मुरलीनादधारास्तोत्रम्
सान्द्राम्भोधरनीलबालवपुषा गोगोपगोपीमनः-
कान्तः कान्तकरारविन्दविलसद्वंशीविनोदप्रियः ।
गोविन्दः कमनीयपीतवसनः गोपालबालावृतः
कालिन्दीतटचारिदिव्यचरणः पायाद्यशोदाशिशुः ॥ १॥
देयाच्छ्रेयांसि भूयांस्यखिलजनमनोमोहनानन्दनादः
मुग्धस्मेरास्यपद्मारुणशुभकलिकोपात्तमैत्रीविनोदः ।
नानारत्नप्रदीप्तो मणिमयवलयावीतहस्ताब्जमध्ये
भ्राजन्नालोलताम्राङ्गुलिमिलितवपुर्वेणुखण्डो मुरारेः ॥ २॥
पीतं वासो वसानः मणिमयमकुटाबद्धपिञ्छावचूडः
वृन्दारण्ये कदम्बद्रुमगहनगतस्सान्द्रनीलाम्बुदाभः ।
नानारत्नांशुचित्रीकृतधृततपनीयाङ्गभूषासहस्रः
स्मेरास्ये संयुयुक्षुर्मधुरसमुरलीं पातु देवो मुकुन्दः ॥ ३॥
आलोलारुणपल्लवाङ्गुलिमिलद्रन्ध्रो मणिप्रोज्ज्वलो
मर्त्यामर्त्यसमाजकर्षणकरस्सम्मोहनो देहिनाम् ।
मन्दं मन्दममन्दमोदसरसप्रेक्षाक्षणोद्भावितो/त्थावितो
भूयादस्मदभीष्टपूरणविधौ वेणुर्यदूनां पतेः ॥ ४॥
सम्मूर्छद्वेणुनादामृतसरसि सुखं मज्जता देवदैत्य-
मर्त्यानां वा तिरशचां त्वमहमिति भिदा लेशलेशोऽपि कामम् ।
नासीद्देहत्रयादप्युपरतमनसस्सच्चिदानन्दरूपे
भूम्नः पारे महिम्नि स्वनिगमशिखरोत्थार्थबोधान्निमग्नाः ॥ ५॥
श्लाघाचञ्चलमौलिना करलसत्सौवर्णवंशीभृता
गोविन्देन सुधानिधानमधुराताम्राधरापूरितः ।
वेदान्ताम्बुधितीरचारिसुजनव्रातामितानन्दकृ-
न्नादो गानसुधाभिवर्षिमुरलीखण्डोद्गतः पातु वः ॥ ६॥
रम्यालोलारुणाङ्गुल्यपिहितविवृतद्वारवेणुप्रगीर्णो
मूर्च्छत्सप्तस्वरश्रीमिलितसुमधुरो नादवेदप्रघोषः ।
श्रोतॄणां भाग्ययोगात्-/पाकात्परमगुरुमुखान्निर्गतो लीलयैव
श्रुत्वैवापाकरोति प्रतिभयभवदुर्गाटवीचारखेदम् ॥ ७॥
आचार्यान्नेतिनेतिश्रुतनिगमशिखावाक्यसारानभिज्ञः
भो मर्त्या मर्त्यवर्गाः शृणुत सुमधुरं वेणुगानं मुरारेः ।
स्थूलं ह्रस्वं च दीर्घं महदणु यदुत प्रेक्ष्यते यच्च याव-
न्नैवैतत्सर्वमीक्षां कुरुत च मुरलीनादपीयूषमग्नान् ॥ ८॥
मायामर्त्यस्य मायामधुमयमुरलीगानलीनाशयानां
मायापाशोपशान्त्या जगदिदमखिलं भाति सान्द्रप्रमोदम् ।
न त्वं मेने न वाहं न मम न च तवेत्यस्तसर्वप्रपञ्चाः
श्रुत्वैवाखण्डसच्चित्सुखपरमहसि प्रापुरैक्यापरोक्ष्यम् ॥ ९॥
जाग्रत्स्वप्नसुषुप्तिभेदकलना बाल्याद्यवस्थास्तथा
वर्णाद्याश्रमभेदबोधविषयाः पुंस्त्रीविवेकोऽपि वा ।
अन्ये चापि भिदास्तदा न हि बभुर्वंशीमुखानर्गला
मन्दानन्दनिधाननादजलधौ मग्ना यदा मानवाः ॥ १०॥
ग्रावाणोऽपि द्रवन्ति प्रवहति न नदी नैव वायुश्च वाति
सिंहो नैवाभिहन्ति द्विपवरमिभराड्योगचर्यां तनोति ।
मातापत्यं न वेत्ति प्रियमिति गृहिणी नन्दनश्चापि तातं
बिम्बोष्ठाश्लिष्टवंशीस्रवदमृतरवे मायिना गीयमाने ॥ ११॥
नादान्तान्तर्गतं यत्परममहदिति प्रोच्यते योगिवृन्दैः
वेदान्तान्तर्गतैश्च स्वमहातवचनैः स्फोरितं यद्ध्यणीयः ।
वादान्ताविष्कृतं तत्सदिति चिदिति चानन्द इत्यभ्युपेतं
नादं ते नन्दसूनो मुरलिनिगदितं किं कदाऽऽकर्णयामि ॥ १२॥
दैत्यास्सन्त्रस्तचित्तास्सुरमुनिनिकराः कौतुकार्द्रान्तरङ्गाः
सेन्द्रा देवाः प्रमोदामृतजलनिलये मग्नभावाः प्रकामम् ।
सिद्धास्साध्याश्च सिद्धिं परममिव गता मानुषा मर्त्यभावा-
पेताः कृष्णस्य वंशीनिनदसमाकर्णनादेव चासन् ॥ १३॥
ध्यायेत्कल्पद्रुमूले नवघनसुभगं भानुकोटिप्रकाशं
अम्भोजाक्षं रतीशायुतललिततमं बर्हिबर्हावतंसम् ।
व्यत्यस्ताङ्घ्रिंविनोदात्करधृतमुरलीं न्यस्य बिम्बाधरोष्ठे
लीलाबालं त्रिभङ्ग्या विलसितवपुषं नादधाराभिवर्षम् ॥ १४॥
वामांसालम्बिरत्नोज्ज्वलमकरलसत्कुण्डलः कुञ्चितोष्ठ-
प्रोद्यन्मन्दानिलेन स्वनिगममुरलीं पूरयन् मन्दमन्दम् ।
उन्नद्धभ्रूविलासस्फुरदुरुकरुणापाङ्गधाराभिवर्षी
नादालापानुखेलच्चलमकुटतटः पातु पीताम्बरो नः ॥ १५॥
गोविन्दो मित्रवृन्दैः परिवृत उषसि प्रस्थितस्सुन्दरेण
वेषेणाभूषितस्सन्कुतुकितमनसा घोषयन् शृङ्गमुच्चैः ।
गोवृन्दं कालयन् श्रीयदुकुलतिलकः कानने गोपगोभि-
रावीतो गीतवेणुर्वितरतु सकलं चिन्तितार्थं मुकुन्दः ॥ १६॥
रूपे यस्य त्वनन्ते नदजलधिनदीकूपवापीगिरीन्द्र-
ग्रामग्रामीणपुर्याद्यचरचरगणा वृन्दशः प्रादुरासन् ।
तत्सर्वं संहृतं च प्रियतमवपुषा मोदबोधं प्रयच्छ-
न्नेवं वंशीनिनादेऽप्यभवदिह भिदा शान्तविश्वस्वरूपम् ॥ १७॥
विश्वेशे विश्वरूपं कलयति विजये पश्यति स्वाभिपक्षं
विश्वाधीशस्य वक्त्रं विशदथ सभयं प्राप्तबोधो व्यरंसत् ।
तस्माज्जातानि जीवन्त्यपि परमहसा यत्प्रयन्तीति भूम-
गीतो बोधो य आसीत्स हि मुरलिकया गीत एवाभवत्प्राक् ॥ १८॥
सारथ्यं पाण्डवस्य स्वचरणशरणस्याचरन्नाजिभूमौ
सारं स्वं शात्रवं चाकलयति नितरां फल्गुने स्यन्दनस्थे ।
सारम्भान् बन्धुमित्रप्रियगुरुनिवहान् वीक्ष्य चापे निरस्ते
सारं बोधाय योऽदात्स गुरुरिह मुदे गीतवान् वेणुनादम् ॥ १९॥
पार्थस्यापार्थभावप्रशमनमिषतस्सात्वतानां शरण्यः
पार्थक्यं पार्थिवश्रीमदकृतमिति यद्बोधयामास गीताम् ।
पार्थ त्वं कर्ममात्रं कुरु फलविषये मुञ्च चिन्तां दुरन्तां
पार्थप्रेष्ठो यदूचे तदनु च गदितं वेणुगानेन पूर्वम् ॥ २०॥
नित्यो मुक्तोऽमृतोऽयं परशिवसुखचिच्छाश्वतो वा पुराणः
आत्मा तस्माच्छरीरे हतिमुपलभते नैव चाहन्यमाने ।
तद्धित्वा जीर्णवस्त्रं नवमिवपुरुषो देहमन्यद्बिभर्ति
को मोहस्तत्र शोकः विजय इतीवाह वेणुप्रणादः ॥ २१॥
गोपीमण्डलमण्डनो मुरलिकां पाणिद्वयेनोन्नमन्
आताम्राधरबिम्बमन्दमरुता मन्दं मुदा पूरयन् ।
गोपीचन्दनकल्पितोर्ध्वतिलकं वक्त्रं समुद्योतयन्
पायाल्लोकममन्दमोदजलधावामज्जयन् केशवः ॥ २२॥
वंशीनादे मुरारेर्वनभुवि मधुरे मूर्च्छति श्रोत्रयुग्मं
कर्तुं पद्मोद्भवस्य श्रममतिवितथं मन्यते सर्वलोकः ।
स्वं स्वं कर्तव्यमर्थं झटिति च विगणय्यैव तत्रैव लीनो
लग्नश्चित्रे यदासीदिव च निगमवाग्भातयोगप्रतिष्ठः ॥ २३॥
नादारोहावरोहैर्मधुरिपुमुरलीप्रोत्थितैः कालचक्रे
भ्राम्यज्जीवव्रजस्य प्रतरणविधये योग एवोपदिष्टः ।
गानारूढस्य नस्तो जनिमृतिदुरिते पश्यताशेषजीवाः
ब्रह्मप्राप्तो विमृत्युः किल भवति यथा तत्त्वमस्यादि वाक्यात् ॥ २४॥
आलापारोहवीचीचलदुरुशिखरान्मन्दमन्दावरोह-
भङ्ग्या निष्यन्दमाने यदुपतिवदनाद्वेणुनादामृतोदे ।
तापात्तीरे पयोधेर्विहरणशरणास्तत्तरङ्गार्द्रवात-
सिक्ता हृष्टा यथात्राप्यपरिमितसुखास्तापमुक्ता भवन्ति ॥ २५॥
पीयूषास्वादलोले दिवि सुरनिकरे मोदमग्ने मुनीन्द्रे
वीणागानैकलीले सुरवरगणिकामण्डले नृत्यति द्राक् ।
उद्युक्ते स्वस्वकर्मण्यचरचरगणे गीयमानो मनोज्ञ-
नादोऽतानीत्समेषाम्मधुरिपुमुरलीक्वाणघोषान्तरायम् ॥ २६॥
विक्षिप्याशेषहैमामृतभृतचषकान्यम्बरस्थास्सुरौघा
निश्चेष्टाध्वस्तवीणस्स खलु सुरमुनिः श्लाघया मौलिकम्पी ।
चित्रारब्धा इवासन् कुतुकितहृदयादेववध्वो मुरारि-
कान्ताताम्राधरोष्ठार्पितमधुमुरलीमोहनालापमग्नाः ॥ २७॥
केलीलोले कदाचिन्मरकतमणिसच्छायकाये निशीथे
निद्राऽऽक्रान्ते जनौघे शशिसुभगतमे यामुने सैकते च ।
देवे पद्मासनस्थे करयुगलसमुन्नीतवेणुप्रकाण्ड-
गानस्वानप्रबुद्धास्सुरनरनिकराः पादमापुः परस्य ॥ २८॥
वेदैर्वेद्योऽहमेविप्यखिलजनमनस्सन्निविष्टः श्रुतीना-
मूर्ध्नां कर्तावबोद्धा प्रकृतिगुणगणासङ्गशुद्धोऽथ नित्यः ।
तन्मां वेदान्तवीथ्यविचिनुतहृदये साधवस्साधनाय
स्वान्ते शान्त्येति बोधं दिशति हि भगवान् वेणुवेदोपदेशात् ॥ २९॥
सर्वे वेदाः पदं यत्परममभिवदन्त्याप्तुकामाः फलं य-
दासेवन्ते तपांसि प्रियमिति किमु वा ब्रह्मचर्यं चरन्ति ।
तत्सत्यं धाममात्रात्रितयसुविवृतब्रह्मनादाख्यवेद-
बीजोद्गीथो मुरारेर्मुरलिनिगदितस्सिद्धिमृद्धां विधत्ताम् ॥ ३०॥
भूषादिप्रेन्द्रचापो यदुकुलगिरिभूर्भक्तिपौरस्त्यवात-
नुन्नो हैमाम्बरश्रीक्षणलसितवृतश्चारुपिञ्छावचूडः ।
श्रीकृष्णाख्या प्रसिद्धः करधृतमुरलीनादपीयूषवर्षी
स्निग्धश्यामाम्बुवाहः कलयतु कुशलं योगिकेकिप्रकर्षः ॥ ३१॥
कान्तं तातं सुतं वा दुहितरमथवा मातरं वान्यबन्धून्
एत्यानन्देन युक्ता रुषमथ च गता वेश्मधर्मे निरूढाः ।
श्रुत्वा कस्मात्तु लीलामनुजमधुरिपोर्वेणुनादामृतं तत्
पायं पायं न तृप्ताश्चरणमुपगता गोपिकाश्चक्रपाणेः ॥ ३२॥
वृन्दारण्ये विहारी सुरनरशरणो गोपिकाजीवधातु-
र्गोविन्दाख्याप्रसिद्धो व्रजभुवि विलसन् सुन्दरो नीलमेघः ।
भक्तानं कामवर्षी कनकमयलसच्चेलविद्युत्परीतः
श्रेयो दद्यात्कराब्जोद्धृतमुरलिकया नादधाराभिवर्षी ॥ ३३॥
मन्दं मन्दमुपेत्य सुस्मितशरत्पूर्णेन्दुबिम्बोल्लस-
द्वक्त्रं प्रोज्ज्वलचारुरत्नविरणन्मञ्जीरपादाम्बुजम् ।
स्निग्धश्यामलकोमलाभ्रतुलितानङ्गायुतश्रीधरं
देवं हस्तगृहीतवेणुशकलं बालं कदाऽऽलोकये ॥ ३४॥
मा मा मर्त्य विषीद मामकमिदं रूपं समालोकय
वीक्षस्वामलशारदाखिलशशिप्रस्पर्धि वक्त्रं मम ।
मज्जापाङ्गकृपोदके शृणु रवं मञ्जीरजं पीयतां
वंशीनादसुधा च माधव कदा मामित्यहो वक्ष्यसि ॥ ३५॥
आविर्भूय ममाग्रतश्शतसहस्रार्काधिकप्रोज्ज्वलः
नीलाम्भोधरचारुताहरवपुः पीताम्बरालङ्कृतः ।
नानारत्नविचित्रभूषणधरो वेणुं रसात्कूजयन्
गोपीमण्डलमध्यगो मम कदा कुर्यान्मुदं चक्षुषोः ॥ ३६॥
आदौ भाण्डीरवृक्षं तदनु च परितो गोसहस्रं सखींश्च
गोपान् गोपीश्च मध्ये यदुकुलतिलकं वृक्षमूले निषण्णम् ।
मेघश्यामं शुभाङ्गं करधृतमुरलीगानलोलं कृपालुं
दीनं मां सान्त्वयन्तं जनुषि मम कदा नेत्रपात्रीकरोमि ॥ ३७॥
वामांसाञ्चितवामकुण्डलभरो दभ्रोन्नतभ्रूलता-
रम्योद्भ्रान्तसुदीर्घपद्मनयनसुस्मेरवक्त्राम्बुजः ।
बर्हापीडचलच्छिराः करसमुन्नीतार्यवेणुं मुदा
कुञ्जत्ताम्रशुभाधरार्पितपदं गायन् स पायाच्छिशुः ॥ ३८॥
तेजःपुञ्जं पुरस्तान्नवघनवपुषं सर्वभूषादिरम्यं
विद्युद्विद्योतिचेलं भुजधृतमुरलीं नादयन्तं स्मरामि ।
देवो दीनार्तिहन्ता मम कलुषभरं भञ्जयन्नब्जनाभः
आविर्भूयात्कदा नु प्रणवमयसुधानादमोदं वितन्वन् ॥ ३९॥
शृण्वन् वंशीनिनादं निमिषमिव नयन् वासरान् वत्सरान् वा
गानानन्दामृताब्धावनुपमसुखदे गाढजातावगाहः ।
विस्मृत्याशेषलोकान् भवविपिनगतिं तापवर्गं च हित्वा
पादं दामोदरस्य ध्रुवशिशुविषयं प्राप्नुयां भाग्यतः किम् ॥ ४०॥
(कारुण्याब्धे कथं वा तव चरणरतिं प्राप्नुयां नाथ दीनः ॥ ४०॥)
अज्ञे मे निगमादिकर्तुरनघे वेदस्मृतीशाश्वते
यस्तूल्लङ्घ्य यथेच्छमत्र विहरत्याप्नोति घोरां गतिम् ।
इत्युद्घुष्य जगत्परीक्षणविधौ वेणुं क्वणन्नादरा-
न्नादामग्नचराचरं स भगवान् पश्यन्ननृत्यन्मुदा ॥ ४१॥
तात्पर्यं परमं हि पाण्डवसखे सर्वश्रुतीनां मतं
पाराशर्यवचस्सु तत्प्रतिपदं विद्योतते सुस्फुटम् ।
तत्साक्षादिह कर्तुमाश्रितजनत्राता स्ववंशीवरं
गायन्नादवशीकृताखिलजनं पादाश्रितं प्रैक्षत ॥ ४२॥
गायन्तं वेणुमुच्चैर्वनभुवि दयितं वल्लवीसुन्दरीणा-
मावीतं नारदाद्यैरसुरसुरगणैस्सिद्धसाद्ध्यैश्च नाके ।
गोपीगोगोपवृन्दैर्वलयितमतसीगुच्छसच्छायकायं
मायाबालं कदा वा नयनयुगमुदालप्स्यसे नन्दसूनुम् ॥ ४३॥
रासेशं रासगोष्ठ्यां व्रजकुलयुवतीमन्तरेणान्तरेण
नृत्यन्तं नर्तयन्तं करधृतमुरलीं कूजयन्तं जयन्तम् ।
पश्येयं भागधेयाद्भवजलधिमहादुर्गपोतं वरेण्यं
मायागोपालबालं कलरवकलितानन्दसान्द्रं मुकुन्दम् ॥ ४४॥
जारं मत्वापि गोप्यो यदुपतिमुरलीनादमोदातिभार-
स्तब्धाङ्ग्यो नन्दसूनुं नवघनसुभगे बर्हिबर्हावतंसे ।
सम्मग्नाश्चारुरूपे शुचमपि विजहुः प्रापुरैक्यं पदाब्जे
तत्सद्बुद्ध्या प्रपन्नाः किमु चरणतरिं नाप्नुयुः केशवस्य ॥ ४५॥
भक्त्या त्वय्यादिदेव व्रजकुलवनितास्त्वामबध्नन् महेश
त्वद्भक्ताग्रेसरत्वं जगति हि सकले लेभिरे राधिकेश ।
तादृक्कारुण्यसिन्धो निरुपमकृपया देवकीभगधेय
दीनं मां पाहि पाहि स्वकरधृतनदद्वेणुमन्त्रोपदेशात् ॥ ४६॥
कन्दर्पायुतकोटिकोटिसुभगं पीताम्बरालङ्कृतं
ग्रैवेयाङ्गदकङ्कणादिलसितं चारुक्वणन्नूपुरम् ।
विस्मृत्यापि भवन्तमीश भवतस्ताम्राधरारोपित-
श्रीवेणूच्चरदार्द्रनादलहरीं नो विस्मरेयं विभो ॥ ४७॥
मा गा मा गा विषादं त्यज मनसि भयं शान्तिमन्तर्भजस्व
मत्पादाब्जं प्रपन्नो न हि भजति जनो दुर्गतिं तात सत्यम् ।
तत्त्वं तत्त्वं मदीयं शृणु परसुखदं मा रुदो मा रुदेति
नादालापेन वेणोर्मम मनसि कदा मोदमीशो विदद्ध्यात् ॥ ४८॥
श्रोतव्यो मन्तुमर्हस्तदुपरि नितरां ध्यानगम्यश्च वेदे-
ष्वात्मावारेति मर्त्यं विपदि निपतितं प्रेक्ष्य सूत्रं दयार्द्रम् ।
तत्र श्रोतव्यमेव प्रवरमिति यतस्तत्त्वबोधो विभाती-
त्येवं श्रीवेणुनादश्रुतिधृतमनसां कृष्णभक्त्या स्फुटं हि ॥ ४९॥
श्रुत्या श्रुत्यन्तगीर्भिर्भवभयदलने ब्रह्मविद्यैव गम्ये-
त्येवं तात्पर्यधृत्या स्फुटतरमपि या बोधिता माधवेन ।
लब्धा चेत्सद्गुरोस्सा विदधिकशुभदास्यादितीर्त्थं जनाना-
मन्तर्बोधाय मोदात्परमगुरुरसौ वेणुनादं जुघोष ॥ ५०॥
आत्मारामा मुनीन्द्रास्सततमननतश्छिन्नपाशाः प्रशान्ताः
निर्द्वन्द्वा अप्यनन्ते रतिमधिकमुदा तन्वते चित्रमेतत् ।
तन्मूलं वन्यमालाललितजलदनीलाभमायाकिशोर-
कूजद्वेणुप्रमूर्च्छन्मधुरनिनदितामग्नतां मन्महे च ॥ ५१॥
योगेनान्तर्निरुध्यानिलमथ यमिनो मोदनादानुबन्धं
प्रेष्ठं लब्ध्वा विरक्ताः परमहसि युता इत्ययं सुप्रसिद्धः ।
तादृङ्नादानुभावं स्थिरचरनिकरप्रीतये दातुकामः
कामाकल्पाभिरामः कलरवमुरलीनादमोदं वितेने ॥ ५२॥
दासीपुत्रोऽतिबालो द्विजवरकृपया प्राप्तसेवानुभावो
ध्यायन् देवं मुकुन्दं सकृदिह सरसं प्रैक्षताक्षेण साक्षात् ।
भूयो द्रष्टुं स यत्तो न हि पुनरिह मां द्रक्ष्यसीतीरितोऽथ
भूत्वा वीणामुनीन्द्रो मुररिपुमुरलीगानलोलोऽजनिष्ठ ॥ ५३॥
नादास्वादानुभावं विबुधमुनिवरः प्राप्तुकामे यशोदा-
सूनोश्छात्रत्वमादावभजत मुरलीगानमाकर्णयच्च ।
तत्तत्त्वानिश्चयेनाकलुषितहृदयः वीणया साधयन् यः
कालेनानन्तलीलारसकथनमहागायकत्वं प्रपेदे ॥ ५४॥
अन्तर्णादप्रणालीपरिचयविधये प्राग्यशोदासुतस्य
वंशीनादानुसन्धामकुरुत सुचिरं नारदश्छात्रभावे ।
आचार्यस्येति वेणुं करपरिकलने नास्म्यहं शक्नुयामि-
त्याचारेणादरेण स्वनिगमदमतं वीणयैवाजुघोष ॥ ५५॥
देवस्यैव प्रसादादखिलजनिमतां देशिकेन्द्रस्य कामं
त्रैलोक्यान्तर्यथेच्छं विहरणपरमो वीणयाबोधयच्च ।
वेणोर्नादप्रभावं मुररिपुगदितं मर्त्यवर्गस्य शान्त्यै
नादान्ते बोधदं चाकलयत मुरलीहस्तमित्यभ्रनीलम् ॥ ५६॥
सामोदं हस्तपद्मोन्नमितशुभलसत्पक्वबिम्बाधरोष्ठं
न्यस्तश्रीनादधानीमणिमयमुरलीगानलीलाविलोलः ।
धाम स्वं नादधारापतितपरवशप्रेष्ठपादाश्रितानां
जीवानां सन्ददानः करिवरवरदः पातु देवो मुकुन्दः ॥ ५७॥
यद्वेणुप्राणनादश्रवणहृतधियां स्थावराणां चराणां
नासीद्भेदो न चाभूज्जनिकृतविषमप्रत्ययो वा तदात्वे ।
सद्यस्ते धूतपापास्सकुतुककरुणापाङ्गधाराभिषिक्ताः
कामं नादामृतादास्सततमपि तथा भावमावव्रिरे च ॥ ५८॥
यद्यद्वा मधुसूदनस्य चरितम्माधुर्यधुर्यम्मतं
तत्रापि प्रियमेकमेव बहुशः प्रेश्क्ष्यापि वीक्षामहे ।
यन्मायाशिशुभावमेत्य सदयं गोगोपगोपाङ्गनाः
सद्यः श्रीमुरलीनिनादविजितत्रैलोक्यबोधं व्यधात् ॥ ५९॥
वृन्दारण्यस्थलेषु प्रकटितकपटश्यामडिम्भं कदाचित्
गोवत्सांश्चारयन्तं मधुमथनविभुं गोपबालैर्ललन्तम् ।
प्रेक्ष्याजोऽजावशं तं निखिलमपि हरन्नप्यसौ स्वेशशक्त्या
सृष्ट्वा सर्वं पुरेव स्वरितमधुझरीं वेणुनेशो ववर्ष ॥ ६०॥
अब्दान्ते मायि मायां सुनिपुणमवलोक्येशितुस्तां विभूतिं
धाताभूच्छान्तदर्पःस्वकलितदुरितं क्षन्तुमीशं ययाचे ।
अस्तौद्वंशीनिनादामृतभणितिसमाकर्णनानन्दमग्नो
भूम्नस्तत्पादपङ्केरुहविरहभियानिन्ददाद्यस्स्वधाम ॥ ६१॥
कर्मज्ञानेशभक्तिप्रकरणगहनापारवेदाम्बुराशिं
स्वेच्छामन्थानदण्डावलितगुणविदा यत्नहस्ताञ्चलेन ।
मथ्नन् मायाकिशोराकृतिरिह जगतीबालकस्यार्तिशान्त्यै
वंश्यादान्नादवेदामृतमतिमधुरम्म्मोदयन्नादिदेवः ॥ ६२॥
प्राणानायम्य सम्यङ्नियमितमनसा येगिभिः स्वाद्यमानो
नादश्चानाहताख्यः किमु सुखद इति प्राप्तशङ्काकुलानाम् ।
वैशद्यायान्तरं तं निनदितममृतास्वादवेणुप्रगीर्णं
सम्मोदायाजुघोष व्रजभुवि विहरन् कोऽपि गोपीमनोज्ञः ॥ ६३॥
वेदो धर्मार्थकामामृतपदगमकस्तत्तदिच्छानुरूप-
सारस्सेव्यज्जनानामिति तु सुविदितस्तद्वदत्रापि मर्त्याः ।
वेदप्रोक्तुर्मुरारेर्मुरलिनिनदितानन्दनादाख्यवेद-
सेवालोला भजन्ते फलमपरिमितं पादभक्तिं च भूम्नः ॥ ६४॥
ओमित्येवं प्रणादस्त्रिविधनिगमवाक्सारभूतोजविष्णु-
रुद्रात्मा लोकरूपी श्रुतिमय उभयब्रह्मरूपी प्रसिद्धः ।
तं नादं वेणुनासौ सरसमनुनदन् नादवेदार्थरूपी
तुर्यं स्वं धाम भक्तान् प्रतिनिगमयति श्रीहरिः पादभक्त्या ॥ ६५॥
गानाकृष्टास्तदन्ते मधुरसविरहात्पादमूलं प्रपन्नाः
त्वं वै सर्वं त्वदन्यं न हि निखिलगुरो वेद्मि मां पाहि दीनम् ।
इत्थं नादान्तदीप्तं परमपि पुरुषं बोधयित्वाञ्जसैव
नादस्योङ्कारतत्त्वं स्फुटमपि कलयन् वासुदेवो बभासे ॥ ६६॥
शिञ्जद्रत्नप्रदीप्तप्रणिपतितजनाभीतिदानैकदक्षं
मञ्जीरं मञ्जुपादाम्बुजलसिततमं तालदाने नियुज्य ।
देवो दीनार्तिहन्ता मम मनसि मुदं स्यन्दयन् वेणुगानं
लीलालापप्रकारं किमु मम पुरतः स्वीकरिष्यत्यनन्तम् ॥ ६७॥
आत्मा सच्चित्सुखात्मा व्यपगतकलुषद्वन्द्वमोहः स्वदीप्त्या
सर्वं व्याप्यावतिष्ठन्नकृतकवचनैर्वेद्यरूपो विभाति ।
तं चात्मानं रसो वै स इति रसघनं यं समाश्रित्य याति
चानन्दं चेति वेदं निगमयितुमसौ वेणुनादं जुघोष ॥ ६८॥
राकाचन्द्राभिरम्यैर्निशि विपिनतटे वेणुमुच्चैर्विनाद्य
सद्यस्संप्राप्तगोपीजननिवहवृतस्ताभिरीशस्तु रेमे ।
तास्त्यक्त्वान्तर्धिमाप प्रभुरिति महता शोकभारेण गोप्य-
स्ताम्यन्त्यस्तत्तु नादं मणिमुरलिभवं शुश्रुवुः श्रीधरस्य ॥ ६९॥
श्रुत्वा नादं मुरल्याः क्वनु किल मुरलीगानलोलो भवेदि-
त्येवं नादाख्यतन्त्या नियमितमतयस्तत्समीपं ययुस्ताः ।
यातार्याः मात्रवासं कुरुत कुलवधूदूषणं चेति गोप-
बालोक्ताश्शोकतान्ताः कलमुरलिरवैस्तोषयामास तन्वीः ॥ ७०॥
चन्द्र त्वं पूर्णचन्द्रप्रतिभटवदनं हेत(??)मालामलाभं
कुन्द त्वं कुन्ददन्तं नलिनि तु नलिनीपत्रनेत्रं त्वपश्यः ।
एवं गोप्यस्सकामा यदुजलधिशशिं देवमन्विष्य याताः
कान्त्या कन्दर्पतुल्यं मणिमयमुरलीगानलोलं स्वपश्यन् ॥ ७१॥
शर्वब्रह्मेन्द्रमुख्या गगनभुवितता व्योमयानैर्निलिम्पा-
श्चित्रन्यस्ता इवासन् स्थिरधृतकरणाः कौतुकाकम्पिशीर्षाः ।
राधाकान्तस्य कान्तस्वनितमुरलिकानादमाधुर्यसक्त-
चित्ताश्शक्ता न तत्त्वं सुनिपुणमनुचिन्त्यापि वक्तुं च वेत्तुम् ॥ ७२॥
आनन्दोद्रेकरूपान्मधुरसमधुराद्यन्मनोज्ञान्मनोज्ञ-
मानन्दं स्वादु हृद्यं मधुरिपुमुरलीनादमाधुर्यधाम ।
नित्यं सत्यं विधत्तां मम हृदि कुतुकं मत्तमत्तेभहन्ता
स्वान्तं मे गानशैलीपरिचयविशदं चास्तु शान्तं नितान्तम् ॥ ७३॥
गाने पीयूषधाराधिकमधुरतमे स्यन्दमाने मुकुन्द-
सेवाहेवाकिदेवप्रकरमुनिजनानन्दसन्दहरूपे ।
को देवः को मनुष्यः किमु जडमितरच्चेति विभ्रष्टभेद-
भावाल्लीनं यथाभूदुपरतसकलं यत्पुराभासत द्राक् ॥ ७४॥
मत्स्ये दृष्टं न चैतत्सकरुणचरिते कच्छपे नैव दृष्टं
एवं कोले नृसिंहे सुरमुनिविनुते वामने नापि जातम् ।
रामे रामे न रामेऽप्यभवदिह यदुष्वेष कृष्णेति नाम्ना
यच्चक्रे चक्रपाणिर्मणिमयमुरलीगानलीलाविनोदात् ॥ ७५॥
त्रातुं देवान् कमलनयन त्वं पुरा कल्पसिन्धौ
धृत्वा मात्स्यं वपुरपि विभो चित्रचर्यां कृतोऽसि ।
किं चापास्त्वं रविसुतमनुं चाक्षुषे सम्प्लवे च
सर्वं भूमन् तव मुरलिकानादधारासमं किम् ॥ ७६॥
उद्धृत्य क्ष्मां दितसुतबलप्रापितां श्रीवराह-
मूर्तिं धृत्वा जलनिधितटं प्राप्य दैत्यं च हत्वा ।
धात्रीं यज्ञः पुनरपि पुरेवाब्धिमध्ये निवेश्य
यत्कृत्यं ते ननु मुरलिकानादधारासमानम् ॥ ७७॥
पीयूषं प्राप्तुकामे दितिजसुरगणे क्षीरपाथोनिधानं
मथ्नत्या मग्नमन्थक्षितिधरमधरः पृष्ठतः कूर्ममूर्तिः ।
चित्रं यत्तत्कृपाब्धे तव शुभचरितं श्याममूर्ते तथापि
कृष्णस्सन् वेणुनादामृतरसकलनाचित्र तुल्यं नु भाति ॥ ७८॥
दैतेयानामघं द्राक् शमयितुमखिलत्रास्ति देवो मुकुन्द-
इत्युक्तिं भक्तवश्यः पदकमलभृतस्सत्यमेवाथ कर्तुम् ।
भित्वा स्तम्भं सभायां नरहरिवपुषाभ्येत्य दैत्यं विदीर्यन्
देवांश्चापादितीदं चरितमपि विभो वेणुनादेऽधमर्णम् ॥ ७९॥
उपेन्द्रः प्राग्भूमिं दिवमथ च शीर्षं स्वकपदै-
स्त्रिभिः क्रान्त्वा दैत्यं बलिमथ रुरोधातलभुवि ।
पुरा खर्वः पश्चादुरुधृतशरीरस्सुरपतिः
व्यधाच्चित्रं वृत्तं तदनु मुरलीनादतुलितम् ॥ ८०॥
अयोध्यायां श्रीमान् दशरथसुतो राम इति च
स्वयं जातस्तातप्रकथितमृतं कर्तुमटवीम् ।
अटन्नब्धिं बद्ध्वा दशवदनमाजौ च हतवान्
चरन् देवाभीष्टं तदपि न तुला वेणुविहृतेः ॥ ८१॥
कृष्टे दुश्शासनेन द्रुपदतनुभुवः कौरवाणां सभायां
केशे कौशेयके च व्रजपतिशरणां केशव द्वारकेश ।
हा कृष्णेत्यारुदन्तीं सकरुणहृदयस्तामनाथामरक्षः
किं मां दीनं न पासि प्रियमधुमुरलीनादधारामृतेन ॥ ८२॥
यूथैर्मोदात्तटाकं द्विरदकुलपतौ गाहमाने महोग्र-
ग्राहाक्रान्तेति दीने बहुतरमभियुज्यापि वैफल्यभाजि ।
त्रायस्वानाथबन्धो वरद इति नदत्यात्तचक्रोऽथ नक्रं
भित्वा रक्षां व्यतानीः किमु मम शरणं वेणुगानं न रासि ॥ ८३॥
कंसप्रेक्ष्यां कदाचित्तव सदनगतामिन्दिरासुन्दराङ्गीं
डोलायां राजमानं मरकतवपुषं छद्मगोपालबालम् ।
धृत्वा स्तन्यं दिशन्तीमहनदपि ददौ यो गतिं योगिगम्यां
दीने किं वा कृपाब्धे न किरसि मुरलीनादधारामृतोदम् ॥ ८४॥
आर्तानामार्तिशान्त्यै जगति सुविदिताभीष्टदा नादधारा
तत्ते हृद्यं पदाब्जं भवकलुषहरं हे मुरारे भजेऽहम् ।
तन्मह्यं क्षुत्पिपासापरवशितहृदे देहि ते बालकाय
क्षिप्रं त्वद्वेणुनादामृतमधुरपयःपूरमानन्दरूपम् ॥ ८५॥
कैशोरे वेणुगीतं सरसमुपनिशम्यापि कालातिपातात्
पार्थो नष्टस्मृतिस्त्वां सुहृदमथ रणे स्यन्दनस्थं ह्यपृच्छत् ।
सर्वं तद्गीतिकार्थं यदुकुलतिलको बोधयस्त्वं हि साक्षात्
तन्मूसं वेणुनादं क्वनु किल सुकृती माधवाकर्णयेयम् ॥ ८६॥
मायामर्त्यस्य मायामयचरितशतेष्वप्यसङ्घ्येषु जाग्र-
त्स्वत्र श्रीगोपनारीजनरमणकृतं चित्रमेतच्चरित्रम् ।
तत्रापि श्रीयशोदासुतवदनमरुत्पूरितानन्दनाद-
धारासारेण वेणोः कलिमलमथनं यच्चरित्रं पवित्रम् ॥ ८७॥
मात्रा कालकलाकलापविवृतेषूच्चावचत्वं गते-
षूच्चैस्ताललयादिजातिविलसद्रागेषु नैकेषु च ।
मूर्च्छत्सूत्सुकदेवकीसुतमुखाम्भोजोच्चरद्वंशिका-
नादानन्दसुधाझरीषु विहरन् धन्यो भवेयं किमु ॥ ८८॥
पारावारात्प्रगद्भत्तरलतरतरङ्गालिमालेव रम्यो
भूयो भूयोऽनुगच्छद्गतिलयललितोद्गीतरागप्रकाण्डः ।
लीलागोपालबालस्मितसुभगतमारक्तबिम्बाधरोष्ठ-
न्यस्तश्रीवेणुनादः श्रवणपुटगतः स्याद्यदि स्यां हि धन्यः ॥ ८९॥
नादानन्दामृतोदा नवरसभरिता रागकल्लोलमाला
मात्रातालप्रपञ्चप्रकटितविविधावर्तगर्ता मनोज्ञा ।
नादारोहावरोहक्रमसमविषमा गीतिकाबुद्बुदा च
वेणुद्वारेण दिव्या निपतति तटिनी भूतये नः कृपार्द्रेः ॥ ९०॥
नादे वंशीसमुत्थे श्रवणपुटगते देवतिर्यङ्नराणां
सिद्धानां चारणानां स्थिरचरजगतां स्वान्तपद्मानि जग्मुः ।
सर्वं ब्रह्मेति तत्त्वं भवसि च मनसो यन्मनश्चेति तत्त्वं
मोदादालग्नभावाः परमहसि रता वासुदेवाभिधाने ॥ ९१॥
यच्छ्रेयः श्रेयसोऽपि प्रियतमविषयं प्रेयसोऽपीष्टमिष्टात्
कान्तं कान्तान्मृदिम्नो मृदुगुरुगुरुणो यद्ध्यणोरप्यणीयः ।
मूर्च्छन्नाभीरयोषित्प्रियशिशुमुरलीमोहनालापनादो
भूयाः कामाय नः स्यादभिमतसकलाभीष्टदस्सर्वदापि ॥ ९२॥
राकाचन्द्रसमुज्ज्वलाच्छयमुनातीरे स गोपैर्वृतः
मूले नीपतरोर्नवीनजलदश्यामो मुरारिर्मुदा ।
मन्द्रं मञ्जुकराङ्गुलीर्विवरकेष्वालोलयन् यादव-
प्राणो मोहनवेणुगानरसिकः पायाद्यशोदाशिशुः ॥ ९३॥
वृन्दारण्ये तृणचरगणानुद्रुतश्शक्रनील-
च्छायादीप्यन्मदनमदनो नन्दगगोपालसूनुः ।
वेणुं कूजन् वनभुवि चरन्मुग्धगोपालबाल-
मित्रैर्वीतः प्रहसितमुखः पातु वंशीविनोदः ॥ ९४॥
गोपीकामावतारस्सुललितविचलन्मूर्धनेत्राभिरामः
बिम्बोष्ठन्यस्तवंशीमधुमधुरगिरा मोदयन् योगिवृन्दम् ।
व्यत्यस्ताङ्घ्रिर्मुरारिर्व्रजकुलवनितामण्डलान्तर्विलासा-
न्नृत्यन्नत्यन्तमीशः प्रदिशतु सकलं मङ्गलं गानलोलः ॥ ९५॥
नीपस्कन्धं किसलयसुमव्रातसंवीतचारु-
कश्चित्स्थित्वा सुरपतिमणिश्यामकामाभिरामः ।
हस्ताब्जेन स्वरदसुषिरान् छादयन्नन्यहस्ते-
नोष्ठप्रान्ते परिचयवता वेणुना सञ्चुकूज ॥ ९६॥
पर्यायेण स्वयमभिमृशन् हस्तशाखाभिरेव
द्वाराण्यारादुपरि मधुरे न्यस्य बिम्बाधरोष्ठे ।
वेणुं गायन् कमलनयनः कोऽपि तापिञ्छवर्णः
कामान् दुग्धे कलरवसुधानादमग्नाशयानाम् ॥ ९७॥
वंशीरत्नं नलिनसुभगेनाग्रहस्तेन चारु
बिम्बस्तम्भाहरणमसृणारज्यदोष्ठे निधाय ।
दन्तानीषच्छशिकरनिभान् भासयन्नन्तरेण
वक्त्रेन्दुस्ते जयति जगताम्मोहकस्ते प्रगातुः ॥ ९८॥
(गानारम्भे तव मुखशशी राजते मे हृदब्जे)
लोकान् सप्ताप्यमितनिजसन्नादभूम्नामृतेन
सिञ्चन् रन्ध्राकलितरुचिराग्राङ्गुलीन्यासमित्रः ।
वक्त्राब्जे ते भ्रमरसुषमं नृत्यरङ्गे सुनृत्य-
न्नेत्रद्वन्द्वं बहु विजयते लोकतापापहारी ॥ ९९॥
नादाक्रान्ते जगति हि जनस्सद्य एवातिमोहा-
दाविष्टान्तास्सममनुपतन्त्यर्भकैर्दारवर्गैः ।
भुक्त्वा दुक्त्वा निरवधिसुखं भूय एवातितृप्ताः
सङ्कल्पेनाप्यविदितभिदस्त्वां हि नाथं भजन्ते ॥ १००॥
आरुह्यामन्दमोदात्प्रसवभरलसन्नीपवृक्षं समन्ता-
च्छीतांशोरंशुजालैर्धवलितविषये हन्त दिक्चक्रवाले ।
जाते कस्मान्निशीथे जनरवरहिते श्यामगम्भीरवेषो
विश्वेषाम्मोहनाय श्रितकपटनयो वेणुना सञ्चुकूज ॥ १०१॥
राकाखण्डेन्दुबिम्बद्युतिहरवदनोल्लासि बिम्बाधरोष्ठे
मन्दं मन्दं करेण प्रखचितमणिमद्वेणुखण्डं निवेश्य ।
सान्द्रानन्दामृताब्धिर्मुखलवमरुतापूर्य सम्मोहनाख्यं
रागं रागेद्धरन्ध्रार्पितकरकलिको मोहयन् सन्ननाद ॥ १०२॥
गत्वा वृन्दावनान्तं तरुवरनिबिडं गोपयोषाविभूषाः
नीपस्कन्धाधिरूढं मणिमुरलिधरं बालगोपालवेषम् ।
नीलापाङ्गैस्तरुण्यस्सुरपतिमणिसच्छायकायं किरन्त्यः
प्रेम्णा कन्दर्पदर्पप्रमथनवपुषः पादपद्मं प्रपन्नाः ॥ १०३॥
वेणुद्वारेषु सप्तस्ववहितमनसा चारयन्नङ्गुलीनां
वृन्दं गानामृतेनत्रभुवनमपि सम्मोहयन् श्यामधाम ।
गोपानां कामपूरं झटिति च कलयन् कम्प्रमूर्धेक्षणश्च
जीयाद्गोपालबालः स्मितरुचिरमुखो गोपिकावृन्दमध्ये ॥ १०४॥
आकर्ण्याकालगीतं मुरलिनिगलितं छद्मगोपालबाल-
जल्पं मुग्धाः प्रमुग्धा व्रजकुलवनिताः सम्भ्रमात्त्यक्तनिद्राः ।
मुक्त्वा कालेऽपि गेहं पतिसुतनिकरं सर्वमेवावशास्ता-
स्सञ्चेलुर्यत्रवंशीविलसितनिपुणश्यामकामाभिरामः ॥ १०५॥
प्रेम्णा बालं स्वकीयं स्तनकलशयुगस्यन्दि दुग्धं सुहृद्यं
नर्मोक्त्या पाययन्ती परिचितमशृणोद्दिव्यगानं समन्तात् ।
जीमूतध्वाननृत्यच्छिविगण इव चात्यन्तमोदातिभारात्
प्रायाद्वंशीधरस्यान्तिकमतिकुतुकात्त्यक्तबाला तु कापि ॥ १०६॥
आर्तं कान्तं हि काचित्परिचरणपरा भोजनाद्यैः प्रसाद्य
शय्यायां स्वास्तृतायां शयनविधिमुखे वेणुगानं निशम्य ।
सन्त्यज्य द्रागुपेता यदुकुलतिलकस्यान्तिकं गोपकान्ता
मन्त्रेणेवावकृष्टा फणिकुलवनिता जातरागावतस्थे ॥ १०७॥
काचिद्व्यत्यस्तवस्त्राभरणसमुदया वेणुगानश्रवेण
क्षिप्रं गोपालबालाननशशिसुषमां द्रष्टुकामा हि वामा ।
स्वैरं यान्ती ललज्जे न हि पथि दयिते श्यामले बद्धभावा
दृष्ट्वा कामाभिरामं कलिमलहरणं मोदपूरे ममज्ज ॥ १०८॥
पीठं पीठेऽधिरोप्य प्रभुरुपरि समारुह्य हैयङ्गवीनं
कृत्स्नं मृष्ट्वाथ दृष्टां त्वरितमुपगतां काञ्चिदाभीरनारीम् ।
मातः किं श्रोतुकामा मधुरमुरलिकानादसौभाग्यधामे-
त्युक्त्वा कोपं तरुण्यास्सरसमपनयन् पातु देवो हि गायन् ॥ १०९॥
गोविन्दो गोपनारीभवनमनुविशन् मित्रगोपालबालै-
रावीतः कामवेषः कपटशतपटुश्चौरनाट्यं वितन्वन् ।
शिक्यस्थाद्गव्यभाण्डाद्दधिघृतनवनीतादिसर्वं मुषित्वा
सन्तृप्तस्तर्पयंश्च स्वरमयमुरलीमूर्च्छनामाललाप ॥ ११०॥
श्यामाङ्गः क्वापि भाण्डं नवनलिनदलस्पर्धिनेत्रस्समीक्ष्य
प्रांशुप्रालम्बियन्त्रस्थितमथ कुतुकाद्दण्डपातैः प्रभिद्य ।
तद्द्वारोपान्तधारानिपतितमखिलं मित्रवृन्दैः पिबन्तं
गव्यं दृष्ट्वा गतान्या सरभसमुरलीगानलीना विमूढा ॥ १११॥
अन्यत्रानन्दरूपी दधिघृतनवनीतादिकालाभरोष-
दोषाविष्टो बभञ्चान्तिकनिहितमसौ भाजनानां सहस्रम् ।
क्रोशन्तीं चोरचोरेत्यभिमुखपतितां वीक्ष्य कोणे निलीनः
मुग्धां सद्यः स वेणुक्वणितमधुवशां राधिकेशो वितेने ॥ ११२॥
धृत्वा गोवर्धनाद्रिं नवघनसुभगः पद्मपत्रायताक्षः
स्वाङ्गुल्या लीलयैव प्रियपदशरणान् त्रातुमेवानुकम्पी ।
बालोऽयं पारयेद्वा गिरिमिति तमसा दैन्यभाजां विषाद-
शान्त्यै कान्ताननेन्दुः कलरवमुरलीमुच्चकैराजुघोष ॥ ११३॥
(कृत्स्नं भाण्डात्प्रमुष्णन् त्वरितमुपगतां काञ्चिदालोक्य गोपीं)
मुष्णन्तं कृष्णमारात्त्वरितमतिरुषा बद्ध्य मातुर्नयन्ती
सान्निद्ध्यं मार्गमध्ये सुमहति सदसि प्रेष्ठवंशीनिनादम् ।
कूजन्तं मोदयन्तं स्थिरचरनिकरं मज्जयन्तं सुधाब्धौ
गानाख्ये नन्दभाग्यं सकुतुकनयना प्रेक्ष्य तस्थौ शिलेव ॥ ११४॥
गोपिमण्डलमध्यगोऽतिललितस्तिष्ठंस्त्रिभङ्ग्या कर-
प्रान्तोन्नीतशुभारुणाधरपुटन्यस्ता मुदा वंशिका ।
नादानन्दसुधामयीं श्रुतिसुखां वृष्टिं सुपुण्यात्मनां
संसारानलतप्तचित्तजनतामोदाय वर्षन् बभौ ॥ ११५॥
गोप्यः क्षीरादिगव्याभृतकलशचयं शीर्ष्णि कामं वहन्त्यः
विक्रेतुं वीथिकासु प्रियवचनशतैरालिभिस्संव्रजन्त्यः ।
दृष्टाः कृष्णेन मन्दं तरुवरमधिरुह्याहृते गव्यकुम्भ-
स्तोमे सन्त्रस्तगोपीश्रवणपुटयुगे वेणुनादं जुघोष ॥ ११६॥
श्रुत्वा कस्मान्निशीथे मुरलिमधुरवं गाढनिन्द्राप्रबुद्धा
गन्तुं सज्जाथ रुद्धा निजजननिवहैर्वेश्मनोऽभ्यन्तराले ।
इच्छाभङ्गान्निरीहा हृदि घनसुभगं चन्द्रकोटिप्रकाशं
ध्यायं ध्यायं प्रशान्ता मधुपतिचरणाम्भोजसायुज्यमाप ॥ ११७॥
ग्रीष्मे मार्ताण्डबिम्बे तपतिवनभुवि स्वोग्ररश्मिप्रतानैः
गावो ग्लानिं प्रयाता मृदुतृणकबलभ्रान्तभास्वन्मरीच्यः ।
ताम्यन्तीस्ताःकृपार्द्रस्तरुवरनिबिडच्छायमभ्येत्य रम्य-
माह्वातुं वेणुमुच्चैररणयदनघो गोपकन्याभुजङ्गः ॥ ११८॥
नादे मोदप्रपूरे श्रुतिपथपतिते प्रेष्ठगोपालबाल-
धेन्वः कृष्टान्तरङ्गा यदुपतिनिकटं प्रत्यधावन् प्रहर्षात् ।
उत्पुच्छास्सत्वरास्ता मुरलिमधुरवानन्दमग्नाः प्रकामं
ध्यानामीलदृ(द्दृ?)शस्तत्पदकमलपुटं योगिचर्याः समीयुः ॥ ११९॥
गानानन्दे निमग्ना वनचरनिवहा स्थावरा जङ्गमा वा
जीवास्साफल्यमीयुर्जनिकृतमखिलं कश्मलं तत्यजुश्च ।
क्षुत्तृट्कामानुपेताः परमसुखसुधाम्भोधिमग्नाः परस्य
पुंसः श्रीवेणुनादामृतजलदभवे वल्लवीभागधेये ॥ १२०॥
सिद्धास्साध्यास्सुरौघा मुनिजननिवहाः श्रीमदाभीरनारी-
जारोद्गीतातिधीरश्रुतिमधुरमधुस्यन्दिवेणुप्रणादे ।
मग्ना लग्नाश्च लीना वनभुवि यमुनातीरपुण्यप्रदेशे-
ष्वेको वा स्यां तृणोऽपीत्यथ हृदि नितरां मेनिरे भाग्यमेतत् ॥ १२१॥
स्पृष्टे भाण्डे परेण स्वनमुखरचलच्छिक्यसंसक्तखण्डा-
सन्नादोद्बुद्धगोप्यास्सचकितनयनप्रेक्षणीयोरुभीतिम् ।
बद्ध्वा पाशैर्नयन्त्या पथि तमनुययुर्वेश्म नन्दस्य याताः
दृष्ट्वा वेणुं क्वणन्तं चिरमथ निभृतास्तस्थुरत्यद्भुतेन ॥ १२२॥
देव श्रीघोषनारीरमण मधुपते मामकाभ्यर्थनां त्वं
कारुण्याच्छ्रोतुमर्हस्यखिलगुणनिधे कर्तुमप्यर्हसीश ।
पापिष्ठोऽहं तथापि प्रणतजनकृपासागरानाथबन्धो
दीनं मां वेणुनादामृतसरसि सुखं स्नापय श्रीमुकुन्द ॥ १२३॥
आपद्बन्धो प्रणष्टं निरवधिदुरितध्वान्तदुर्द्दान्तभूमिं
त्रायस्वाकर्णयेश प्ररुदितगदितं प्रार्थये पार्थबन्धो ।
छिन्दीमं भिन्दिचेति प्रकटकटुगिरा भर्त्स्यमाने कृतान्त-
दूतापातेऽन्तकाले मणिमुरलिरवानन्दनेनाशु पाहि ॥ १२४॥
नादं वाऽऽकर्णयेयं मधुमुरलिगलद्गानमाधुर्यधाम
सान्द्रानन्दामृतोदं सकृदपि कलनाच्छ्रोत्रमात्रेण भव्यम् ।
पश्येयं भाग्ययोगात्किमु परमहसो वासुदेवस्य लीला-
रङ्गं वृन्दावनं वा हरिमणिमहसं चापि वेणुं क्वणन्तम् ॥ १२५॥
श्यामाङ्गान्मारकोटिज्वलदतुललसत्सारलावण्यपूरात्
शिञ्जाना मञ्जुरत्नप्रकरविलसितश्रीपदाम्भोजयुग्मात् ।
देवान्मोदात्कराब्जोद्धृतललितसुताम्रोष्ठविन्यस्तवेणु-
गानादाभीरनारीसुकृतसमुदयाद्देवमन्यं न जाने ॥ १२६॥
आर्तत्राणपरायणाखिलगुरो त्वामर्थयेऽहं पुनः
पापैकावसतिर्मुहुः कलिलतां प्राप्तो निराशोऽवशः ।
कण्ठास्कन्दिकफादिदोषनिचयो प्रोच्चण्डदण्डायुध-
प्रेष्याभर्त्सनताडनादिविकले मां पाहि वेणुस्वनात् ॥ १२७॥
प्राणापायदशोपयातयमराडुच्चण्डदूतार्दिते
काले संवृतबन्धुमित्ररुदितप्राये महादीतिदे ।
अश्रुव्याकुललोचनोघनिचयं स्मृत्वाहितं नाचरन्
दीनोऽयं ननु यादवेन्द्रमुरलीगानेन सन्तोष्यताम् ॥ १२८॥
पश्येयं वा कदाहं नवघनसुभगं पीतकौशेयवासं
श्रीवत्साङ्कं सुहारं पदधृतविरणन्मञ्जुमञ्जीररम्यम् ।
गोपालं कौस्तुभश्रीयुतरुचिरमहावक्षसं स्वक्षमीशं
धन्यश्रीवन्यमालाधरमहमनिशं वेणुगानैकलोलम् ॥ १२९॥
गायन् वेणुं कनकरशनादामदीप्यत्कटिश्री-
भास्वद्धेमाम्बरसुललितो नीलमेघाभिरामः ।
नृत्यन्तालक्रममनुसरन् विक्षिपन् पादपद्मे
भायादायान्मम तु पुरतः वल्लवीभाग्यरत्नम् ॥ १३०॥
नाहं प्रीये सुरपतिपदावाप्तिमैश्वर्यसिद्धिं
साम्राज्यं वा निखिलमपि वा भोगयोगं मुरारे ।
प्रीये ह्रीये मुहुरपि विभो सान्द्रनादामृतोद-
वंशीनादे महति सरिति स्नानमानन्दरूपम् ॥ १३१॥
मन्दं मन्दं पदकमलके विक्षिपन् चारुवेणु-
गानं कुर्वन्ननु च मधुरं मोदयन् मां व्रजेशः ।
आगच्छेद्वा दुरितनिचयं भञ्जयन्नञ्जनाभः
सौधीमक्ष्णोः किमु स वितरेद्वृष्टिमानन्दरूपाम् ॥ १३२॥
यावज्जीवं मुरल्या मधुमयसरसानन्दगानामृतोदा-
सारेणासिक्तकर्णः किमु हृदिकमले देवदेवं वरेण्यम् ।
ध्यात्वाखण्डप्रमोदं निरतिशयमहो किन्नु लप्स्ये कृपाब्धे
छित्वा निश्शेषतापप्रकरमहमहो त्वत्पदे किन्नु युञ्ज्याम् ॥ १३३॥
पादाब्जान्निस्सरन्ती सगरसुतगतिप्रेष्टसोपानपङ्क्तिः
गङ्गा भागीरथीति त्रिजगति विदिता पापहन्त्री नराणाम् ।
नादाख्येयं तु गङ्गा व्रजयुवतिजनप्रेमपात्राम्बुजात-
वक्त्रप्रोतार्यवेणुस्रवदमृतरसा मोक्षदा भाति हृद्या ॥ १३४॥
(वक्त्रपद्मोन्नीतार्यवेणुक्वणितमधुझरी मोक्षदा भाति हृद्या)
कारुण्याब्धे मुरारे मुरलिनिनद भो त्वामहं नौमि साक्षा-
न्नादज्योतिस्स्वरूपं सकलमुनिमनोध्यानगम्यं सुसूक्ष्मम् ।
देव त्वा मूर्तमन्तर्मम हृदि कुतुकान्मूर्तिमाकल्प्य लीला-
लोलं मोदाम्बुराशिं परसुखनिलयं धारयाम्यादरेण ॥ १३४॥
पायं पायं न तृप्याम्यतिमधुरतया देव ते वेणुगीत-
नादानन्दामृताम्भःश्रवणपुटभृतं स्वादु नः स्वादु भूरि ।
तद्भो गोविन्द मोहाद्दुरितशतकृतोऽप्यस्य नादेऽतिभक्ति-
र्भूयात्कारुण्यसिन्धो शरणद भगवन् जन्मजन्मान्तरेषु ॥ १३५॥
गायन्तं वेणुमुच्चैर्घनरुचिममलं सूर्यकोटिप्रकाशं
नृत्यन्तं नर्तयन्तं पदकमलरणन्मञ्जुमञ्जीरघोषम् ।
आयान्तं मा बिभीहि त्यज मनसि रुजं सोऽहमस्म्यभ्युपेत
इत्येवं मां गदन्तं यदुकुलतिलकं किं कदा वा निरीक्षे ॥ १३६॥
अज्ञोऽहं ते गुणानामणुमपि नितराम्मन्तुमीशो न चास्मि
बोद्धुं वक्तुं च देवि श्रितसकलजनत्राणदीक्षे नमस्ते ।
क्षन्तव्यं साहसं मे निरुपधिकरुणे दीनदीनस्य मातः
सान्द्रानन्दावबोधे यदुपतिमुरलीनादधारे नमस्ते ॥ १३७॥
नमस्ते पीयूषप्रिय मधुरसौभाग्यविभवे
चिरात्पुण्यैर्लभ्ये मयि कुरु कृपामम्ब सदये ।
पुरस्ते पश्चात्ते स्वरमयि नमः पार्श्वत इदं
कृतं चोर्ध्वं मातः कलमुरलिकानादलहरि ॥ १३८॥
मुकुन्दाखण्डेन्दुप्रतिमवदनाहं तव विभो
सुधाधाराहृद्यां तव मुरलिकानादलहरीम् ।
दुरन्तामल्पज्ञः किमपि कणमात्रं गदितवान्
क्षमस्वागांस्यस्य श्रितचरणपद्म दयया ॥ १३९॥
किमपि वचनमीषद्वक्तुकामः परस्य
प्रियमुरलिनिनादानन्दधाराप्रभावे ।
अकरवमिदमस्मिन् दोषपङ्कं प्रमृज्य
प्रियजनपरिदत्तं स्वीकुरुष्वामरेड्य ॥ १४०॥
आभीरवारनारीजारस्यामन्दमुरलिनिनदं मे
मोदं सदा ददातु गीतरवाश्लिष्टमोहननिनादम् ॥ १४१॥
बाला वृद्धास्सकलमपि गोकुलं यस्य नाथ-
स्याकर्ण्य द्रागमृतमधुरं वेणुगानं मनोज्ञम् ।
प्रापुः प्रेम्णा सकलजगतां नायकस्याभिराम-
पादाम्भोजं विवशहृदयास्त्यक्तकार्यप्रपञ्चाः ॥ १४२॥
वेणुं क्वणन्तं गोपालबालमानन्दविग्रहम् ।
नमामि जगताम्मूलं मुकुन्दमखिलेश्वरम् ॥ १४३॥
मुरलीमधुरध्वानमधुनिष्यन्ददायिने ।
मुरलीनादधाराख्यामर्पयामि मधुद्विषे ॥ १४४॥
रचितं सुब्बरामाख्यद्विजेन भक्तिपूर्वकम् ।
मुरलीधरप्रीत्यर्थं तदङ्घ्रिषु समर्पितम् ॥ १४५॥
इति मुरलीनादधारास्तोत्रं सम्पूर्णम् ।
Encoded and proforead by PSA Easwaran psaweswaran at gmail.com