कूर्मस्तुतिः २
निरवधि च निराश्रयं च यस्य स्थितमनिवर्तितकौतुकप्रपञ्चम् ।
प्रथम इह भवान्स कूर्ममूर्तिर्जयति चतुर्दशलोकवल्लिकन्दः ॥ १॥
भ्राम्यन्महागिरिनिघर्षणलब्धपृष्ठ-
कण्डूयनक्षणसुखायितगाढनिद्रः ।
सुष्वाप दीर्घतरघर्घरघोरघोषः
श्वासाभिभूतजलधेः कमठः स वोऽव्यात् ॥ २॥
नमस्कुर्मः कूर्मं नमदमरकोटीरनिकर-
प्रसर्पन्माणिक्यच्छविमिलितमाञ्जिष्ठवपुषम् ।
जरीजृम्भड्डिम्भद्युमणिरमणीयांशुलहरी-
परीरम्भस्फूर्जद्बलभिदुपलाद्रिप्रतिभटम् ॥ ३॥
निष्प्रत्यूहमनल्पकल्पचरितस्त्रैलोक्यरक्षागुरुः
क्रीडाकूर्मकलेवरः स भगवान्दिश्यादमन्दां मुदम् ।
कल्पान्तोदधिमध्यमज्जनवशाद्व्यासर्पतः संलुठत्
पृष्ठे यस्य बभूव सैकतकणच्छायं धरित्रीतलम् ॥ ४॥
इति कूर्मस्तुतिः २ समाप्ता ।
Proofread by PSA Easwaran