लालयतिदोलिकामञ्चशयनम्
लालयति दोलिकामञ्चशयनम् ।
तिलकगोरोचनं भालमुक्ताफलम् ।
कुटिलकुन्तलमुखं चकितनयनम् ॥ १॥
चरणसञ्चालनं मोदभरगायनं
प्रतिबिम्बदर्शनेन मृदुलहासम् ।
बाललीलापरमपदसुनूपुरधरं
भाषणोत्फुल्लनासाविकासम् ॥ २॥
अङ्गुष्ठचोषकं गूढरसपोषकं
स्वल्पसन्तोषकं कृष्णचन्द्रम् ।
गोपिकाजनमनोमोदसम्पादनं
तदभिलषिताकृतौ विगततन्द्रम् ॥ ३॥
इति श्रीविठ्ठलेश्वरविरचिता
लालयति-दोलिका-मञ्चशयनं पलनापद ।
॥ श्रीकृष्णाय नमः ॥
॥ श्रीगोपीजनवल्लभाय नमः ॥
Proofread by Mohan Chettoor