श्रीकृष्णस्तुतिः २
दुर्वासामुनिरुवाच -
बालं नवीनशतपत्रविशालनेत्रं बिम्बाधरं सजलमेघरुचिं मनोज्ञम् ।
मन्दस्मितं मधुरसुन्दरमन्दयानं श्रीनन्दनन्दनमहं मनसा नमामि ॥ १॥
मञ्जीरनूपुररणन्नवरत्नकाञ्ची श्रीहारकेसरिनखप्रतियन्त्रसङ्घम् ।
दृष्ट्याऽऽर्तिहारिमषिबिन्दुविराजमानं वन्दे कलिन्दतनुजातटबालकेलिम् ॥ २॥
पूर्णेन्दुसुन्दरमुखोपरि कुञ्चिताग्राः केशा नवीनघननीलनिभाः स्फुरन्ति ।
राजन्त आनतशिरःकुमुदस्य यस्य नन्दात्मजाय सबलाय नमो नमस्ते ॥ ३॥
श्रीनन्दनन्दनस्तोत्रं प्रातरुत्थाय यः पठेत् ।
तन्नेत्रगोचरो याति सानन्दं नन्दनन्दनः ॥ ४॥
इति गर्गसंहितायां गोलोकखण्डे विंशाध्यायान्तर्गता
दुर्वससा कृता श्रीकृष्णस्तुतिः समाप्ता ।
Garga Samhita, Golokakhanda, Adhaya 20 verses 24-27
Encoded by Vishwas Bhide vrbhide at rediffmail.com http://satsangdhara.net/
Proofread by PSA Easwaran psaeaswaran at gmail.com