लक्ष्मीनारायणस्तोत्रम् ३
%३२
श्रीनिवास जगन्नाथ श्रीहरे भक्तवत्सल ।
लक्ष्मीपते नमस्तुभ्यं त्राहि मां भवसागरात् ॥ १॥
राधारमण गोविन्द भक्तकामप्रपूरक ।
नारायण नमस्तुभ्यं त्राहि मां भवसागरात् ॥ २॥
दामोदर महोदार सर्वापत्तिनिवारण ।
हृषीकेश नमस्तुभ्यं त्राहि मां भवसागरात् ॥ ३॥
गरुडध्वज वैकुण्ठनिवासिन्केशवाच्युत ।
जनार्दन नमस्तुभ्यं त्राहि मां भवसागरात् ॥ ४॥
शङ्खचक्रगदापद्मधर श्रीवत्सलाञ्छन ।
मेघश्याम नमस्तुभ्यं त्राहि मां भवसागरात् ॥ ५॥
त्वं माता त्वं पिता बन्धुः सद्गुरुस्त्वं दयानिधिः ।
त्वत्तोऽन्यो न परो देवस्त्राहि मां भवसागरात् ॥ ६॥
न जाने दानधर्मादि योगं यागं तपो जपम् ।
त्वं केवलं कुरु दयां त्राहि मां भवसागरात् ॥ ७॥
न मत्समो यद्यपि पापकर्ता न त्वत्समोऽथापि हि पापहर्ता ।
विज्ञापितं त्वेतदशेषसाक्षिन् मामुद्धरार्तं पतितं तवाग्रे ॥ ८॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीलक्ष्मीनारायणस्तोत्रं सम्पूर्णम् ।