श्रीमदनगोपालस्तोत्रम्
वनभुवि रविकन्यास्वच्छकच्छालिपालि
ध्वनियुतवरतीर्थद्वादशादित्यकुञ्जे ।
सकनकमणिवेदीमध्यमध्याधिरूढः
स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १॥
सुभगनवशिखण्डभ्राजदुष्णीषहारा-
ङ्गदवलयसमुद्राध्वानमञ्जीररम्यः ।
वसनघुसृणचर्चामल्लिकोल्लासिताङ्गः
स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ २॥
कटिकृतवरभङ्गन्यस्तजङ्घान्यजङ्घः
करयुगधृतवंशीं न्यस्तबिम्बाधराग्रे ।
सुमधुरमतितिर्यग्ग्रीवया वादयंस्तां
स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ३॥
विधिकृतविधुसृष्टिव्यर्थताकारिवक्त्र
द्युतिलवहृतराधास्थूलमानान्धकारः ।
स्मितलपितमधूल्योन्मादितैतद्धृषीकः
स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ४॥
शरदुदितसरोजव्रातवित्रासिनेत्रऽ-
न्चलकुटिलकटाक्षैर्मन्दरोड्डण्डचालैः ।
झटिति मथितराधास्वान्तदुग्धार्णवान्तः
स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ५॥
कुटिलचटुलचिल्लीवल्लिलास्येन लब्ध
प्रथितसकलसाध्वीधर्मरत्नप्रसादः ।
तिलकवदलिकेन ध्वस्तकामेषुचापः
स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ६॥
शुकयुववरचञ्चुप्रांशुनासांशुसिन्धौ
जनितकुलवधूटीदृष्टिमत्स्यीविहारः ।
स्मितलवयुतराधाजल्पमन्त्रोन्मदान्तः
स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ७॥
विकसदधरबन्धूकान्तरुड्डीय गन्धैः
पतितमुप विधर्तुं राधिकाचित्तभृङ्गम् ।
दशनरुचिगुणाग्रे दत्ततत्सीधुचारः
स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ८॥
श्रवणमदनकन्दप्रेक्षणोड्डीनराधा
धृतिविभवविहङ्गे न्यस्तनेत्रान्तबाणः ।
अलकमधुपदत्तद्योतमाध्वीकसत्रः
स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ९॥
परिमलरुचिपालीशालिगान्धर्विकोद्य-
न्मुखकमलमधूलीपानमत्तद्विरेफः ।
मुकुरजयिकपोले मृग्यताचुम्बबिम्बः
स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १०॥
मकरमुखसदृक्षस्वर्णवर्णावतंस
प्रचलनहृतराधासर्वशारीरधर्मः ।
तदतिचलदृगन्तस्वस्थवंशे धृताक्षः
स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ११॥
हरिमणिकृतशङ्खश्लाघितोल्लङ्घिलेखा
त्रयरुचिवृतकण्ठस्योपकण्ठे मणीन्द्रम् ।
दधदिह परिरब्धुं राधिकां बिम्बितां च
स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १२॥
कुवलयकृतवक्षस्तल्पमुच्चं दधानः
श्रमविलुलितराधास्वापनायैव नव्यम् ।
भुजयुगमपि दिव्यं तत्प्रकाण्डोपधानं
स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १३॥
रुचिरजठरपत्रे चित्रनाभीतटोद्य-
त्तनुरुहततिनाम्नीं बल्लवीवृन्दभुक्त्यै ।
स्मरनृपतिसमुद्रस्वाक्षरालीं दधानः
स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १४॥
युवतिहृदलसेभप्रौढबन्धाय काम
स्थपितचितरसोरुस्तम्भजृम्भाभिरामः ।
मरकतकटजैत्रफुल्लजानुप्रसन्नः
स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १५॥
प्रणयनवमधूनां पानमात्रैकगत्या
सकलकरणजीव्यं राधिकामत्तभृङ्ग्याः ।
अरुणचरणकञ्जद्वन्द्वमुल्लास्य पश्य-
न्स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १६॥
अतुलविलसदङ्गश्रेणिविन्यासभङ्ग्या
ग्लपितमदनकोटिस्फारसौन्दर्यकीर्तिः ।
बललवहतमत्तापारपारीन्द्रदर्पः
स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १७॥
तरणिदुहितृकच्छे स्वच्छपाथोदधामा
समुदितनवकामाभिररामावलीणाम् ।
तडिदतिरुचिबाहुस्फुर्जदंसोऽतिजृम्भ-
न्स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १८॥
नवतरुणिमभट्टाचार्यवर्येण शास्त्रं
मनसिजमुनि क्ल्प्तं न्यायमध्यापिताभिः ।
नवनवयुवतीभिर्बिभ्रदुद्ग्राहमस्मि-
न्स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १९॥
रतिमतिरचयन्त्या राधिकानर्मकान्त्या
स्थगितवचनदर्पः स्फारितान्यप्रसङ्गः ।
खरमतिललितास्ये किञ्चिदञ्चत्स्मिताक्षः
स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ २०॥
सविधरमितराधः साग्रजस्निग्धरूप
प्रणयरुचिरचन्द्रः कुञ्जखेलावितन्द्रः ।
रचितजनचकोरप्रेमपीयूषवर्षः
स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ २१॥
मदनवलितगोपालस्य यः स्तोत्रमेत-
त्पठति सुमतिरुद्यद्दैन्यवन्याभिषिक्तः ।
स खलु विषयरागं सौरिभागं विहाय
प्रतिजनि लभते तत्पादकञ्जानुरागम् ॥ २२॥
इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां
श्रीमदनगोपालस्तोत्रं सम्पूर्णम् ।