खण्डिता
नमः श्रीव्रजनागराय ।
(भुजङ्गप्रयात छन्दः)
अवज्ञाय भर्तुर्महाघोरदण्डं
गुरोर्भाषितं च व्यतिक्रम्य चण्डम् ।
निषेधोद्धुरां किङ्करीमाक्षिपन्ती
हरे कृष्ण नाथेति बाला जपन्ती ॥ १॥
रसन्मेघजाले तडिद्भिः कराले
गलद्वारिधारे दुरन्तान्धकारे ।
मिलद्भूरिदोषे सखि मे प्रदोषे
प्रयाणाय लज्जामनादृत्य सज्जा ॥ २॥ (युग्मकम्)
अदूरोल्लसद्भल्लूकारब्धयुद्धां
वलद्दन्दशूकावलीभोगरुद्धाम् ।
समन्दाद् ध्वनद्वायसारातिभीमां
रसोत्फुल्लमुल्लङ्घ्य कान्तारसीमाम् ॥ ३॥
प्रविश्यानवद्यं लतागेहमध्यं
धृतौत्सुक्यचक्रा निसर्गादवक्रा ।
नखाग्रप्रसूनैः सुगन्धिप्रसूनैः
पयःफेनकल्पं व्यधत्तेह तल्पम् ॥ ४॥ (युग्मकम्)
प्रणीतेक्षणेयं मुहुस्ते पदव्यां
दधाना मुकुन्द स्पृहां नव्यनव्याम् ।
अलब्धं ततस्त्वामवेत्यातिखिन्ना
बभूव प्रसूनेषुबाणैर्विभिन्ना ॥ ५॥
सुकण्ठी शठेयं भजन्ती प्रजल्पं
मुहुर्भावयन्ती निमेषं च कल्पम् ।
चकाराद्य कुञ्जे बतालब्धकामे
सखी जागरं सम्भ्रमादेकिका मे ॥ ६॥
अहो भाग्यमद्य प्रपन्नोऽसि सद्य-
स्त्वमस्मिन्नगारे यदारान् मुरारे ।
सखीवृन्ददृष्टिर्धृतानन्दवृष्टि-
र्बभूवात्तरङ्गं विलोक्य त्वदङ्गम् ॥ ७॥
दुकूलस्य लक्ष्मीं समन्ताद् विशालां
असौ वीक्ष्य पीतस्य ते मल्लिमाला ।
लुठन्ती कुचोद्भासिकाश्मीरपङ्के
निजं पीतमङ्गं चकाराद्य शङ्के ॥ ८॥
विकीर्णालकान्तः परिश्रान्तिकान्त-
स्तव व्यक्ततन्द्रः स्फुरत्यास्यचन्द्रः ।
कृतानङ्गयागं विभक्ताङ्गरागं
नखाङ्कालिपात्रं तथेदं च गात्रम् ॥ ९॥
स्फुरद्बन्धुजीवप्रसूनाप्तसङ्गं
परिस्पर्धमानो विलासेन भृङ्गम् ।
मुदं कस्य बिम्बाधरस्तेन रक्तः
करोत्युज्ज्वलां कज्जलेनाद्य सक्तः ॥ १०॥
अलं देवदिव्येना जाने भवन्तं
सदा राधिकायामतिप्रेमवन्तम् ।
अलिन्दात् कुरु त्वं ममाधिप्रभातं
द्रुतं गोपकन्याभुजङ्ग प्रयातम् ॥ ११॥
इति प्रेमगर्भां समाकर्ण्य सर्वां
तदा राधिकालीगिरं रत्नमाली ।
हरिस्तोषभारं स विन्दन्नपारं
सदा मे महिष्ठं विधत्तामभीष्टम् ॥ १२॥
इति श्रीरूपगोस्वामिविरचितस्तवमालायां खण्डिता समाप्ता ।