लक्ष्मीनृसिंहसुप्रभातविंशतिः

लक्ष्मीनृसिंहसुप्रभातविंशतिः

पराङ्कुशमुनि विरचिता अम्ब प्रसन्नशरदिन्दुमुखि प्रपन्न- पङ्कच्छटादलनपादसरोजयुग्मे । लक्ष्मीनृसिंहपरिरम्भणरम्यगात्रे लक्ष्मीनृसिंहदयिते तव सुप्रभातम् ॥ १॥ भानुः स्वभानुपरिरम्भणजृम्भदब्ज- पालिर्वलारिहरिदङ्गणमेति दीव्यन् । शश्वद् विनश्यति च नैशमिदं तमिस्रं लक्ष्मीनृसिंह भगवन् तव सुप्रभातम् ॥ २॥ यः पद्मिनीं स्वविरहेण कलङ्किसङ्ग- भीत्येव सङ्कुचितनालकराब्जवक्त्राम् । आश्वासयन्नुदयमेति मुहुः कराग्रै- र्लक्ष्मीनृसिंह भगवन् तव सुप्रभातम् ॥ ३॥ दोषाकरो निशि पयोजसुहृद्वियोग- दूरां स्पृशन् निजकरैर्नलिनीं विभाते । मित्रेण दृष्ट उपधाव्य निलीयतेऽब्धौ लक्ष्मीनृसिंह भगवन् तव सुप्रभातम् ॥ ४॥ भावत्कपादनखचन्द्ररुचिद्रवत्स्व- भावोच्चलन्नयननिःसृतबाष्पपूराः । विप्रा हरिर्हरिरिति स्फुटमीरयन्ति लक्ष्मीनृसिंह भगवन् तव सुप्रभातम् ॥ ५॥ गम्भीरवारिभवपङ्कजपत्रनेत्रं ध्यात्वा द्विजास्तरणिमण्डलमण्डनं त्वाम् । अर्घ्यं भवत्पदसरोजयुगे क्षिपन्ति लक्ष्मीनृसिंह भगवन् तव सुप्रभातम् ॥ ६॥ आसन्नतिम्मकरगर्भतयेव शक्र- काष्ठामुखं विलुलितोडुगणाग्र्यजालम् । दूरीकृतेन्दुतिलकं प्रविभाति पाण्डु लक्ष्मीनृसिंह भगवन् तव सुप्रभातम् ॥ ७॥ विप्रास्त्रभिन्नकरकन्धरसन्धिबन्ध- मन्देहदेहनिवहैरिव मेघखण्डैः । मुक्तः पुरा स्वयमुदेति वियद् दिनेशो लक्ष्मीनृसिंह भगवन् तव सुप्रभातम् ॥ ८॥ पद्मालयेषु गृहिणो नियताः प्रभाभिः किञ्जल्ककर्मठगणा मकरन्दभिक्षाम् । विश्राणयन्त्यलिवटुभ्य उपागतेभ्यो लक्ष्मीनृसिंह भगवन् तव सुप्रभातम् ॥ ९॥ दूरं गते कुमुदिनी रमणेऽतिमत्त- गायन्मधुव्रतहठात्करणातिभीता । द्वारं गृहस्य पिदधाति दलाररेण लक्ष्मीनृसिंह भगवन् तव सुप्रभातम् ॥ १०॥ श्रीरङ्गनाथशठजिद्गुरुसार्वभौमाः कृत्वाह्निकं भुवनमङ्गलमादरात् त्वाम् । उद्बोधयन्ति विजयी भव माधवेति लक्ष्मीनृसिंह भगवन् तव सुप्रभातम् ॥ ११॥ अम्भोजिनी निजकरैः कमने सुदूरा- दागत्य ताडयति पत्रकवाटमाशु । उद्धाट्य पृच्छति सुखागमनं मिलिन्दै- र्लक्ष्मीनृसिंह भगवन् तव सुप्रभातम् ॥ १२॥ सन्तस्त्वदीयपदपङ्कजवन्दनाभि- र्ध्यानार्चनस्तुतिनमस्कृतिबद्धभावाः । त्वां सर्वलोकशरणं प्रणमन्ति भूयो लक्ष्मीनृसिंह भगवन् तव सुप्रभातम् ॥ १३॥ ध्यायन्ति भान्ति परियन्ति वदन्ति सन्ति तिष्ठन्ति यान्त्यभिनमन्ति समाह्वयन्ति । आकर्णयन्त्यनुवदन्ति नुवन्ति सन्तो लक्ष्मीनृसिंह भगवन् तव सुप्रभातम् ॥ १४॥ गायन्ति भृङ्गनिवहाः सरसीरुहेषु भ्राम्यन्ति पान्थनिचयास्तरुणीजनेषु । आयान्ति मन्दमरुतस्तटिनीतटेषु लक्ष्मीनृसिंह भगवन् तव सुप्रभातम् ॥ १५॥ मत्ता गजेन्द्र विसररास्तुरगैर्नदन्त्यु- न्नृत्तास्तुरङ्गततयः प्रचरन्ति सोक्षाः । दृप्ता महोक्षनिकराः प्रभजन्ति धेनू- र्लक्ष्मीनृसिंह भगवन् तव सुप्रभातम् ॥ १६॥ काकाः प्रयान्ति कुहराणि पुरीगृहाणां घूकाः प्रयान्ति कुहराणि महीरुहाणाम् । कोकाः प्रयान्ति कुहराणि सरोरुहाणां लक्ष्मीनृसिंह भगवन् तव सुप्रभातम् ॥ १७॥ डोलोत्सवे सुरगणैरशितेषु तारा- दुग्धान्नखण्डनिवहेष्वजमुख्यदेयाः । भागा इवेन्दुधिषणोशनसः प्रयान्ति लक्ष्मीनृसिंह भगवन् तव सुप्रभातम् ॥ १८॥ विधिशङ्करशक्रविभावित भो विजितामरवैरिकदम्ब विभो । विविधागमसारविहार हरे विजयी भव देव रमानृहरे ॥ १९॥ झष कूर्म वराह वटोऽरिपटो भृगुनन्दन राघव धेनुकहन् । वसुदेवसुतानघ कल्कितनो विजयी भव देव रमानृहरे ॥ २०॥ रङ्गाधिराजशठजिद्गुरुपादपद्म- भृङ्गः पराङ्कुशयतीन्द्रतपोधनेशः । हृद्यं ततान नतमङ्गलदायि पद्मा- सद्मायिताङ्कनरकेसरिसुप्रभातम् ॥ २१॥ इति महादेवविरचिता श्रीलक्ष्मीनृसिंहसुप्रभातविंशतिः समाप्ता । स्तोत्रसमुच्चयः २ (७३) Proofread by Rajesh Thyagarajan
% Text title            : Lakshminrisimha Suprabhata Vimshatih
% File name             : lakShmInRRisiMhasuprabhAtaviMshatiH.itx
% itxtitle              : lakShmInRisiMhasuprabhAtaviMshatiH (mahAdevavirachitA)
% engtitle              : lakShmInRisiMhasuprabhAtaviMshatiH
% Category              : vishhnu, lakShmI, suprabhAta, viMshati
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : lakShmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org