मुचुकुन्दस्तुतिः
मुचकुन्द उवाच -
कृष्णाय वासुदेवाय देवकिनन्दनाय च ।
नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ १॥
नमः पङ्कजनभाय नमः पङ्कजमालिने ।
नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ २॥
नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने ।
प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥ ३॥
नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ॥ ४॥
हरे मत्समः पातकी नास्ति भूमौ तथा त्वत्समो नास्ति पापापहारी ।
इति त्वं च मत्वा जगन्नाथ देव यथेच्छा भवेत्ते तथा मां कुरु त्वम् ॥ ५॥
इति गर्गसंहितायां द्वारकाखण्डे द्वितीयाध्यायान्तर्गता
मुचुकुन्दस्तुतिः समाप्ता ।
Garga Samhita, Dwarakakhanda, Adhaya 2 verses 26-30
Encoded by Vishwas Bhide vrbhide at rediffmail.com http://satsangdhara.net/
Proofread by PSA Easwaran psaeaswaran at gmail.com