श्रीकिङ्गृहेशस्तुतिः
अयत्नसङ्कल्पितसर्वलोक-
सर्गापवर्गस्थितिसंविधानम् ।
अनादिमध्यान्तमशेषनाथं
किङ्गेहनाथं शरणं भजामि ॥ १॥
अकृत्रिमानां वचसामभूमिं
अगोचरं ब्रह्मशिवादिवाचाम् ।
अहं स्तुवे किङ्गृहनायक त्वां
तथाप्यलज्जंस्तु मितं पचोक्तिः ॥ २॥
अकिञ्चनोऽनन्यगतिस्त्वदीय
स्तुतिं करोमीति मतिं करोमि ।
कृपानिधे किङ्गृहनायकाद्य
त्वमेव मे वाचमुदीरयेथाः ॥ ३॥
त्वयैव दत्तामुपलभ्य वाणीं
अणीयसीमप्यतुलप्रभावम् ।
प्रसादये किङ्गृहनायक त्वां
न चेत् कुतो मे सफलं वचस्स्यात् ॥ ४॥
अनेन जीवेन समस्तवस्तु
प्रविश्य नामानि च रूपभेदैः ।
व्याकृत्य वीक्षावनमध्यभागे
विभुं शयानं सततं भजामि ॥ ५॥
अशेषपुंसां हृदि सन्निविष्टं
अनल्पशक्त्यादि गुणैर्विशिष्टम् ।
हृत्ताप हृत्पङ्कज भृङ्गजुष्टं
देवं भजे किङ्गृहगं ममेष्टम् ॥ ६॥
श्रीशालिहोत्रार्पितशालिपिष्ट
हृष्टो भवान् देवशयिष्णुरेनम् ।
किं गेहमत्रेति यदावदत् तत्
किङ्गेहमासीत् तव सद्म नाम्ना ॥ ७॥
पद्मामहीलालितपादपद्मं
पद्मासनाधिष्ठितनिम्ननाभिम् ।
शयानमाक्रम्य भुजङ्गतल्पं
किङ्गेहसद्मानमहं नतोऽस्मि ॥ ८॥
विस्मेरमासीत् भुवनं त्वदीयं
चरित्र मन्वीक्ष्य चिरप्रवृत्तम् ।
किङ्गेहनाथासुरकैटभादि
निबर्हणार्थं किल सर्वशक्ते ॥ ९॥
गङ्गादितीर्थानि निषेव्यशंभुः
सर्वाणि पुण्यायतनानि गत्वा ।
अमुक्तपूर्वोविधिहत्यया त्वां
संसेव्य किङ्गेहपते विमुक्तः ॥ १०॥ (किं सेव्य किङ्गेहपदे)
अजह्नुजानोद्य महापराधं
द्विजं हि हृत्तापहरं सरस्ते ।
अतीतरत् कौशिकमद्भुतं त्वत्
प्रभावतः किङ्गृहनाथ नैतत् ॥ ११॥
रघुप्रवीरस्य तवार्हमेतत्
यथागतस्यैव सिपोर्जिघांसोः ।
विधूय रक्षस्त्वममुष्य दिव्यं
अदाः पदं किङ्गृहनायक त्वम् ॥ १२॥
पिष्टप्रदीपान् परिकल्प्य ये त्वां
हृष्टा भजन्तेऽहनिपुष्यदर्शे ।
इष्टप्रदायी वितनोषि तेषां
कष्टोपभोग्यान्यपि काङ्क्षितानि ॥ १३॥
विकासयन् मानसपङ्कजानि
विपश्चितां निश्चलभक्तिभाजाम् ।
प्रादुर्भवन्नासुरकैटभादि
तमोरवेत्वं मयि सुप्रसीद ॥ १४॥
प्रद्युम्ननाम्ने तपसां हि धाम्ने
कृपाप्रसन्ने त्वयि किङ्गृहेश ।
गङ्गाधिकत्वं न किमापतीर्थं
हृत्तापहं वा तनयं न वन्ध्या ॥ १५॥
त्वं सर्ववित् त्वं कमलासहायः
त्वमेव वेदान्त वचोऽवसेयः ।
भवन्तमेतं शरणं प्रपन्नाः
वयं न यस्मात् परमस्ति दैवम् ॥ १६॥
पुराणपुंभावमहो विगुह्य (विगृह्य)
युवत्वमेवाकलयन् सुरूपम् ।
उपायमस्त्वं किल धर्मसेन-
सुतान्नताङ्गीमिह किङ्गृहेश ॥ १७॥
श्रीभूमिलालितपदं श्रितशेषतल्पं
कल्पान्तयोग्यभुवनावनयोगनिद्रम् ।
श्रीशालिहोत्रशिरसाधृतहस्तपद्मं
श्रीवीरराघवविभुं श्रयतां मनो मे ॥ १८॥
वेङ्कटेशकविना विनिर्मितां
किङ्गृहाधिपति संस्तुतिं पठन् ।
दिव्यभोगमुपभुज्य मानवो
भव्यरूपमवलोकयेत् प्रभोः ॥ १९॥
इति वेङ्कटेशकविना विरचिता श्रीकिङ्गृहेशस्तुतिः समाप्ता ।