श्रीकृष्णस्तुतिः ३
श्रीनारद उवाच -
अथ देवगणैः सार्द्धं शक्रस्तत्र समागतः ।
गतमानो गिरौ कृष्णं रहसि प्रणनाम ह ॥ १॥
इन्द्र उवाच -
त्वं देवदेवः परमेश्वरः प्रभुः पूर्णः पुराणः पुरुषोत्तमोत्तमः ।
परात्परस्त्वं प्रकृतेः परो हरिर्मां पाहि पाहि द्युपते जगत्पते ॥ २॥
दशावतारो भगवांस्त्वमेव रिरक्षया धर्मगवां श्रुतेश्च ।
अद्यैव जातः परिपूर्णदेवः कंसादि दैत्येन्द्रविनाशनाय ॥ ३॥
त्वन्मायया मोहितचित्तवृत्तिं मदोद्धतं हेलनभाजनं माम् ।
पितेव पुत्रं द्युपते क्षमस्व प्रसीद देवेश जगन्निवास ॥ ४॥
ओन्नमो गोवर्धनोद्धरणाय गोविन्दाय गोकुलनिवासाय गोपालाय
गोपालपतये गोपीजनभर्त्रे गिरिगजोद्धर्त्रे करुणानिधये जगद्विधये
जगन्मङ्गलाय जगन्निवासाय जगन्मोहनाय कोटिमन्मथमन्मथाय
वृषभानुसुतावराय श्रीनन्दराजकुलप्रदीपाय श्रीकृष्णाय
परिपूर्णतमाय तेऽसङ्ख्यब्रह्माण्डपतये गोलोकधामधिषणाधिपतये
स्वयम्भगवते सबलाय नमस्ते नमस्ते ॥ ५॥
श्रीनारद उवाच -
इति शक्रकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् ।
सर्वा सिद्धिर्भवेत्तस्य सङ्कटान्न भयं भवेत् ॥ ६॥
इति गर्गसम्हितायां गिरिराजखण्डे चतुर्थाध्यायान्तर्गता
इन्द्रस्य श्रीकृष्णस्तुतिः समाप्ता ।
Garga Samhita, Girirajakhanda, Adhaya 4
Encoded by Vishwas Bhide vrbhide at rediffmail.com http://satsangdhara.net/
Proofread by PSA Easwaran psaeaswaran at gmail.com