुग्मम् । जैत्रं धनुर्जयति किं मकरध्वजस्य भ्रूमण्डलं किमथ चन्द्रमुखे परस्य ॥ १५॥ मालकोशरागिण्य ऊचुः परिनृत्यति इन्दुमण्डले फणिपत्न्याविव लोलकुण्डले । कमले मकरन्दनिर्भरे भ्रमरालीव सुगण्डमण्डले ॥ १६॥ मालकोशपुत्रा ऊचुः रविरेव खमण्डले किमु यदुभर्तुस्त्वथवा घने तडित् । अधितिष्ठति गण्डमण्डलं द्युतिखण्डं कलधौतकुण्डलम् ॥ १७॥ श्रीरागिण्य ऊचुः कलिङ्गयोः खञ्जनयोः किलारादापत्यतां युद्धमभूदलीनाम् । तेषां गतः कीर उषःप्रफुल्ले चकास्ति पद्मेऽरुणबिम्बलिप्सुः ॥ १८॥ श्रीरागपुत्रा ऊचुः परिकरीकृतपीतपटं हरिं शिखिकिरीटनतीकृतकन्धरम् । लगुडवेणुकरं चलकुण्डलं पटुतरं नतवेषधरं भजे ॥ १९॥ हिण्डोलरागिण्य ऊचुः अतसीकुसुमोपमेयकान्तिर्यमुनाकूलकदम्बमध्यवर्ती । नवगोपवधूविहारशाली वनमाली वितनोतु मङ्गलानि ॥ २०॥ हिण्डोलपुत्रा ऊचुः - हरे मत्समः पातकी नास्ति भूमौ तथा त्वत्समो नास्ति पापापहारी । इति त्वां च मत्वा जगन्नाथदेवं यथेच्छा भवेत्ते तथा मां कुरु त्वम् ॥ २१॥ श्रीनारद उवाच - इति रागकृतं ध्यानं यः श‍ृणोति पठेत्सदा । तन्नेत्रगोचरो याति भगवान् भक्तवत्सलः ॥ २२॥ इति गर्गसंहितायां विश्वजित्खण्डे पञ्चचत्वारिंशदध्यायान्तर्गतं रागगणानां स्तवम् । Garga Samhita, Vishwajitkhanda, Adhaya 45 Encoded by Vishwas Bhide vrbhide at rediffmail.com http://satsangdhara.net/ Proofread by PSA Easwaran
% Text title            : rAgagaNAnAM shrIkRiShNachandrastavam from Gargasamhita
% File name             : kRiShNachandrastavarAgagaNAnAMgargasamhitA.itx
% itxtitle              : rAgagaNAnAM shrIkRiShNachandrastavam (gargasaMhitAntargatam)
% engtitle              : rAgagaNAnAM shrIkRiShNachandrastavam from Gargasamhita
% Category              : vishhnu, krishna, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide vrbhide at rediffmail.com
% Proofread by          : Vishwas Bhide, PSA Easwaran
% Description-comments  : gargasamhitA
% Indexextra            : (satsangdhArA)
% Acknowledge-Permission: Vishwas Bhide http://satsangdhara.net/
% Latest update         : February 3, 2016
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org