करुणस्तोत्रम्
श्रीगणेशाय नमः ।
क्षान्तानि तानि निखिलानि महान्ति नूनमागांसि मे प्रणतपालनतत्परेण ।
यत्तेन नाथ भवतो विमुखत्वरूपमागोऽपि हन्त विकलस्य मम क्षमस्व ॥ १॥
यन्नाथ हन्त सततं विपदाकुलेन त्वत्पादयोः प्रणमनं न मया व्यधायि ।
विस्मृत्य सम्प्रति चिराय ममैतदागस्तां सन्निधेहि करुणां मयि दीनबन्धो ॥ २॥
निर्व्या जमार्त्तपरिपालनदीक्षितत्वं पाप्मान्तकृत्त्वमचिराच्च समन्निकामम् ।
कार्या तथाऽपि विनते नतिमात्रतःस्त्राक् सन्तुष्यता मयि दयैव विभो
त्वयाऽद्य ॥ ३॥
सर्वेषु पातकपरेषु परं प्रसिद्धं मां त्रास्यसे यदि शरण्य तदैव नाथ ।
पापीयसामपि सकृच्छरणं गतानामुद्धारदीक्षिततया प्रथितोऽसि भावी ॥ ४॥
के नाम पातककृतो भवताऽद्य यावन् नैवोद्धृता यदि गताः शरणं कदाचित् ।
किन्त्वेषु हन्त! महितस्य दयानिधे मे सन्तारणावसर एष यशोऽभिलाषिन् ॥ ५॥
विश्वम्भरस्य करुणावरुणालयस्य सर्वेश्वरस्य महितस्य यशस्विनां ते ।
आर्त्तेष्वनन्यशरणेषु न नाथ सम्प्रत्येवंविधत्वमुचितं बत मादृशेषु ॥ ६॥
त्वत्सम्मुखे विलपतामपि मादृशानामार्त्ति निहत्य न यतः शिवमादधासि ।
हा दीनबन्धुरपि सन् भगवन् विभो तदन्धोऽसि हन्त बधिरोऽसि जडोऽसि
किंवा ॥ ७॥
हा नाथ दीनजनतैकशरण्य हन्त किं नाम मां म्वशरणं परिपासि नाद्य ।
को वाऽखिलेषुभुवनेषु मदन्य आर्त्तो यं नन्दयन् वितरितासि निजाममिख्याम् ॥ ८॥
कर्मानुसारिफलदानविधौ समर्थैरन्यैर्दयालुभिरपि त्रिदशैर्हतानाम् ।
नाथ त्वमेव शरणं तनु मादृशानां सर्वेश्वरश्च करुणश्च न
यत् परोस्ति ॥ ९॥
किं नाम मां न परिपासि दयाविधान किं हन्त वा त्वमपि कर्ममुखप्रतीक्षः ।
चेदेवमेव बत तर्हि चिराय लोके निर्व्याजपालनपरत्वमपाकृतं स्याद ॥ १०॥
नानाविधानि वृजिनानि मया महान्ति कामं कृतानि यदपि त्रिदशाधिनाथ ।
श्रीमन्नथापि शरणागतवत्सलत्वसम्भावनाय परिपाहि समाश्रितम्माम् ॥ ११॥
मामन्तरेण भुवनेष्वखिलेषु कश्चिन् नैतस्य हन्त पतितस्य समाश्रयोऽन्यः ।
इत्येव नाथ परिपाहि दयानिधान कर्माणि विस्मर चिराय कृतागसोऽपि ॥ १२॥
आर्त्तो न कुत्रचन कश्चन ते मदन्यस्तादृग्जनार्त्तिहरणे च परः परस्त्वत् ।
सम्प्रत्यथापि भगवन् किमु मां न पासि किं वा न पश्यसि चिराय
यशोमहत्त्वम् ॥ १३॥
त्वामाश्रितोऽहमिति नाथ! परं निशम्य पापीयसोऽपि बत! नः परिपासि सद्यः ।
तस्मात्त्वमेव भुवनेष्वखिलेषु विष्वङ् मुख्यो मतोऽसि
शरणागतवत्सलानाम् ॥ १४॥
त्वामाश्रितोऽस्मि परिपालय दीनबन्धो इत्येव दुष्कृतवतामपि मादृशानाम् ।
आकर्ण्य जातु परिदेवनमीश सद्यो रक्षस्त्वमेव महितः करुणाकरेषु ॥ १५॥
अग्रे सरा यदपि दारुणदुष्कृतानि सन्तन्वतां ध्रुवमयी तदपि प्रपन्नाः ।
इत्येव मादृशजनान् परिपासि यत्त्वं विष्वक् तदेव भगवन् प्रथितः
शरण्यः ॥ १६॥
त्राणोचितानि सुकृतानि किमस्य कामं दड्यानि किन्तु दुरितान्यथवेति नाथ ।
चेच्चिन्तयेः पतितपावन मादृशानामभ्यर्थना तव च वत्सलता मृषैव ॥ १७॥
यद्यप्यतीव पतितोऽस्मि दयानिधान सम्प्रत्यथापि भवतः शरणं प्रपन्नः ।
तस्माच्छरण्य भवता परिरक्षणीयो जानेऽन्यथा मम कदाऽपि न रक्षणं
स्यात् ॥ १८॥
कुत्रापि हन्त पतितोनमतो मदन्यः सत्यं तथाऽपि भवतः शरणं प्रपन्नः ।
एवं स्थितो मम निराकरणं चिराय संरक्षणं सपदि वा बत नाथ युक्तम् ॥ १९॥
भुक्तानि पातकफलानि चिराद् बहूनि नेतः चरं किमपि भोक्तुमहं समर्थः ।
त्वं दीनबन्धुरिति नाथ जगत्सु विष्वक् ख्यातोऽसि यत् पतितपावन पाहि तस्मात् ॥ २०॥
मृत्योः करालवदने पतितोऽहमद्य यावत् प्रकामममरेश विधेरधीनः ।
अप्येत्य हन्त! भवतोऽभिमुखं कथञ्चिद् यद्यद्य शर्म्म न लभेय ततो यशः किम् ॥२१॥
अन्याश्रितो यदि विभो! यदि वा निरागाः स्यान्निर्भयो जगति हन्त! भवादृशानाम् ।
किं तेन किञ्चिदुदितं करुणानिधित्वं किंवा महत्सु महिमा महितोंऽशतोऽपि ॥ २२॥
कुर्वन्ननाथपतितोद्धरणं समन्ताल्लोके महत्त्वमुपयाति दयानिधीनाम् ।
मामुद्धरिष्यसि न तद् यदि नाथ सद्यः किं हन्त! तर्हि महिमा विमलस्त्वदीयः ॥ २३॥
यन्मादृशानपि सुदुष्कृतिनोऽतिदीनान् मत्वा समुद्धरसि मङ्क्षु समन्ततस्त्वम् ।
तद् दीन बन्धुरिति नाम तव त्रिलोक्यां स्थाने शरण्य भगवन् नितरां प्रसिद्धम् ॥ २४॥
विश्वम्भरोऽसि यदि मामपि तद्विभर्षि साहाय्यमाचरसि मे यदि दीनबन्धुः ।
यत् पावनस्तदिति नाथ पुनासि नेदं चित्रं स्वनाममहिमानमुशन्ति सर्वे ॥ २५॥
यद्यागमिष्यमघहन् शरणं तवाहं त्वं नाथ यद्यदहरिप्य इमम् शरण्य ।
उद्धृत्य सम्प्रति यशो लभसे स्म यादृक् किं तादृशं कथय नाथ ततोऽन्यथाऽपि ॥ २६॥
सत्यं यदि त्वमसि माधव दीनबन्धुः किम्मां कदर्थयसि हन्त! पुनः पुनस्तत ।
एवं विलापिनि जने कृपणोऽपि सद्यः सम्पद्य साधु मृदुतां करुणां तनोति ॥ २७॥
यावत् समं करुणया पररक्षकत्वं साधारणोऽपि भजते यदि कीर्त्तिलिप्सुः ।
विश्वम्भरत्वमहितः पुनरेतमेवं व्यापादयस्यहह तत्त्वमिव त्वमेव ॥ २८॥
सर्वेऽप्यमी तव वशे जगदीशितारः पुंसां शुभाशुभविधौ प्रभवो भवन्ति ।
तस्मात्त्वमेव बत तत्तदपाकृतस्य मादृग्जनस्य शरणैषिण आश्रयोऽसि ॥ २९॥
पाया यदि त्वमपि नाथ न पीड्यमानं तैस्तैः परस्य चरितेकदृशां प्रसिद्धैः ।
लोकः शरण्य शरणं बत कस्य यायात् को वा भवेत् पतितपावन दीनबन्धुः ॥ ३०॥
व्याधादयोऽपि भगवन् विहितापराधाः सन्तारिताः सपदि हन्त यदा दयालो ।
एकाकिनं पुनरिमं परिपीडयंस्त्वं तत्तां निजां किमु निराकुरुषे चिरं न ॥ ३१॥
दीनोऽस्मि दीनदयितोऽसि सुदुःखितोऽस्मिदुखान्तकस्त्वमसि नाथ सुदुःखितानाम् ।
पाप्मास्मि पावनकृतां प्रथमोऽसि नित्यं तन्मां प्रभो झटिति पालय पावयाद्य ॥ ३२॥
कर्म्मानुसारमशुभं च शुभं च भोग्यं सर्वस्य दैवनियतं जगतो न चित्रम् ।
भूयोऽपि भोः पतितपावन नाम यत्ते तन्मां पुनीहि च कृतार्थय तामभिख्याम् ॥ ३३॥
सर्वार्थपूर्त्तिकरणे बहवः प्रसिद्धाः कल्पाद्रुमप्रभूतयः शरणागतानाम् ।
हे नाथ यद्यथ बिभर्षि पराङ्मुखांस्त्वमेतादृशांस्तदासि सत्यमतुग्रहीता ॥ ३४॥
नाथ त्वमेव यदि सर्वजगन्मयस्तन्मां पीडयन् किमु न पीडयसि स्वमद्य ।
चेत्त्वं पुनर्बत जगद्गत एव कश्चित्किं तर्हि भोस्तदपि कर्मभुजः शुभेच्छा ॥ ३५॥
विश्वं समुद्धरसि सर्वमपि त्वमीश तन्मां समुद्धरसि किं न दयानिधान ।
विश्वम्भर त्वमपि कर्ममुखप्रतीक्षस्तत् किं प्रभुत्वमनुकम्पविधौ त्वदीयम् ॥ ३६॥
इति श्रीशिवदत्तकविरत्नप्रणीतं करुणस्तोत्रं सम्पूर्णम् ।
Proofread by Nat Natarajan, NA