॥ श्रीकृष्णकर्णामृतम् ॥

॥ प्रथमाश्वासः ॥ चिन्तामणिर्जयति सोमगिरिर्गुरुर्मे शिक्षागुरुश्च भगवान् शिखिपिञ्छमौलिः । यत्पादकल्पतरुपल्लवशेखरेषु लीलास्वयंवररसं लभते जयश्रीः ॥ १.१॥ अस्ति स्वस्तरुणीकराग्रविगलत्कल्पप्रसूनाप्लुतं वस्तुप्रस्तुतवेणुनादलहरीनिर्वाणनिर्व्याकुलम् । स्रस्तस्रस्तनिरुद्धनीविविलसद्गोपीसहस्रावृतं हस्तन्यस्तनतापवर्गमखिलोदारं किशोराकृति ॥ १.२॥ चातुर्यैकनिधानसीमचपलाऽपाङ्गच्छटामन्दरं लावण्यामृतवीचिलालितदृशं लक्ष्मीकटक्षादृतम् । कालिन्दीपुलिनाङ्गणप्रणयिनं कामावताराङ्कुरं बालं नीलममी वयं मधुरिमस्वाराज्यमाराध्नुमः ॥ १.३॥ बर्होत्तंसविलासिकुन्तलभरं माधुर्यमग्नाननं प्रोन्मीलन्नवयौवनं प्रविलसद्वेणुप्रणादामृतम् । आपीनस्तनकुड्मलाभिरभितो गोपीभिराराधितं ज्योतिश्चेतसि नश्चकास्ति जगतामेकाभिरामाद्भुतम् ॥ १.४॥ मधुरतरस्मितामृतविमुग्धमुखाम्बुरुहं मदशिखिपिञ्छलाञ्छितमनोज्ञकचप्रचयम् । विषयविषामिषग्रसनगृध्नुषि चेतसि मे विपुलविलोचनं किमपि धाम चकास्ति चिरम् ॥ १.५॥ मुकुलायमाननयनाम्बुजं विभोर्मुरलीनिनादमकरन्दनिर्भरम् । मुकुरायमाणमृदुगण्डमण्डलं मुखपङ्कजं मनसि मे विजृम्भताम् ॥ १.६॥ कमनीयकिशोरमुग्धमूर्तेः कलवेणुक्वणितादृताननेन्दोः । मम वाचि विजृम्भतां मुरारेर्मधुरिम्णः कणिकापि कापि कापि ॥ १.७॥ मदशिखण्डिशिखण्डविभूषणं मदनमन्थरमुग्धमुखांबुजम् । व्रजवधूनयनाञ्जनरञ्जितं विजयतां मम वाङ्मयजीवितम् ॥ १.८॥ पल्लवारुणपाणिपङ्कजसङ्गिवेणुरवाकुलं फुल्लपाटलपाटलीपरिवादिपादसरोरुहम् । उल्लसन्मधुराधरद्युतिमञ्जरीसरसाननं वल्लवीकुचकुम्भकुङ्कुमपङ्किलं प्रभुमाश्रये ॥ १.९॥ अपाङ्गरेखाभिरभङ्गुराभिरनङ्गलीलारसरञ्जिताभिः । अनुक्षणं वल्लवसुन्दरीभिरभ्यर्चमानं विभुमाश्रयामः ॥ १.१०॥ हृदये मम हृद्यविभ्रमाणां हृदयं हर्षविशाललोलनेत्रम् । तरुणं व्रजबालसुन्दरीणां तरलं किञ्चन धाम सन्निधत्ताम् ॥ १.११॥ निखिलभुवनलक्ष्मीनित्यलीलास्पदाभ्यां कमलविपिनवीथीगर्वसर्वङ्कषाभ्याम् । प्रणमदभयदानप्रौढगाढोद्धताभ्यां किमपि वहतु चेतः कृष्णपादाम्बुजाभ्याम् ॥ १.१२॥ प्रणयपरिणताभ्यां प्राभवालम्बनाभ्यां प्रतिपदललिताभ्यां प्रत्यहं नूतनाभ्याम् । प्रतिमुहुरधिकाभ्यां प्रस्नुवल्लोचनाभ्यां प्रभवतु हृदये नः प्राणनाथः किशोरः ॥ १.१३॥ माधुर्यवारिधिमदान्धतरङ्गभङ्गीशृङ्गारसंकलितशीतकिशोरवेषम् । आमन्दहासललिताननचन्द्रबिम्बमानन्दसम्प्लवमनुप्लवतां मनो मे ॥ १.१४॥ अव्याजमञ्जुलमुखाम्बुजमुग्धभावैरास्वाद्यमाननिजवेणुविनोदनादम् । आक्रीडतामरुणपादसरोरुहाभ्यामार्द्रे मदीयहृदये भुवनार्द्रमोजः ॥ १.१५॥ मणिनूपुरवाचालं वन्दे तच्चरणं विभोः । ललितानि यदीयानि लक्ष्माणि व्रजवीथिषु ॥ १.१६॥ मम चेतसि स्फुरतु वल्लवीविभोर्मणिनूपुरप्रणयिमञ्जुशिञ्जितम् । कमलावनेचरकलिन्दकन्यकाकलहंसकण्ठकलकूजितादृतम् ॥ १. १७॥ तरुणारुणकरुणामयविपुलायतनयनं कमलाकुचकलशीभरपुलकीकृतहृदयम् । मुरलीरवतरलीकृतमुनिमानसनलिनं मम खेलति मदचेतसि मधुराधरममृतम् ॥ १.१८॥ आमुग्धमर्धनयनाम्बुजचुम्ब्यमान- हर्षाकुलव्रजवधूमधुराननेन्दोः । आरब्धवेणुरवमादिकिशोरमूर्ते- राविर्भवन्ति मम चेतसि केऽपि भावाः ॥ १.१९॥ कलक्वणितकङ्कणं करनिरुद्धपीताम्बरं क्रमप्रसृतकुन्तलं कलितबर्हभूषं विभोः । पुनः प्रसृतिचापलं प्रणयिनीभुजायन्त्रितं मम स्फुरतु मानसे मदनकेलिशय्योत्थितम् ॥ १.२०॥ स्तोकस्तोकनिरुध्यमानमृदुलप्रस्यन्दिमन्दस्मितं प्रेमोद्भेदनिरर्गलप्रसृमरप्रव्यक्तरोमोद्गमम् । श्रोतृश्रोत्रमनोहरव्रजवधूलीलामिथो जल्पितं मिथ्यास्वापमुपास्महे भगवतः क्रीडानिमीलद्दृशः ॥ १.२१॥ विचित्रपत्राङ्कुरशालिबालास्तनान्तरं मौनिमनोऽन्तरं वा । अपास्य वृन्दावनपादपास्यमुपास्यमन्यन्न विलोकयामः ॥ १.२२॥ सार्धं समृद्धैरमृतायमानैराध्यायमानैर्मुरलीनिनादैः । मूर्धाभिषिक्तं मधुराकृतीनां बालं कदा नाम विलोकयिष्ये ॥ १.२३॥ शिशिरीकुरुते कदा नु नः शिखिपिञ्छाभरणश्शिशुर्दृशोः । युगलं विगलन्मधुद्रवस्मितमुद्रामृदुना मुखेन्दुना ॥ १.२४॥ कारुण्यकर्बुरकटाक्षनिरीक्षणेन तारुण्यसंवलितशैशववैभवेन । आपुष्णता भुवनमद्भुतविभ्रमेण श्रीकृष्णचन्द्र शिशिरीकुरु लोचनं मे ॥ १.२५॥ कदा वा कालिन्दीकुवलयदलश्यामलतराः कटाक्षा लक्ष्यन्ते किमपि करुणावीचिनिचिताः । कदा वा कन्दर्पप्रतिभटजटाचन्द्रशिशिराः किमप्यन्तस्तोषं ददति मुरलीकेलिनिनदाः ॥ १.२६॥ अधीरमालोकितमार्द्रजल्पितं गतं च गंभीरविलासमन्थरम् । अमन्दमालिङ्गितमाकुलोन्मदस्मितं च ते नाथ वदन्ति गोपिकाः ॥ १.२७॥ अस्तोकस्मितभरमायतायताक्षं निःशेषस्तनमृदितं व्रजाङ्गनाभिः । निस्सीमस्तबकितनीलकान्तिधारं दृश्यासं त्रिभुवनसुन्दरं महस्ते ॥ १.२८॥ मयि प्रसादं मधुरैः कटाक्षैर्वंशीनिनादानुचरैर्विधेहि । त्वयि प्रसन्ने किमिहापरैर्नस्त्वय्यप्रसन्ने किमिहापरैर्नः ॥ १.२९॥ निबद्धमुग्धाञ्जलिरेष याचे नीरन्ध्रदैन्योन्नतमुक्तकण्ठम् । दयाम्बुधे देव भवत्कटाक्षदाक्षिण्यलेशेन सकृन्निषिञ्च ॥ १.३०॥ पिञ्छावतंसरचनोचितकेशपाशे पीनस्तनीनयनपङ्कजपूजनीये । चन्द्रारविन्दविजयोद्यतवक्त्रबिम्बे चापल्यमेति नयनं तव शैशवे नः ॥ १.३१॥ त्वच्छैशवं त्रिभुवनाद्भुतमित्यवैमि यच्चापलं च मम वागविवादगम्यम् । तत् किं करोमि विरणन्मुरलीविलासमुग्धं मुखाम्बुजमुदीक्षितुमीक्षणाभ्याम् ॥ १.३२॥ पर्याचितामृतरसानि पदार्थभङ्गीफल्गूनि वल्गितविशालविलोचननानि । बाल्याधिकानि मदवल्लवभावितानि भावे लुठन्ति सुदृशां तव जल्पितानि ॥ १.३३॥ पुनः प्रसन्नेन मुखेन्दुतेजसा पुरोऽवतीर्णस्य कृपामहाम्बुधेः । तदेव लीलामुरलीरवामृतं समाधिविघ्नाय कदा नु मे भवेत् ॥ १.३४॥ भावेन मुग्धचपलेन विलोकनेन मन्मानसे किमपि चापलमुद्वहन्तम् । लोलेन लोचनरसायनमीक्षणेन लीलाकिशोरमुपगूहितुमुत्सुकोऽस्मि ॥ १.३५॥ अधीरबिम्बाधरविभ्रमेण हर्षार्द्रवेणुस्वरसम्पदा च । अनेन केनापि मनोहरेण हा हन्त हा हन्त मनो धुनोति ॥ १.३६॥ यावन्न मे निखिलमर्मदृढाभिघातनिस्सन्धिबन्धनमुदेत्यसवोपतापः । तावद्विभो भवतु तावकवक्त्रचन्द्रचन्द्रातपद्विगुणिता मम चित्तधारा ॥ १.३७॥ यावन्न मे नरदशा दशमी दृशोऽपि रन्ध्रादुदेति तिमिरीकृतसर्वभावा । लावण्यकेलिभवनं तव तावदेतु लक्ष्म्याः समुत्क्वणितवेणुमुखेन्दुबिम्बम् ॥ १.३८॥ आलोललोचनविलोकितकेलिधारानीराजिताग्रसरणेः करुणाम्बुराशेः । आर्द्राणि वेणुनिनदैः प्रतिनादपूरैराकर्णयामि मणिनूपुरशिञ्जितानि ॥ १.३९॥ हे देव हे दयित हे जगदेकबन्धो के कृष्ण हे चपल हे करुणैकसिन्धो । हे नाथ हे रमण हे नयनाभिराम हा हा कदा नु भवितासि पदं दृशोर्मे ॥ १.४०॥ अमून्यधन्यानि दिनान्तराणि हरे त्वदालोकनमन्तरेण । अनाथबन्धो करुणैकसिन्धो हा हन्त हा हन्त कथं नयामि ॥ १.४१॥ किमिव शृणुमः कस्य ब्रूमः कथं कृतमाशया कथयत कथां धन्यामन्यामहो हृदयेशयः । मधुरमधुरस्मेराकारे मनोनयनोत्सवे कृपणकृपणा कृष्णे तृष्णा चिरं बत लम्बते ॥ १.४२॥ आभ्यां विलोचनाभ्यामम्बुजदलललितलोचनं बालम् । द्वाभ्यामपि परिरब्धुं दूरे मम हन्त दैवसमाग्री ॥ १.४३॥ अश्रान्तस्मितमरुणारुणाधरोष्ठं हर्षार्द्रद्विगुणमनोज्ञवेणुगीतम् । विभ्राम्यद्विपुलविलोचनार्धमुग्धं वीक्षिष्ये तव वदनाम्बुजं कदा नु ॥ १.४४॥ लीलायताभ्यां रसशीतलाभ्यां नीलारुणाभ्यां नयनाम्बुजाभ्याम् । आलोकयेदद्भुतविभ्रमाभ्यां बालः कदा कारुणिकः किशोरः ॥ १.४५॥ बहुलचिकुरभारं बद्धपिञ्छावतंसं चपलचपलनेत्रं चारुबिम्बाधरोष्ठम् । मधुरमृदुलहासं मन्थरोदारलीलं मृगयति नयनं मे मुग्धवेषं मुरारेः ॥ १.४६॥ बहुलजलदच्छायाचोरं विलासभरालसं मदशिखिशिखालीलोत्तंसं मनोज्ञमुखाम्बुजम् । कमपि कमलापाङ्कोदग्रप्रपन्नजगज्जितं मधुरिमपरीपाकोद्रेकं वयं मृगयामहे ॥ १.४७॥ परामृश्यं दूरे परिषदि मुनीनां व्रजवधू- दृशां दृश्यं शश्वत् त्रिभुवनमनोहारिवपुषम् । अनामृश्यं वाचामनिदमुदयानामपि कदा दरीदृश्ये देव दरदलितनीलोत्पलनिभम् ॥ १.४८॥ लीलाननाम्बुजमधीरमुदीक्षमाणं नर्माणि वेणुविवरेषु निवेशयन्तम् । डोलायमाननयनं नयनाभिरामं देवं कदा नु दयितं व्यतिलोकयिष्ये ॥ १.४९॥ लग्नं मुहुर्मनसि लम्पटसम्प्रदायि- लेखाविलेखनरसज्ञमनोज्ञवेषम् । लज्जन्मृदुस्मितमधुस्नपिताधरांशु- राकेन्दुलालितमुखेन्दुमुकुन्दबाल्यम् ॥ १.५०॥ अहिमकरकरनिकरमृदुमृदितलक्ष्मी- सरसतरसरसिरुहसदृशदृशि देवे । व्रजयुवतिरतिकलहविजयिनिजलीला- मदमुदितवदनशशिमधुरिमणि लीये ॥ १.५१॥ करकमलदलदलितललिततरवंशी कलनिनदगलदमृतघनसरसि देवे । सहजरसभरभरितदरहसितवीथी- सततवहदधरमणिमधुरिमणि लीये ॥ १.५२॥ कुसुमशरशरसमरकुपितमदगोपी- कुचकलशघुसृणरसलसदुरसि देवे । मदलुलितमृदुहसितमुषितशशिशोभा- मुहुरधिकमुखकमलमधुरिमणि लीये ॥ १.५३॥ आनम्रामसितभ्रुवोरुपचितामक्षीणपक्ष्माङ्कुरे- ष्वालोलामनुरागिणोर्नयनयोरार्द्रां मृदौ जल्पिते । आताम्रामधरामृते मदकलामम्लानवंशीरवे- ष्वाशास्ते मम लोचनं व्रजशिशोर्मूर्तिं जगन्मोहिनीम् ॥ १.५४॥ तत्कैशोरं तच्च वक्त्रारविन्दं तत्कारुण्यं ते च लीलाकटाक्षाः । तत्सौन्दर्यं सा च मन्दस्मितश्रीः सत्यं सत्यं दुर्लभं दैवतेषु ॥ १.५५॥ विश्वोपप्लवशमनैकबद्धदीक्षं विश्वासस्तवकितचेतसां जनानाम् । पश्यामः प्रतिनवकान्तिकन्दलार्द्रं पश्यामः पथि पथि शैशवं मुरारेः ॥ १.५६॥ मौलिश्चन्द्रकभूषणा मरकतस्तम्भाभिरामं वपु- र्वक्त्रं चित्रविमुग्धहासमधुरं बाले विलोले दृशौ । वाचश्शैशवशीतलामदगजश्लाघ्या विलासस्थिति- र्मन्दं मन्दमये क एष मथुरावीथीमितो गाहते ॥ १.५७॥ पादौ पादविनिर्जिताम्बुजवनौ पद्मालयालङ्कृतौ पाणी वेणुविनोदनप्रणयिनौ पर्यन्तशिल्पश्रियौ । बाहू दोहदभाजनं मृगदृशां माधुर्यधारा गिरो वक्त्रं वाग्विभवातिलङ्घितमहो बालं किमेतन्महः ॥ १.५८॥ बर्हं नाम विभूषणं बहुमतं वेषाय शेषैरलं वक्त्रं द्वित्रिविशेषकान्तिलहरीविन्यासधन्याधरम् । शीलैरल्पधियामगम्यविभवैः शृङ्गारभङ्गीमयं चित्रं चित्रमहो विचित्रमहहो चित्रं विचित्रं महः ॥ ११.५९॥ अग्रे समग्रयति कामपि केलिलक्ष्मी- मन्यासु दिक्ष्वपि विलोचनमेव साक्षी । हा हन्त हस्तपथदूरमहो किमेत- दासीत् किशोरमयमम्ब जगत्त्रयं मे ॥ १.६०॥ चिकुरं बहुलं विरलं भ्रमरं मृदुलं वचनं विपुलं नयनम् । अधरं मधुरं वदनं ललितं चपलं चरितन्तु कदाऽनुभवे ॥ १.६१॥ परिपालय नः कृपालयेत्यसकृज्जल्पितमात्मबान्धवः । मुरलीमृदुलस्वनान्तरे विभुराकर्णयिता कदा नु नः ॥ १.६२॥ कदा नु कस्यां नु विपद्दशायां कैशोरगन्धिः करुणाम्बुधिर्नः । विलोचनाभ्यां विपुलायताभ्यां व्यालोकयिष्यन् विषयीकरोति ॥ १.६३॥ मधुरमधरबिम्बे मञ्जुलं मन्दहासे शिशिरममृतवाक्ये शीतलं दृष्टिपाते । विपुलमरुणनेत्रे विश्रुतं वेणुनादे मरकतमणिनीलं बालमालोकये नु ॥ १.६४॥ माधुर्यादपि मधुरं मन्मथतातस्य किमपि कैशोरम् । चापल्यादपि चपलं चेतो मम हरति हन्त किं कुर्मः ॥ १.६५॥ वक्षःस्थले च विपुलं नयनोत्पले च मन्दस्मिते च मृदुलं मदजल्पिते च । बिम्बाधरे च मधुरं मुरलीरवे च बालं विलासनिधिमाकलये कदा नु ॥ १.६६॥ आर्द्रावलोकितदयापरिणद्धनेत्रमाविष्कृतस्मितसुधामधुराधरोष्ठम् । आद्यं पुमांसमवतंसितबर्हिबर्हमालोकयन्ति कृतिनः कृतपुण्यपुञ्जाः ॥ १.६७॥ मारः स्वयं नु मधुरद्युतिमण्डलं नु माधुर्यमेव नु मनोनयनामृतं नु । वाणीमृजा नु मम जीवितवल्लभो नु बालोऽयमभ्युदयते मम लोचनाय ॥ १.६८॥ बालोऽयमालोलविलोचनेन वक्त्रेण चित्रीकृतदिङ्मुखेन । वेषेण घोषोचितभूषणेन मुग्धेन दुग्धे नयनोत्सुकं नः ॥ १.६९॥ आन्दोलिताग्रभुजमाकुलनेत्रलीलमार्द्रस्मितार्द्रवदनाम्बुजचन्द्रबिम्बम् । शिञ्जानभूषणशतं शिखिपिञ्छमौलिं शीतं विलोचनरसायनमभ्युपैति ॥ १.७०॥ पशुपालपालपरिषद्विभूषणं शिशुरेष शीतलविलोललोचनः । मृदुलस्मितार्द्रवदनेन्दुसम्पदा मदयन्मदीयहृदयं विगाहते ॥ १.७१॥ var De's version has additional verse. Numbers are not changed with De's. किमिदमधरवीथीकॢप्तवंशीनिनादं किरति नयनयोर्नः कामपि प्रेमधाराम् । तदिदममरवीथीदुर्लभं वल्लभं नः त्रिभुवनकमनीयं दैवतं जीवितं च ॥ १.७२॥ var तदिदमुपनतं तमालनीलं तरलविलोचनतारकाभिरामम् । मुदितमुदितवक्त्रचन्द्रबिम्बं मुखरितवेणुविलासजीवितं मे ॥ १.७२॥ चापल्यसीम चपलानुभवैकसीम चातुर्यसीम चतुराननशिल्पसीम । सौरभ्यसीम सकलाद्भुतकेलिसीम सौभाग्यसीम तदिदं व्रजभाग्यसीम ॥ १.७३॥ माधुर्येण द्विगुणशिशिरं वक्त्रचन्द्रं वहन्ती वंशीवीथीविगलदमृतस्रोतसा सेचयन्ती । मद्वाणीनां विहरणपदं मत्तसौभाग्यभाजां मत्पुण्यानां परिणतिरहो नेत्रयोस्सन्निधत्ते ॥ १.७४॥ तेजसेऽस्तु नमो धेनुपालिने लोकपालिने । राधापयोधरोत्सङ्गशायिने शेषशायिने ॥ १.७५॥ धेनुपालदयितास्तनस्थलीधन्यकुङ्कुमसनाथकान्तये । वेणुगीतगतिमूलवेधसे तेजसे तदिदमों नमो नमः ॥ १.७६॥ मृदुक्वणन्नूपुरमन्थरेण बालेन पादाम्बुजपल्लवेन । अनुक्वणन्मञ्जुलवेणुगीतमायाति मे जीवितमात्तकेलि ॥ १.७७॥ सोऽयं विलासमुरलीनिनदामृतेन सिञ्चन्नुदञ्चितमिदं मम कर्णयुग्मम् । आयाति मे नयनबन्धुरनन्यबन्धुरानन्दकन्दलितकेलिकटाक्षलक्ष्यः ॥ १.७८॥ दूराद्विलोकयति वारणखेलगामी धाराकटाक्षभरितेन विलोचनेन । आरादुपैति हृदयङ्गमवेणुनादवेणीदुघेन दशनावरणेन देवः ॥ १.७९॥ त्रिभुवनसरसाभ्यां दीप्तभूषापदाभ्यां दृशि दृशि शिशिराभ्यां दिव्यलीलाकुलाभ्याम् । अशरणशरणाभ्यामद्भुताभ्यां पदाभ्या- मयमयमनुकूजद्वेणुरायाति देवः ॥ १.८०॥ सोऽयं मुनीन्द्रजनमानसतापहारी सोऽयं मदव्रजवधूवसनापहारी । सोऽयं तृतीयभुवनेश्वरदर्पहारी सोऽयं मदीयहृदयाम्बुरुहापहारी ॥ १.८१॥ सर्वज्ञत्वे च मौग्ध्ये च सार्वभौममिदं मम । निर्विशन्नयनं तेजो निर्वाणपदमश्नुते ॥ १.८२॥ पुष्णानमेतत्पुनरुक्तशोभमुष्णेतरांशोरुदयान्मुखेन्दोः । तृष्णाम्बुराशिं द्विगुणीकरोति कृष्णाह्वयं किञ्चन जीवितं मे ॥ १.८३॥ तदेतदाताम्रविलोचनश्रीसम्भाविताशेषविनम्रवर्गम् । मुहुर्मुरारेर्मधुराधरोष्ठं मुखाम्बुजं चुम्बति मानसं मे ॥ १.८४॥ करौ शरदुदञ्चिताम्बुजविलासशिक्षागुरू पदौ विबुधपादपप्रथमपल्लवोल्लङ्घिनौ । दृशौ दलितदुर्मदत्रिभुवनोपमानश्रियौ विलोक्य सुविलोचनामृतमहो महच्छैशवम् ॥ १.८५॥ आचिन्वानमहन्यहन्यहनि साकारान् विहारक्रमा- नारुन्धानमरुन्धतीहृदयमप्यार्द्रस्मितास्यश्रिया । आतन्वानमनन्यजन्मनयनश्लाघ्यामनर्घ्यां दशा- मानन्दं व्रजसुन्दरीस्तनतटीसाम्राज्यमाज्जृम्भते ॥ १.८६॥ समुच्छ्वसितयौवनं तरलशैशवालङ्कृतं मदच्छुरितलोचनं मदनमुग्धहासामृतम् । प्रतिक्षणविलोकनं प्रणयपीतवंशीमुखं जगत्त्रयविमोहनं जयति मामकं जीवितम् ॥ १.८७॥ चित्रं तदेतच्चरणारविन्दं चित्रं तदेतन्नयनारविन्दम् । चित्रं तदेतद्वदनारविन्दं चित्रं तदेतत्पुनरम्ब चित्रम् ॥ १.८८॥ अखिलभुवनैकभूषमधिभूषितजलधिदुहितृकुचकुम्भम् । व्रजयुवतीहारवल्लीमरकतनायकमहामणिं वन्दे ॥ १.८९॥ कान्ताकचग्रहणविग्रहबद्धलक्ष्मीखण्डाङ्गरागरसरञ्जितमञ्जुलश्रीः । गण्डस्थलीमुकुरमण्डलखेलमानघर्माङ्कुरं किमपि खेलति कृष्णतेजः ॥ १.९०॥ मधुरं मधुरं वपुरस्य विभोर्मधुरं मधुरं वदनं मधुरम् । मधुगन्धि मृदुस्मितमेतदहो मधुरं मधुरं मधुरं मधुरम् ॥ १.९१॥ शृङ्गाररससर्वस्वं शिखिपिञ्छविभूषणम् । अङ्गीकृतनराकारमाश्रये भुवनाश्रयम् ॥ १.९२॥ नाद्यापि पश्यति कदाचन दर्शनेन चित्तेन चोपनिषदा सुदृशां सहस्रम् । स त्वं चिरं नयनयोरनयोः पदव्यां स्वामिन् कया नु कृपया मम सन्निधत्से ॥ १.९३॥ केयं कान्तिः केशव त्वन्मुखेन्दोः कोऽयं वेषः कोऽपि वाचामभूमिः । सेयं सोऽयं स्वादुता मञ्जुलश्रीः भूयो भूयो भूयशस्तां नमामि ॥ १.९४॥ वदनेन्दुविनिर्जितश्शशी दशधा देव पदं प्रपद्यते । अधिकां श्रियमश्नुतेतरां तव कारुण्यविजृम्भितं कियत् ॥ १.९५॥ तत्वन्मुखं कथमिवाब्जसमानकक्षं वाङ्माधुरीबहुलपर्वकलासमृद्धम् । तत् किं ब्रुवे किमपरं भुवनैककान्तं यस्य त्वदाननसमा सुषमा सदा स्यात् ॥ १.९६॥ शुश्रूषसे यदि वचः शृणु मामकीनं पूर्वैरपूर्वकविभिर्न कटाक्षितं यत् । नीराजनक्रमधुरं भवदाननेन्दोः निर्व्याजमर्हति चिराया शशिप्रदीपः ॥ १.९७॥ अखण्डनिर्वाणरसप्रवाहैर्विखण्डिताशेषरसान्तराणि । अयन्त्रितोद्वान्तसुधार्णवानि जयन्ति शीतानि तव स्मितानि ॥ १.९८॥ कामं सन्तु सहस्रशः कतिपये स्वारस्यधौरेयकाः कामं वा कमनीयतापरिणतिस्वाराज्यबद्धव्रताः । तैर्नैवं विवदामहे न च वयं देव प्रियं ब्रूमहे यत्सत्यं रमणीयतापरिणतिस्त्वय्येव पारंगता ॥ १.९९॥ मन्दारमूले मदनाभिरामं बिम्बाधरापूरितवेणुनादम् । गोगोपगोपीजनमध्यसंस्थं गोपं भजे गोकुलपूर्णचन्द्रम् ॥ १.१००॥ गलद्व्रीडा लोला मदनवनिता गोपवनिता मधुस्फीतं गीतं किमपि मधुरा चापलधुरा । समुज्जृम्भा गुम्फा मधुरिमगिरां मादृशगिरां त्वयि स्थाने जाते दधति चपलं जन्म च फलम् ॥ १.१०१॥ भुवनं भवनं विलासिनी श्रीस्तनयस्तामरसासनः स्मरश्च । परिचारपरम्पराः सुरेन्द्रास्तदपि त्वच्चरितं विभो विचित्रम् ॥ १.१०२॥ देवस्त्रिलोकसौभाग्यकस्तूरीतिलकाङ्कुरः । जीयाद् व्रजाङ्गनानङ्गकेलीललितविभ्रमः ॥ १.१०३॥ प्रेमदं च मे कामदं च मे वेदनं च मे वैभवं च मे । जीवनं च मे जीवितं च मे दैवतं च मे देव नापरम् ॥ १.१०४॥ माधुर्येण विजृम्भन्तां वाचो नस्तव वैभवे । चापल्येन विवर्धन्तां चिन्ता नस्तव शैशवे ॥ १.१०५॥ यानि त्वच्चरितामृतानि रसनालेह्यानि धन्यात्मनां ये वा चापलशैशवव्यतिकरा राधापराधोन्मुखाः । या वा भावितवेणुगीतगतयो लीलामुखाम्भोरुहे धारावाहिकया वहन्तु हृदये तान्येव तान्येव मे ॥ १.१०६॥ भक्तिस्त्वयि स्थिरतरा भगवन् यदि स्या- द्दैवेन नः फलितदिव्यकिशोरवेषे । मुक्तिः स्वयं मुकुलिताञ्जलि सेवतेऽस्मान् धर्मार्थकामगतयः समयप्रतीक्षाः ॥ १.१०७॥ जय जय जय देव देव देव त्रिभुवनमङ्गलदिव्यनामधेय । जय जय जय बालकृष्णदेव श्रवणमनोनयनामृतावतार ॥ १.१०८॥ तुभ्यं निर्भरहर्षवर्षविवशावेशस्फुटाविर्भवद्- भूयश्चापलभूषितेषु सुकृतां भावेषु निर्भासते । श्रीमद्गोकुलमण्डनाय महते वाचां विदूरस्फुटन्- माधुर्यैकरसार्णवाय महसे कस्मै चिदस्मै नमः ॥ १.१०९॥ ईशानदेवचरणाभरणेन नीवीदामोदरस्थिरयशः स्तबकोद्गमेन । लीलाशुकेन रचितं तव देव कृष्णकर्णामृतं वहतु कल्पशतान्तरेऽपि ॥ १.११०॥ var De's book has additional two verses धन्यानां सरसानुलापसरणीसौरभ्यमभ्यस्यतां कर्णानां विवरेषु कामपि सुधावृष्टिं दुहानं मुहुः । वन्यानां सुदृशां मनोनयनयोर्मग्नस्य देवस्य नः कर्णानां वचसां विजृम्भितमहो कृष्णस्य कर्णामृतम् ॥ १.१११॥ अनुग्रहद्विगुणविशाललोचनैरनुस्मरन् मृदुमुरलीरवामृतैः । यतो यतः प्रसरति मे विलोचनं ततस्ततः स्फुरतु तवैव वैभवम् ॥ १.११२॥ var ॥ इति श्रीकृष्णकर्णामृते प्रथमाश्वासः समाप्तः ॥ ॥ द्वितीयाश्वासः ॥ अभिनवनवनीतस्निग्धमापीतदुग्धं दधिकणपरिदिग्धं मुग्धमङ्कं मुरारेः । दिशतु भुवनकृच्छ्रच्छेदि तापिञ्छगुच्छ- च्छवि नवशिखिपिञ्छा लाञ्छितं वाञ्छितं नः ॥ २.१॥ यां दृष्ट्वा यमुनां पिपासुरनिशं व्यूहो गवां गाहते विद्युत्वानिति नीलकण्ठनिवहो यां द्रष्टुमुत्कण्ठते । उत्तंसाय तमालपल्लवमिति छिन्दन्ति यां गोपिकाः कन्तिः कालियशासनस्य वपुषः सा पावनी पातु नः ॥ २.२॥ देवः पायात्पयसि विमले यामुने मज्जतीनां याचन्तीनामनुनयपदैर्वञ्चितान्यंशुकानि । लज्जालोलैरलसविलसैरुन्मिषत्पञ्चबाणै- र्गोपस्त्रीणां नयनकुसुमैरर्चितः केशवो नः ॥ २.३॥ मातर्नातःपरमनुचितं यत्खलानां पुरस्ता- दस्ताशङ्कं जठरपिठरीपूर्तये नर्तितासि । तत्क्षन्तव्यं सहजसरले वत्सले वाणि कुर्यां प्रायश्चित्तं गुणगणनया गोपवेषस्य विष्णोः ॥ २.४॥ अङ्गुल्यग्रैररुणकिरणैर्मुक्तसंरुद्धरन्ध्रं वारं वारं वदनमरुता वेणुमापूरयन्तम् । व्यत्यस्ताङ्घ्रिं विकचकमलच्छायविस्तारनेत्रं वन्दे वृन्दावनसुचरितं नन्दगोपालसूनुम् ॥ २.५॥ मन्दं मन्दं मधुरनिनदैर्वेणुमापूरयन्तं वृन्दं वृन्दावनभुवि गवां चारयन्तं चरन्तम् । छन्दोभागे शतमखमुखध्वंसिनां दानवानां हन्तारं तं कथय रसने गोपकन्याभुजङ्गम् ॥ २.६॥ वेणीमूले विरचितघनश्यामपिञ्छावचूडो विद्युल्लेखावलयित इव स्निग्धपीताम्बरेण । मामालिङ्गन्मरकतमणिस्तम्भगंभीरबाहुः स्वप्ने दृष्टस्तरुणतुलसीभूषणो नीलमेघः ॥ २.७॥ कृष्णे हृत्वा वसननिचयं कूलकुञ्जाधिरूढे मुग्धा काचिन्मुहुरनुनयैः किं न्विति व्याहरन्ती । सभ्रूभङ्गं सदरहसितं सत्रपं सानुरागं छायाशौरेः करतलगतान्यम्बराण्याचकर्ष ॥ २.८॥ अपि जनुषि परस्मिन्नात्तपुण्यो भवेयं तटभुवि यमुनायास्तादृशो वंशनालः । अनुभवति य एषः श्रीमदाभीरसूनो- रधरमणिसमीपन्यासधन्यामवस्थाम् ॥ २.९॥ अयि परिचिनु चेतः प्रातरम्भोजनेत्रं कबरकलितचञ्चत्पिञ्छदामाभिरामम् । वलभिदुपलनीलं वल्लवीभागधेयं निखिलनिगमवल्लीमूलकन्दं मुकुन्दम् ॥ २.१०। अयि मुरलि मुकुन्दस्मेरवक्त्रारविन्द- श्वसनमधुरसज्ञे त्वां प्रणम्याद्य याचे । अधरमणिसमीपं प्राप्तवत्यां भवत्यां कथय रहसि कर्णे मद्दशां नन्दसूनोः ॥ २.११। सजलजलदनीलं वल्लवीकेलिलोलं श्रितसुरतरुमूलं विद्युदुल्लासिचेलम् । सुररिपुकुलकालं सन्मनोबिम्बलीलं नतसुरमुनिजालं नौमि गोपालबालम् ॥ २.१२॥ अधरबिम्बविडम्बितविद्रुमं मधुरवेणुनिनादविनोदिनम् । कमलकोमलकम्रमुखाम्बुजं कमपि गोपकुमारमुपास्महे ॥ २.१३॥ अधरे विनिवेश्य वंशनालं विवराण्यस्य सलीलमङ्गुलीभिः । मुहुरन्तरयन्मुहुर्विवर्णन् मधुरं गायति माधवो वनान्ते ॥ २.१४॥ वदने नवनीतगन्धवाहं वचने तस्करचातुरीधुरीणम् । नयने कुहनाश्रुमाश्रयेथाश्चरणे कोमलताण्डवं कुमारम् ॥ २.१५॥ अमुनाखिलगोपगोपनार्थं यमुनारोधसि नन्दनन्दनेन । दमुना वनसम्भवः पपे नः किमु नासौ शरणार्थिनां शरण्यः ॥ २.१६॥ जगदादरणीयजारभावं जलजापत्यवचोविचारगम्यम् । तनुतां तनुतां शिवेतराणां सुरनाथोपलसुन्दरं महो नः ॥ २.१७॥ या शेखरे श्रुतिगिरां हृदि योगभाजां पादाम्बुजे च सुलभा व्रजसुन्दरीणाम् । सा काऽपि सर्वजगतामभिरामसीमा कामाय नो भवतु गोपकिशोरमूर्तिः ॥ २.१८॥ अत्यन्तबालमतसीकुसुमप्रकाशं दिग्वाससं कनकभूषणभूषिताङ्गम् । विस्रस्तकेशमरुणाधरमायताक्षं कृष्णं नमामि मनसा वसुदेवसूनुम् ॥ २.१९॥ हस्ताङ्घ्रिनिक्वणितकङ्कणकिङ्किणीकं मध्ये नितम्बमवलम्बितहेमसूत्रम् । मुक्ताकलापमुकुलीकृतकाकपक्षं वन्दामहे व्रजवरं वसुदेवभाग्यम् ॥ २.२०॥ वृन्दावनद्रुमतलेषु गवां गणेषु वेदावसानसमयेषु च दृश्यते यत् । तद्वेणुनादनपरं शिखिपिञ्छचूडं ब्रह्म स्मरामि कमलेक्षणमभ्रनीलम् ॥ २.२१॥ व्यत्यस्तपादमवतंसितबर्हिबर्हं साचीकृतानननिवेशितवेणुरन्ध्रम् । तेजः परं परमकारुणिकं पुरस्तात् प्राणप्रयाणसमये मम सन्निधत्ताम् ॥ २.२२॥ घोषप्रघोषशमनाय मथोगुणेन मध्ये बबन्ध जननी नवनीतचोरम् । तद्बन्धनं त्रिजगतामुदराश्रयाणामाक्रोशकारणमहो नितरां बभूव ॥ २.२३॥ शैवा वयं न खलु तत्र विचारणीयं पञ्चाक्षरीजपपरा नितरां तथापि । चेतो मदीयमतसीकुसुमावभासं स्मेराननं स्मरति गोपवधूकिशोरम् ॥ २.२४॥ राधा पुनातु जगदच्युतदत्तचित्ता मन्थानमाकलयती दधिरिक्तपात्रे । तस्याः स्तनस्तबकचञ्चललोलदृष्टिर्देवोऽपि दोहनधिया वृषभं निरुन्धन् ॥ २.२५॥ गोधूलिधूसरितकोमलकुन्तलाग्रं गोवर्धनोद्धरणकेलिकृतप्रयासम् । गोपीजनस्य कुचकुङ्कुममुद्रिताङ्गं गोविन्दमिन्दुवदनं शरणं भजामः ॥ २.२६॥ यद्रोमरन्ध्रपरिपूर्तिविधावदक्षा वाराहजन्मनि बभूवुरमी समुद्राः । तं नाम नाथमरविन्ददृशं यशोदा पाणिद्वयान्तरजलैः स्नपयां बभूव ॥ २.२७॥ वरमिममुपदेशमाद्रियध्वं निगमवनेषु नितान्तचारखिन्नः । विचिनुत भवनेषु वल्लवीनामुपनिषदर्थमुलूखले निबद्धम् ॥ २.२८॥ देवकीतनयपूजनपूतः पूतनारिचरणोदकधौतः । यद्यहं स्मृतधनञ्जयसूतः किं करिष्यति स मे यमदूतः ॥ २.२९॥ भासतां भवभयैकभेषजं मानसे मम मुहुर्मुहुर्मुहुः । गोपवेषमुपसेदुषस्स्वयं यापि कापि रमणीयता विभोः ॥ २.३०॥ कर्णलम्बितकदम्बमञ्जरी केसरारुणकपोलमण्डलम् । निर्मलं निगमवागगोचरं नीलिमानमवलोकयामहे ॥ २.३१॥ साचि सञ्चलितलोचनोत्पलं सामिकुड्मलितकोमलाधरम् । वेगवल्गितकराङ्गुलीमुखं वेणुनादरसिकं भजामहे ॥ २.३२॥ स्यन्दने गरुडमण्डितध्वजे कुण्डिनेशतनयाधिरोपिता । केनचिन्नवतमालपल्लवश्यामलेन पुरुषेण नीयते ॥ २.३३॥ मा यात पान्थाः पथि भीमरथ्या दिगंबरः कोऽपि तमालनीलः । विन्यस्तहस्तोऽपि नितम्बबिम्बे धूर्तस्समाकर्षति चित्तवित्तम् ॥ २.३४॥ रासक्रीडा अङ्गनामङ्गनामन्तरे माधवो माधवं माधवं चान्तरेणाङ्गना । इत्थमाकल्पिते मण्डले मध्यगः सञ्जगौ वेणुना देवकीनन्दनः ॥ २.३५॥ केकिकेकादृतानेकपङ्केरुहालीनहंसावलीहृद्यता हृद्यता । कंसवंशाटवीदाहदावानलः सञ्जगौ वेणुना देवकीनन्दनः । २.३६॥ क्वापि वीणाभिराराविणा कम्पितः क्वापि वीणाभिराकिङ्किणीनर्तितः । क्वापि वीणाभिरामन्तरं गापितः सञ्जगौ वेणुना देवकीनन्दनः । २.३७॥ चारुचन्द्रावलीलोचनैश्चुम्बितो गोपगोवृन्दगोपालिकावल्लभः । वल्लवीवृन्दवृन्दारकः कामुकः सञ्जगौ वेणुना देवकीनन्दनः । २.३८॥ मौलिमालामिलन्मत्तभृङ्गीलताभीतभीतप्रियाविभ्रमालिङ्गितः । स्रस्तगोपीकुचाभोगसम्मेलितः सञ्जगौ वेणुना देवकीनन्दनः । २.३९॥ चारुचामीकराभासभामाविभुर्वैजयन्तीलतावासितोरःस्थलः । नन्दवृन्दावने वासितामध्यगः सञ्जगौ वेणुना देवकीनन्दनः । २.४०॥ बालिकातालिकाताललीलालयासङ्गसन्दर्शितभ्रूलताविभ्रमः । गोपिकागीतदत्तावधानस्स्वयं सञ्जगौ वेणुना देवकीनन्दनः । २.४१॥ पारिजातं समुद्धृत्य राधावरो रोपयामास भामागृहस्याङ्कणे । शीतशीते वटे यामुनीये तटे सञ्जगौ वेणुना देवकीनन्दनः । २.४२॥ अग्रे दीर्घतरोऽयमर्जुनतरुस्तस्याग्रतो वर्तनिः सा घोषं समुपैति तत्परिसरे देशे कलिन्दात्मजा । तस्यास्तीरतमालकाननतले चक्रं गवां चारयन् गोपः क्रीडति दर्शयिष्यति सखे पन्थानमव्याहतम् ॥ २.४३॥ गोधूलिधूसरितकोमलगोपवेषं गोपालबालकशतैरनुगम्यमानम् । सायन्तने प्रतिगृहं पशुबन्धनार्थं गच्छन्तमच्युतशिशुं प्रणतोऽस्मि नित्यम् ॥ २.४४॥ निधिं लावण्यानां निखिलजगदाश्चर्यनिलयं निजावासं भासां निरवधिकनिःश्रेयसरसम् । सुधाधारासारं सुकृतपरिपाकं मृगदृशां प्रपद्ये माङ्गल्यं प्रथममधिदैवं कृतधियाम् ॥ २.४५॥ आताम्रपाणिकमलप्रणयप्रतोदमालोलहारमणिकुण्डलहेमसूत्रम् । आविश्रमाम्बुकणमम्बुदनीलमव्यादाद्यं धनञ्जयरथाभरणं महो नः ॥ २.४६॥ नखनियमितकण्डून् पाण्डवस्यन्दनाश्वाननुदिनमभिषिञ्चन्नञ्जलिस्थैः पयोभिः । अवतु विततगात्रस्तोत्रनिष्ठ्यूतमौलिर्दशनविधृतरश्मिर्देवकीपुण्यराशिः ॥ २.४७॥ व्रजयुवतिसहाये यौवनोल्लासिकाये सकलशुभविलासे कुन्दमन्दारहासे । निवसतु मम चित्तं तत्पदायत्तवृत्तं मुनिसरसिजभानौ नन्दगोपालसूनौ ॥ २.४८॥ अरण्यानीमार्द्रस्मितमधुरबिम्बाधरसुधा सरण्या संक्रान्तैस्सपदि मदयन् वेणुनिनदैः । धरण्या सानन्दोत्पुलकमुपगूढाङ्घ्रिकमलः शरण्यानामाद्यस्स जयतु शरीरी मधुरिमा ॥ २.४९॥ विदग्धगोपालविलासिनीनां संभोगचिह्नाङ्कितसर्वगात्रम् । पवित्रमाम्नायगिरामगम्यं ब्रह्म प्रपद्ये नवनीतचोरम् ॥ २.५०॥ var De's book. Numbers retained. मुग्धां स्निग्धां मधुरमुरलीमाधुरीधीरनादैः कारं कारं करणविवशं गोकुलव्याकुलत्वम् । श्यामं कामं युवजनमनोमोहनं मोहनत्वं चित्ते नित्यं निवसतु महो वल्लवीवल्लभं नः ॥ २.५०॥ var अन्तर्गृहे कृष्णमवेक्ष्य चोरं बद्ध्वा कवाटं जननीं गतैका । उलूखले दामनिबद्धमेनं तत्रापि दृष्ट्वा स्तिमिता बभूव ॥ २.५१॥ रत्नस्थले जानुचरः कुमारः सङ्क्रान्तमात्मीयमुखारविन्दम् । आदातुकामस्तदलाभखेदाद्विलोक्य धात्रीवदनं रुरोद ॥ २.५२॥ आनन्देन यशोदया समदनं गोपाङ्गनाभिश्चिरं साशङ्कं बलविद्विषा सकुसुमैः सिद्धैः पथि व्याकुलम् । सेर्ष्यं गोपकुमारकैस्सकरुणं पौरैर्जनैः सस्मितं यो दृष्टः स पुनातु नो मुररिपुः प्रोत्क्षिप्तगोवर्धनः ॥ २.५३॥ उपासतामात्मविदः पुराणाः परं पुमांसं निहितं गुहायाम् । वयं यशोदाशिशुबाललीलाकथासुधासिन्धुषु लीलयामः ॥ २.५४॥ विक्रेतुकामा किल गोपकन्या मुरारिपादार्पितचित्तवृत्तिः । दध्यादिकं मोहवशादवोचद्गोविन्द दामोदर माधवेति ॥ २.५५॥ उलूखलं वा यमिनां मनो वा गोपाङ्गनानां कुचकुड्मलं वा । मुरारिनाम्नः कलभस्य नूनमालानमासीत् त्रयमेव भूमौ ॥ २.५६॥ करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् । वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥ २.५७॥ शम्भो स्वागतमास्यतामित इतो वामेन पद्मासन क्रौञ्चारे कुशलं सुखं सुरपते वित्तेश नो दृश्यसे । इत्थं स्वप्नगतस्य कैटभजितश्श्रुत्वा यशोदा गिरः किं किं बालक जल्पसीति रचितं धूधूकृतं पातु नः ॥ २.५८॥ मातः किं यदुनाथ देहि चषकं किं तेन पातुं पय- स्तन्नास्त्यद्य कदास्ति वा निशि निशा का वाऽन्धकारोदये । आमील्याक्षियुगं निशाप्युपगता देहीति मातुर्मुहु- र्वक्षोजांशुककर्षणोद्यतकरः कृष्णस्य पुष्णातु नः ॥ २.५९॥ कालिन्दीपुलिनोदरेषु मुसली यावद्गतः खेलितुं तावत्कार्परिकं पयः पिब हरे वर्धिष्यते ते शिखा । इत्थं बालतया प्रतारणपराः शृत्वा यशोदागिरः पायान्नस्स्वशिखां स्पृशन् प्रमुदितः क्षीरेऽर्धपीते हरिः ॥ २.६०॥ कैलासे नवनीतति क्षितिरियं प्राग्जग्धमृल्लोष्टति क्षीरोदोऽपि निपीतदुग्धति लसत् स्मेरे प्रफुल्ले मुखे । मात्राऽजीर्णधिया दृढं चकितया नष्टाऽस्मि दृष्टाः कया धूधू वत्सक जीव जीव चिरमित्युक्तोऽवतान्नो हरिः ॥ २.६१॥ किञ्चित्कुञ्चितलोचनस्य पिबतः पर्यायपीतस्तनं सद्यः प्रस्नुतदुग्धबिन्दुमपरं हस्तेन सम्मार्जतः । मात्रैकाङ्गुलिलालितस्य चुबुके स्मेराननस्याधरे शौरेः क्षीणकणान्विता निपतिता दन्तद्युतिः पातु नः ॥ २.६२॥ उत्तुङ्गस्तनमण्डलोपरिलसत्प्रालम्बमुक्तामणे- रन्तर्बिम्बितमिन्द्रनीलनिकरच्छायानुकारिद्युतेः । लज्जाव्याजमुपेत्य नम्रवदना स्पष्टं मुरारेर्वपुः पश्यन्ती मुदिता मुदोऽस्तु भवतां लक्ष्मीर्विवाहोत्सवे ॥ २.६३॥ कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया तथ्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम् । व्यादेहीति विदारिते शिशुमुखे दृष्ट्वा समस्तं जगत् माता यस्य जगाम विस्मयपदं पायात् स नः केशवः ॥ २.६४॥ स्वाती सपत्नी किल तारकाणां मुक्ताफलानां जननीति रोषात् । सा रोहिणी नीलमसूत रत्नं कृतास्पदं गोपवधूकुचेषु ॥ २.६५॥ नृत्यन्तमत्यन्तविलोकनीयं कृष्णं मणिस्थम्भगतं मृगाक्षी । निरीक्ष्य साक्षादिव कृष्णमग्रे द्विधा वितेने नवनीतमेकम् ॥ २.६६॥ वत्स जागृहि विभातमागतं जीव कृष्ण शरदां शतं शतम् । इत्युदीर्य सुचिरं यशोदया दृश्यमनवदनं भजामहे ॥ २.६७॥ ओष्ठं जिघ्रन् शिशुरिति धिया चुम्बितो वल्लवीभिः कण्ठं गृह्णन्नरुणितपदं गाढमालिङ्गिताङ्गः । दोष्णा लज्जापदमभिमृशन्नङ्कमारोपितात्मा धूर्तस्वामी हरतु दुरितं दूरतो बालकृष्णः ॥ २.६८॥ एते लक्ष्मण जानकीविरहितं मां खेदयन्त्यम्बुदा मर्माणीव च घट्टयन्त्यलममी क्रूराः कदम्बानिलाः । इत्थं व्यहृतपूर्वजन्मचरितं यो राधया वीक्षितः सेर्ष्यं शङ्कितया स नस्सुखयतु स्वप्नायमानो हरिः ॥ २.६९॥ ओष्ठं मुञ्च हरे बिभेमि भवता पानैर्हता पूतना कण्ठाश्लेषममुं जहीहि दलितावालिङ्गनेनार्जुनौ । मा देहि छुरितं हिरण्यकशिपुर्नीतो नखैः पञ्चता- मित्थं वारितरात्रिकेलिरवताल्लक्ष्म्यापहासाद्धरिः ॥ २.७०॥ रामो नाम बभूव हुं तदबला सीतेति हुं तौ पितु- र्वाचा पञ्चवटीतटे विहरतस्तामाहरद्रावणः । निद्रार्थं जननी कथामिति हरेर्हुङ्कारतः शृण्वतः सौमित्रे क्व धनुर्धनुर्धनुरिति व्यग्रा गिरः पातु नः ॥ २.७१॥ बालोऽपि शैलोद्धरणाग्रपाणिर्नीलोऽपि नीरन्ध्रतमः प्रदीपः । धीरोऽपि राधानयनावबद्धो जारोऽपि संसारहरः कुतस्त्वम् ॥ २.७२॥ बालाय नीलवपुषे नवकिङ्किणीकजालाभिरामजघनाय दिगम्बराय । शार्दूलदिव्यनखभूषणभूषिताय नन्दात्मजाय नवनीतमुषे नमस्ते ॥ २.७३॥ पाणौ पायसभक्तमाहितरसं बिभ्रन्मुदा दक्षिणे सव्ये शारदचन्द्रमण्डलनिभं हय्यंगवीनं दधत् । कण्ठे कल्पितपुण्डरीकनखमप्युद्दामदीप्तिं वहन् देवो दिव्यदिगम्बरो दिशतु नस्सौख्यं यशोदाशिशुः ॥ २.७४॥ किङ्किणिकिणिकिणिरभसैरङ्गणभुवि रिङ्गणैः सदाऽटन्तम् । कुङ्कुणुकुणुपदयुगलं कङ्कणकरभूषणं हरिं वन्दे ॥ २.७५॥ सम्बाधे सुरभीणामम्बामायासयन्तमनुयान्तीम् । लम्बालकमवलम्बे तं बालं तनुविलग्नजम्बालम् ॥ २.७६॥ अञ्चितपिञ्छाचूडं सञ्चितसौजन्यवल्लवीवलयम् । अधरमणिनिहितवेणुं बालं गोपालमनिशमवलम्बे ॥ २.७७॥ प्रह्लादभागधेयं निगममहाद्रेर्गुहान्तराधेयम् । नरहरिपदाभिधेयं विबुधविधेयं ममानुसंधेयम् ॥ २.७८॥ संसारे किं सारं कंसारेश्चरणकमलपरिवसनम् । ज्योतिः किमन्धकारे यदन्धकारेरनुस्मरणम् ॥ २.७९॥ कलशनवनीतचोरे कमलादृक्कुमुदचन्द्रिकापूरे । विहरतु नन्दकुमारे चेतो मम गोपसुन्दरीजारे ॥ २.८०॥ कस्त्वं बाल बलानुजः किमिह ते मन्मन्दिराशङ्कया युक्तं तन्नवनीतपात्रविवरे हस्तं किमर्थं न्यसेः । मातः कञ्चन वत्सकं मृगयितुं मा गा विषादं क्षणा- दित्येवं वरवल्लवीप्रतिवचः कृष्णस्य पुष्णातु नः ॥ २.८१॥ गोपालाजिरकर्दमे विहरसे विप्राध्वरे लज्जसे ब्रूषे गोकुलहुङ्कृतैः स्तुतिशतैर्मौनं विधत्से विदाम् । दास्यं गोकुलपुंश्चलीषु कुरुषे स्वाम्यं न दान्तात्मसु ज्ञातं कृष्ण तवाङ्घ्रिपङ्कजयुगं प्रेम्णाचलं मञ्जुलम् ॥ २.८२॥ नमस्तस्मै यशोदाया दायादायास्तु तेजसे । यद्धि राधामुखाम्भोजं भोजं भोजं व्यवर्धत ॥ २.८३॥ अवताराः सन्त्वन्ये सरसिजनयनस्य सर्वतोभद्राः । कृष्णादन्यः को वा प्रभवति गोगोपगोपिकामुक्त्यै ॥ २.८४॥ मध्ये गोकुलमण्डलं प्रतिदिशं चाम्बारवोज्जृम्भिते प्रातर्दोहमहोत्सवे नवघनश्यामं रणन्नूपुरम् । फाले बालविभूषणं कटिरणत्सत्किङ्किणीमेखलं कण्ठे व्याघ्रनखं च शैशवकलाकल्याणकार्त्स्न्यं भजे ॥ २.८५॥ सजलजलदनीलं दर्शितोदारलीलं करतलधृतशैलं वेणुनादै रसालम् । व्रजजनकुलपालं कामिनीकेलिलोलं कलितललितमालं नौमि गोपालबालम् ॥ २.८६॥ स्मितललितकपोलं स्निग्धसङ्गीतलोलं ललितचिकुरजालं चौर्यचातुर्यलीलम् । शतमखरिपुकालं शातकुम्भाभचेलं कुवलयदलनीलं नौमि गोपालबालम् ॥ २.८७॥ मुरलिनिनदलोलं मुग्धमायूरचूडं दलितदनुजजालं धन्यसौजन्यलीलम् । परहितनवहेलं पद्मसद्मानुकूलं नवजलधरनीलं नौमि गोपालबालम् ॥ २.८८॥ सरसगुणनिकायं सच्चिदानन्दकायं शमितसकलमायं सत्यलक्ष्मीसहायम् । शमदमसमुदायं शान्तसर्वान्तरायं सुहृदयजनदायं नौमि गोपालबालम् ॥ २.८९॥ लक्ष्मीकलत्रं ललिताब्जनेत्रं पूर्णेन्दुवक्त्रं पुरुहूतमित्रम् । कारुण्यपात्रं कमनीयगात्रं वन्दे पवित्रं वसुदेवपुत्रम् ॥ २.९०॥ मदमयमदमयदुरगं यमुनामवतीर्य वीर्यशाली यः । मम रतिममरतिरस्कृतिशमनपरस्स क्रियात् कृष्णः ॥ २.९१॥ मौलौ मायूरबर्हं मृगमदतिलकं चारु लालाटपट्टे कर्णद्वन्द्वे च तालीदलमतिमृदुलं मौक्तिकं नासिकायाम् । हारो मन्दारमालापरिमलभरिते कौस्तुभस्योपकण्ठे पाणौ वेणुश्च यस्य व्रजयुवतियुतः पातु पीताम्बरो नः ॥ २.९२॥ मुरारिणा वारिविहारकाले मृगेक्षणानां मुषितांशुकानाम् । करद्वयं वा कचसंहतिर्वा प्रमीलनं वा परिधानमासीत् ॥ २.९३॥ यासां गोपाङ्गनानां लसदसिततरालोललीलाकटाक्षा यन्नासा चारु मुक्तामणिरुचिनिकरव्योमगङ्गाप्रवाहे । मीनायन्तेऽपि तासामतिरभसचलच्चारुनीलालकान्ता भृङ्गायन्ते यदङ्घ्रिद्वयसरसिरुहे पातु पीताम्बरो नः ॥ २.९४॥ यद्वेणुश्रेणिरूपस्थितसुषिरमुखोद्गीर्णनादप्रभिन्ना एणाक्ष्यस्तत्क्षणेन त्रुटितनिजपतिप्रेमबन्धा बभूवुः ॥ अस्तव्यस्तालकान्ताः स्फुरदधरकुचद्वन्द्वनाभिप्रदेशाः कामावेशप्रकर्षप्रकटितपुलकाः पातु पीतम्बरो नः ॥ २.९५॥ देवक्या जठराकरे समुदितः क्रीतो गवां पालिना नन्देनानकदुन्दुभेर्निजसुतापण्येन पुण्यात्मना । गोपालावलिमुग्धहारतरलो गोपीजनालङ्कृतिः स्थेयान्नो हृदि सन्ततं सुमधुरः कोऽपीन्द्रनीलो मणिः ॥ २.९६॥ पीठे पीठनिषण्णबालकगले तिष्ठन् स गोपालको यन्त्रान्तःस्थितदुग्धभाण्डमपकृष्याच्छाद्य घण्टारवम् । वक्त्रोपान्तकृताञ्जलिः कृतशिरःकम्पं पिबन् यः पयः पायादागतगोपिकानयनयोर्गण्डूषफूत्कारकृत् ॥ २.९७॥ यज्ञैरीजिमहे धनं ददिमहे पात्रेषु नूनं वयं वृद्धान् भेजिमहे तपश्चकृमहे जन्मान्तरे दुश्चरम् । येनास्माकमभूदनन्यसुलभा भक्तिर्भवद्वेषिणी चाणूरद्विषि भक्तकल्मषमुषि श्रेयःपुषि श्रीजुषि ॥ २.९८॥ त्वयि प्रसन्ने मम किं गुणेन त्वय्यप्रसन्ने मम किं गुणेन । रक्ते विरक्ते च वरे वधूनां निरर्थकः कुङ्कुमपत्रभङ्गः ॥ २.९९॥ गायन्ति क्षणदावसानसमये सानन्दमिन्दुप्रभा रुन्धन्त्यो निजदन्तकान्तिनिवहैर्गोपाङ्गना गोकुले । मथ्नन्त्यो दधि पाणिकङ्कणझणत्कारानुकारं जवाद् व्यावल्गद्वसनाञ्जला यमनिशं पीताम्बरोऽव्यात्स नः ॥ २.१००॥ अंसालम्बितवामकुण्डलभरं मन्दोन्नतभ्रूलतं किञ्चित्कुञ्चितकोमलाधरपुटं साचि प्रसारेक्षणम् । आलोलाङ्गुलिपल्लवैर्मुरलिकामापूरयन्तं मुदा मूले कल्पतरोस्त्रिभङ्गिललितं जाने जगन्मोहनम् ॥ २.१०१॥ मल्लैश्शैलेन्द्रकल्पः शिशुरितजनैः पुष्पचापोऽङ्गनाभि- र्गोपैस्तु प्राकृतात्मा दिवि कुलिशभृता विश्वकायोऽप्रमेयः । क्रुद्धः कंसेन कालो भयचकितदृशा योगिभिर्ध्येयमूर्तिः दृष्टो रङ्गावतारे हरिरमरगणानन्दकृत् पातु युष्मान् ॥ २.१०२॥ संविष्टो मणिविष्टरेऽङ्कतलमध्यासीनलक्ष्मीमुखे कस्तूरीतिलकं मुदा विरचयन् हर्षात्कुचौ संस्पृशन् । अन्योन्यस्मितचन्द्रिकाकिसलयैराराधयन्मन्मथं गोपीगोपपरीवृतो यदुपतिः पायाज्जगन्मोहनः ॥ २.१०३॥ आकृष्टे वसनाञ्चले कुवलयश्यामा त्रपाधःकृता दृष्टिः संवलिता रुचा कुचयुगे स्वर्णप्रभे श्रीमति । बालः कश्चन चूतपल्लव इति प्रान्तस्मितास्यश्रियं श्लिष्यंस्तामथ रुक्मिणीं नतमुखीं कृष्णस्स पुष्णातु नः ॥ २.१०४॥ उर्व्यां कोऽपि महीधरो लघुतरो दोर्भ्यां धृतो लीलया तेन त्वं दिवि भूतले च सततं गोवर्धनोद्धारकः । त्वां त्रैलोक्यधरं वहामि कुचयोरग्रे न तद्गण्यते किं वा केशव भाषणेन बहुना पुण्यैर्यशो लभ्यते ॥ २.१०५॥ सन्ध्यावन्दन भद्रमस्तु भवतो भोः स्नान तुभ्यं नमो भो देवाः पितरश्च तर्पणविधौ नाहं क्षमः क्षम्यताम् । यत्र क्वापि निषीद्य यादवकुलोत्तंसस्य कंसद्विषः स्मारं स्मारमघं हरामि तदलं मन्ये किमन्येन मे ॥ २.१०६॥ हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव । हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥ २.१०७॥ कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम् । सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ २.१०८॥ लोकानुन्मदयन् श्रुतीर्मुखरयन् श्रोणीरुहान्हर्षयन् शैलान्विद्रवयन् मृगान्विवशयन् गोवृन्दमानन्दयन् । गोपान् संभ्रमयन् मुनीन्मुकुलयन् सप्तस्वरान् जृम्भयन् ओंकारार्थमुदीरयन् विजयते वंशीनिनादश्शिशोः ॥ २.१०९॥ ॥ इति श्रीकृष्णकर्णामृते द्वितीयाश्वासः समाप्तः ॥ ॥ तृतीयाश्वासः ॥ अस्ति स्वस्त्ययनं समस्तजगतामभ्यस्तलक्ष्मीस्तनं वस्तु ध्वस्तरजस्तमोभिरनिशं न्यस्तं पुरस्तादिव । हस्तोदस्तगिरीन्द्रमस्तकतरुप्रस्तारविस्तारित- स्रस्तस्वस्तरुसूनसंस्तरलसत्प्रस्तावि राधास्तुतम् ॥ ३.१॥ राधाराधितविभ्रमाद्भुतरसं लावण्यरत्नाकरं साधारण्यपदव्यतीतसहजस्मेराननाम्भोरुहम् । आलम्बे हरिनीलगर्वगुरुतासर्वस्वनिर्वापणं बालं वैणविकं विमुग्धमधुरं मूर्धाभिषिक्तं महः ॥ ३.२॥ करिणामलभ्यगतिवैभवं भजे करुणावलम्बितकिशोरविग्रहम् । यमिनामनारतविहारि मानसे यमुनावनान्तरसिकं परं महः ॥ ३.३॥ अतन्त्रितत्रिजगदपि व्रजाङ्गनानियन्त्रितं विपुलविलोचनाज्ञया । निरन्तरं मम हृदये विज्जृम्भतां समन्ततः सरसतरं परं महः ॥ ३.४॥ कन्दर्पप्रतिमल्लकान्तिविभवं कादम्बिनीबान्धवं वृन्दारण्यविलासिनीव्यसनिनं वेषेण भूषामयम् । मन्दस्मेरमुखाम्बुजं मधुरिमव्यामृष्टबिम्बाधरं वन्दे कन्दलितार्द्रयौवनवनं कैशोरकं शार्ङ्गिणः ॥ ३.५॥ आमुक्तमानुषममुक्तनिजानुभाव- मारूढयौवनमगूढविदग्धलीलम् । आमृष्टयौवनमनष्टकिशोरभाव- माद्यं महः किमपि माद्यति मानसे मे ॥ ३.६॥ ते ते भावास्सकलजगदीलोभनीयप्रभावाः नानातृष्णासुहृदि हृदि मे काममाविर्भवन्तु । वीणावेणुक्वणितलसितस्मेरवक्त्रारविन्दा- न्नाहं जाने मधुरमपरं नन्दपुण्याम्बुराशेः ॥ ३.७॥ सुकृतिभिरादृते सरसवेणुनिनादसुधा- रसलहरीविहारनिरवग्रहकर्णपुटे । व्रजवरसुन्दरीमुखसरोरुहसारसिके महसि कदा नु मज्जति मदीयमिदं हृदयम् ॥ ३.८॥ तृष्णातुरे चेतसि जृम्भमाणं मुष्णन्मुहुर्मोहमहान्धकारम् । पुष्णातु नः पुण्यदयैकसिन्धोः कृष्णस्य कारुण्यकटाक्षकेलिः ॥ ३.९॥ निखिलागममौलिलालितं पदकमलं परमस्य तेजसः । व्रजभुवि बहुमन्महेतरां सरसकरीषविशेषरूषितम् ॥ ३.१०॥ उदारमृदुलस्मितव्यतिकराभिरामाननं मुदा मुहुरुदीर्णया मुनिमनोऽम्बुजाम्रेडितम् । मदालसविलोचनव्रजवधूमुखास्वादितं कदा नु कमलेक्षणं कमपि बालमालोकये ॥ ३.११॥ व्रजजनमदयोषिल्लोचनोच्छिष्टशेषी- कृतमतिचपलाभ्यां लोचनाभ्यामुभाभ्याम् । सकृदपि परिपातुं ते वयं पारयामः कुवलयदलनीलं कान्तिपूरं कदा नु ॥ ३.१२॥ घोषयोषिदनुगीतयौवनं कोमलस्तनितवेणुनिस्स्वनम् । सारभूतमभिरामसम्पदां धाम तामरसलोचनं भजे ॥ ३.१३॥ लीलया ललितयावलम्बितं मूलगेहमिव मूर्तिसम्पदाम् । नीलनीरदविकासविभ्रमं बालमेव वयमाद्रियामहे ॥ ३.१४॥ वन्दे मुरारेश्चरणारविन्दद्वन्द्वं दयादर्शितशैशवस्य । वन्दारुवृन्दारकवृन्दमौलिमन्दारमालाविनिमर्दभीरु ॥ ३.१५॥ यस्मिन् नृत्यति यस्य शेखरभरैः क्रौञ्चद्विषश्चन्द्रकी यस्मिन् दृप्यति यस्य घोषसुरभिं जिघ्रन् वृषो धूर्जटेः । यस्मिन् सज्जति यस्य विभ्रमगतिं वाञ्छन् हरेस्सिन्धुर- स्तद्वृन्दावनकल्पकद्रुमवनं तं वा किशोरं भजे ॥ ३.१६॥ अरुणाधरामृतविशेषितस्मितं वरुणालयानुगतवर्णवैभवम् । तरुणारविन्ददलदीर्घलोचनं करुणामयं कमपि बालमाश्रये ॥ ३.१७॥ लावण्यवीचीरचिताङ्गभूषां भूषापदारोपितपुण्यबर्हाम् । कारुण्यधारालकटाक्षमालां बालां भजे वल्लववंशलक्ष्मीम् ॥ ३.१८। मधुरैकरसं वपुर्विभोर्मथुरावीथिचरं भजामहे । नगरीमृगशाबलोचनानां नयनेन्दीवरवर्षवर्षितम् ॥ ३.१९॥ पर्याकुलेन नयनान्तविजृम्भितेन वक्त्रेण कोमलदरस्मितविभ्रमेण । मन्द्रेण मञ्जुलतरेण च जल्पितेन नन्दस्य हन्त तनयो हृदयं धुनोति ॥ ३.२०॥ कन्दर्पकण्डूलकटाक्षवन्दीरिन्दीवराक्षीरभिलाषमाणान् । मन्दस्मिताधारमुखारविन्दान् वन्दामहे वल्लवधूर्तपादान् ॥ ३.२१। लीलाटोपकटाक्षनिर्भरपरिष्वङ्गप्रसङ्गाधिक- प्रीते गीतिविभङ्गसङ्गरलसद्वेणुप्रणादामृते । राधालोचनलालितस्य ललितस्मेरे मुरारेर्मुदा माधुर्यैकरसे मुखेन्दुकमले मग्नं मदीयं मनः ॥ ३.२२॥ शरणागतव्रजपञ्जरे शरणे शार्ङ्गधरस्य वैभवे । कृपया धृतगोपविग्रहे कियदन्यन्मृगयामहे वयम् ॥ ३.२३॥ जगत्त्रयैकान्तमनोज्ञभूमिचेतस्यजस्रं मम सन्निधत्ताम् । रामासमास्वादितसौकुमार्यं राधास्तनाभोगरसज्ञमोजः ॥ ३.२४॥ वयमेते विश्वसिमः करुणाकर कृष्ण किंवदन्तीम् । अपि च विभो तव ललिते चपलतरा मतिरियं बाल्ये ॥ ३.२५॥ वत्सपालचरः कोऽपि वत्सः श्रीवत्सलाञ्छनः । उत्सवाय कदा भावीत्युत्सुके मम लोचने ॥ ३.२६॥ मधुरिमभरिते मनोभिरामे मृदुलतरस्मितमुद्रिताननेन्दौ । त्रिभुवननयनैकलोभनीये महसि वयं व्रजभाजि लालसाः स्मः ॥ ३.२७॥ मुखारविन्दे मकरन्दबिन्दुनिष्यन्दलीलामुरलीनिनादे । व्रजाङ्गनापाङ्गतरङ्गभृङ्गसंग्रामभूमौ तव लालसाः स्मः ॥ ३.२८॥ आताम्रायतलोचनांशुलहरीलीलासुधाप्यायितैः गीताम्रेडितदिव्यकेलिभरितैः स्फीतं व्रजस्त्रीजनैः । स्वेदाम्भःकणभूषितेन किमपि स्मेरेण वक्त्रेन्दुना पादाम्भोजमृदुप्रचारसुभगं पश्यामि दृश्यं महः ॥ ३.२९॥ पाणौ वेणुः प्रकृतिसुकुमाराकृतौ बाल्यलक्ष्मीः पार्श्वे बालाः प्रणयसरसालोकितापाङ्गलीलाः । मौलौ बर्हं मधुरवदनाम्भोरुहे मौग्ध्यमुद्रे- त्यार्द्राकारं किमपि कितवं ज्योतिरन्वेषयामः ॥ ३.३०॥ आरूढवेणुतरुणाधरविभ्रमेण माधुर्यशालिवदनाम्बुजमुद्वहन्ती । आलोक्यतां किमनया वनदेवता वः कैशोरके वयसि कापि च कान्तियष्टिः ॥ ३.३१॥ अनन्यसाधारणकान्तिकान्तमाक्रान्तगोपीनयनारविन्दम् । पुंसः पुराणस्य नवं विलासं पुण्येन पूर्णेन विलोकयिष्ये ॥ ३.३२॥ साष्टाङ्गपातमभिवन्द्य समस्तभावैः सर्वान् सुरेन्द्रनिकरानिदमेव याचे । मन्दस्मितार्द्रमधुराननचन्द्रबिम्बे नन्दस्य पुण्यनिचये मम भक्तिरस्तु ॥ ३.३३॥ एषु प्रवाहेषु स एव मन्ये क्षणोऽपि गण्यः पुरुषायुषेषु । आस्वाद्यते यत्र कयापि भक्त्या नीलस्य बालस्य निजं चरित्रम् ॥ ३.३४॥ निसर्गसरसाधरं निजदयार्द्रदिव्येक्षणं मनोज्ञमुखपङ्कजं मधुरसार्द्रमन्दस्मितम् । रसज्ञहृदयास्पदं रमितवल्लवीलोचनं पुनःपुनरुपास्महे भुवनलोभनीयं महः ॥ ३.३५॥ स कोऽपि बालस्सरसीरुहाक्षः सा च व्रजस्त्रीजनपादधूलिः । मुहुस्तदेतद्युगलं मदीये मोमुह्यमानोऽपि मनस्युदेतु ॥ ३.३६॥ मयि प्रयाणाभिमुखे च वल्लवीस्तनद्वयीदुर्ललितस्स बालकः । शनैश्शनैः श्रावितवेणुनिस्वनो विलासवेषेण पुरः प्रतीयताम् ॥ ३.३७॥ अतिभूमिमभूमिमेव वा वचसां वासितवल्लवीस्तनम् । मनसामपरं रसायनं मधुराद्वैतमुपास्महे महः ॥ ३.३८॥ जननान्तरेऽपि जगदेकमण्डने कमनीयधाम्नि कमलायतेक्षणे । व्रजसुन्दरीजनविलोचनामृते चपलानि सन्तु सकलेन्द्रियाणि मे ॥ ३.३९॥ मुनिश्रेणीवन्द्यं मदभरलसद्वल्लववधू- स्तनश्रोणीबिम्बस्तिमितनयनाम्भोजसुभगम् । पुनः श्लाघाभूमिं पुलकितगिरां नैगमगिरां घनश्यामं वन्दे किमपि कमनीयाकृति महः ॥ ३.४०॥ अनुचुम्बतामविचलेन चेतसा मनुजाकृतेर्मधुरिमश्रियं विभोः । अयि देव कृष्ण दयितेति जल्पतामपि नो भवेयुरपि नाम तादृशः ॥ ३.४१॥ किशोरवेषेण कृशोदरीदृशां विशेषदृश्येन विशाललोचनम् । यशोदया लब्धयशोनवाम्बुधेर्निशामये नीलनिशाकरं कदा ॥ ३.४२॥ प्रकृतिरवतु नो विलासलक्ष्म्याः प्रकृतिजडं प्रणतापराधवीथ्याम् । सुकृतिकृतपदं किशोरभावे सुकृतिमनः प्रणिधानपात्रमोजः ॥ ३.४३॥ अपहसितसुधामदावलेपैरतिसुमनोहरमार्द्रमन्दहासैः । व्रजयुवतिविलोचनावलेह्यं रमयतु धाम रमावरोधनं नः ॥ ३.४४॥ अङ्कुरितस्मेरदशाविशेषैरश्रान्तहर्षामृतवर्षमक्ष्णाम् । संक्रीडतां चेतसि गोपकन्याघनस्तनस्वस्त्ययनं महो नः ॥ ३.४५॥ मृगमदपङ्कसङ्करविशेषितवन्यमहा- गिरितटगण्डगैरिकघनद्रवविद्रुमितम् । अजितभुजान्तरं भजत हे व्रजगोपवधू- स्तनकलशस्थलीघुसृणमर्दनकर्दमितम् ॥ ३.४६॥ आमूलपल्लवितलीलमपाङ्गजालैरासिञ्चती भुवनमादृतगोपवेषा । बालाकृतिर्मृदुलमुग्धमुखेन्दुबिम्बा माधुर्यसिद्धिरवतान्मधुविद्विषो नः ॥ ३.४७॥ विरणन् मणिनूपुरं व्रजे चरणाम्भोजमुपास्स्व शार्ङ्गिणः । सरसे सरसि श्रियाश्रितं कमलं वा कलहंसनादितम् ॥ ३.४८॥ शरणमशरणानां शारदाम्भोजनेत्रं निरवधिमधुरिम्णा नीलवेषेण रम्यम् । स्मरशरपरतन्त्रस्मेरनेत्राम्बुजाभि- र्व्रजयुवतिभिरव्याद् ब्रह्म संवेष्टितं नः ॥ ३.४९॥ सुव्यक्तकान्तिभरसौरभदिव्यगात्र- मव्यक्तयौवनपरीतकिशोरभावम् । गव्यानुपालनविधावनुशिष्टमव्या- दव्याजरम्यमखिलेश्वरवैभवं नः ॥ ३.५०॥ अनुगतममरीणामम्बरालम्बिनीनां नयनमधुरिमश्रीनर्मनिर्माणसीम्नाम् । व्रजयुवतिविलासव्यापृतापाङ्गमव्यात् त्रिभुवनसुकुमारं देवकैशोरकं नः ॥ ३.५१॥ आपादमाचूडमतिप्रसक्तैरापीयमाना यमिनां मनोभिः । गोपीजनज्ञातरसाऽवतान्नो गोपलभूपालकुमारमूर्तिः ॥ ३.५२॥ दिष्ट्या वृन्दावनमृगदृशां विप्रयोगाकुलानां प्रत्यासन्नं प्रणयचपलापाङ्गवीचीतरङ्गैः । लक्ष्मीलीलाकुवलयदलश्यामलं धाम कामान् पुष्णीयान्नः पुलकमुकुलाभोगभूषाविशेषम् ॥ ३.५३॥ जयति गुहशिखीन्द्रपिञ्छमौलिः सुरगिरिगैरिककल्पिताङ्गरागः । सुरयुवतिविकीर्णसूनवर्षस्नपितविभूषितकुन्तलः कुमारः ॥ ३.५४॥ मधुरमन्दशुचिस्मितमञ्जुलं वदनपङ्कजमङ्गजवेल्लितम् । विजयतां व्रजबालवधूजनस्तनतटीविलुठन्नयनं विभोः ॥ ३.५५॥ अलसविलसन्मुग्धस्निग्धस्मितं व्रजसुन्दरी- मदनकदनस्विन्नं धन्यं महद्वदनाम्बुजम् । तरुणमरुणज्योत्स्नाकार्त्स्न्या स्मितस्नपिताधरं जयति विजयश्रेणीमेणीदृशां मदयन्महः ॥ ३.५६॥ राधाकेलिकटाक्षवीक्षितमहावक्षःस्थलीमण्डना जीयासुः पुलकाङ्कुरास्त्रिभुवनास्वादीयसस्तेजसः । क्रीडान्तप्रतिसुप्तदुग्धतनयामुग्धावबोधक्षण- त्रासारूढदृढोपगूहनमहासाम्राज्यसान्द्रश्रियः ॥ ३.५७॥ स्मितस्नुतसुधाधरा मदशिखण्डिबर्हाङ्किता विशालनयनाम्बुजा व्रजविलासिनीवासिताः । मनोज्ञमुखपङ्कजा मधुरवेणुनादद्रवा जयन्ति मम चेतसश्चिरमुपासिता वासनाः ॥ ३.५८॥ जीयादसौ शिखिशिखण्डकृतावतंसा सांसिद्धिकी सरसकान्तिसुधासमृद्धिः । यद्बिन्दुलेशकणीकापरिणामभाग्यात् सौभाग्यसीमपदमञ्चति पञ्चबाणः ॥ ३.५९॥ आयामेन दृशोर्विशालतरयोरक्षय्यमार्द्रस्मित- च्छायाधर्षितशारदेन्दुललितं चापल्यमात्रं शिशोः । आयासानपरान्विधूय रसिकैरास्वाद्यमानं मुहु- र्जीयादुन्मदवल्लवीकुचभराधारं किशोरं महः ॥ ३.६०॥ स्कन्धावारसदो व्रजः कतिपये गोपास्सहायादयः स्कन्धालम्बिनि वत्सदाम्नि धनदा गोपाङ्गनाः स्वाङ्गनाः । शृङ्गारा गिरिगैरिकं शिव शिव श्रीमन्ति बर्हाणि च शृङ्गग्राहिकया तथापि तदिदं प्राहुस्त्रिलोकेश्वरम् ॥ ३.६१॥ श्रीमद्बर्हिशिखण्डमण्डनजुषे श्यामाभिरामत्विषे लावण्यैकरसावसिक्तवपुषे लक्ष्मीसरःप्रावृषे । लीलाकृष्टरसज्ञधर्ममनसे लीलामृतस्रोतसे के वा न स्पृहयन्ति हन्त महसे गोपीजनप्रेयसे ॥ ३.६२॥ आपाटलाधरमधीरविलोलनेत्र- मामोदनिर्भरितमद्भुतकान्तिपूरम् । आविस्मितामृतमनुस्मृतिलोभनीय- मामुद्रिताननमहो मधुरं मुरारेः ॥ ३.६३॥ जागृहि जागृहि चेतश्चिराय चरितार्थाय भवतः । अनुभूयतामिदमिदं पुरः स्थितं पूर्णनिर्वाणम् ॥ ३.६४॥ चरणयोररुणं करुणार्द्रयोः कचभरे बहुलं विपुलं दृशोः । वपुषि मञ्जुलमञ्जनमेचके वयसि बालमहो मधुरं महः ॥ ३.६५॥ मालाबर्हमनोज्ञकुन्तलभरां वन्यप्रसूनोक्षितां शैलेयद्रवकॢप्तचित्रतिलकां शश्वन्मनोहारिणीम् लीलावेणुरवामृतैकरसिकां लावण्यलक्ष्मीमयीं बालां बालतमालनीलवपुषं वन्दे परां देवताम् ॥ ३.६६॥ गुरु मृदुपदे गूढं गुल्फे घनं जघनस्तले नलिनमुदरे दीर्घं बाह्वोर्विशालमुरस्थले । मधुरमधरे मुग्धं वक्त्रे विलासि विलोचने बहु कचभरे वन्यं वेषे मनोज्ञमहो महः ॥ ३.६७॥ जिहानं जिहानं सुजानेन मौग्ध्यं दुहानं दुहानं सुधां वेणुनादैः । लिहानं लिहानं सुधीर्घैरपाङ्गैर्महानन्दसर्वस्वमेतन्नमस्तात् ॥ ३.६८॥ लसद्बर्हापीडं ललितललितस्मेरवदनं भ्रमत्क्रीडापाङ्गं प्रणतजनतानिर्वृतिपदम् । नवाम्भोदश्यामं निजमधुरिमाभोगभरितं परं देवं वन्दे परिमिलितकैशोरकरसम् ॥ ३.६९॥ सारस्यसामग्र्यमिवाननेन माधुर्यचातुर्यमिव स्मितेन । कारुण्यतारुण्यमिवेक्षितेन चापल्यसाफल्यमिदं दृशोर्मे ॥ ३.७०॥ यत्र वा तत्र वा देव यदि विश्वसिमस्त्वयि । निर्वाणमपि दुर्वारमर्वाचीनानि किं पुनः ॥ ३.७१॥ रागान्धगोपीजनवन्दिताभ्यां योगीन्द्रभृङ्गेन्द्रनिषेविताभ्याम् । आताम्रपङ्केरुहविभ्रमाभ्यां स्वामिन् पदाभ्यामयमञ्जलिस्ते ॥ ३.७२॥ अर्धानुलापान्व्रजसुन्दरीणामकृत्रिमाणाञ्च सरस्वतीनाम् । आर्द्राशयेन श्रवणाञ्चलेन संभावयन्तं तरुणं गृणीमः ॥ ३.७३॥ मनसि मम सन्निधत्तां मधुरमुखा मन्थरापाङ्गा । करकलितललितवंशा कापि किशोरी कृपा लहरी ॥ ३.७४॥ रक्षन्तु नः शिक्षितपाशुपाल्या बाल्यावृता बर्हिशिखावतंसाः । प्राणप्रियाः प्रस्तुतवेणुगीताः शीता दृशोः शीतलगोपकन्याः ॥ ३.७५॥ स्मितस्तबकिताधरं शिशिरवेणुनादामृतं मुहुस्तरललोचनं मदकटाक्षमालाकुलम् । उरस्थलविलीनया कमलया समालिङ्गितं भुवस्तलमुपागतं भुवनदैवतं पातु नः ॥ ३.७६॥ नयनाम्बुजे भजत कामदुघं हृदयाम्बुजे किमपि कारुणिकम् । चरणाम्बुजे मुनिकुलैकधनं वदनाम्बुजे व्रजवधूविभवम् ॥ ३.७७॥ निर्वासनं हन्त रसान्तराणां निर्वाणसाम्राज्यमिवावतीर्णम् । अव्याजमाधुर्यमहानिधानमव्याद्व्रजानामधिदैवतं नः ॥ ३.७८॥ गोपीनामभिमतगीतवेषहर्षादापीनस्तनभरनिर्भरोपगूढम् । केलीनामवतु रसैरुपास्यमानं कालिन्दीपुलिनचरं परं महो नः ॥ ३.७९॥ खेलतां मनसि खेचराङ्गनामाननीयमृदुवेणुनिस्वनैः । कानने किमपि नः कृपास्पदं कालमेघकलहोद्वहं महः ॥ ३.८०॥ एणीशाबविलोचनाभिरलसश्रोणीभरप्रौढिभि- र्वेणीभूतरसक्रमाभिरभितश्श्रेणीकृताभिर्वृतः । पाणी द्वौ च विनोदयन् रतिपतेस्तूणीशयैस्सायकै- र्वाणीनामपदं परं व्रजजनक्षोणीपतिः पातु नः ॥ ३.८१। कालिन्दीपुलिने तमालनिबिडच्छाये पुरःसंचरत् तोये तोयजपत्रपात्रनिहितं दध्यन्नमश्नाति यः । वामे पाणितले निधाय मधुरं वेणुं विषाणं कटि- प्रान्ते गाश्च विलोकयन् प्रतिकलं तं बालमालोकये ॥ ३.८२॥ यद्गोपीवदनेन्दुमण्डनमभूत् कस्तूरिकापत्रकं यल्लक्ष्मीकुचशातकुंभकलशव्याकोशमिन्दीवरम् । यन्निर्वाणनिधानसाधनविधौ सिद्धाञ्जनं योगिनां तन्नः श्यामलमाविरस्तु हृदये कृष्णाभिधानं महः ॥ ३.८३। फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् । गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं गोविन्दं कलवेणुनादनिरतं दिव्याङ्गभूषं भजे ॥ ३.८४॥ यन्नाभीसरसीरुहान्तरपुटे भृङ्गायमानो विधि- र्यद्वक्षः कमलाविलाससदनं यच्चक्षुषी चेन्द्विनौ । यत्पादाब्जविनिःसृता सुरनदी शंभोः शिरोभूषणं यन्नामस्मरणं धुनोति दुरितं पायात् स नः केशवः ॥ ३.८५॥ रक्षन्तु त्वामसितजलजैरञ्जलिः पादमूले मीना नाभीसरसि हृदये मारबाणाः मुरारेः । हाराः कण्ठे हरिमणिमया वक्त्रपद्मे द्विरेफाः पिञ्छाचूडाश्चिकुरनिचये घोषयोषित्कटाक्षाः ॥ ३.८६॥ दधिमथननिनादैस्त्यक्तनिद्रः प्रभाते निभृतपदमगारं वल्लवीनां प्रविष्टः । मुखकमलसमीरैराशु निर्वाप्य दीपान् कबलितनवनीतः पातु गोपालबालः ॥ ३.८७॥ प्रातः स्मरामि दधिघोषविनीतनिद्रं निद्रावसानरमणीयमुखारविन्दम् । हृद्यानवद्यवपुषं नयनाभिराम- मुन्निद्रपद्मनयनं नवनीतचोरम् ॥ ३.८८॥ फुल्लहल्लकवतंसकोल्लसद्गल्लमागमगवीगवेषितम् । वल्लवीचिकुरवासिताङ्गुलीपल्लवं कमपि वल्लवं भजे ॥ ३.८९॥ स्तेयं हरेर्हरति यन्नवनीतचौर्यं जारत्वमस्य गुरुतल्पकृतापराधम् । हत्यां दशाननहतिर्मधुपानदोषं यत्पूतनास्तनपयः स पुनातु कृष्णः ॥ ३.९०॥ मार मा वस मदीयमानसे माधवैकनिलये यदृच्छया । श्रीरमापतिरिहागमेदसौ कः सहेत निजवेश्मलङ्घनम् ॥ ३.९१॥ आकुञ्चितं जानु करं च वामं न्यस्य क्षितौ दक्षिणहस्तपद्मे । आलोकयन्तं नवनीतखण्डं बालं मुकुन्दं मनसा स्मरामि ॥ ३.९२॥ जानुभ्यामभिधावन्तं पाणिभ्यामतिसुन्दरम् । सुकुन्तलालकं बालं गोपालं चिन्तयेदुषः ॥ ३.९३॥ विहाय कोदण्डशरौ मुहूर्तं गृहाण पाणौ मणिचारुवेणुम् । मायूरबर्हं च निजोत्तमाङ्गे सीतापते त्वां प्रणमामि पश्चात् ॥ ३.९४॥ अयं क्षीराम्भोधेः पतिरिति गवां पालक इति श्रितोऽस्माभिः क्षीरोपनयनधिया गोपतनयः । अनेन प्रत्यूहो व्यरचि सततं येन जननी- स्तनादप्यस्माकं सकृदपि पयो दुर्लभमभूत् ॥ ३.९५॥ हस्तमाक्षिप्य यातोऽसि बलात्कृष्ण किमद्भुतम् । हृदयाद्यदि निर्यासि पौरुषं गणयामि ते ॥ ३.९६॥ तमसि रविरिवोद्यन्मज्जतामम्बुराशौ प्लव इव तृषितानां स्वादुवर्षीव मेघः । निधिरिव विधनानां दीर्घतीव्रामयानां भिषगिव कुशलं नो दातुमायातु शौरिः ॥ ३.९७॥ कोदण्डं मसृणं सुगन्धि विशिखं चक्राब्जपाशाङ्कुशं हैमीं वेणुलतां करैश्च दधतं सिन्दूरपुञ्जारुणम् । कन्दर्पाधिकसुन्दरं स्मितमुखं गोपाङ्गनावेष्टितं गोपालं सततं भजामि वरदं त्रैलोक्यरक्षामणिम् ॥ ३.९८॥ सायङ्काले वनान्ते कुसुमितसमये सैकते चन्द्रिकायां त्रैलोक्याकर्षणाङ्गं सुरनरगणिकामोहनापाङ्गमूर्तिम् । सेव्यं शृङ्गारभावैर्नवरसभरितैर्गोपकन्यासहस्रै- र्वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥ ३.९९॥ कदम्बमूले क्रीडन्तं वृन्दावननिवेशितम् । पद्मासनस्थितं वन्दे वेणुं गायन्तमच्युतम् ॥ ३.१००॥ बालं नीलाम्बुदाभं नवमणिविलसत् किङ्किणीजालबद्ध- श्रोणीजङ्घान्तयुग्मं विपुलरुरुनखप्रोल्लसत्कण्ठभूषम् । फुल्लाम्भोजाभवक्त्रं हतशकटमरुत् पूतनाद्यं प्रसन्नं गोविन्दं वन्दितेन्द्राद्यमरवरमजं पूजयेद्वासरादौ ॥ ३.१०१॥ वन्द्यं देवैर्मुकुन्दं विकसितकुरुविन्दाभमिन्दीवराक्षं गोगोपीवृन्दवीतं जितरिपुनिवहं कुन्दमन्दारहासम् । नीलग्रीवाग्रपिञ्छाकलनसुविलसत्कुन्तलं भानुमन्तं देवं पीताम्बराढ्यं जप जप दिनशो मध्यमाह्ने रमायै ॥ ३.१०२॥ चक्रान्तध्वस्तवैरिव्रजमजितमपास्तावनीभारमाद्यै- रावीतं नारदाद्यैर्मुनिभिरभिनुतं तत्वनिर्णीतिहेतोः । सायाह्ने निर्मलाङ्गं निरुपमरुचिरं चिन्तयेन्नीलभासं रात्रौ विश्वोदयस्थित्यपहरणपदं मुक्तिदं वासुदेवम् ॥ ३. १०३॥ कोदण्डमैक्षवमखण्डमिषुं च पौष्पं चक्राब्जपाशसृणिकाञ्चनवंशनालम् । विभ्राणमष्टविधबाहुभिरर्कवर्णं ध्यायेद्धरिं मदनगोपविलासवेषम् ॥ ३.१०४॥ अङ्गुल्याः कः कवाटं प्रहरति कुटिले माधवः किं वसन्तो नो चक्री किं कुलालो न हि धरणिधरः किं द्विजिह्वः फणीन्द्रः । नाहं घोराहिमर्दी किमसि खगपतिर्नो हरिः किं कपीन्द्रः इत्येवं गोपकन्याप्रतिवचनजितः पातु वश्चक्रपाणिः ॥ ३.१०५॥ राधामोहनमन्दिरादुपगतश्चन्द्रावलीमूचिवान् राधे क्षेममयेऽस्ति तस्य वचनं श्रुत्वाऽऽह चन्द्रावली । कंस क्षेममये विमुग्धहृदये कंसः क्व दृष्टस्त्वया राधा क्वेति विलज्जितो नतमुखः स्मेरो हरिः पातु वः ॥ ३.१०६॥ या प्रीतिर्विदुरार्पिते मुररिपो कुन्त्यर्पिते यादृशी या गोवर्धनमूर्ध्नि या च पृथुके स्तन्ये यशोदार्पिते । भारद्वाजसमर्पिते शबरिकादत्तेऽधरे योषितां या प्रीतिर्मुनिपत्निभक्तिरचितेऽप्यत्रापि तां तां कुरु ॥ ३.१०७॥ कृष्णानुस्मरणादेव पापसङ्घातपञ्चरः । शतधा मोघमायाति गिरिर्वज्रहतो यथा ॥ ३.१०८॥ यस्यात्मभूतस्य गुरोः प्रसादादहं विमुक्तोऽस्मि शरीरबन्धात् । सर्वोपदेष्टुः पुरुषोत्तमस्य तस्यांघ्रिपद्मं प्रणतोऽस्मि नित्यम् ॥ ३.१०९॥ ॥ इति श्रीकृष्णकर्णामृते तृतीयाश्वासः समाप्तः ॥ ॥ इति श्रीकृष्णकर्णामृतं समाप्तम् ॥
Poet Bilwamangala (Leelashuka) lived during 1220-1300 AD. In the early days, he was very much involved in a dasi by name Chintamani; once she told him that if he diverted even one percent of the attention he gave to her to Lord Krishna, he would attain salvation. This statement changed him completely, he became an ardent devotee of Lord Krishna, and obtained mukti through his Guru Somagiri. He composed shrI Krishnakarnamrtam, beginning with the words `Chintamanirjayati.' It contains three AshvAsas (chapters), and a total of 328 shlokas, 112+109+112=333) each one depicting an incident in the story of Krishna. The poem is full of literary beauties, and tongue-twisting alliterations, and many of the shlokas are well-known. There is another version in the South. Fed up with his relations with the dasi, his wife makes him promise in front of the Lord that henceforth he will not touch another woman. In front of the Lord, he promisesd `Henceforth, I will not touch any woman' and immediately left his wife and home and became a Krishna devotee.) <ःऱ्> AshvAsa 1 : In the book edited by Sri Sushil Kumar De (Bengal version), there are 112 slokas in the 1st AshvAsa. shloka No.100 (mandAramUle) in this version has been omitted. १ किमिदमधरवीथीकॢप्तवंशीनिनादं किरति नयनयोर्नः कामपि प्रेमधाराम् । तदिदममरवीथीदुर्लभं वल्लभं नः त्रिभुवनकमनीयं दैवतं जीवितं च ॥ - as shloka 72 २ धन्यानां सरसानुलापसरणीसौरभ्यमभ्यस्यतां कर्णानां विवरेषु कामपि सुधावृष्टिं दुहानं मुहुः । वन्यानां सुदृशां मनोनयनयोर्मग्नस्य देवस्य नः कर्णानां वचसां विजृम्भितमहो कृष्णस्य कर्णामृतम् ॥ - as shloka 111 ३ अनुग्रहद्विगुणविशाललोचनैरनुस्मरन् मृदुमुरलीरवामृतैः । यतो यतः प्रसरति मे विलोचनं ततस्ततः स्फुरतु तवैव वैभवम् ॥ - as sloka 112 The resultant AshvAsa will have 112 slokas. AshsvAsa 2 : 1 : In the book edited by Sri Sushil Kumar De (Bengal version), there are 110 slokas in the 2nd AshvAsa. मुग्धां स्निग्धां मधुरमुरलीमाधुरीधीर-नादैः कारं कारं करणविवशं गोकुलव्याकुलत्वम् । श्यामं कामं युवजनमनोमोहनं मोहनत्वं चित्ते नित्यं निवसतुमहो वल्लवी-वल्लभं नः ॥ included as shloka 50. AshvAsa 3: Doubtful portions are in shlokas 25, 59 and 73 above.

% Text title            : kRiShNakarNAmRitam
% File name             : kkarna.itx
% itxtitle              : kRiShNakarNAmRitam
% engtitle              : kRiShNakarNAmRitam.h
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : pramukha
% Author                : Kavi Bilvamangala (Lilasuka)
% Language              : Sanskrit
% Subject               : hinduism
% Transliterated by     : P. P. Narayanaswami (swami at math.mun.ca)
% Proofread by          : P. P. Narayanaswami (swami at math.mun.ca), PSA EASWARAN psaeaswaran at gmail.com
% Indexextra            : Scanned 1 2 Bengali, 3 Bengali, 4
% Latest update         : May 23, 2012
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP